________________ 376 नैषधीयचरिते * टिप्पणी-नल की मेघ से तुलना करने में उपमा है / 'रता' 'रुत्य' तथा 'घनाघन' में छेक, अन्यत्र वृत्त्यनुप्रास है // 7 // अये ! ममोदासितमेव जिह्वया द्वयेऽपि तस्मिन्ननतिप्रयोजने / गरी गिरः पल्लवनार्थलाघवे मितं च सारं च वचो हि वाग्मिता // 8 // अन्वयः-अये (दमयन्ति ! ) अनतिप्रयोजने तस्मिन् द्वये अपि मम जिह्वया उदासितम् एव / पल्लवनार्थलाघवे गिरः गरी (स्तः ), हि मितम् च सारम् च घच: वाग्मिता ( भवति ) / ___टीका-अये ( दमयन्ति ! ) न अतिशयितम् अत्यधिक प्रयोजनम् अर्थः (प्रादि तत्पु०) ययोः तथाभूते ( ब० वी० ) तस्मिन् द्वये कुलं च नाम चेति युगले जिह्वया मम वाण्या उदासितम् एव औदासीन्यमेव गृहीतम् अर्थात् कुलं नाम च न तथा प्रयोजनवत् महत्त्वपूर्णं च यदहं तयोः परिचयं दद्याम् / पल्लवनम् अल्पेऽपि वस्तुनि व्यर्थवाग्विस्तरः च अर्थलाघवं चेति ( द्वन्द्व ) अर्थस्य प्रतिपाद्यविषयस्य लाघवम् संकोचनम् तस्मिन् अत्यल्पशब्दप्रयोग इत्यर्थः (10 तत्पु०) गिरः वाचः गरौ विषो विषतुल्यदोषाविति यावत् स्तः हि यतः निश्चितं वा मितम् अल्पशब्दम् च सारम् अर्थतः गुरु च वचः वचनम् वाग्मिता वक्तृत्वम् वाक्पाटवं पाण्डित्यमिति यावत् भवति / यः खलु अनावश्यके विषये वाग्विस्तरं न करोति अनावश्यके च वागलाघवं न विधत्ते स बाग्मी उच्यते अतो मया अनावश्यके कुले नाम्नि च नोत्तरितम्, तयोः प्रकृतेऽनुपयोगादिति भावः // 8 // व्याकरण-द्वये द्वौ अवयवौ अत्रेति द्वि + तयप, तयप को विकल्प से अयच् / उदासितम् उत् + /आस् + क्त ( भाववाच्य ) / पल्लवनम् पल्लवम् विस्तरम् करोतीति पल्लव + णिच् + ल्युट ( नामधातु) / लाघवम् लघोः भाव इति लघु + अण् / वाग्मिता वाग्मिनो भाव इति वाग्मिन् + तल् + टाप् / वाग्मी वाक् अस्यास्तीति वाक् + ग्मिन् ( मतुबर्थ ) / "ओह, ( दमयन्ती ) ! प्रयोजनरहित उन दोनों कुल और नाम के विषय में मेरी जिह्वा औदासीन्य अपना गई है। वाग्-विस्तार और अर्थ का लाघव-दोनों वाणी के विष हुआ करते हैं। वग्मिता तो सचमुच कम और ठास बोलने में निहित है" // 8 // टिप्पणी-लोगों का दूत के साथ इतना ही सम्बन्ध होता है कि वह संदेश कह दे / उसका क्या कुल है, क्या नाम है इत्यादि उसे पूछना या बताना बेतुका है-बे मतलब है / सच्ची वाग्मिता तो यही है कि नपे-तुले शब्दों में ऐसी