Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 150
________________ सर्गः] .. धर्माभ्युदयमहाकाव्यम् । गृहं कलाकलापस्य, निष्पुण्यानां शिरोमणिः। तनयस्तव भावीति, तां कोऽपि ब्राह्मणोऽवदत् ॥ ३२७ ।। अथासौ वासरैः पूर्णैः, पुण्यसाराभिधं सुतम् । असूत नूतनं चूतमिव काननमेदिनी ॥ ३२८ ॥ कलाचार्यकदम्वेभ्यः, स पपौ सकलाः कलाः । मुखेभ्यः सरितां श्रीमानपः पतिरपामिव ॥ ३२९ ॥ नन्दनी बन्धुदत्तस्य, नान्ना वन्धुमतीमसौ । धनावहेन सप्रीतिप्रवाहेण विवाहितः ॥३३० ।। कदाचित् त्रिदिवं याते, ताते कृतमृतक्रियः । समुद्धरतरस्कन्धो, गृहभारं वभार सः ॥३३१ ॥ अभाग्यैर्वैभवं तस्य, क्षीणं तच्चिरसञ्चितम् । सलिलं पल्वलस्येव, चण्डरोचिर्मरीचिभिः ॥३३२ ॥ अथासौ वैभवभ्रंशविगलत्पौरगौरवः । समारुरोह वोहित्थं, सुस्थितश्रेष्ठिना समम् ॥३३३ ।। लड्डयन लहरीः पोतो, हरीनिव महाभटः । तीर्खा युद्धमिवाम्भोधि, परं पारमवातरत् ॥३३४ ॥ आकारितं पताकाभिरिव सम्मुखमागतम् । रत्नद्वीपमथ प्राप्तः, पोतः पवनवेगतः ॥ ३३५ ॥ अन्तर्नलघि चाविश्य, दर्शितस्फारगौरवैः । नागरैस्त्याजितः कामं, पोतस्तरलतां तदा ॥३३६ ॥ उत्तीर्य धैर्यमालम्व्य, पोतात् प्राणभयादिव । अहंपूर्विकया लोकः, प्रपेदे द्वीपमेदिनीम् ॥ ३३७ ।। पुण्यसारस्तदा रत्नद्वीपे रत्नमहीतलम् । नित्यं खनत्यनिर्विणः, स्वदारियमिवोन्नतम् ॥ ३३८ ॥ निष्पुण्यः पुण्यसारोऽसावसाराणि कथञ्चन । रत्नान्यवाप नो चिन्तामणिं तु चिरचिन्तितम् ॥ ३३९ ॥ अहं समं समेष्यामि, नासम्पूर्णमनोरथः । इत्थं स कथयामास, गन्तुकामोऽथ सुस्थिते ॥ ३४०॥ समं तमसमायान्तमपि वित्तप्रदानतः । कृत्वा समुदितं तीर्णः, पोतेनार्णःपति वणिक् ॥ ३४१ ॥ स तथैव ततो रत्नखानि खनति नित्यशः । शतशो वार्यमाणोऽपि, तदधिष्ठातृदैवतैः ॥ ३४२ ॥ अपरेछुः खनन्नेप, दारिबध्वान्तदीपकम् । चिन्तामणि पुरोऽपश्यद्, दुरापं किमु निश्चितैः ।। ३४३ ॥ असावथ नमस्कृत्य, चिन्तामणिमयाचत । स्वर्णलक्षमपश्यञ्च, तत् तदैव गृहान्तरे ॥३४४ ॥ स्वर्ण रलं च तत् प्राप्य, तीरे नीरेशितुः स्थितः । नरस्य भमपोतस्य, संज्ञापदमुदञ्चयन् ॥ ३४५ ॥ नौवित्तधनदेवस्य, गैन्तुर्भोगपुरं प्रति । आरुरोह स वोहित्थे, नीतस्तत्प्रेषितैर्नरः ॥३४६ ।। पोते तद्विदितं हेनामारोपयदयं चयम् । तेषामकथयचिन्तामणिं न तु रहस्यवत् ॥३४७ ॥ एकदाऽसौ त्रियामायां, यामयुग्मे समुत्थितः । प्रीतो विभुं विभावर्या, विभावर्य न्यभालयत् ॥ ३४८ ॥ एताः श्वेतांशुभासः किं ?, किं ताश्चिन्तामणित्विषः । भान्ति क्लान्तिभिदः सोऽथ, चेतस्येतदचिन्तयत् ॥ ३४९॥ अथ प्रान्तिमिदे मूढः, कटीपटर्कुटीपुटात् । चकर्ष हर्षसम्पूर्णः, पूर्णेन्दुस्पर्धिनं मणिम् ॥३५० ॥ पश्यन्नसौ निशारत्नं, चिन्तारलं च तन्मुहुः । युतजातसुतद्वन्द्वनिभालिस्त्रीनिमो बभौ ॥ ३५१ ।। पपात वातकम्पेन, प्रमोद इव पिण्डितः । मणिस्तस्य करादधौ, रविरस्तगिरेरिव ॥ ३५२ ।। स्थाप्यतां स्थाप्यतां पोतो, मुषितोऽस्म्यहमब्धिना । इत्थं कलकलैः पूर्ण, तेने तेनेदमम्वरम् ।। ३५३ ॥ धनदेवस्ततः पोतं, मरुद्भगतिमतिष्ठिपत् । कुतस्त्वमाकुलतमस्तमपृच्छतुच्छधीः ॥ ३५४ ॥ प्रभाजितनभोरलं, चिन्तारत्नं ममापतत् । तदुद्धारय पाथोघेरस्मादस्माँश्च दुःखतः ॥३५५ ॥ जीवितव्यं मयि स्वस्मिन् , कीर्तिरारोप्यतां त्वया । हर्षात् कर्षय रलं तमित्युवाच शुचैव सः ॥ ३५६ ॥ १ सह खंता० ॥ २ सह समें खंता० ॥ ३त्वा प्रमुदि खंता० पाता० ॥ ४ कि सुनि खैता० ॥ ५ गन्तुं भोग खता० ॥ ६ कुटीपटा खता. पाता० ॥

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284