Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh

View full book text
Previous | Next

Page 7
________________ ॥ प्रशस्तिः ॥ उद्धर्ता नैकतीर्थान् भवत इव जनान् सद्वचःसम्प्रयोगाद् बाल्यादा ब्रह्मसेवाऽवचितशुभयशोराशिराशान्तगीतः । शास्त्रत्राताऽवगाहाऽऽहितहितमतिमृद् भूरिसत्कर्मधर्मा सम्राड् यः शासनादिः समभवदिह स श्रीयुतो नेमिसूरिः ॥ १॥ शिष्यस्तस्य प्रशान्ताकृतिरुदधिरिवौदार्यगाम्भीर्ययोगात् सूरि विज्ञाननामा समयशुभवचःसारविज्ञानवित्तः । तच्छिष्यः शास्त्रवार्ताऽमलसलिलमहासिन्धुरिद्धो यशोभिः कस्तूर प्राकृतज्ञावलिविपुलमतिः सूरिसूरप्रतापी ॥२॥ तच्छिष्यौषधीशोऽमृततुलितगिरा पोषयन्नोषधीन् यो भव्यान् ख्यातः प्रवक्ता कविकनकमहामाल्यरत्नोरुकीर्तिः । पन्यासाकाशसूरो गुणिगणमहितः संहितः सद्गुणौधै रत्नत्रय्यायमूर्ति जयति भुवि यशोभद्रनामा गुरु में ॥ ३ ॥ तस्याऽतुल्याऽनुकम्पाफलमिदमखिलं यन्मया ज्ञानसारः सान्वर्थो ग्रन्थसारोऽशुभमतिदमनो वाचनातत्पराणाम् । शिष्यं सूर्योदयाख्यं दयितुमुपकृतिं कर्तुमल्पक्षमाणां व्याख्यातो गूढभावो भवजलधितरीकल्प इत्यादरेण ॥४॥

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 376