Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सर्गः
.
धर्माभ्युदयमहाकाव्यम् ।
१७३ लोलदम्भोरुहकरे, रसवद्भिस्तरङ्गकैः । निपत्य चपलैः कान्तावक्षोजेषु व्यलीयत ॥२७॥ जलयन्त्रोज्झितं नीरं, मुहुर्जियतः करात् । सान्तमिव रागेण, तदा नेत्रेषु योषिताम् ॥२८॥ स्त्रीणां तदा कराघातैले गर्जति मेघवत् । नृत्ता ग्रीष्ममपि प्रावृटकालयन्ति स्म केकिनः ॥ २९ ॥ मनोमुदे वरं मुक्त्वा, देवरं प्रति नेमिनम् । तास्ततश्चक्रिरे नीरप्रपञ्चं नर्मकर्मठाः ॥३०॥ करोद्धतैरपां पूरैरथ तासां निरन्तरैः । तदा न विन्यथे नेमिरब्दमुक्तैरिवाचलः ॥३१ ॥ समन्ततः समं तामिः, कृतप्रतिकृतौ कृती । चिक्रीड नेमिनाथोऽपि, तदा पाथोमिरद्भुतम् ॥ ३२ ॥ इति खेलन्तमालोक्य, तदानी नेमिनं मुदा । कृतार्थीकृतहकू तस्थौ, चिरं पयसि केशवः ॥ ३३ ॥ निर्गत्य सरसस्तीरे, तदा तस्थुः ससम्मदाः । अन्देव्य इव देदीप्यमाना माधवयोषितः ॥ ३४ ॥ अथ निःसृत्य दन्तीव, नेमिनाथोऽपि पल्वलात् । लताभिरिव कान्ताभिस्तामियाप्ते पदे ययौ ॥ ३५ ॥ प्रहृष्टा रुक्मिणी रुक्मपीठे नेमि न्यवेशयत् । वाससा दाससामान्यमङ्गे चास्य मृजां व्यधात् ॥ ३६॥ अथाऽऽह रुक्मिणी नेमिनाथं मधुरया गिरा । अहं किञ्चन वच्मि त्वां, देवरं देव! रञ्जिता ॥ ३७ ।। जितं बलेन कान्त्या च, केशवं बान्धवं जय । विधाय बद्धसम्बन्धमवरोधवधूजनम् ॥३८॥ श्रीनामेयादयस्तीर्थकराः के न मुमुक्षवः ? । परिणीय समुत्पन्नसूनवो दधिरे व्रतम् ॥३९॥ त्वमप्यतो विवाहेन, पितृ-प्रातृ मृहज्जनम् । आनन्दय दयासार!, दयास्थानमिदं महत् ॥ ४० ॥ इत्युक्त्वा रुक्मिणी सत्यभामाप्रभृतिभिः सह । पपात पादयो मेः, पाणिग्रहकृताग्रहा ॥ ११ ॥ ततः सतृष्णः कृष्णोऽपि, पाणिग्रहमहोत्सवे । कुर्वन्नभ्यर्थनां नमः, पाणौ दीन इवालगत् ॥ ४२ ।। अन्येऽपि यदवः सर्वे, विवाहे विहिताग्रहाः । बभूवुर्नेमिनाथस्य, पुरः पटुचटूक्तयः ॥१३॥ स्त्रिय एता अमी मूढास्तदेषामित्थमारहे । कालनिर्गमनं कर्तु, युक्तं वचनमाननम् ॥ ४४ ॥ कदाचिदपि लप्स्येऽहमिहार्थे सन्धिदूषणम् । ध्यात्वेदमोमिति प्रोचे, श्रीनेमिस्तानमोदयत् ॥ १५ ॥ शिवा-समुद्रविजयौ, तत्कथाकथके नरे । दातुं नापश्यतां वस्तु, राज्येऽप्यानन्दमानतः ॥४६॥ स्वबन्धोरुचितां कन्यामन्विण्यन्नथ केशवः । अभाषि भामयाऽऽस्ते यन्मम राजीमती स्वसा ॥ १७॥ हरिः स्मृत्वाऽथ तां स्मित्वा, ययौ यदु-बलैः समस्। निवासमुग्रसेनस्य, नभोदेशमिवांशुमान् ॥ १८ ॥ अभ्युत्थायोग्रसेनोऽपि, विष्वक्सेनं ससम्भ्रमः । भद्रपीठे निवेश्याने, तस्थावादेशलालसः ॥ ४९ ॥ याचितो नेमये राजीमती कृष्णेन स स्वयम् । तथेति प्रतिपद्याथ, सच्चक्रे चक्रिणं मुदा ॥ ५० ॥ ततः कृष्णेन विज्ञप्तः, समुद्रविजयो नृपः । विवाहलग्नमासन्नं, पृष्टवान् क्रोष्टुकिं तदा ॥५१॥ दत्तेऽथ श्रावणश्वेतषष्ठ्यां क्रोष्टुकिना दिने । उग्रसेन समुद्रोर्वीनाथौ तूर्णमसज्जताम् ॥ ५२ ॥ अथ पाणिग्रहासन्नदिने नेमि यदुस्त्रियः । प्राङ्मुखं स्थापयामासुस्तारप्रारब्धगीतयः ॥५३॥ तमस्नपयतां प्रीत्या, राम-दामोदरौ स्वयम् । बद्धप्रतिसरं नेमिप्रभु, नाराचधारिणम् ॥५४ ॥ अगादथोग्रसेनस्य, निकेतं तायकेतनः । स्वयं तद्विधिना राजीमतीमप्यध्यवासयत् ॥५५॥ अथाऽऽगत्य गृहं विष्णुरिमा निर्वाह्य शर्वरीम् । मुदा संवाहयामास, विवाहाय जगद्गुरुम् ॥ ५६ ॥ अथ श्वेतांशुवल्लोकहकैरवविकासकः । श्रीनेमिः श्वेतशृङ्गारः, श्वेताश्वं रथमास्थितः ॥५७ ॥ तूर्यनिर्घोषसंहूतपुरुहूतवधूजनः । बन्दिवृन्दमुखोन्मुक्तैः, सूक्तैर्मुखरिताम्वरः
॥ ५८ ॥ १तपुरीजनः खंता० सं० ॥

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284