Book Title: Chandraraja Charitram Author(s): Ajitsagarsuri Publisher: Ajitsagarsuri Shastra Sangraha View full book textPage 9
________________ स्कृता:प्राकृताश्चप्रन्थाजनतोपकारिणः सर्वत्रविलसन्ति, एतद्ग्रन्थरचनागद्यपद्यात्मिकासर्वजनहितावहाश्रीमदाचार्यवर्येणविनिरमायि, तद्रहस्यत्वत्रविलेखनेननातीवोपयुज्यते यदेतञ्चरित्रसमवलोकनेनैव स्वयमेवविज्ञास्तदीयंगौरवंमाधुर्यश्चविज्ञास्यन्ति, किश्च गुर्जरभाषानुबद्धा ये केचन रामादिप्रबन्धास्ते सर्वे प्रायःसंस्कृतप्राकृतग्रन्थानामनुसारेण प्राचीनसूरिभिर्निबद्धाः सन्ति, अयं चन्द्ररासः संस्कृताद्वाप्राकृतात्प्रबन्धादुद्धतइति न निर्णीयते, यतस्तन्मूलः कश्चित्कुत्राऽपि तादृशः संस्कृतःप्राकृतोवाप्रबन्धोऽधुनानोपलभ्यते, अतोऽयं संस्कृतगिराविरचितः प्रबन्धः संस्कृतसाहित्यवेदिनां हिताय भविष्यति । एतद्अन्धविशोधनेमहताप्रयासेनदत्तदृष्टिमहाशयवैयाकरणाचार्यश्रीमान् भाईशङ्करशास्त्री पण्डितदलिचन्द्रगान्धिकश्चप्रफशोधनेसाहाय्यमदात् , अतस्तयोरुपकृतिश्चिरस्मरणीया, छद्मस्थमतिप्रमादवशात्क्वाऽपिग्रन्थनिर्मातृशोधकाक्षरनियोजकानां दोषःप्रेक्षावतांदृष्टिपथमवतरेत्तदासनिराकरणीयस्तैः । यतः- गच्छतः स्खलनकाऽपि, भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः॥ १ ॥ इत्याशास्ते-एतद्ग्रन्थनिर्मातृजैनशासनरसिकाचार्यश्रीमद्अजितसागरसूरीश्वरपादपङ्कजचञ्चरीकायमाणोमुनिहेमेन्द्रसागरः ॐ शान्तिः ३... मधुपुर्या विक्रमाद १६८३ फाल्गुन शु. ८ शुक्रवासरे वी. सं. २४५३. बुद्धि सं. २ For Private And PersonePage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 376