Book Title: Shrenik Charitram
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir है श्रीदेवेन्द्र० श्रेणिकचरित्रं ॥२६॥ जांगलसमर्धता HOROUGHOROGGRORORORG | साद यथास्थाने, मंगल्यानि च जज्ञिरे ॥४६७॥ स्वर्णराशिमथोत्तुंगं, मेरोः शृंगमिवामलम् । वीक्ष्य क्षोणीपतिः प्रोचेभयं किमिद मीक्ष्यते ॥४६८॥ विस्फुरत्कांतदंतांशुश्रेणिः श्रेणिकसूर्जगौ । ननु कैलाशशैलोऽयं, मांगल्यार्थमिहागमत् ॥४६९॥ राजा जगाद किं कोऽपि, त्वयाऽलुट्यत पत्तने । अभयः साह सर्वत्र, देव ! सम्यग् निरूप्यताम् ॥४७०॥ नृपोऽप्युवाच पर्याप्त, वक्रोच्या सुनृतं | बद । सोऽप्याख्यात्पिशितं स्वामिन् , समर्पमिति मन्यताम्॥४७१॥ किं किमेतत् नृपेणोक्ते, सोऽपि सर्व निवेद्य तत् । ऊचे यतस्त| तस्तेन, नोच्यते तात! धीमता॥४७२॥ सामंतादीस्ततः प्रोचेऽभयो भूताभयप्रदः। आकर्णयत तत्रार्थे,सकाः खलु निर्णयम् | ॥४७३॥ प्राणैः समं यथा भेदं, जानतोऽप्यात्मनः किल । स्वप्राणा दुस्त्यजास्तद्वदन्यस्य सुतरां पुनः॥४७॥ तद् भो अतिमहाघ हि, खमांसं त्रिजगत्यपि । तेऽप्यूचूः सत्यमेवैतद्वचस्ते धीनिधेऽभय॥४७॥ एवं प्रभावयन्नर्हच्छासनं चंडशासनः। श्रेणिकोऽभयसंयुक्तश्चिरं साम्राज्यमन्वशात् ॥४७६॥-अभयं श्रेणिकोऽन्येयुः, प्रोचे राज्यं त्वमाश्रय । श्रीवीरचरणांभोज, श्रयिष्येऽहं द्विरेफवत् ॥४७७॥ पितृभक्तो भवाद् भीरु विभद्रोऽभयोऽभ्यधात् । यदादिशथ तत् साधु, प्रतीक्षख क्षणं पुनः ॥४७८॥ प्रव्रजिष्यति राजानस्त्यक्त्वा राज्यं कियचिरम् । अभयः संदिदेहवं, शुद्धात्मवुद्धिसेवधिः ॥४७१।। इतश्च श्रीमहावीरः, प्रव्राज्योदायनं नृपः । मरुमंडलतस्तत्राम्यागत्य समवासरत् ॥४८०॥ दिष्ट्याऽद्य भगवानागात् , संशयोच्छेदहेतवे । ममैव केवलस्थायमिति हृष्टोऽभय| स्ततः॥४८१॥ तत्र गत्वाऽऽशु वंदित्वा, पप्रच्छ परमेश्वरम् । राजर्षिः कोऽतिमोऽथाख्यत् ,स्वामी नृपमुदायनम् ॥४८२॥ भगवंतं, ततो नत्वाऽभ्येत्य श्रेणिकसन्निधौ ।प्रोचे प्रणम्य पर्याप्तं,मम राज्येन सर्वथा।।३८३॥ तात! नाम्नाऽभयोऽहं तु,सभयः स्वामिवाक्यतः। | यदि राजा ततो नर्षिरित्याचख्यौ जगद्गुरुः ॥४८४॥ तात! त्वदंगजस्यापि, शिरःस्थे त्रिजगत्पतौ। प्रव्रज्या यदि मे न स्वान्, GOOGLoka For Private and Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44