Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ १ ॥ ******** www.kobatirth.org रकाऽसाधारणगुणगण सेवधिजगज्जनोद्धारकजैनशासनोद्भावक मुनिश्री मोहनविजयविनिर्मितश्चन्द्रराजरासः (चन्दरास ) गूर्जरभाषाऽनुबद्धः, सचदेशभाषाविभूषितोऽपिविविधरसकलितत्त्वादधुनापर्वदिवसेषुप्रायोऽभिगीयते. प्राचीनानांचिरंतनोऽयंलेखोमहते उपकाराय सञ्जातS। आधुनिकाः केचित्संस्कृतोक्तिषु रसवत्तां मन्यमानाः बह्वर्थबोधकानपितादृशान्ासकादिप्रबन्धान्नबहुमन्यन्ते, नापितथाविधानांमुद्रापणे प्रमोदमादधते यतोभिन्नरुचिर्लोकः " आबालवृद्धानामपि श्रोत्रपुटयोः सुखावहान्यपि देशभाषयारचितानिपुस्तकानिमनोहराण्यप्यनेक च्छन्दोलङ्कृतिमण्डितानि कोविदानांमनांसि बहुधा न रञ्जयन्ति, विद्यमानेद्युपायेसर्वेषांचित्तरञ्जनं विधातव्यमितिनिर्विवादं प्रतीयते. अतस्तदनुरोधेन चन्द्ररासस्यचरित्ररूपेयंसंस्कृतकृतिर्विहिता, अस्यचन्द्रराजचरित्रस्यनिर्माता कः ? सचजन्मना कं देशं कदा व्यभूषयत् ? एतद्ग्रन्थनिर्मातुर्गुरुश्चकः ? इति जिज्ञासायां प्रस्तावगतं तदपि कथनीयं नाऽस्थाने गण्यते । सुविदिताऽध्यात्मतत्त्व निकराणां निखिलजनसंशयद्रुमविदारणैककुञ्जराणां महामिध्यात्वमोहान्धकारदिनकराणां दुर्वादिवादमत्तेभकुम्भतटविदलनकेसरीणामष्टोत्तरशत (१०८) ग्रन्थनिर्मातॄणां तपागच्छतिलकानां शास्त्रविशारद जैनाचार्ययोगनिष्ठाध्यात्मज्ञानदिवाकर श्रीमद्- बुद्धिसागरसूरीश्वराणां पादपङ्कजेषु चचरीकायमाणः प्रसिद्धवक्ता श्रीमान् अजितसागरसूरिर्जन्मनागूर्जरदेशस्थचारुतर ( चरोतर ) प्रदेशविभूषणे नारग्रामे - ख्यातिभाक्जातः, अस्यप्रन्थनिर्मातुर्जन्म वि. संवत् १६४२ पौषशुक्ल पञ्चम्याम् दुरढकमतदीक्षा संवत् १६५६ श्रावण शुक्लपञ्चम्यां स्तम्भनतीर्थे, संवेगिदीक्षा-संवत् १९६५ ज्येष्ठकृष्णैकादश्यां श्रीराजनगरे, गणिपदंपन्यासपदच संवत् १९७२ मार्गशीर्षशुक्लपञ्चम्यां सानन्दपुरे, आचार्यपदं संवत् १९८० माघशुक्लदशम्यांप्रांतिजनगरे. अथास्यचरित्रस्यप्रधानविषयः सर्वगुणशिरोमणिः शीलगुणः समस्ति परमवान्तरवर्त्तिनोऽन्ये बहवो विषयभेदाः सन्ति किञ्च सर्वतीर्थाधिराजस्य महातीर्थस्यशत्रुञ्जयगिरेः द्रव्यतोनिषेवणमपिबहुतर For Private And Personal Use Only 8084130***++ Acharya Shri Kassagarsuri Gyanmandir प्रस्तावना ॥ १ ॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 376