________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
परिभाषाभाष्यवृत्त्योः नबन्ध्या, इत्यस्मिन्पक्षे निरूढ एवं प्रकृतिः नैकादशिनधर्मा इति ख्यापनार्थम् ॥
३३. क.-सोग्नीषोमीयः दार्शपूर्णमासिकान् धर्मानात्मसात्कृत्वा, तैस्सहात्मीयान् सबनीयाय प्रयच्छति । अतस्तस्य प्रकृतिः ॥
ह.-सोग्नीषोमीयस्सवनीयस्य प्रकृतिः । सवनीयस्य पशुपुरोडाशस्य ऐन्द्रागपशपुरोडाशस्य च बार्बनहुनानुमन्त्रणं केचिन्मन्यन्ते । उभयोरनीषोमीयपशुपुरोडाशप्रकृतिकवं मन्यमाना औपदशिकाः पुनस्तदनुषपन्नमिति मन्यते । य एव प्रत्यक्षविहिना अग्नीषोमीयधर्मास्त एवानीषोमीयात्सवनीयविधिनाऽतिदिश्यन्ते । ये तु दार्शपूर्णमासिकास्ते दर्शपूर्णमासाभ्यामेव सवनीयादिषु प्रवर्तन्ते नामीषोमीयातू, न हि भिक्षुको भिक्षुकान्याचितुमर्हतीति न्यायात् । अनीषोमीयस्य पशुपुरोडाशस्य वार्चन तानुमन्त्रणं दार्शपूर्णमासिकम् , तयोरपि हुतानुमन्त्रणस्य दार्शपूर्णमासिकत्वमेव न्याय्यम् । इदमर्थमेवाग्नीषोमीयस्य च पशोरित्यत्र चशब्दग्रहणम् । तस्मादाग्नेयस्य पशुपुरोडाशस्य आग्नेयवद्धतानुमन्त्रणम् । ऐन्द्रामस्येन्द्रामवत् ॥
३४-३५. क.-एवमग्रीषोमीयलधैस्सहात्मीयान् धर्मान् आग्नेयः कृष्णग्रीवः' इत्यादिविहितानामैकादशिनानां प्रयच्छन् तेषां सवनीय: प्रकृतिः । तथा ऐकादशिनाः पशुगणानां 'आदित्यां मल्हाम्' 'आश्विनं धूम्रललामं ' इत्यादिविहितानां प्रयच्छन्तस्तेषां प्रकृतिः ।।
For Private and Personal Use Only