Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 212
________________ सर्गः] . ' धर्माभ्युदयमहाकाव्यम्। १३९ अन्वरोदि तथा भूपप्रियापरिजनैरपि । नददादिवराहस्य, शोभा लेभे यथा नभः ॥५९८ ।। अयेत्थमाकुले राजकुले क्षुत्कुञ्चितोदरः । हरिमित्रस्ततः सन्त्रागारं प्रति ययौ द्विजः ॥ ५९९ ॥ अकिञ्चन इवालोक्य, भैमी कल्पलतामिव । अजिह्वावर्णनीयानां, स तदाऽभूत् पदं मुदाम् ।। ६०० ।। स प्रीतस्तां प्रणम्याथ, हनूमज्जित्वरत्वरः। सत्रागारेऽस्ति भैमीति, समेत्याऽऽह नृपप्रियाम् ॥ ६०१ ॥ कर्णामृतमिति श्रुत्वा, वाचं प्रीता नृपप्रिया । असिञ्चत् तं ततः स्वर्ण-रत्नाभरणवृष्टिभिः ॥६०२ ॥ कुन कुत्रेति जल्पन्ती, पद्भ्यां परिजनैः सह । सत्रागारं ययौ चन्द्रयशाश्चन्द्रमुखी मुदा ॥ ६०३ ।। देवी ततोऽवदत् पुत्रि, वञ्चिताऽस्मि स्वगोपनात् । यन्मातुरधिका मातृष्वसेति वितथीकृतम् ।। ६०४ ॥ इत्युपालम्भसंरम्भिवाष्पा भूपालवल्लभा । निकेतनमुपेताऽसौ, पुरस्कृत्य नलप्रियाम् ॥६०५ ॥ भूषयित्वा स्वहस्तेन, भैमी साश्रुविलोचना । अभ्यर्णमृतुपर्णस्य, निनाय विनयानताम् ॥ ६०६ ॥ साऽपि चन्द्रयशोवाचा, सम्मायं प्रकटं व्यधात् । भाखन्तमिव भास्वन्तमलिके तिलकाङ्कुरम् ॥ ६०७ ॥ अथ प्रणम्य भूपालं, पितृवद् भीमनन्दनी । उपविष्टा पुरः पृष्टा, स्ववृत्तान्तं न्यवेदयत् ।। ६०८ ॥ स्ववंश्यनलवृत्तान्ते, कथ्यमानेऽथ तादृशे । लज्जमान इवामजन्न्यग्मुखो रविरम्वुधौ ॥६०९ ॥ रवावस्ते समस्तेऽपि,क्ष्मापतिः प्राप विस्मयम् । समान्तर्भान्तमालोकमालोक्य तिमिरापहम् ॥ ६१० ॥ राज्ञी विज्ञपयामास, मनो मत्वा नृपं प्रति । भास्वन्तं शाश्वतं भैमीभाले तिलकमीदृशम् ॥ ६११ ॥ भूपतिस्तत्पितेवास्या, भालं प्यधित पाणिना । तच्छलान्वेषिभिरिव, प्रादुर्भूतं तमोभरैः ॥ ६१२ ॥ करेऽपसारित राज्ञा, तत् तस्यास्तिलकांशुभिः । किशोरकैरिवाग्रासि, घाससङ्घातवत् तमः ॥ ६१३ ॥ क्षणेऽस्मिन् कश्चिदागत्य, भाभासुरनभाः सुरः। नत्वा मध्येसमं भैमी, प्राह बन्धुरकन्धरः ॥ ६१४ ॥ यस्त्वया तस्करो बद्धगलः पिङ्गलसंज्ञकः । मोचयित्वा तदा देवि!, बोधयित्वा व्रतीकृतः ॥ ६१५ ॥ स तापसपुरं प्राप्तो, विहरन् सह सूरिभिः । सशानेऽश्मनरप्रायः, कायोत्सर्ग निशि व्यधात् ॥ ६१६ ॥ चिताभवदवज्वालाजालेन कवलीकृतः । अमुक्तध्यानधैर्योऽयं, सौधर्मत्रिदिवं ययौ ॥६१७ ॥ अहं स हंसगमने!, त्वां नमस्कर्तुमागतः । त्वत्प्रसादप्रभावर्द्धिवर्द्धितेदृशवैभवः ॥६१८ ॥ इत्युक्त्वा सप्त कल्याणकोटीर्वृष्ट्वा ययौ सुरः । वृत्तेनैतेन राजाऽपि, जिनभक्तोऽभवत् तदा ॥ ६१९ ॥ हरिमित्रोऽन्यदाऽवादीद्, भूपं भूपप्रियामपि । प्रेष्यतां दवदन्तीयं, प्रीणातु पितरौ चिरात् ॥ ६२० ॥ समं चमूसमूहेन, चैदर्भीमथ पार्थिवः । प्रैषीचन्द्रयशोदेव्या, कृतानुगमनां स्वयम् ॥६२१ ॥ श्रीचन्द्रयशसं देवीं, प्रणम्याथ नलप्रिया । अल्पैः प्रयाणकैरुर्वीमण्डनं प्राप कुण्डिनम् ॥ ६२२ ।। ईयतुः सम्मुखौ तस्याश्चिराकारणसोत्सुकौ । पितरौ स्मितरोचिभिः, खचिताधरविद्रुमौ ॥ ६२३ ॥ पितरं तरसा वीक्ष्य, रसाद् युग्यं विमुच्य सा । अनमत् क्रमराजीवयुग्मविन्यस्तमस्तका ॥ ६२४ ॥ पक्किलं तं किलोद्देशमस्राम्भःसम्भ्रमो व्यधात् । विनप्रेणाम्बुजेनेव, मुखेन तु स भूपितः ॥ ६२५ ।। अथ राज्ञा सहायातामियं मातरमातुरा । नमश्चकार हर्षाश्रुमुक्तास्तबकितेक्षणाम् ॥ ६२६ ॥ सकलेनापि भूनाथलोकेनाथ नमस्कृता । कुण्डिनं मण्डयामास, सा त्रैलोक्यशिरोमणिः ॥ ६२७ ।। गुरु-देवार्चनै राजा, पुरे सप्तदिनावधि । महोत्सवमहोरात्रमतिमात्रमकारयत् ॥६२८॥ साक्षात् तत्रास्ति धात्रीशनलध्यानधुरन्धरा । कृशा कृशानुकल्पेन, विरहेण विदर्भजा ॥ ६२९ ।। १ योऽसौ, सौधर्मत्रिदिवं गतः खंता० ॥ २ 'तरौ तर खता० ॥

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284