Book Title: Shrenik Charitram
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
Catalog link: https://jainqq.org/explore/020722/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहम् । श्रीजिनेश्वरप्रणीतागमानुसारिश्रीमत्तपोगच्छगगनदिनमणिश्रीदेवेन्द्रसूरिसूत्रितं 4 श्रीश्रेणिकचरित्रम्। SAAAAAAAAAAAAAAAAAA (श्रीश्राद्ध दिनकृत्यगतं) ૨) પ મુનિ દમભવિજ્ય शान '२. प्रकाशयित्री-श्रीमालवदेशान्तर्गतरत्नपुरीयश्रीऋषभदेवजी केशरीमलजीश्वेतांबरसंस्था वीर संवत् २४६४. 1 पण्यम् क्राइस्टसन् १९३८. विक्रम संवत् १९९४." । प्रतयः २५०. 'फकीरचंद्र मगनलाल बदामी' इत्यनेन जैनविजयानंदमुद्रणालये सूर्यपुरे मुद्रितं । जनजजजजजजजजजजजजजजजजजजजजजजजजजमान For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 20 C (CDC श्रीणिक चरित्रस्योपक्रमः ननु न कश्चित्तथाविधो जैनोऽस्ति यः श्रीमन्महावीरचरणचंचरीकं क्षायिकसम्यग्दर्शनवन्तं श्री श्रेणिकं न श्रवणपथ्यका पत्, तस्य भाविन आद्यतीर्थेश्वरस्य चरित्रमिदमनेकविधधर्मशेमुषीसं पल्लतापल्लवनांबुदाय मानवृत्तान्तपरिवृतं, यद्यप्यनेकेषु श्री आवश्यकादिवाङ्मयेषु अनेकेषु च श्रीहेमचन्द्राचार्यादिपूर्वतनाचार्यरचितेषु श्रीवीरचरित्रेषु निष्टंकितमेव स्पष्टमेतदीयं चरित्रं, किन्तु संक्षिप्तरुचिसच्च समुद्दिधीर्षाप्रत्यलं चरित्रमेतत् श्रीश्राद्ध दिनकृत्यवृत्तौ विनिवेशितं श्रीसर्वज्ञशासनाविचलशुद्धतम पारंपर्यधारक श्रीमत्तपोगच्छविभूषण श्रीदेवेन्द्रसूरिभिरित्यवगम्य पृथगुन्मुद्रितमेतत्, विज्ञाय चैनद्यथायथं मार्गावतारप्रभविष्णवो भवन्तु भव्या इति प्रार्थना पुरस्सरं समाप्यतेऽदः कर्त्तारमे 'क्रमात् प्राप्ततपोमिख्ये' तिकर्मग्रन्थादिवचनतः तपोगच्छधुरीणतया प्रसिद्धतमा एव, नायकोऽपि स्ववृत्तान्त विहित जैनशासनयशःपूरः श्रीश्रेणिक इति न तयोरेकस्यापि उल्लेखनीयतेति शोधने | बद्धा अंजलिमर्हाणां विरम्यते । विक्रम संवत् १९९४ ज्येष्ठशुक्लप्रतिपदि चन्द्रघस्रे । लेखकाः - आनन्दोदन्वन्तः पादलिप्त पुरात् । ACCO 2 ) (122) For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयः श्रीश्रेणिकपूर्वभवः श्रीश्रेणिकजन्म सुलसावृत्तं श्रेणिकपरीक्षा नन्दापरिणयनं राज्यप्राप्तिः अभयस्य राजगृहागमनं मुद्रिकाकर्षणं अभयसत्कार मुज्येष्ठाचेल्लणावृत्तं कोणिकजन्म श्रीश्रेणिकचरित्रविषयक्रमः प्रसन्नचंद्रवृत्तं अभयदीक्षा दर्दुरांकामरागमनं १८ श्रेणिकमरणं नरकायुस्खोटनोपायप्रश्न: २१ कोणिकगतिः देवविहिता श्रेणिकपरीक्षा पुण्यपालखप्नफलानि कालशौकरिकवृत्तं कुवृष्टिन्यायः सुलसश्राद्धः भाविकालखरूपं काष्ठहारकदीक्षा कल्किवृत्तं लोके उपहास: षष्ठारकस्वरूपं पद्मनाभतीर्थपतिजन्मादि अभयकृतस्तत्समाधिः भाविकालशलाकापुरुषाः मन्त्र्यायुक्तमांससमर्घतास्फोट प्रवज्याप्राप्तिकथन समाप्तं श्रीश्रेणिकचरित्रं. १२ । चेल्लणांतःपुरदाहः កងរ For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमूल्य ग्रन्थ रत्नानि-(प्राप्तिस्थान-श्रीजैनआनंदपुस्तकालय गोपीपुरा-सुरत.) १ अहिंसाष्टक, सर्वज्ञसिद्धिः, , सभाध्यं सटीकं च २१ बुद्धिसागरः ०-३-० ऐन्द्रस्तुतयश्च ०-८-० (हारिभद्रीय)६-१-०२२ भवभावना सटीका ७-२-० २ अनुयोगद्वारचूर्णिः, तद्वृत्तिः १२ श्रीदशवकालिक चूर्णिः ४-०-०२३ युक्तिप्रबोधः _ (हारिभद्रीया)१-१२- ०१३ नंदिसूत्रचूर्णिः, तवृत्तिश्च १-१२-० २४ ललितविस्तरा ३ आचारांगसूत्रं सटीकं ७-०-० ०-१०-० (हारिभद्रीया) १.१२.० २५ विशेषावश्यकभाष्यं सटीक ४ उत्तराध्ययनचूर्णिः ३-८-०१४ पर्युषणादशशतकं सटीकं ५ उपदेशमाला सटीका(पुष्पमाला)६-८-०१५पंचाशकादिशास्त्राष्टकं (कोट्याचार्य०) ११-०-० मूलं (धर्मदास०)०-८-० , दशाकारादि २६ वन्दारुवृत्तिः १-४-० , सच्छाया (मुद्रणालये) १६ पयरणसंदोह १-०-०२७ षोडशकप्रकरणम् (सटीक) १-०-० ६ उत्पादादिसिद्धिः २-८-०१७ प्रकरणसमुच्चयः -:-०२८ पडावश्यकसूत्राणि ०-८-० ७ ऋषिभाषितानि सूत्राणि ०-५-०१८ प्रवचनपरीक्षा सर्ट -५-०१८ प्रवचनपरीक्षा सटीका १०-०-०२९ अंगाकारविषयक्रमादि ८ श्रीकल्पसूत्रकौमुदी २-०-०१९ प्रत्याख्यान, सारस्वतविभ्रमः,- ३० भगवतीमत्रं सटीकं प्रथमो भागः , सुबोधिका (मुद्रणालये) दानपत्रिंशिका, विशेषणवती, (अभयदेवीय) ५-०-० ९ज्योतिष्करंडकः सटीकः ३-०-० विंशतिविंशतिका च १-४-० , द्वितीयतृतीयौ (मुद्रणालये) १० तश्वतरंगिणी सटीका ७-८-०/२० बृहतसिद्धप्रभाव्याकरणम् २-८-०३१ श्रीकृष्णचरित्रं ०-१०.० ११ श्रीतत्वार्थसूत्रं सभाष्यं १-०-० मध्यमसिद्धप्रमाव्याकरणम् ०-८-०३२ श्रीश्रेणिकवृत्तं (इदं 2018 प) . For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र श्रेणिकचरित्रं श्रीतपोगच्छगगनभानुश्रीदेवेन्द्रसूरिसूत्रितं श्री श्रेणिकचरित्रम् । (संस्कृतं ज्ञातमात्रं जगज्ज्ञातमाहत्याख्ये महाफले। श्रेणिकोऽपि नृपो येन, तत्कथाऽतः प्रपंच्यते ॥१॥ अस्त्यत्र भरतक्षेत्रे,कुशाग्रपुरपत्तनम् । कुशाग्रीयमतिस्तत्र, प्रसेनजिदिलापतिः॥२॥ हस्त्यश्वरथपत्यादि, शोभाये तस्य केवलम् । चिच्छिदेऽरितमः स्वस्थ, प्रतापतपनांशुभिः ॥३॥ चित्ते शीलं करे दानं, तपोउंगे हृदि भावनाम् । विभ्रत् स राजा शुशुमे, जैनधर्म इवांगवान् ॥४॥ श्रीपाश्वनाथसत्तीर्थ, तस्य भूपस्य निश्चला । बभूव भूयसी भक्तिः, कंबले जतुरागवत् ।।५।। अद्वैतेश्वर्यसौंदर्यवर्यस्यास्य महीपतेः।गरी| यानवरोधोऽभूद्दिवीव दिविषत्पतेः ॥६॥ पृथग्राज्ञीभवास्तस्य, मूनवः शतशोऽभवन् । रूपादिगुणसंयुक्तास्तन्मूर्त्तय इवापराः ।।७।। -इतश्चात्रैव भरते, वसंतपुरपत्तने । जितशत्रुरभू राजा, प्रतापी न्यायविश्रुतः ।।दा तस्यामरवधूरम्भाऽभूद् भार्याऽमरसुंदरी । मूर्त्याऽमरकुमाराभः, कुमारश्च सुमंगलः ।।९।। पिंगकेशशिराः शृंगज्वलद्वह्निरिवाचलः । मार्जार इव पिंगाक्षः, कपिवच्चीननासिकः ॥१०॥ मयवल्लंबकंठोष्ठश्चाखुवल्लघुकर्णकः। स्थूलोदरो विना व्याधि, दकपूर्णो दृतियेथा ॥११॥ हस्खोरामन इच, दुष्कर्मविनियोगतः। मंडलस्थानसंलीढयोधवद् वक्रजंघकः ॥१२॥ शूर्पवत् स्थूलगुल्फश्च, मंत्रिमः श्येनकामिधः । सुमंगलकुमारस्य, क्रीडामित्रमभूत् सदा।।१३॥ चतुर्भिः कलापकं ।। कुमारस्य सभामेति, वराकः स यदा तदा । वक्रोक्त्या राजपुत्रस्तमुपहासास्पदं व्यवाद ॥१४॥ सुमंगलकुमारेण, हस्यमानो दिने दिने । वैराग्यं श्येनको भेजे, दुःखगर्भ विमूढधीः ॥१५॥ गत्वा देशांतरे कस्मिन् , For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र श्रेणिकचरित्रं ॥२॥ HOOTOHNOLOHORIGIO. | परिव्राजकसन्निधौ। जग्राह दुःखभीर्दीक्षामुष्ट्रिकामिग्रहान्विताम् ।।१६॥ सुमंगलकुमारोऽथ, पित्रा राज्ये निवेशितः। प्रौढपुण्यप्रभा वेण, प्राज्यं साम्राज्यमन्वशात् ॥१७॥ श्येनकोऽपि परिभ्राम्यन् , देशाद्देशं पुरात्पुरम् । वसंतपुरमभ्यागात् , तपस्यन् दुस्तपं तपः | ॥१८॥ तपस्वी मंत्रिपुत्रश्च, पूर्वसंस्तुत इत्यपि। पौरास्तं पूजयामासुरर्घदानादिमिभृशम् ॥१९॥ अपृच्छंश्च सनिर्वधं, मूलवैराग्यकार| णम् । सोऽपि माध्यस्थ्यमास्थाय, कथयामासिवानिदम् ॥२०॥ तिक्तौषधरसास्वादो, यद्वदारोग्यकारणम् । सुमंगलाट्टहासो मे, तद्वद् वैराग्यकारणम् ।।२१।। ज्ञात्वा श्येनकमायात, सुमंगलनृपोऽपि हि। तं प्रणतुं ययौ हृष्टस्तपसा को न हृष्यति । २२|क्षमयित्वा च नत्वा च, भूपतिः प्रीतमानसः। न्यमंत्रयत् तं तन्मासः, पारणाय कृतादः॥२३॥ श्येनकस्तद्वचो मेने, ययौ राजा खमंदिरे । मासांते पारणायागात् ,श्येनकोऽपि नृपौकसि।॥२४॥ तदा च महदवास्थ्यमभृद् भूमिपतेस्तनौ । राजलोकस्ततो व्यग्रस्तमृषि कोऽपि नैक्षत ॥२५॥ क्षणं स्थित्वा निवृत्याथ, श्येनकोऽकृतपारणः। द्वितीयं मासक्षपणं, कतुं प्राविशदुष्ट्रिकाम्।।२६।। राजाऽथ खस्थता प्राप्तः, स्मृत्वा च स्वनिमंत्रणम् । तत्काशसुमवन्मोघं, मत्वाऽनिंदद् भृशं स्वकम्।।२७॥ विषण्णात्मा ततो गत्वा, श्येनकस्यांतिकं द्रुतम् । तं नत्वा गद्गदध्वानो, व्यजिज्ञपदिदं नृपः ॥२८॥ यथा दातुः प्रियालापः, स्यादन्यत्रापि विघ्नकृत् । तथा मे मंद-14 भाग्यस्य, बभूवेदं निमन्त्रणम् ॥२९|| तथापि मम दीनस्य, क्षमखैतन् क्षमानिधे! प्रसद्य चानुमन्यस्व, मद्गेहेऽदोऽपि पारणम् ॥३०॥ अनुनीतो नृपेणैवं, प्रपेदे श्येनकोऽपि तत् । ततो नत्वा गृहेऽगच्छन्मुदितो मेदिनीपतिः ॥३॥ ययौ यावत् तपस्व्येष, संप्राप्ते में पारणाहनि । नृपौकस्तावदास्थानमभूत्तस्य महत्तरम् ॥३२॥ तथैव विनिवृत्त्यासौ, पुनः प्राविशदुष्ट्रिकाम् । तं चानुनेतुं तत्रागात् | स्वस्थीभूतः सुमंगलः ॥३३॥ मुंचनश्रांतमश्रूणि, नत्वोचे तमृर्षि नृपः। भगवन् ! भवतामेवं, धिग्मां दुष्कर्मकारिणम् ॥३४॥ | सर्वसहावदाराध्याः , सदा सर्वसहा मयि । तत्प्रसद्यानुगृहणंतु, पारणेनाधुनाऽपि माम् ॥३५॥ प्रपेदे नृपदाक्षिण्यात् , तृतीयमपि ॥२॥ For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीदेवेन्द्र ० श्रेणिक चरित्रं ॥३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 पारणम् । श्येनकर्षिस्ततो राजा, धन्यंमन्यो गृहं ययौ ॥ ३६॥ पूर्णेऽथ मासक्षपणे, यावत्तत्र ययावृषिः । बृहत्तरतमं तावद्, राज्ञोऽस्वास्थ्यमजायत ||३७|| राजलोकास्त्विदं दध्यावयमेति यदा यदा । तदा तदा महीभर्तुः, सहसा जायते रुजा ||३८|| इति तैः श्येनकः क्रुद्धैर्यष्टिलोष्टादिभिर्भृशम् । यथेष्टं कुट्टितो गेहे, प्रविष्ट इव तस्करः ||३९|| संचूर्णित समस्तां गश्रितयामास चेतसि । नूनं सुमंगलो राजा, मत्सरी मयि सर्वदा ||४०|| भवांतरेऽस्य भूयासं, वधाय तपसाऽमुना । निदायेति विपद्याभूदल्पर्धि तरोऽथ सः ||४१ ॥ गृहीत्वा तापसीं दीक्षां, सुमंगलनृपोऽपि हि । कालेन मृत्वा भूत्वा च व्यंतरः स ततथ्युतः ॥ ४२ ॥ तस्मिन् कुशाग्रनगरे, प्रसेनजिदिलापतिः । धारिण्याख्यामहादेव्या, उदरे समवातरत् ||४३|| सा देवी समयेऽसूत, सुनुमन्यूनलक्षणम् । सर्वर्ध्या विदधे पित्रा, तस्य जन्मोत्सवो महान् ॥ ४४ ॥ विशिष्टमतिधृत्यादिगुणश्रेणिभृदित्ययम् । ततः श्रेणिक इत्याख्यां पिता तस्य स्वयं व्यधात् ||४५ || श्रेणिको ववृधे रूपसौभाग्यादिभिरन्वहम् । कलाभिर्नव्यनव्याभिः शुक्लपक्ष इवोडुपः ||४६ || शुशुभे श्रेणिकांगश्रीः, यौवनेन विशेषिता । यथा मधुश्रीर्मलयमारुतेन विशेषिता ॥ ४७ ॥ - इतोऽत्राभूत् पुरे नागरथिको नागवल्लभः । पत्नी च सुलसा तस्य, धर्म्मकर्म्मसु लालसा ||४८|| तयोः सदैकमनसोदंपत्योः प्रीतिपात्रयोः । भृयान कालः सुखेनागाद्यथा भाडपक्षिणः || ४९ || परं गाढमपुत्रत्वं हृदि नागस्य शल्यवत् । बाधतेऽहर्निशं यद्वा, चक्षुषोः कर्करो यथा ॥५०॥ चिंताप्रपन्नमन्येद्युः सुलसोचे निजं पतिम् । युष्माकं बाधतेऽगे किं, कश्चिच्छूलादिरामयः १ ॥ ५१ ॥ अप्रसन्नो नृपः किंवा, नादृतं खजनेन वा । मित्रेण किमवज्ञातं, किंचित्परिजनेन वा १ ||१२|| सदाऽऽदेशविधायिन्या, मयाऽऽज्ञा काऽपि खंडिता । यदेवं ताम्यसि स्वांते, स्वामिंस्तन्मां निवेदय ||५३ || रथिकस्त्वाह नैतेभ्यो, मामेकमपि बाधते । प्रियेऽनपत्पता यत्तन्मामतीव विबाधते ||२४|| सुलसोचे सुतार्थे त्वमन्यां कन्यां विवाहय | स्वाम्यूचे कृतमन्याभिः, कन्यामिरिह जन्मनि ॥ ५५ ॥ ततोऽधिकं तपोदानशीलार्चाभावनादिके । सुधर्मे For Private and Personal Use Only ॥३॥ Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र श्रेणिकचरित्रं सुलसा तस्थौ,स हि सर्वत्र कामधुक् ॥५६॥-इतश्च दिवि देवेन्द्रः,सदस्येवमवर्णयत् । श्राविका सुलसा धर्मे, निश्चला शैलराजवत् ॥७॥ तद्वचोऽश्रद्धानोऽत्रागत्यौकस्त्रिदशोऽविशत् । कृत्वा नैषेधिकी साधुवेषेण मुलसागृहे ।।५८॥ तदा जिनाचा कुवंती,सुलसा द्रागुपस्थिता। भक्त्या नत्वा च तं साधु,पप्रच्छागमकारणम्।।५९॥ स प्राहात्र पुरे भद्रे !, मुनिर्लानोऽस्ति तत्कृते । तैलाय लक्षपाकाय, श्राविकेऽहमिहागमम्।।१०।। तुष्टाऽथ मुलसा तैलकुंभमादाय पाणिना। प्रतिलभयितुं साधु,यावदागाच्छनैः शनैः॥६१।। तावत् सुपर्वणाऽचिंत्यशक्तिना स्फोटितः कुटः। तत्तैलमपि कुत्रापि, सर्वमप्यगमद् द्रुतम् ॥६३॥ इत्यस्फोटि द्वितीयोऽपि, तृतीयोऽपि घटा क्षणात् । द्रव्यहान्या मुबह्वयाऽपि, व्यषीदत् मुलसा न तु ॥६शादथ्यौ चेदं मुनौ ग्लाने, ययौ यन्नोपयोगिताम् । निदोपौषधमप्यत्र, ममेयं ही प्रमादिता॥३४॥ अथ संहृत्य तो मायां, प्रत्यक्षीभूय सोऽमरः। निवेद्येन्द्रकृतां श्लाघामूचे भद्रे ! वरं वृणु।।०५।। जगाद मुलसाऽप्येवं, पतितोषकृते मम । देहि पुत्रमपुत्रायास्ततोऽवादीदिद सुरः ॥६६॥ गृहाण गुटिका एता, द्वात्रिंशतमपि क्रमात् । भक्षयेस्ते भविष्यंति, पुत्रा द्वात्रिंशदुत्तमाः॥६७|| ताः समर्प्य पुनः कार्ये, मर्त्तव्योऽहं त्वयाऽनघे! इत्युक्त्वा स ययौ स्वर्गमुत्पत्य | गगनाध्वना॥३८॥ मुलसाऽचिंतयच्चैवं, प्रत्यब्दं प्रसवव्यथाम् । समांसमीनाऽनडाहीवन को ननु सहिष्यति ? ॥६९।। देवदत्तास्तत श्वेता, गुटिका एकवेलया। भक्षयामि ततोऽमूभिः, पुत्रो मे भवितोत्तमः ॥७०॥ तथैव सुलसा चक्रे, पुत्रा द्वात्रिंशदप्यथ । उत्पे|दिरे तदुदरे,नान्यथा दिविषद्वरः॥७॥ वर्धमानांश्च तान् गर्भान् ,सा धर्तुमसहाऽभवत् । प्रभृतफलसंभारमिव वल्ली दिने दिने।।७।। ततः सस्मार तं देव, सोऽप्यागत्याब्रवीदिदम् । किं स्मृतोऽहं त्वया भद्रे !, साऽथाचख्यौ निजां व्यथाम् ॥७३॥ बभाषेऽनिमिषोऽ. | प्येवं, त्वया साधु कृतं नहि । द्वात्रिंशदपि ते पुत्रा, भविष्यति समायुषः ॥७४॥ देवानुभावतः पीडां,सोऽपहृत्य तिरोदधे । कालेन MO मुलसाऽसूत, सुतान् द्वात्रिंशतं वरान् ॥७५॥ धन्यंमन्योऽथ नागोऽपि, पुत्रजन्मोत्सवं व्यधात् । पुत्रान् प्रीत्या पृथग् धात्रीपंचकैः NOROGOROROLOROROजाव For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रेणिकपरीक्षा चरित्रं ROGHORROROHOLOGHOS पर्यपालयत् ॥७६॥ अंकेऽथ हृदि पृष्ठे च, स्कंधयोस्तैः समाश्रितः । नागोऽभादर्भकारूढः, फलेग्रहितरुर्यथा ॥७७॥ सुखेनोपक लाचार्यमधीत्य सकलाः कलाः। उद्यौवना बभूवुस्ते, श्रेणिकस्यानुयायिनः॥७८॥-प्रसेनजिन्महीनाथो, राज्याईत्वं परीक्षितुम् । मुंजामनानां वपुत्राणा, सूदेनामोचयच्छुनः ॥७९॥ नेशुः सर्वेऽपि राजन्याः, श्रेणिकस्त्वात्मनोऽभितः। तत्पात्राण्यंतरा चक्रे, बुभुजे च | यथासुखम् ॥८०॥ राजा पुनः परीक्षार्थ, मोदकानां करंडकान् । ददौ निजकुमाराणां, पय:कुंभांश्च मुद्रितान् ॥८॥ इमां मुद्रामभिदाना, यूयमनीत मोदकान् । तथैव पिवतांभश्च, पुत्रानित्यादिदेश च ।।८।। कुमारा बलवंतोऽपि, भोक्तुं पातुं च नाशकन । बुद्धिसाध्येषु कार्येषु, कुर्युरुजस्विनोऽपि किम् ॥८३॥ श्रेणिकस्तु गृहे नीत्वा,तं मोदककरंडकम् । चालं चालं क्षरच्चूर्ण, स्वर्णस्थालस्थमाशिवान्।।८४॥ धृत्वा रूप्यमयीं शुक्तिं,तत्पय कुंभबुनके । गलद्वाबिंदुपूर्णा तामुत्पाट्य च पयः पपौ ॥८५॥ सर्वमेत| परिज्ञाय,हृदये धृतवान्नृपः। तदा च नगरे तत्रासकृद् जज्ञे प्रदीपनम्।।८६॥ ततश्वाघोषयामास,पुरे राजेति यद्गृहात् । उत्थास्यत्य नलः सोऽस्मात् , पुरान्निष्कासयिष्यते ।।८७।। अन्येधुर्मेदिनीभर्तृहे सूदप्रमादतः। जज्ञे प्रदीपनं ह्यग्निर्यमश्च स्वो न कस्यचित् an८८॥राज्ञा पुत्राः समादिया, यो यद् गृह्णाति तस्य तत् । ततस्ते निर्ययुः शीघं,गृहीत्वाऽश्वगजादिकम्।।८९।। श्रेणिकस्तु समादाय, जयभंभां विनिर्ययो । युक्तिमत्राह पृष्टोऽसौ, राज्ञा शांते प्रदीपने ॥९०॥ एषैव देव! भूपानां, जयश्रीचिह्नमादिमम् । यत्नेन तेन रक्ष्येयं, नित्यं जीवितवन्नृपैः ॥११॥ इत्याकर्ण्य वचस्तस्य, श्रेणिकस्य ददौ मुदा। भंभासार इति क्षोणिपतिर्नामापरं तदा ॥१२॥ ससार च वचः स्वीय, सत्यसंघः प्रसेनजित् । ततः पुराद् द्विगव्यूत्या, खसै गृहमकारयत् ॥९३॥ सांतःपुरपरीवारस्तत्रोवास स्वयं नृपः। व्यवहाँ जनोऽप्यत्र, यानायान् प्रश्नितोऽवदत् ॥९॥ यामि राजगृहं राजगृहादायामि चेति तत् । जज्ञे चैत्यादिना रम्यं, नाना राजगृहं पुरम् ॥१५॥ पुत्रपौत्रयुतो राज्य, कर्वस्तत्र महीपतिः। ज्ञातपूर्वी खतुगवृत्त, चिंतयामास चेतसि ॥२६॥ खराज्यं पOHOHORORORRO ॥५॥ For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीदेवेन्द्र० श्रेणिक चरित्रं ॥६॥ www.kobatirth.org मोक्ष्यते तावद्, विक्रमेण धिया स्वयम् । अन्येषामपि राज्यानि, राज्याईः श्रेणिकस्ततः ॥९७॥ किं विदानीमसत्कार्यो, मार्यो माऽन्यैरसौ सुतैः । इत्यन्येषां कुमाराणां ददौ ग्रामादिकं नृपः ॥ ९८ ॥ श्रेणिकस्त्वपमानेन तेन देशांतरं प्रति । प्राचालीदचलो भीत्या, केसरीव वनांतरम् ॥९९॥ जगामाश्रांतमभ्रांतः, खड्गव्यग्रकरोऽध्वनि । क्रीडां कर्तुमिवोद्यानमार्गेऽनघप्रमोदभाक्॥ १००॥ गच्छन् क्रमेण स प्राप, पुरं बेनातटामिधम् । यच्छ्रीकल्लोलमालाभिर्वेलातटमिवाबभौ ||१०१ ॥ भद्रस्य वणिजस्तत्र, विपणौ स पणायतः । कर्म्म लाभोदयं नाम, तस्य मूर्त्तमिवाययौ ॥। १०२ || दिने तस्मिंश्च तत्राभूद्विशिष्टः कश्चिदुत्सवः । ततस्तच्छ्रेष्ठिनो हट्टे क्रेतुमागानो बहु: ।। १०३ ॥ श्रेणिको लघुहस्तत्वाद्, बद्धा बद्ध्वाऽऽर्पयद् द्रुतम् । क्रायकाणां वरद्रव्यपुटिका त्रुटिकादिकम् ॥ १०४ ॥ लाभश्च तत्प्रभावेण, भूयिष्ठः श्रेष्ठिनोऽभवत् । कस्याद्यातिथयो यूयं ततः श्रेष्ठी तमभ्यधात् ॥ १०२ ॥ श्रेणिकोऽपि बभाषे वः, ततोऽसौ पर्यचिंतयत् । नंदायोग्यो वरः खमे, यो मयाऽद्यैक्षि सैष किम् ।। १०६ ।। ततः श्रेष्ठी निजौकस्तं नीत्वा संस्नाप्य चादरात्। परिधाप्य सुवासांसि भोजयित्वैवमत्रवीत् ॥ १०७ ॥ नंदानानीं सुतां मे त्वमिमामुद्वह मानद । स प्राह कथमज्ञातकुलादेर्मम दास्यसि ? ॥ १०८ ॥ श्रेष्ठ्यूचे सर्वमज्ञायि, गुणैस्तव कुलादिकम् । परिणिन्ये ततो नंदां, सानंदो नृपनंदनः ||१०|| झुंजानो नंदया सार्धं, तत्र वैषयिकं सुखम् । श्रेणिकोऽस्थात्कियत्कालं, गर्भ दधेऽथ भद्रजा ॥ ११० ॥ राजा श्रेणिक वृत्तांतमज्ञासीद् गुप्तपुरुषैः । सहस्राक्षा हि राजानो, भवंति चरलोचनैः ॥ १११ ॥ अन्यदा रोगमत्युग्रमामसाद प्रसेनजित् । ततः श्रेणिकमाह्लातुं प्राहिणोदौष्टिकान सौ ॥ ११२ ॥ श्रेणिकस्य नृपाह्वानमेकांते तैर्निवेदितम् । नंदां संभाष्य तस्यै सोऽक्षराण्येतानि चापयत् ॥ १.३ ॥ वयं राजगृहे पांडुकुड्या गोपास्ततः स्वयम् । करभीं तां समारुह्य, ययौ जनकसन्निधौ ॥ १.१४ ॥ तं चाभ्यषिचत् साम्राज्ये, सुप्रसन्नः प्रसेनजित् । पूर्णकुंभां| बुधाराभिर्नत्रहर्षाश्रुमिः समम् ॥ ११५ ॥ ततः पंचनमस्कारं स्मरन् पार्श्वजिनं नृपः । विधायाराधनं धीरो, विपद्य त्रिदिवं ययौ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नन्दोद्वाह: ॥६॥ Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र भेणिकचरित्रं ॥७॥ मुद्रिकाकर्षणः KOLOGHOGHOROOT ॥११६॥ सर्व सर्वसहामारं, बमारेकोऽपि शेषवत् । श्रेणिकस्तु तथैकोना, मंत्रिपंचशंती व्यधात ॥११७ ॥ संपूर्णामथ तां कर्तु, जिज्ञासु(धनं नरम् । पुरुषैः क्षेपयामास, शुष्ककृपे निजोर्मिकाम् ।।१.१८॥ अघोषयच्च यो मुद्रां, तटस्थो लाति पाणिना। खां पुत्रीं मंत्रिधुर्यत्वं, राज्यार्द्ध राति तस्य राट् ॥११९॥ भूयानपि जनोऽभ्यागादादातुं खकरेण ताम् । किन्तु कुब्ज इवाशक्तः, फलमत्युचशाखिनः॥१२०॥-इतश्च तस्या नंदाया, अन्यदा दोहदोऽभवत् । राती दानं गजारूढा, भ्रमाम्यभयदा पुरे ॥१२१॥ पित्रा |नृपमनुज्ञाप्य, तस्याः सोऽपूरि दोहदः । कालेनासूत सा सून, रत्नं वैडूर्यभूरिव ॥१२२।। कृत्वा मातामहस्तस्य, महातं जननोत्सवम् । मनोरभय इत्याख्या, दोहदानुसृतेर्ददौ ॥१२॥ ववृधे लाल्यमानोऽसौ, धात्रीमिः पंचमिःक्रमात । रूपलावण्यसौभाग्यः, कलामिर्नेव्यचंद्रवत् ॥१२४॥ कलाचार्यस्य भद्रेणापितो भद्रदिने सुनुः। द्राक् तेनाबोधि दीपेन,दीपवत् सकलाः कलाः ॥१२५॥ विनीतमुचतं शांत, धीमंतममितौजसम् । गुरुस्तमिति विज्ञाय, प्रशशंस पदे पदे ॥१२६ ।। एकांते तु सहाध्यायी, तमूचे कोऽपि मत्सरी । किंते गुणांतरेयस्य, पिता विज्ञायते नहि ॥१२७॥ अभयोऽप्याह भद्रो मे, पिताऽस्ति विपणौ स्थितः। स प्राह ननु ने मातुः, पिता भद्रो न ते पुनः ।।१२८॥ गत्वोपनंदमानंदमुक्तो नांदेय ऊचिवान् । ब्रूहि मातः! पिता को मे १, साऽपि भद्रमची. | कथत् ॥१२९॥ अभयोऽप्यभ्यधाद् भूयो, ननु भद्रः पिता तव । यथाज्ञातमनाबाधं, तातः को मे १ निवेद्यताम् ॥१३०॥ रुदंती | साह सा कोऽपि, पुमान् वैदेशिकस्तु माम् । उद्वाह्य त्वयि गर्भस्थेऽगात् कुत्राप्यौष्ट्रिकैः समम् ॥३१॥ ऊचेऽभयकुमारोऽपि, कि मुक्तं तेन गच्छता । तानि न्यासीकृतानीवाक्षराण्यस्मै ददर्श सा ॥१३२॥ गोपाः पांडुरकुड्यास्तन्नूनं राना पिता मम । करोति | राज्यं तत्रावां, बजावो मातरंजसा ॥१३३॥ भद्रो ज्ञात्वाऽतिनिबंध, सामग्री परिकल्प्य च । समं दुहित्रा दौहित्रं, विससर्ज शुमे क्षणे ॥१३४॥ क्रमेणाध्वानमुल्लंध्य, प्राप राजगृहं पुरम् । नंदां तस्माद् बहिर्मुक्त्वा, पुरांतस्त्वात्मनाविशत् ॥१३५॥ अगात् कूप KOHoroKOHORORG ॥७॥ For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र श्रेणिकचरित्र ॥८॥ तटे नत्र, दृष्ट्वा च मिलितं जनम् । किमेतदिति तेनोक्ते, जनः सर्वोऽप्यवोचत ।।१३६॥ आदत्स्व मुद्रिकामेना, पाणिना तत्पणी-18 सत्कारः कृतम् । राज्याध मंत्रिधुर्यत्वं,राट्पुत्रीं च वराकृते ! ॥१३७॥ अभयोऽप्यम्यधादेवं, भवंतः किं न गृह्णते ? । तेऽप्युचुर्गगनाल्लातुं, शक्या तारा करेण किम ॥१३८॥ततो जघान तामागोमयेण नृपात्मजः। तत्सद्योऽशोषयत् क्षित्वा,ज्वलंतं तृणपूलकम् ॥१३॥ मुक्त्वा वाःसारणी वाप्यास्तं कूपं द्रागपूरयत् । तरंती गोमयस्थां तामाददे पाणिनाऽभयः ।।१.४०॥ यामिकः कथितेऽमुष्मिन, वृत्तांते भूपतेः स तु । आनाययत नांदेयं, सोपि गत्वाऽनमत् नृपम् (ग्रं०३०००)॥१४१| उपवेश्यासने राजा, निजासने तम-10 भ्यधात । कुतस्त्वमागमः सोऽपि, प्रोचे वेनातटात्प्रभो ! ॥१४२। स्मृत्वा नंदां नृपोऽपृच्छत्तं धृत्वा पाणिपल्लवे । भद्रं भद्रमुखाख्याहि, भद्राख्यं तत्र वाणिजम् ॥१४३॥ नंदानाम्नी च तत्पुत्री, वत्स! जानासि वा नवा । स प्राहाजन्मतोऽप्येतद्वयमप्युपलक्षये ॥१४४॥ वत्स! नंदोदरियासीत्तस्याः किमुदपद्यत ? । ऊचेऽभयकुमाराख्यं, सा नंदनमजीजनत् ॥१४५॥ राजाऽवदत् स कीदृक्षो, रूपेण वचसाऽपि च । अमयोऽप्यब्रवीत् स्वामिन् !, यादृशोऽहं स तादृशः॥१४॥ शंकमानोऽवदद्राजा, ननु त्वमसि सोऽभयः । स माह स्वामिपादा हि, मतिमंतो विदंति तत् ॥१.४७॥ राजा तमात्मजं ज्ञात्वा, स्वाकमारोप्य सखजे । अपृच्छच्च क ते माता १, सोऽशंसनगराद् बहिः ॥१४८॥ अमियानाय नंदाय,सामंतादीनथादिशत् । गंधहस्तिनमारुह्य, स्वयं चापि नृपोऽम्यगात १४९॥ अभयेनाग्रतो गत्वा, नंदाऽऽत्मानमलंचिकी। वारिताऽस्थात स्वभावस्था, पतिव्रतोचितं ह्यदः॥१५० कृत्वाऽथ स्फार-14 शृंगारं, राज्ञा दत्तं सुतान्विता। गंधसिंधुरमारूढा, सह पत्याऽविशत्पुरम् ॥१५१॥ प्रासादादि प्रदायास्या, नृपतिः प्रीतमानसः। पदं विश्राणयामास, सीताया इव राघवः ॥१५२॥ तथाऽभयकुमाराय, राज्याध मंत्रिधुर्यताम् । सेनानाम्नीं स्वमः पुत्री, सत्यवाक ॥८॥ श्रेणिको ददौ ॥१५३ । ततोऽभयकुमारोऽपि, चतुबुद्धिमहानिधिः। दुःसाधान् साधयामास, घियैव वसुधाधवान् ।।१५४॥ सम्य. For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीदेवेन्द्र० श्रेणिकचरित्रं 118. www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिलताकंदः, पितुर्भक्तोऽभयस्ततः । सप्तांगं सुस्थितं राज्यं धीमानन्वशिषत् पुनः ।। १५६ ॥ - वैशाली श्री विशालापूरितवास्ति मही तले । तस्यां च चेटकश्रेटीकृतारिखनीपतिः ।। १५६ ॥ पृथग्राज्ञीभवास्तस्य, सप्तासन् वरपुत्रिकाः । सप्तांगस्यापि राज्यस्याधिष्ठात्र्य इत्र देवताः ॥ १५७ ॥ राजाऽन्योपयमत्यागान्न तु ताः पर्यणाययत् । मातृदत्तास्तु पंचताः परिणिन्युर्नृपा अमी ॥१६८॥ तत्र प्रभावतीं वीतभयेशोदायनो नृपः । पद्मावतीं तु चंपेशी, दधिवाहननामकः ॥१५२॥ कौशंबीशः शतानीको, मृगनेत्रां मृगावतीम् । शिवां चोजयिनीनाथचंड प्रद्योत भूपतिः ॥ १६० ॥ ईशः क्षत्रियकुंडस्य, ज्येष्ठाख्यां नंदिवर्धनः । सुज्येष्ठाचेल्लनानाम्न्यौ, कुमार्यावेव तस्थतुः || १ ६ १ || अन्यदा तापसी वृद्धा, कन्यांतः पुरमेयुषी । शौचमूलं समाचख्यौ धर्मं सा मूलमंहसः || १६२ ॥ मुज्येष्ठा प्राह हे मुग्धे !, मुग्धलोकप्रतारिके । धर्म्मः खलु दयामूलः, स च शौचात् कथं भवेत् ॥ १६३ ॥ भूर्जलं जलजा जीवास्त्रसा भूम्याश्रिता अपि । संख्यातीता विराध्यंते, स्नानाय भवतामपि ॥ १६४ ॥ मृत्तिकोदक संस्पर्शाच्छुध्यंति यदि तवः । कुलालः सकुटुंबोऽपि तर्हि स्वर्गं वजिष्यति ।। १६५ ।। चेत् शुध्यंति बहिःस्नानादंतः पापमलीमसाः । तत् शुध्यंति ध्रुवं मत्स्यमकराद्या हृदादिषु ॥ १६६ ॥ मुग्धे ! पंचाश्रवत्यागात्, पंचेंद्रियदमादपि । कषायविजयाद् धर्म्मस्तथा दंड त्रयोज्झनात् ॥ १६७ ॥ इत्यादियुक्तियुक्ताभिर्भारतीभिर्निरुत्तराम् । सुज्येष्ठा तापसीं चक्रे, मौनव्रतपरामिव ॥ १६८ ॥ दास्यादयो हसंत्यस्तां मुखमर्कटिकादिभिः । गेहान्निःसारयति स्म, मिक्षुकीं प्रथिलामिव ॥ १६२ ॥ सुज्येष्ठोपरि सा क्रुद्धा, दध्यौ दुधरिमां ध्रुवम् । क्षेप्स्यामि पंडितमन्यां सपत्नीदुःखसागरे ॥ १७८ ॥ आलिय चित्रपट्टे च तद्रूपं श्रेणिकाय सा । उपनिन्ये स तां वीक्ष्यापृच्छत् केयं वराकृतिः १ ॥ १७२ ॥ साऽऽख्यच्चेटक राजस्य, सुज्येष्ठानामिका सुता । इमा लक्ष्मीपतिर्लक्ष्मीमिवोवोढुं त्वमर्हसि ।। १७२ ॥ ततस्तां याचितुं प्रेपी द्वै शाल्यां श्रेणिको नरान् । सुज्येष्ठां याचितः पुंमिश्रेटकोऽप्येवमब्रवीत् ।। १७३॥ कथं वाहीकवंश्योऽयं, कन्यां हैहयवंशजाम् । स्वीकर्तुं श्रेणिको वांछेद् बको हंसीमिवामतिः १।। १७४ ।। For Private and Personal Use Only ॥९॥ Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र श्रेणिकचरित्रं ॥१०॥ ROORAGIC न दास्यामि सुता तस्मै, ततो व्याधुव्य तेऽभ्यधुः । श्रेणिकाय यथावृत्तं, श्रुत्वैतद् विषसाद सः॥१७॥ एतद् ज्ञात्वाऽभयोऽप्यूचे, | विषादं देव ! मा कृथाः । अचिरेणैव कालेन, करिष्ये वा समीहितम् ॥१७६ । इत्युक्त्वा रूपमालिख्य, रानोऽसौ चित्रपट्टके। वि| धाय वणिजो वे, वैशाल्यामगमत्ततः ।।१७८॥ तत्रापणे पणायंश्च, कन्यांतःपुरसन्निधौ । तदासीनामदात पण्यं, समर्ष सुंदरं धनम् ॥१७८|| तदा चान चित्रस्थां, श्रेणिकाचर्चा सजादिभिः । तासां चाख्याद्यथाऽर्चामि, सदाऽमुं श्रेणिकं प्रभुम् ।।१७२।। सुज्येष्ठायै तदाचख्युर्दास्यः साऽप्यन्यदाध्वदत् । अत्रानयत हे सख्यः1, मत्कृते चित्रपट्टकम् ॥१८०॥ चेयः कथंचिदानीय, कुमार्यास्तमदर्शयन् । साऽथ चित्रं समालोक्य,श्रेणिकायौत्सुकायत॥१८॥दासीमुखाच्च तत् ज्ञात्वा,वणिगप्येवमभ्यधात् । श्रेणिकं दिवसेज्मुष्मिनानेष्यामि सुरंगया ॥१८२॥ संकेतमिति संज्ञाप्य, सुरंगां च विधाय सः। एत्य राजगृहं शीघ्र, श्रेणिकाय शशंस तत् ।। १८३।। सोऽथ नागसुतैः सव्वें, रथस्थः सरथैः समम् । तमिश्रायां गजासस्थश्चक्रीवागात सुरंगया।३१.८४॥ तं च भूनिर्गतं वीक्ष्य, सुरूपममुरेंद्रवत् । सुज्येष्ठा चित्रसादृश्यादुपलक्ष्याभ्यमोदत ॥१८५॥ श्रेणिकः माह सुज्येष्ठे !, क्षिप्रमारोह यद्रथम् । आरुढा हृदि पूर्व तु, चित्रदृष्टाऽपि मानिनि! ॥१८६।। सुज्येष्ठां चेलणा प्रोचे, स्वसुः स्नेहात् त्वया समम् । समेष्यामि ततः सोचे, त्वमप्यारोह राग्थम् |॥१८७। तथैव कृतवत्येषा,सुज्येज्येष्ठेऽतर्गृहस्व तु । विस्मृतां च समानेतुमगाद्रलकरंडिकाम्॥१.८८।। अथैवमभ्यधुर्नत्वा,नृपतिं नाग नंदनाः । न स्थातुमुचितं नाथ !, सुचिरं वैरिवेश्मनि ॥१८॥ ततोऽसौ प्रेरयामास, रथ्यानाशु सुरंगया। तत्रायाताऽथ मुज्येष्ठा, | विवेद नृपतिं गतम् ।।१९०॥ वीक्षापनाऽथ पूचक्रे, सा यथा हियते छलात् । चेल्लणा श्रेणिकैनैषा, व्याघेणैव वरार्थिनी ॥१९१॥ संनयतं निवार्याथ, चेटकं तस्य सैन्यराट् । वीरांगकोऽन्वधाविष्ट, श्रेणिक रथमास्थितः । १९२|| क्षणाच मिलितो वीरोऽधिज्यीकृ| तशरासनः। द्वात्रिंशत्सुलसापुत्रानेकेनापीपुणाऽवधीत् ।।१९३॥ यावद् वीरांगको रथ्यान् , रथांश्चापाकरोत्पथः। तावद्राजा ययौ दूरं, अHOGODHONGIGHOGOR ॥१०॥ For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र श्रेणिकचरित्रं HOTOSSAGHOUGHOUGIGOROUGHORI रथेनासबरंहसा ॥१९॥ ततोऽसावर्धसिद्धार्थः, सेनानीविनिवृत्तवान् । भगिनी विप्रलब्धा तु, सुज्येष्ठैवं व्यचिंतयत् ॥१९५। घि| ग्धिग्विषयवांछेय, विषयाह्यति(यास्त्रि)विषा यतः। आदिमध्यावसानेषु,न कुत्रापि सुखावहाः।।१९।। उपभुक्तं सकृद्धन्याद्विषं हि विषयाः पुनः। चिंतिता अपि जीवानां, इन्युर्जन्मशतान्यपि ॥१९७॥ औत्सुक्यं प्रथमं कुर्युर्मध्ये दीप्तादिकान् रसान् । अंते बीभत्सलजादीन, स्वास्थ्यं त्वेते कदापि न॥१९८॥ शब्दादिविषयासक्तो,जनः स्वाथै कतत्परः। विश्वस्तं वत्सलं चापि, हन्यान् मां चेल्लणा यथा॥१९९॥ | तदलं दुःखदैरेमिः, परायतैर्विनश्वरैः । स्वाधीनं सुस्थिरं धर्म, ग्रहीष्यामि सुखास्पदम्।।२०।। सुज्येष्ठा भावयित्वैवं,चंदनार्यापदां|तिके । प्रव्रज्यां शिवसाम्राज्यदायिकामाददे सुधीः।।२०।-श्रेणिकोऽपि व्रजन्मार्गे,सादृश्याचेल्लणां प्रति । सुज्येष्ठे वद धीश्रेष्ठे,भाषते स्म मुहुर्मुहुः ॥२०२।। साऽप्यवोचदहं स्वामिन् !, मुज्येष्ठायाः कनीयसी । चेल्लणेत्यथ सोऽप्यूचे, खंडस्थाने सिताऽभवत् ॥२०३।। श्रेणिकः स्वपुरं गत्वा, तामुद्वाह्य प्रमोदतः। पट्टराज्ञीपदेऽकार्षीद् , दमयंती नलो यथा।।२०४॥ अथाभयकुमारेण,सहितः श्रेणिको नृपः। सुलसानागयोगेंहे, ययौ तद्बोधनेच्छया ॥२०॥ तौ तु स्वसुतवृत्तांतं, ज्ञात्वाऽऽक्रंदनतत्परौ। अभयेन वभाषाते, भारत्याऽतिगभीरया ॥२०६॥ भो भो विश्वस्थितिषेषा,यद् जातस्य ध्रुवं मृतिः। तद् विश्वविदितेऽत्रार्थे,किं शोकेन विवेकिनाम् ॥२०७॥ आकीटादासुरेन्द्राच,कृतांतस्य न कोऽप्यलम् । ततः किं क्रियते शोकः, स यत् स्वार्थविनाशकः ॥२०८।।जलाग्निव्यालचौरारिरुजाद्यार्तेऽपि भूतले । यद् जीव्यते तदाश्चर्य,निमेषमपि मानवैः ॥२०९।। किंच यः कर्ममिर्मत्योरवस्कंदः पतेत क्षणात् । यतितव्यं | तदुच्छित्यै, नतु शोच्यं विवेकिमिः ॥२१०॥ नागस्य सुलसायाश्च, कृत्वा संभाषणमिति । अभयः श्रेणिकश्चापि, निजं धाम समे-10 यतुमा२११॥ यथेष्टं श्रेणिकेनाथ, धारिणीप्रमुखास्ततः। बढ्योऽपि हि सुरूपिण्यः, परिणिन्ये नृपात्मजाः॥२१२॥ अदाच चेल्लणा- 15॥११॥ GROUGHOUGHORGRORGROHor For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र देव्याः, एकस्तंभविभूषितम् । दिव्योद्यानपरिक्षिप्त, प्रासादं देवनिर्मितम् ॥२१३॥ ततोऽसौ बुभुजे भोगस्तित्रस्थः सममेतया। वर्यान् श्रेणिक वरविमानस्थः, पुलोम्येव पुरंदरः ॥२१४॥ सोऽथ श्येनकजीवस्तु, व्यंतरत्वात् परिच्युतः। उदरे चेल्लणादेव्याः, पुत्रत्वेनोदपद्यत चरित्रं | | ॥२१॥ निदानवशतस्तसिन् , गर्भे वृद्धिमुपेयुषि । पतिमांसादने देव्या, दोहदः समजायत ॥२१६॥ न शशाक समाख्यातुं, देवी ॥१२॥ बकस्यापि तं पुनः । अपूर्णदौहदत्वेन, क्षीयते च क्षणे क्षणे ॥२१७॥ दृष्ट्वा कृशांगी तां देवीं, प्रपच्छ श्रेणिकोऽन्यदा।क्षीयसे देवि! देहेनान्वहं क्षयरुजेव किम् ? ॥२१८॥ मुमोचाश्रूणि साऽजस्रं, प्रत्यूचे नतु किंचन । ततो राजा सनिबंध, पृष्टा सा दोहदं जगौ | ॥२१९॥राजाऽऽख्यादभयायैतत् , सोऽपितं तमसि न्यधात् । तदुपर्यन्यमांसं च, राज्ञी तत्रानयत्ततः।।२२०॥ नृपस्याक्रोशतस्तस्याः, पश्यंत्या अभयस्ततः । अदात् तत्पिशितं छित्त्वा, छित्त्वा दोहदपूर्तये॥२२॥ मन्यमाना महामांसमधेती चेल्लणाऽप्यथ । ध्यायंती | | मुमुदे गर्भ, विषसाद नृपं पुनः॥२२२॥ संपूर्णदोहदा सा तु, पतिभक्ताऽप्यचिंतयत् । दोहदाल्लक्ष्यते गर्भो,नूनमेष पितुर्दुहद् ॥२२॥ | तदलं जीवितेनास्य, ततस्तीबागदान पपौ। नापप्तरसौ किंतु, पापात्मा ववृधेऽधिकम् ॥२२४|| कालेन सुषुवे मनु, तं चेट्याऽत्याजयच्च सा । अशोकवनिकां गत्वा, तं साऽशोकतलेऽत्यजत् ।।२२।। प्रत्यायांतीं नृपो वीक्ष्य, कुत्रागा इत्युवाच ताम् । साऽवोचच्चेल्लणादेव्याः, सुतं त्यक्तुमगामहम्॥२२६॥ राजाऽथ तत्र गत्वा तं,दृष्ट्वा चंद्रमिवोद्ज्ज्व लम् । पाणिभ्यां पुत्रमादाय,गत्वा देव्यंतिकेsवदना२२७॥ किमकार्षीः प्रिये ! पापं, निष्ठुरं? मुकुलोद्भवे!। न कुंडं गोकुलं चापि,व्युत्सृजत्यात्मजं स्त्रियः॥२२८॥ त्यक्ष्यस्याद्यमपत्यं चेत् , स्थेयांस्यन्यानि तन्त्र ते । तर्जयित्वेति तां राजा, स्वयं पुत्रमवर्धयत् ॥२२९।। तस्य चैकांगुली छिन्ना, तदाऽशोकतरोस्तले । कुकुटेन तदाऽसावरोदीद सकलां निशाम्।।२३०॥ पूयलिनां ततो राजा,मुखेऽझेप्सीत् तदंगुलीम् । मनाक् सुखासिकां PHOTOHOROGROGIOHORS VIIKONOKONOKONCOUCHONO!! ॥१२ For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र पालेभे, दारकोऽपि मुखोद्भवाम् ॥२३१॥ अशोकचंद्र इत्याख्यामदात्तसै नृपो मुदा । व्यधुः कूणांगुलित्वेन, कूणिकाख्यां तु बालकाः श्रेणिक ॥२३२॥ ततोऽष्टवार्षिक स्नेहात , कुमारं कूणिकं नृपः। अध्यापयत् कलाचार्याल्लिप्याद्याः सकलाः कलाः॥२३३॥ अथान्यौ चेल्लचरित्रं राणादेव्याः, पुण्यवंतौ दिवश्युतौ । सुतौ हल्लविहल्लाख्यौ, जज्ञाते गुणशालिनौ ॥२३४॥ कल्पवर्तकृते गौडमोदकान् कूणिकाय सा। ॥१३॥ पुनर्हल्लविहल्लाभ्यां, प्राहिणोत् खंडमोदकान् ।।२३६॥ प्राग्जन्ममत्सरावेशविवशः कूणिको ह्यदः। तातः कारयते सर्वमिति दध्यौ विमूढधीः ॥२३६॥ संप्राप्तयौवनं तं च, महर्द्धथा पर्यणाययत् । पद्मावत्यमिघां कन्या, पद्माक्षी नृपनंदनाम् ॥२३७॥ अन्यासामपि राझीनां श्रेणिकस्य महीपतेः। राज्यश्रीवासवेश्मानि,सूनवो बहवोऽभवन् ।।२३८॥-इतश्च श्रीमहावीरः,सर्वज्ञश्चरमो जिनः। सुरासुरनरैः Pailसेव्यः, सर्वातिशयसंयुतः ॥२३९।। सहितः साधुसिंहानां, चतुर्दशसहस्रनः। पत्रिंशद्भिश्च साध्वीनां, सहः परिवारितः॥२४०॥ Filमजन्मुग्धं भवांभोधावुद्दिधीपुरिदं जगत् । ग्रामाकरपुराकीर्णा, विहरन्नन्यदा महीम् ॥२५१ ।। वहिस्तन्नगरात्तुंगे, गिरौ वैभारनामनि। चैत्ये गुणशीलामिख्ये,भगवान् समवासरत्॥२४२॥ चतुर्भिः कलापकं ॥ ज्ञात्वा श्रीवीरमायातं, तं नंतुं त्रिजगत्पतिम् । श्रेणिक: सपरीवारो, जगाम जगतीपतिः॥२४३।। विधिवत्तत्र वंदित्वा, यथास्थानमुपाविशत् । ततो भव्यावबोधाय, जगादेवं जगद्गुरुः २४४॥ भो भो दुःखी भवारण्ये, पुण्यपाथेयवर्जितः। पाथवत् सत्पथः भ्रष्टो,बंभ्रमीत्यसुमांचिरम् ॥२४५॥ श्वभ्रेषु सहतेऽदभ्राः, कुंभीपाकादिका व्यथाः। तिर्यक्षु च्छेदवेधांकदाहदोहादिकाः पुनः ।।२४६॥ मनुष्येषु तु दौर्गत्यरोगशोकमयादिकाः। देवेष्वपि विषादेावियोगच्यवनादिकाः ॥२४७॥ सहतेऽत्र भवाटव्यां, जीवो दुःखपरंपराम् । अनंतान् पुद्गलाव निर्धर्मोऽटाख्यते पुनः | ॥२४८॥ जैनो धर्मस्तदुच्छेचा, दाता स्वाशिवसंपदाम् । आत्मनीना जना ह्येनं, श्रयध्वं शक्तितस्ततः ॥२४॥ श्रुत्वैनां देशनां KOROGOOGHOSHO ॥१३॥ For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र० भर्तुर्भूपः सम्यक्त्वमाश्रयत् । अभयाद्याः पुनर्देशविरतिं प्रतिपेदिरे॥२५०॥ नत्वा वीरं जगज्ज्येष्ठं, गुणश्रेष्ठान्मुनीनपि। आजगाम श्रेणिक- निजं धाम,श्रेणिकः सपरिच्छदः।।२५१॥ ज्ञानादित्यस्ततः स्थानाव्यहार्षीद भगवानपि। भव्यपद्मप्रबोधाय,प्रामाकरपुरादिषु॥२५२॥ चरित्रं सम्यग्दर्शनपूतात्मा, नृपतिः श्रेणिकोऽन्वहम् । त्रिसंध्यं पूजयामास, प्रतिमामाही मुदा ॥२५३॥ कारयित्वाऽथ सौवर्णान् , ॥१४॥ यवानष्टोत्तरं शतम् । स्वस्तिकं रचयामास, प्रत्यहं तत्पुरः स्वयम् ॥२५४॥-इतश्च पोतनपुरोद्याने नाम्नि मनोरमे । भगवान् समवासार्षीद् , वीरो विश्वकवत्सलः ॥२५॥ सोमचंद्रात्मजं तत्राग्रजं वल्कलचीरिणः। प्रसन्नचंद्र प्रव्राज्य, जिनो राजगृहं ययौ | ॥२५६॥ ततो नियुक्तकैः पुंमिः, द्रुतमेत्य नृपांतिकम् । अंतकातंकमुक्तस्य, वीरस्यागमनं जगे॥२५७॥ जिनागमनमाकर्ण्य, केकी| बांभोधरध्वनिम् । मुमुदे मेदिनीनाथः, श्रेणिकः शासनार्चकः।।२५८॥ ससंभ्रममथोत्थाय,रत्नसिंहासनान्नृपः। विमुच्य पादुके पद्भया| मुत्तरासंगमादधे ॥२५९॥ गत्वा पदानि सप्ताष्टौ,जिनसंमुखमंजसा। पुरःस्थमिव तत्रस्थे, स्वमूर्धा प्रणिपत्य तम्।।२६०॥ शरीरांतरसम्मांतमिव हर्ष बहिस्तनौ। बिभ्राणः पुलकव्याजात्तुष्टावेति महीपतिः॥२६१॥ स्वयंभुवे महेशायाच्युताय परमात्मने। प्रद्योतनाय बुद्धाय, श्रीवीरार्याहते नमः।।२६२।। वंदित्वेति जिनाधीशं, मगधेशो महामनाः। सिंहासनमथास्थायादिक्षत् कौटुबिकानिति॥२६३॥ | सबाह्याभ्यंतरं सर्व, भो भो राजगृहं पुरम् । श्रीखंडघुसृणांभोमिः, प्रशांतीकृतभूतलम् ॥२६४॥ दशार्धवर्णपुष्पैश्च, सर्वत्र प्रकरी कृतम् । वैजयंतीयुतकेतुध्वजराजिविराजितम् ॥२६५॥ ऊवीकृतोच्चमाणिक्यतोरणश्रेणिसुंदरम् । प्रासादद्वाःस्थमांगल्यकलशालिal समाकुलम्॥२६६॥ विचित्रोल्लोचसच्छो ,सच्छोभमौत्तिकांकितम् । चित्रकं त्वग्दुकूलाद्यैः, शोभितं हट्टशोभया।।२६७।। सुगंधधूप- | धूम्यामिर्घनोन्नतिविडंबकम् । स्थाने स्थाने समारब्धदिव्यसंगीतकान्वितम् ॥२६८॥ कुरुध्वं कारयध्वं च, सर्वमेतद् विशेषतः। PROROUGHOLOGHORGROAGO SHOROGGHOROROSHOROROमाल ॥१४॥ For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीदेवेन्द्र० श्रेणिक चरित्रं ॥१५॥ HONGKONG www.kobatirth.org येन स्वस्य परस्यापि भवभेत्री प्रभावना ॥२६९|| षद्भिः कुलकं । इत्याज्ञां नृपतेस्तेऽपि प्रतिपद्य मुदा क्षणात् । तत्सर्वं साधयामासुः, सुरेन्द्रस्येवामियोगिकाः || २७० || राजा स्नातानुलिप्तोऽथ, कृतकौतुकमंगलः । संवीतदिव्यवासस्को, दिव्याभरणभूषितः ॥ २७९॥ बंदिवृंदजयारावेष्वतुच्छेपूच्छलत्सु च । आरुरोह ततो गंधसिंधुरस्कंधमुद्धरम् ॥ २७२ ॥ युग्मं । मूर्ध्नि श्वेतातपत्रेण, प्रियमाणेन भूपतिः । राजन् चूलास्थचैत्येन, सुमेरुरिव जंगमः || २७३ || निशाकरकराकारैवज्यमानश्च चामरैः । खपत सिंधुगंगायुगू हिमाद्रेरिव रूपभूत् । २७४ || दिव्ययानाधिरूढामिर्दिव्यालंकार चारुभिः । देवीमिरिव रम्याभिर्देवीमिः परिवारितः ॥२७५॥ महाराज घटा घंटा टंकारैर्गर्ज गर्जितैः । नांदीतूर्यनिनादैश्व, पूरितांबरकंदरः || २७६|| वल्गत्तुरंगसंघातैर्हेपानिर्घोषसंकुलैः । अर्काश्वस्पर्धयेवोच्चैरुत्पतद्भिर्वृतो भृशम् ॥ २७७॥ किंकिणीकंकणकाणै, स्थानां केतुहस्तकैः । अनेकमूर्त्या नृत्यंत्या, कीर्त्तिनय्येव शोमितः॥ २७८ ॥ पदातिमिर्महायोधैर्विविधायुधपाणिमिः। राजमानः पराजय्यैर्जय श्रीस्तंभसन्निभैः ॥ २७९ ॥ एवं समग्र सामय्या, सर्व्वद्युत्याऽखिलश्रिया । भक्तिसारो जिनं नंतुं, भंमासारोऽचलन्नृपः ॥ २८० ॥ धन्योऽयमेनं यत् सर्व्वाः, शिश्रियः सर्व्वतः श्रियः । श्रेयांस्यनेन लब्धानि रोचतेऽस्मै यतो जिनः || २८१ ॥ अस्मात्प्रभावको नान्यः कीर्त्तिश्चास्य सुधोज्ज्वला । अस्मिन्नेवेदृशी भक्तिर्दृश्यते शासनं प्रति ॥ २८२ ॥ एवं प्रशंसतां बोधिहेतुतां प्राणिनां व्रजन् । निर्ययौ मध्यमध्येन, राजा राजगृहस्य तु ॥ २८३ ॥ चतुर्भिः कलापकं । अथ प्रसन्नचंद्रििश्चकीर्षुः कर्म्मणः क्षयम् । पृथुपृथ्वीशिलापृष्ठे, वैभारोपत्यकास्थिते ॥ २८४ ॥ उत्क्षिप्तैकक्रमः सूर्याभिमुखश्च भुजद्वयः । समाहितमनास्तस्थौ, कायोत्सर्गेण निश्चलः || २८५ || युग्मं ॥ नृपस्तेनाध्वना गच्छन्नादित्यातपतापतः । सर्वांगप्रक्षरत् स्वेदं, सनिर्झर मिवाचलम् || २८६ ॥ एकपादस्थितं स्थेष्टमेकपादमिवांघ्रिपम् । स्वर्गापवर्गमाक्रष्टुमिवोत्क्षिप्तभुजद्वयम् ॥ २८७॥ दृग्युद्धमिव तन्वानं पश्यंतं For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥१५॥ Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीदेवेन्द्र० श्रेणिक चरित्रं ॥१६॥ www.kobatirth.org सूर्यमंडलम् । प्रसन्नचंद्रराजर्षिं वीक्ष्योपालक्षयन्नृपः ॥ २८८ ॥ त्रिभिर्विशेषकं । उत्तीर्य हस्तिनः स्कंधात्तं नत्वा भक्तिनिर्भरः । शिरो धुन्वन् जगामाग्रे, तद्गुणग्रामरंजितः ॥ २८९ ॥ दृष्ट्वा चंद्रमिवांभोधिछत्रादीन् श्रीमदर्हतः। उल्लास भृशं राजा, श्रेणिकः परमाईतः | ॥ २९० ॥ नृराजो राजचिह्नानि, पंचाप्येतान्यथामुचत् । वाहनं मुकुटं छत्रं, कृपाणं चामरे अपि ॥ २९ ॥ ततः समवसृत्तः प्रविश्य जिननायकम् । तिस्रः प्रदक्षिणाः कृत्वा, वंदित्वा चास्तवीदिति ॥ २९२ ॥ श्रद्धया वर्धमानोऽपि, वर्धमानजिनेश्वर ।। त्वदाज्ञामुपमातीतां, कथंकारमहे स्तुवे ॥ २९३॥ कल्पद्रुमाद्यतिक्रांता, त्वदाज्ञा देव ! देहिनाम् । प्रसूते या फलैर्नित्यमिहामुत्राप्यचिंतितैः॥२९४॥ शारीरमानसासंख्यदुःख लक्षक्षयंकरी । कथं सुधासदृक्षा स्यात्वदाज्ञा शिवसौख्यदा ? || २९५ || सदोद्योता गतस्नेहा, निश्चला च निरंजना । त्वदाज्ञा जगतामीश !, नव्यदीपायते नृणाम् ॥ २९६ ॥ नयसप्तशतीचक्रा, निःशल्या चैककाष्ठिका । त्वदाज्ञा दुर्गमोक्षाध्वन्यपूर्वस्यंदनायते ॥ २९७ ॥ त्वदाज्ञैकावली चेयं, ज्ञानादिवररत्रिका । हृत्स्थयाऽपि यया जीवाः, निर्ब्रथाः स्युस्तदद्भुतम् ।। २९८ ।। कर्मारिवीर श्रीवीर, त्वदाज्ञां ये तु कुर्वते । त्रिलोक्यपि करोत्याझां तेषां सौभाग्यशालिनाम् || २९९ ॥ देवाधिदेव देवेन्द्र वृंद वंद्यपदद्वय ! | त्वदाज्ञा हृदि मे नित्यमस्तु मेरुरिव स्थिरा ॥ ३०० ॥ स्तुत्वेति विरते राज्ञि विदधे विरताग्रणीः । देशनां भव्यजंतूनां निष्कम्र्मा कर्मनाशनीम् ||३०१ || अनंतज्ञानदर्शनवीर्यानंदमयोऽप्ययम् । अनादिकर्म्मसंयोगाद्, दुःखी भ्रांतश्विरं भवी || ३०२ || ज्ञानादित्रयसंयोगाद्, वियोगो ह्यनयोर्भवेत् । खर्णाश्मनोर्यथाऽनादियुक्तयोर्वह्नियोगतः ॥ ३०३ ॥ तदिदानीमवेत्यैवं, श्रयध्वं तत्रयं जनाः ।। लमध्वं शाश्वतं तस्मात् तदनंतचतुष्टयम् ॥ ३०४|| चमत्कृतः खचितेन, प्रभोर्देशनयाऽनया । भगवंतमथो नत्वा पप्रच्छ श्रेणिको नृपः || ३०५ ॥ यदा प्रसन्नचंद्रर्षिः, ववंदे मयका तदा । कालं कुर्यात्ततः कां स, गतिमासायेद् विभो ! ॥ ३०६ ॥ खाम्बूचे सप्तमीं For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥१६॥ Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र चरित्रं ॥१७॥ श्रेणिक श्रीप्रसनचंद्र | पृथ्वी,यायाद् दध्यौ ततो नृपः। अत्युत्कृष्टतपस्कस्याप्यस्य केयं गतिर्मुनेः॥३०७॥ क्षणं स्थित्वा पुनः पृष्टे,नृपेण प्रभुरभ्यघात् । याति | सर्वार्थसिद्धिं स, विपद्येताधुना यदि ॥३०८॥ विसितो नृपतिर्नत्वा, पुनः पप्रच्छ सादरम् । स्वामिन् ! आख्याहि को हेतुः,यदियं व्याकृतिर्द्विधा ?||३०१॥ स्वाम्याख्यत्तव सैन्यस्याग्रस्थौ मुमुखदुर्मुखौ । मत्यौं तमृषिमैक्षेतां, तत्रेदं सुमुखोऽभ्यधात् ॥३१०॥ क्रमेणै केन कस्तिष्ठेत् १, कश्चैवेतार्कमंडलम् । क्षणार्हमपि तेनायमहो दुष्करकारकः ॥३११॥ दुर्मुखोऽथ स्वभावेन, दुर्मुखः सुमुखं जगौ। | राजा प्रसन्नचंद्रोऽयमद्रष्टव्यमुखः खलु ॥३१२।। प्रविजिषुणा येन, स्वराज्ये योजितः शिशुः। महनसि नृशंसेन, न्यासितस्तर्णको | यथा ॥३१३।। स्वराज्याच्च्यावितोऽमात्यैः, वातैरिव नगाच्छदम् । विदध्वंसेऽवरोधश्च, शून्यं दुग्धमिवौतुमिः।।३१४॥ इत्याकर्ण्य स राजर्षिः, स्वपुत्रस्य पराभवम् । देष्मीयमानः क्रोधेन, दध्यौ मोहबलार्दितः ॥३१५॥ धीसखानधमान घिग धिक्, कृतमान सुदुराशयान् । पराषभूवे यैर्बालो, दुर्बलो बालिशैर्मम।।३१।। ध्यायन्नेवं भृशं साक्षादिव वीक्षांबभूव तान् । मनसैव हि संनद्य, युयुधे संयतीव तैः॥३१७। हन्यमाने त्वमानौघे, कुंताकुंति शराशरि । त्वमागास्तत्र ते नंतु,स्तुत्वाऽगात् पुरतः परम्।।३१८॥ न चाज्ञायि तदा तेन,त्वमायातोऽपि भूपते। चेतनस्य हि चैतन्यमनु चित्तं महाचलम् ।।३१९॥ शरारुः कृष्णलेश्यावान् , रौद्रध्यानपरश्च सः। महातमःप्रभायोग्यस्तदाऽवर्सिष्ट दुष्टधीः॥३२०॥ त्वयि नत्वाऽऽगते त्वत्र,युध्यमानस्तथैव सः। मनसैव बहून् हत्वा, निष्ठितास्त्रोऽभवत् क्षणात्।।३२।। शेषानिहंतुमावेशात् ,शिरस्कायाक्षिपत्करम् । अशिरोज स्पृशन् शीर्षमसापीत् स पुनव्रतम्।।३२२॥ निंदित्वा बहुधाऽऽस्मानं,स्थापयित्वा पुनर्बते । महामोहादिदंभोलि,धर्मध्यानं दधार सः॥३२३॥ तेन सर्वार्थसिद्धाहः,सोऽभूत् तस्यामथो दिशि । दृष्ट्वा राद मुरसंपातं, प्रपच्छ किमिदं प्रभो। ॥३२४॥प्रभुः प्राह समुत्पेदेऽमुष्य संपति केवलम् । ततोऽस्य केवलज्ञानमहिमानं व्यधुः सुरा DeaHOUGHOIGHORORDIGO For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म श्रीप्रसन श्रीदेवेन्द्र श्रेणिकचरित्रं ॥१८॥ HOUGGGHOROUGHOROGनाम ॥३२॥ राजा राजर्षिवृत्तांतर्नितरां रेजितो जगौ। भगवन् ! केवलज्ञान,कस्मिन व्युच्छेदमेष्यति ॥३२६।। विद्युन्माली तदा देवश्चतु- देवीसमावृतः। आयातोऽस्ति जिनं नंतु,महर्द्धिर्ब्रह्मलोकतः॥३२७॥ देवोऽयं चरमो भावी,केवलीति जिनोदिते । राज्ञोचे केवलज्ञानं कथं | देवेषु जायते ॥३२८॥ भगवानभ्यधादेष,सप्तमेऽह्नि दिवश्युतः। त्वत्पुरे भविता पुत्रो,धारिण्यषभदत्तयोः॥३२९॥जंबूकमार इत्या| ख्यो,भावी चरमकेवली । नृपोऽपृच्छत् पुनः कस्माद् ,युतिमांश्यवनेऽप्ययम् ? ॥३३०॥ जगाद भगवानस्य, भवदेवादिकान् भवान् । | शिवजन्मतपोलक्ष्म्या,कांतिस्तेनेशी शुभा॥३३॥-अत्रांतरे गलत्कुष्ठी,कश्चिन्नत्वा जिनांतिके। निषद्य खांगपूयेन,लिलेप भगवत्क्रमो ॥३३२॥ तं दृष्ट्वा श्रेणिको दध्यौ, हन्म्येनं पापकारिणम् । यद्वा न युक्तमत्रेदं, हनिष्याम्यत उस्थितम् ॥३३३।। वीरेणाथ क्षुते तेन, कुष्ठिनोचे म्रियख भोः। राज्ञा तु जीव जीव्यास्त्वं, मृषीष्ठा वाऽभयेन तु ॥३३४।। कालसौकरिकेणाथो, मा जीवीर्मा नियख वा । श्रुत्वा स्वामिन् म्रियस्वेति, चुकोप श्रेणिकोऽधिकम् ।।३३५॥ भटान् भ्रूसंज्ञयाऽऽदिक्षल्लातेनं निर्गतं बहिः। जगबंधोर्जिनस्यैवं, | यः पराशातनापरः ॥३३६।। अथ कुष्ठी जिनं नत्वा, चचाल लुलितालकः । योधास्तमन्वधावंत, सावधाना उदायुधाः ॥३३७।। | देवरूपमयं कृत्वोत्पपात गगनाध्वना । सत्रपाः पत्तयस्तेऽपि, व्यावृत्त्याख्यन्नृपाय तत् ॥३३८॥ किमेतदिति संभ्रांतः, प्रणिपत्य महीपतिः । प्रभु पप्रच्छ विश्वेश !, कुष्ठी कोऽसौ ? निवेद्यताम् ॥३३९॥ भगवानप्युवाचैवं, वत्सदेशेऽस्ति पूर्वरा। कौशांबीति नृपस्तस्या, शतानीको महाबलः ॥३४०।। तत्र सेडुबको नाम, द्विजो दारिद्रयविद्वतः। सोऽन्तर्वन्याऽन्यदा पत्न्या, प्रोचेऽर्पय घृता दिकम् ॥३४१॥ तेनोचे नास्ति मे किंचित् , तद्विज्ञानं वचस्विनि ।। येनानुरंजितो दद्यादाता घृतगुडादिकम्।।३४२।। तयोक्तं भज जा राजानं, स दद्यायेन संपदम् । सिषेवे स ततो भूपं, नित्यं पुष्पफलादिमिः ॥३४॥ जगदे सोऽन्यदा राज्ञा, किं ते विप्र ! प्रदी लनGOx ॥१८॥ For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दर्दुराकदेवा श्रीदेवेन्द्र० श्रेणिकचरित्रं ॥१९॥ यताम् । प्रार्थयिष्ये प्रियां पृष्ट्वेत्याख्याद् विप्रोऽपि पार्थिवम् ॥३४४॥ ततोऽसौ खगृहे गत्वेत्युचे मेऽद्य महीपतिः।परितुष्टः प्रदत्ते तत् , कमर्थं प्रार्थये प्रिये ॥३४५।। मा प्राहाग्रासने भुक्ति, दीनारं दक्षिणाकृते । याचस्व भूपति भद्रोत्सारकं च दिने दिने ॥३४६॥ गत्वा तद्याचितं तेन,राबाऽपि तत् प्रतिश्रुतम् । उदंकः पतितोऽप्यब्धौ, बिभर्ति स्वोचितं जलम् ॥३४७॥ प्रत्यहं तस्य तत्सर्व, कुर्वतं वीक्ष्य भूपतिम् । सामंताद्यास्ततो दध्युः, पूज्योऽयं राजवल्लभः।।३४८॥ ततोऽभोज्यत तैीतैर्दक्षिणां ग्राह्यते स सः । वात्वा वात्वा | द्विजो लोभादबोभोजीद् गृहे गृहे ।।३४९॥ ववृधे स्वल्पकालेन,ततः सेडुबको द्विजः । ऋद्ध्या महत्या पुत्रादिसंतत्या च प्रभूतया ॥३५०॥ रसेपूर्धमथो यात्म, तस्याजायत कुष्ठरुक् । दुःसाध्योऽभूच्च स ब्याधिर्वैरीवोपेक्षितः क्रमात् ।।३५१॥ शतानीकस्य भूपस्य, तथैवाग्रासनासिनम् । तं गलत्कृष्ठिनं वीक्ष्यामात्या भूपं व्यजिन्नपन् ॥३५२॥ स्वामिन्नस्य पदे कोऽपि, पुत्रादिः स्थाप्यतां ननु । | संक्रांतिर्जायते व्याधेर्येनैकवासनादिना ॥३५३।। एवमस्त्विति राज्ञोक्ते, विप्रः प्रोक्तः स मंत्रिमिः । भोक्ष्यतेऽत्र सुतस्ते तु, तिष्ठेस्त्वं स्वीयवेश्मनि ॥३५॥ रोगेऽतिप्रसृते तस्य, तत्पुत्रैखपया ततः । कृत्वा कुटीरकं गेहाद, बहिस्तत्र स आस्थत ॥३५५॥ तस्य तत्र स्थितस्यादुर वारेण तत्स्नुषाः। दारुपात्रे सुदूरस्थाः, श्वपाकस्येव भोजनम् ॥३५६॥ सोऽथ दध्यौ सुतादीनां , कुपितोऽवज्ञया तया। मत्तः श्रियैव मत्ताना,दर्शयाम्यथ तत्फलम् ॥३५७॥ ध्यात्वेत्यूचे स तान् मोक्ष्ये,प्राणान् किंतु मुमुर्गुणा । मंत्रपूतः पशु|र्देयः, स्वेभ्य एष कुलक्रमः ॥३५८॥ मुदितैस्तैः पशुः क्षिप्रं, तस्यार्थ्यत ततोऽगकात् । उद्बोद्वर्त्य तद्भक्ष्ये, चिक्षेपोद्वर्तनीर्द्विजः | ॥३५९।। तद्भक्षणादसौ जज्ञेऽचिरेणाजोऽपि कुष्ठिकः । हत्वा तमन्यदा सोऽदात् ,स्वेभ्यस्तं तेऽप्यभुंजत ॥३६०॥ तीर्थे स्वार्थाय | गच्छामीत्यापृच्छय तनयानसौ । शरण्यमिव मन्वानोऽरण्यानीमुन्मुखोऽगमत् ॥३६१।। भ्राम्यनुदन्ययाऽपश्यमदं नानाद्रुमैवृतम् । पाGOOHOROHORORSRO ॥१९॥ For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I श्रीदेवेन्द्र श्रेणिकचरित्रं ॥२०॥ पत्रादिपाकसंपर्कात , काथवत्तत्पयः पपौ॥३६॥ तृपानों वैद्यवाचेव,सोऽपादंभो यथा यथा । तथा तथा विरेकोऽभूदस्योग्रक्रमिमिःवदर्दरीकदेवः समम्॥३६३।। स नीरुक् तेन संवृत्तो, व्यावृत्त्यागात् पुरीं निजाम् । पौरः पृष्टोऽब्रवीचाहं,नीरुक् देवतया कृतः॥३६४|| गृहे गतः | स्वपुत्रादीन , मक्षिकाकोटिवेष्टितान् । निकृष्टकुष्ठनष्टांगान ,दृष्ट्वाऽभाषिष्ट दुष्टधीः।।३६५।। पापिष्ठाः सुष्ठु दृष्टं भो,मदवज्ञा फलेग्रहि। | फलमेतत् ततः पुत्रास्तमूचुः किं त्वया कृतम् ॥३६६॥ स साहान्यस्य कस्पेक्,शक्तिस्तस्मै ततोऽशपत् । लोकः सर्वोऽपि सोऽथागाद्, राजन्नत्र पुरे क्रमात् ॥३६७॥ वृत्ति द्वारं स शिश्राय, द्वारपालं निराश्रयः । द्वाःस्थोऽथागात् ममानंतुं,कृत्वा तु द्वाररक्षकम्।।३६८॥ द्वारस्थो द्वारदुग्णां , बलिः सेडुबकोऽधिकम् । चखाद ग्रीष्मसंतापात् वृषा तस्याभवद् भृशम्॥३६९|| द्वारपालभयाद् द्वारं, नात्याक्षीत् तृषितोऽप्यसौ। धन्यान् वारिचरान् जीवान् , मन्यमानो व्यपद्यत ॥३७०।। सोऽत्रैव नगरद्वारवाप्याम ननि दर्दुरः। भूयोऽत्र समवासार्मो, विहरतोऽन्यदा नृप! ॥३७१।। अमदागमनं श्रुत्वा, भेकोऽम्भोहारिणीमुखात् । ऊहापोहं वितन्वानो, जातिस्मरणमाप सः॥३७२।। अचिंतयत् स भेकः प्राक्, द्वारे द्वाःस्थो विमुच्य माम्। ययौ यं वंदितुं वीरं, स आगाद् भगवानिह ॥३७३।। तं नत्वा तद्गिरः श्रुत्वा, ग्रहीष्ये जन्मनः फलम् । ततो मां वंदितुं भन्योत्प्लुत्योत्प्लुत्य चचाल सः ॥३७४॥ पथ्यागच्छंस्त्वदश्वेन, खु| रेणाक्रम्य मारितः। दर्दुरांकेषु देवेषु, महर्द्वित्रिदशोऽभवत् ॥३७५।। विडोजसाऽन्यदा राजन्नाचचक्षे स्वपर्षदि । श्रेणिको नैव | चाल्येत, जिनभक्तेः सुरैरपि ॥३७६।। तदश्रद्धालुस्तत्रागात् ,स देवः कुष्ठिरूपभूत् । गोशीर्षण ममासिंचच्चरणौ रसिका न सा ।।३७७॥16 | राज्ञा पृष्टो म्रियस्वेत्याद्यर्थ प्रभुरथावदत् । अर्हन्मृत्वा शिवं गच्छ, म्रियस्वेति शुभं ह्यदः ॥३७८॥ त्वं च जीवन सुखेनासि, मृतस्तु २०॥ | नरकं गमी। जीवन सुखी मृतः स्वर्ग, गमीत्युक्तो द्विधाऽभयः ॥३७९॥ कालशौकरिकस्त्वेष, जीवन् पापपरायणः । मृतः श्वनं GOOGHOROROजान For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र० श्रेणिकचरित्रं ॥२१॥ HOUGHGHOSHOGHOIGHT गमी तेन, द्विधाऽपि प्रतिषेधितः॥३८०॥ मृतस्त्वं नरके याता, सर्वज्ञोक्तमिदं वचः। आकर्ण्य कर्णकटुकं, बभाषे भूपतिः प्रभुमा ॥३८१॥ भवत्सु विश्वविश्वस्य, शिवतातिषु सत्वपि। स्वामिन्नस्वामिकस्येव, कथं मे गतिरीदृशी ? ॥३८२॥ प्रभुः प्राह दृढं बद्ध, नाभावादि पुराऽऽयुर्नरके त्वया । अस्माभिरपि तत्कर्म,नान्यथा कर्तुमीश्यते॥३८३॥ किंतु तस्मात् समुद्धत्य, भाविन्यामर्हतामिह । चतुर्विशतिकायां त्वं, प्रथमस्तीर्थनायकः ॥३८४॥ पद्मनाभामिधस्तुल्यो, मानवर्णादिना मम । भावी भवांतकृद्राजन् 1, विषादं तेन मा कृथाः ॥३८५।। युग्मं ॥ श्रुत्वेति श्रुतिपीयूषपूरकल्पं ततोऽभवत् । हर्षप्रकर्षादुत्फुल्लपंकजाक्षः क्षितीश्वरः ॥३८६॥ प्रभु प्रणम्य भू| योऽपि, पपय स्वच्छधीरसौ । उपायः कश्चिदस्तीश, न यायां येन तां गतिम् ।।३८७॥ स्वाम्यूचे कपिला भिक्षा, साधुभ्यो दाप्यते त्वया। त्याज्यते शौनिकोऽयं चेच्छूना श्वभ्रे गतिर्न ते॥३८८॥ इत्यस्तशंसयो वीरं, प्रणम्य स्वपुरं प्रति । प्राचालीदचलानाथो, राजन राज्यश्रिया तया॥३८९॥ द१रांकः स देवोऽथ, विशामीशं परीक्षितुम् । सम्यक्त्वं निश्चलं नेति,विचक्रे विक्रियामिमाम्।।३९०॥आना-1 येन मुनिर्मीनानाकर्षन्नृपतेर्नदात्। तेनादर्शि यथाऽन्यस्य, पृथग् धर्मान्मनो भवेत् ॥३९॥ नृपस्तु निश्चलो धर्मे, तं निवार्य पुरे | ययौ। आसनप्रसवा साध्वी,पुनर्देवेन दर्शिता॥३९२॥ संगोप्यैनां स्वयं राजाऽरक्षत् शासनलाघवम् । त्रिलोक्याऽपि न चाल्योऽयं, नाकिनेति सुनिश्चितम् ॥३९३।। प्रत्यक्षीभूय तं प्राह, सुमनाः सुमना इति । शक्रोऽशंसत् सदस्थोऽनुश्रेणिकं शुद्धदृष्टयः ॥३९४॥ |स्थिरभक्तिस्तथैवासि, सम्यक् सर्वत्रशासने । इत्युक्त्वा गोलको हारं, दत्त्वा देवो दिवं ययौ ॥३९५।। अयमेवार्थः सविशेषो निशी-10 थेऽप्युक्तः, तथाहि-रायगिहे सेणिओ राया, तस्स देविंदो संमं सम्मत्तं पसंसइ, इको देवो असद्दहंतो नगरवाहिं सेणियस्स पुरओ चेल्लगरूवेणं अणिमेसे गिण्हइ,तं निवारेइ,पुणो वाहडियसंजइवेसेण पुरओ ठिओ, अप्पसारिनेऊण उव्वरए पसे(च्याइ)ऊण धरिया, For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीदेवेन्द्र० श्रेणिक चरित्रं ॥२२॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तच्छेव निकेइया, संजइसव्वपरिकम्माणि करेह, मा उड्डाहो भविस्सइ, सो य गोमंडयसरिसगंध विउव्वर, तहावि न विपरिणामह, देवो तुट्ठो, दिव्वं देविडिं दाइत्ता उववूहह"त्ति ॥ गृहे गत्वा ददौ हारं, चेल्लणायै नृपोऽथ तम् । नंदायै गोलकौ ताभ्यां निर्ययौ | कुंडलांशुकम् ।। ३९३ ।। राजाऽथ कपिलामूचे, साधुस्त्वं प्रतिलंभय । तुभ्यं रामीप्सितं द्रव्यं, निग्रहीष्येऽन्यथा ध्रुवम् ॥ ३९७॥ साऽवोचद्यदि कुव्र्वथा, मां सर्ववर्णदेहिकाम् । तिलशः खंडयेर्वाऽदः, करिष्ये न कथंचन ||३९८ || कालशौकरिकोऽप्येवमुक्तः पशून् न चामुचत् । राज्ञा सोऽक्षेपि साक्षेपं, निर्जलेऽधौ जडाशयः || ३९९ ।। तत्र पंचशतीं कृत्वा सोऽवधीन् मृन्मयान् महान् । रज्जुबद्धघटीवासौ दिनमेकं ततो धृतः || ४००|| द्वितीयेऽह्नि नृपो गत्वा, प्रभुं नत्वा व्यजिज्ञपत् । शूनां स शौनिकः कल्पे, व्यमोचि ? भगवन् ! मया ||४०१ || स्वाम्युवाचांतरालस्यः, सोऽवधीन् मनसाऽप्यमून् । अवश्यं भाविनो भावा, न भवत्यन्यथा नृप ! | ||४०२ || प्रभुं नत्वा स्ववेश्मागादनेकाः शासनोन्नतीः । अकार्षीत् सुचिरं राजा, व्यहार्षीत् प्रभुरन्यतः ॥४०३ ॥ शौनिकेनान्वहं तेन, महपंचशतीं नता । सप्तमपृथिवीयोग्यं, कर्मोपार्जि यदुत्कटम् ||४०४|| उपमृत्यु तदायातमसंमादिव संमुखम् । तेन तस्य रुजोऽभूवन् भूयस्यो युगपत्तन ॥ ४०५ || स संर्वागीणयाऽऽक्रांतः, क्षुत्तृषाऽऽतोऽपि पीडया । नाश्नन्नपाच्च दीनास्योऽरारख्यत दिवानिशम् ||४८६ ॥ हा मातम्रियते तात !, हाहेत्यादि सुभैरवम् । आचक्रन्द यथाऽन्येऽपि श्रुत्वाऽऽकंदान् भयार्दिताः||४०७॥ सोऽथ तूली सितामाल्यपंचाली वेणुमुख्यजे । रतिं कुत्रापि न प्राप, विषयैः सुंदरैरपि ॥ ४०८ ॥ तत्पुत्रः सुलसस्तस्य, प्रतिकारं यथा यथा । व्यधादथ व्यथाऽत्यर्थं वर्धते स्म तथा तथा ॥ ४०९ ॥ एतत्तेनातिभीतेन, भाविभद्रेण भाषितम् । अभयस्य स्फुरत्प्रौढमनीषोन्मेषशालिनः ||४१०|| अभयोऽप्यभ्यधाद् भद्र !, त्वत्पिता सप्तमावनिम् । यास्यत्यवश्यं तल्लेश्या, पश्य तस्येयमागता ॥ ४११ ।। प्रतीपान्विषया For Private and Personal Use Only कालशौकरिकः ||२२|| Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुलसः श्राद्धः श्रीदेवेन्द्र० नस्य, कुर्यास्त्वं सुखहेतवे । तथा कृतेऽथ तेनासौ, मनाक् मेने मुखासिकाम् ॥४१२॥ अहो अंहःसमूहस्य, कीदृशं हंत दृश्यते । श्राणक विजृमितं भवेत्रापि,सुलसो ध्यायतीत्यथ।।४१३।। कालसौकरिको मृत्वा, सप्तम्यां नरकावनौ । नारकः सोऽप्रतिष्ठानेज्जायतोत्कृचरित्रं | ष्टदुःखभाक् ॥४१॥ सुलसश्चान्यदाप्रोचे,खजनैर्जीविकाकृते । त्वयाऽधिष्ठीयतां मंक्षु, क्रमायातं पितुः पदम्।।४१५॥ सोऽवादीन न ॥२३॥ ग्रहीयेऽदः, पदमत्युग्रपापकृत् । चक्षुष्मान् जीविताकांक्षी, कोऽपि कूपे पतेत् किमु ॥४१॥ मम पित्राऽनुभूतं यद्विस्मृतं तद् द्रुतं ननु । दृष्ट्वैतदपि यत् पापाद्, युष्मामिन विरम्यते ॥४१७।। खाद्यखादकतैवात्र, न पापमिति तेऽभ्यधुः । सुलसः साह तन्मृत्योर्विभीयेत किमात्ममिः॥४१८॥यथाऽऽत्मनः प्रियाः प्राणास्तथाऽन्यस्य विदनिति। आत्मनीनोजनो हन्यात् ,कथं जी| वान् सुखप्रियान् ॥४१९॥ स्वार्थैकनिष्ठास्ते प्रोचुर्यत् स्यात् ते पापमत्र तत् । वयमेव ग्रहीष्यामः, संविभज्य पृथक् पृथक्।।४२०॥ | किंचैकमहिषस्कंध,छिंद्यास्त्वं शितपथुना । छेत्स्यामो वयमन्येषां तत्वेहोऽपि न तादृशम् ॥४२॥ सुलसोऽपि निजान् बोद्ध, बुद्धि धाम निजक्रमम् । अकुंठेन कुठारेण, निजघान सुनिष्ठुरम्।।४२२॥क्षणात्तस्य क्षते तत्र,व्यथाऽत्यर्थमभूदथ। सोऽवोचत्तान् विभज्ये| मां, गृह्णीत स्नेहलालसाः ॥४२३।। ऊचुस्ते शक्यते तात !, जातु लातुं प्रियैरपि। पीडाऽल्पाऽपि परस्यांगे, किं कस्यापि हि कोविद ! ॥४२४||सुलसस्तानुवाचैवं,यूयं जानीथ यद्यदः। सुतरां तन्न शक्येत, ग्रहीतुं कस्यचिद् व्यथा||४२५॥ देही दोयमानोगे, दर्भेणापि हि दारितः। तत् कथं शस्यते शस्त्रैर्भवद्भिीरुको मवी।।४२६॥ एकथोत्पद्यते प्राणी, विपद्यतेक एव हि । एका पुण्यात् स्वरेत्येकः,पतेत् पापातु दुर्गतिम्॥४२७॥ अनित्यं सर्वजीवानां,यौवनं जीवितं धनम् । ज्ञात्वाऽर्हद्धर्म एवेह, कार्यः शाश्वतसौख्यदः॥४२८॥ सुलसः जाखजनानेवमनुशिष्य विमृश्यकृत् । भूयो भूयोऽभयाभ्यणे, धम्म॑ शुश्राव शुद्धधीः ॥४२९॥ सम्यक् सम्यक्त्वपूतात्मा, दधार गृह-l DADOOGHOROROO SHOROIGHOGHORGIGHAGगाज ॥२३॥ For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र० श्रेणिकचरित्रं ॥२४॥ PHONO भOHOROUGHOROUG.. | मेषिताम् । धन्यंमन्यो दृढधा, कर्ममर्मप्रमर्दनः॥४३०॥ कुलायातामपि त्यक्त्वा, हिंसा रौद्ररुजामिव । सुलसः साविक श्रेष्ठो, शाकाष्ठहारिविपद्य त्रिदिवं ययौ ॥४३॥-उद्याने समवासार्षीत् ,पुरे राजगृहेऽन्यदा । मुनिपंचशतीयुक्तः, सुधा गणभृद्वरः ॥४३२॥ वंदितुं कथा तत्पदद्वंद, सर्वा श्रेणिको नृपः । शासनोत्सर्पणामिच्छन्नगच्छत् सपरिच्छदः।।४३३॥ नानायानसमारूढस्तथाऽन्योऽपि पुरीजनः । भक्तिसंभारसंजातरांमांचोच्छुसितांगकः ॥५३४॥ एवं प्रभावनां प्रेक्ष्य, तत्रैकः काष्ठभारिकः। गत्वा तत्र गुरुं नत्वाऽौषीद धर्ममिमं यथा ॥४३५।। जंतुधातो मृषास्तेयमबह्म च परिग्रहः। भो भो भव्या विमुच्यतां, पंचैते पापहेतवः ।।४३६॥ इत्याकर्ण्य नरेंद्राद्या,पर्षनत्वा गृहेऽगमत् । द्रमकः स तु तत्रैव, स्वार्थार्थी तस्थिवान् स्थिरः॥४३७।। गुरुस्तमूचे चित्तज्ञचिंतितं हि सोऽब्रवीद् । | जानामि यदि वः पादान् , वरिवस्यामि सर्वदा।।४३८॥ ततः प्रव्राज्य तं सद्यो, गुरवः कृतयोगिनः । अर्पयामासुराचार, शिक्षया| मासुराशु ते ॥४३९॥ तं गीतार्थयुतं मिक्षाचर्यायामन्यदा गतम् । प्रागवस्थाविदः पौराः, प्रेक्ष्य प्रोचुरहंयवः ।।४४०॥ अहो महर्धे स्त्यक्ताऽयं, महासच्चो महामुनिः। इति वक्रोक्तितः खिड्गैरुपाहस्थत सोऽन्वहम् ॥४४१।। ततोऽसौ शैक्षकत्वातं, परीषहमसासहिः। | सुधर्मस्वामिना प्रोचेऽनूचानेन वचस्विना।।४४२।। संयमे किं समाधानमस्ति ते सुष्टु ? सोऽभ्यघात् । अस्ति युष्मत्प्रसादात्तु, विहारोऽन्यत्र चेद् भवेत्॥४४३॥ विधास्यते समाधान,वत्सेत्युक्त्वा गुरुस्ततः । अभयस्यागतस्याख्याद्विहारो नो भविष्यति ।।४४४|| अभयः साह नः करमादकस्माद् द्रुतमीदृशः । अप्रसादोऽथ तेत्रोचुर्मुनेरस्य परीषहः।।४४५।। अभयोऽप्यभ्यधादेकं, दिवसं स्थीयतां प्रभो!। निवर्तेत न चेदेष, न स्थातव्यं ततः परम्॥४४६॥ एवमस्त्विति सूर्युक्तोऽभयोऽयैत्य नृपांगणे। रनकोटित्रयीं कृष्ट्वा,राशित्रयमकारयत् । ॥२४॥ ॥४४७।। तुष्टो राजा ददात्युच्चै रनकोटित्रयीं जनाः। गृहीतैनां यथेष्टं तु, पटहेनेत्यघोषयत् ।।४४८॥ ततोऽमिलद् द्रुतं लोको, For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीदेवेन्द्र० श्रेणिक चरित्रं ॥२५॥ भक www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोभः सोमयेन तु । बभाषे गृह्यतामेषा, रत्नकोटित्रयी मुधा || ४४९ ॥ युष्माभिः खगृहे गत्वाऽनया किंतु गृहीतया । यावज्जीवं विमोक्तव्यं, जलमग्निः स्त्रियस्तथा ||४५०॥ इत्याकर्ण्य जनास्तूर्णमुत्कर्णास्तद् जिघृक्षवः । विभ्यतो निश्रलास्तस्थुः सिंहनादं मृगा इव || ४५५ || अभयोऽप्यभ्यधात् कस्माद्, विलंबस्तेऽप्यदोऽवदन् । लोकोत्तरमिदं लोकः, किं कश्चित्कर्तुमीश्वरः १॥ ४५२ ॥ सोऽवदन् मुनिना तेन त्रीण्यप्येतानि तत्यजे । तत् कुतो हसतैवं तमतिदुष्करकारकम् ||४५३|| न जानीमो वयं स्वामिंस्तस्वर्षेः सवमीदृशम् । तमृषिं मर्षयिष्यामस्तदिदानीं महामते ||४५४ || अभयेन समं गत्वा, श्रीमंतस्ते प्रणम्य तम् । महर्षिं क्षमयामासुः, स्वापराधं मुहुर्मुहुः ||४५५ ॥ - सभासीनोऽन्यदा राजा, जगादास्मिन् पुरे जनाः ! सांप्रतं सर्वपण्येभ्यः समर्धं किमु लभ्यते १ ।। ४५६ ।। ततः समस्तसामंत मंत्रिमुख्या बभाषिरे । समघं जांगलं देवेत्यभयोsस्थाच मौनभृत् ॥ ४५७|| दक्षः क्षितिपतिः प्रोचेऽभय ! त्वं किं न भाषसे । सम्यग्विचित्य वक्ष्येऽहमित्युवाचाभयः सुधीः ॥ ४५८ ॥ अंतरंतः पुरस्याथ, द्वितीयेऽहून्यभयो नृपम् । प्रच्छन्नं स्थापयामास, प्रख्याप्यापाटवं तनोः ||४५९ ॥ चिकित्सा क्रियतेऽत्यर्थे, प्रकाश्येति ततोऽमयः । शिक्षयित्वा नरं प्रैषीद्, वेश्मन्येकस्य मंत्रिणः || ४६० ।। तेनापि कृतसन्मानः, स राजपुरुषोऽवदत् । वरमंत्रिन् ! सुवैद्योक्त भैषज्यार्थमिहागमम्।। ४६१ ।। मंत्र्यप्यूचे समादेशो, दीयतामथ सोऽवदत् । खकालेयकमांसस्य, यवमात्रं समय || ४६२ || इत्याकर्ण्य वचो भीष्मं स मंत्री मृत्युभीलुकः । कृतांजलिपुटः प्रोचे, रक्ष मां राजवल्लभ |||४६३ ।। गृहाण भूयसीः स्वर्णकोटीर्जीवितदायक !। किं चान्येऽपि च तिष्ठति, सामंतसचिवादयः ||४६४।। सोऽपि तस्योपरोधेन वचो मेनेऽग्रहीच ताः । एवमन्यान्यसामंतमंत्रिभ्यः खर्णमाददे || ४६५ || मेलयित्वा बहु स्वर्णमायत् सोऽभयाय तत् । पुंजीचकार तत् सर्व, सोऽपि राजगृहांगणे ॥ ४६६ ॥ द्वितीयदिवसेऽकस्मात् किल कल्योऽभवन्नृपः । निष- ॥२५॥ For Private and Personal Use Only प्रजाGONGHORROR जांगल - समघेता Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir है श्रीदेवेन्द्र० श्रेणिकचरित्रं ॥२६॥ जांगलसमर्धता HOROUGHOROGGRORORORG | साद यथास्थाने, मंगल्यानि च जज्ञिरे ॥४६७॥ स्वर्णराशिमथोत्तुंगं, मेरोः शृंगमिवामलम् । वीक्ष्य क्षोणीपतिः प्रोचेभयं किमिद मीक्ष्यते ॥४६८॥ विस्फुरत्कांतदंतांशुश्रेणिः श्रेणिकसूर्जगौ । ननु कैलाशशैलोऽयं, मांगल्यार्थमिहागमत् ॥४६९॥ राजा जगाद किं कोऽपि, त्वयाऽलुट्यत पत्तने । अभयः साह सर्वत्र, देव ! सम्यग् निरूप्यताम् ॥४७०॥ नृपोऽप्युवाच पर्याप्त, वक्रोच्या सुनृतं | बद । सोऽप्याख्यात्पिशितं स्वामिन् , समर्पमिति मन्यताम्॥४७१॥ किं किमेतत् नृपेणोक्ते, सोऽपि सर्व निवेद्य तत् । ऊचे यतस्त| तस्तेन, नोच्यते तात! धीमता॥४७२॥ सामंतादीस्ततः प्रोचेऽभयो भूताभयप्रदः। आकर्णयत तत्रार्थे,सकाः खलु निर्णयम् | ॥४७३॥ प्राणैः समं यथा भेदं, जानतोऽप्यात्मनः किल । स्वप्राणा दुस्त्यजास्तद्वदन्यस्य सुतरां पुनः॥४७॥ तद् भो अतिमहाघ हि, खमांसं त्रिजगत्यपि । तेऽप्यूचूः सत्यमेवैतद्वचस्ते धीनिधेऽभय॥४७॥ एवं प्रभावयन्नर्हच्छासनं चंडशासनः। श्रेणिकोऽभयसंयुक्तश्चिरं साम्राज्यमन्वशात् ॥४७६॥-अभयं श्रेणिकोऽन्येयुः, प्रोचे राज्यं त्वमाश्रय । श्रीवीरचरणांभोज, श्रयिष्येऽहं द्विरेफवत् ॥४७७॥ पितृभक्तो भवाद् भीरु विभद्रोऽभयोऽभ्यधात् । यदादिशथ तत् साधु, प्रतीक्षख क्षणं पुनः ॥४७८॥ प्रव्रजिष्यति राजानस्त्यक्त्वा राज्यं कियचिरम् । अभयः संदिदेहवं, शुद्धात्मवुद्धिसेवधिः ॥४७१।। इतश्च श्रीमहावीरः, प्रव्राज्योदायनं नृपः । मरुमंडलतस्तत्राम्यागत्य समवासरत् ॥४८०॥ दिष्ट्याऽद्य भगवानागात् , संशयोच्छेदहेतवे । ममैव केवलस्थायमिति हृष्टोऽभय| स्ततः॥४८१॥ तत्र गत्वाऽऽशु वंदित्वा, पप्रच्छ परमेश्वरम् । राजर्षिः कोऽतिमोऽथाख्यत् ,स्वामी नृपमुदायनम् ॥४८२॥ भगवंतं, ततो नत्वाऽभ्येत्य श्रेणिकसन्निधौ ।प्रोचे प्रणम्य पर्याप्तं,मम राज्येन सर्वथा।।३८३॥ तात! नाम्नाऽभयोऽहं तु,सभयः स्वामिवाक्यतः। | यदि राजा ततो नर्षिरित्याचख्यौ जगद्गुरुः ॥४८४॥ तात! त्वदंगजस्यापि, शिरःस्थे त्रिजगत्पतौ। प्रव्रज्या यदि मे न स्वान्, GOOGLoka For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र श्रेणिकचरित्रं पा२७॥ चेल्लणांतपुरदाहाचा HONOHOROROIDIOGHOGO मत्तः कोऽन्योऽधमस्ततः ॥४८५॥ तदलं मम राज्येन, व्रतविनकता ततः । राजोचे मामनापृच्छथ, प्रबाजीर्मा कदापि हि॥४८६॥ मेने तदा पितुर्वाक्य, प्रविब्रजिषुरप्यसौ। उत्सुका अपि धीमंतो, गुर्वाज्ञां खंडयंति न ॥४८७॥ शीत वन्यदा राजाऽपराले चेल्लणायुतः । कारिवीरं श्रीवीरं, वंदितुं विधिवद्ययौ ॥४८८॥ वंदित्वा श्रीमदहतं, वलितौ तौ तु दंपती । जलोपाते ददृशतुः, | श्रमणं प्रतिमास्थितम् ॥ ४८९॥ अमावृतं च तं शीतपरीषहसहं मुनिम् । तौ दंपती ववंदाते, सपद्युत्तीर्य वाहनात् ।।४९०॥ तं क्षमा श्रमणं भक्त्या, सह पत्ल्या महीपतिः। वंदित्वा स्वं ययौ गेह, पुण्यवार्ता प्रपञ्चयन् ।।४९१॥ निर्दग्धागुरुकर्पूरधूपे भूमिपतिनिशि। | आगारेऽवसदानंदप्रदे चेल्लणया सह ॥४९२॥ निद्रायां चेल्लणादेव्याः, प्रच्छदात् पाणिपल्लवः । बहिबभूव शीता, जजागाराशु | चेल्लणा ॥४९३॥ तदा चाप्रावृतांगं तं, महर्षि प्रतिमास्थितम् । स्मृत्वोवाचेदृशे शीते. स कथं हा भविष्यति ॥४४॥ साऽऽस|साद पुनर्निद्रा, तथैव सरलाशया । प्रबुद्धस्तद् वचः श्रुत्वा, चिंतयामास भूपतिः ॥४९॥ नूनमस्य मनस्यन्यो, यदेवमनुशोचति । एवमीग्रॅकुलस्यास्य, सा रात्रिर्जाग्रतो ययौ ॥४९६॥ अंतरंतःपुरं गंतु, प्रातरादिश्य चेल्लणाम् । आहूयाभयमित्यूचे, श्रेणिकस्तीव्र शासनः ॥४९७॥ ज्ञातमंतःपुरं रेऽद्य, दुराचारेण दूषितम् । तत् सर्व ज्वाल्यतां मा भूर्मातृमोहादनीदृशः॥४९८॥ इत्यादिश्याभयं राजा, स्वामिनं वंदितुं ययौ। अभयो मंत्रयांचक्रे, मनीषी मनसा सह ॥४९९॥ सतीमतल्लिकाः सर्वा, मातरो मे स्वभावतः। तास्वहं सर्वदा भक्तस्ताताज्ञा पुनरीदृशी ।।५००॥ तदापि चित्रमुत्पाद्य,कालक्षेपः करिष्यते । मन्ये मत्कार्यसिद्धिव,प्रस्तावेऽत्र भवेद्यदि | ॥२०१॥ जीर्णा करिकुटीमंतःपुरपार्थेऽभयस्ततः । ज्वालयामास निर्दग्धः, शुद्धांत इति घोषयन् ॥५०२॥ इतश्च श्रेणिकोऽपृच्छत् , समये परमेश्वरम् । एकपत्नी किमनेकपनी वा चेल्लणा प्रभो! ॥५०॥ स्वाम्याख्यद् धर्मपत्नीयमेकपत्नी महासती। मा शंकिष्ठा KayakairOKORORORIERCHO ॥२७॥ For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर श्रीदेवेन्द्र श्रेणिकचरित्रं ॥२८॥ स्त्व मस्यास्तद् ,वचस्तत्साधुगोचरम् ॥५०४॥ इदं च श्रेणिकः श्रुत्वा, पश्चात्तापमुपागतः। सपदि स्वामिनं नस्वा, प्रतस्थे स पुरं प्रति अभयदीक्षा 2॥५०॥ तथा प्रदीपनं कृत्वाऽभ्यायांतं चाभयं नृपः। अपृच्छदस्मदादेशो, भवता किमनुष्ठितः ॥५०६॥ अभयोऽप्यभ्यधा भीत, इव नत्वा कृतांजलिः। स्वाम्यादेशोऽपरस्यापि, प्रमाणं किं पुनर्मम।।५०७॥ राजा प्रोवाच रे पाप!, दग्ध्वा मातृजनं निजम् । जीवसि त्वं किमद्यापि ?, किं नापप्तः प्रदीपने ॥५०८।। स माह समयं ज्ञात्वा,यद्येवं देव ! देहि मे । आदेशं यद्विशाम्यद्य,भावानौ दुःख| दाहके ।।५०९॥ एवमस्त्विति राज्ञोक्ते, स वृत्तांतमचीकथत् । हृष्टो राजाऽस्य सत्यागश्चक्रे निष्क्रमणोत्सवम् ।।५१०॥ ततः श्रीवीर| पादांते, नांदेयो नंदया सह । प्रव्रज्यां परिजग्राह, सुधीः स्वार्थाय सत्वरः ॥५१५।। अधीत्यैकादशांगानि, पालयित्वा चिरं | व्रतम् । विपद्य विजये जज्ञे, देवोऽनुत्तरनाम।।१२।। ततश्युत्वा विदेहेत्पद्य दीक्षा ग्रहीष्यति । केवलज्ञानमासाद्य, स सिद्धिपदमेष्यति ॥५१३।। श्रेणिकस्तु निजं राज्यं, शून्यं मेने विनाऽभयात् । देवराजो दिवो राज्यमिव वाचस्पति विना ।।२१४॥ मुमंगलभवे श्येनमुनिपारणभंजकं । द्वेषीव छिद्रमासाद्य, डुडौके कर्म तस्य तत् ॥५१५।। कालाद्यैर्दशमिः सार्ध, मंत्रयित्वा विमाजैः। | कूणिकः श्रेणिकं गुप्तौ, चिक्षेप प्रागनिदानतः ॥५१६।। ततो राज्यमधिष्ठाय, चर्मयष्ट्या स निष्ठुरान् । प्रहारानन्वहं दुष्टः, पितुः | पंच शतान्यदात् ।।१७।। अन्नपाननिरोधं च, कारयामास यामिकैः। तस्यांतरायिकं कर्म,सारयन्निव विस्मृतम् ।।५१८॥ श्रेणिको यामिकानूचे,करात्मा कूणिकोऽधिकम् । रौद्रमूर्तिर्यदाऽभ्येति तदा शंसेत मे द्रुतम्।।५५ ।। शतायुसुरया केशानायित्वाऽथ चेल्लणा। |मापपिंडी तदंतस्था, कृत्वा गत्वा नृपांतिके ॥५२०॥ अभोजयन्नृपं माषान् , धावित्वा कबरीपयः । अपाययच्च येन स्यात् , घातान् | ailmer सोद्धं क्षमस्तकान् ।।५२१॥ कूणिकस्य नरेन्द्रस्य, अंजानस्थान्यदा मुदा । देवीपद्मावतीजात, उदायीनामनंदनः ॥५२२॥ अंकस्थोऽ-al PHORONGEORGROIORDROजान For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आक्रष्टुं श्रेणिक गुप्तेर्भक्त्वा तव निंदनभ्युदस्थाद् द्राक्ष, ममतस्तस्य कृतमेन,सुप्रत्युपतको श्रीदेवेन्द्र० मूत्रयत् स्थाले, त्यक्त्वाऽनं मूत्रमिश्रितम् । तथैव चुभुजे राजाऽपश्यन् मातृमुखं मुहुः॥५२३॥वभाषेऽम्बां च विश्वेऽस्मिन्नान्यस्यापि श्रेणिकमरणं श्रेणिक हि कस्यचित् । प्रियः पुत्रो ममेवास्ति, ततस्तं चेल्लणाऽब्रवीत् ॥५२४॥ रे रे मर्त्यब्रुवोऽसि त्वं, किमेवं स्वं प्रशंससि । पितुः प्रियो || कौणिकचरित्रं यथाऽभूस्त्वं, तादृगन्यो न कस्यचित् ॥५२॥ यः स्वास्ये शैशवेऽक्षैप्सीत् , पूक्लिन्नां तवांगुलिम् । पितुस्तस्य कृतभेन,सुप्रत्युपकृतं गतिः ॥२॥ | त्वया ॥५२६॥ श्रुत्वा मातृमुखादात्मोत्पत्तिं मातमुखोऽथ सः। स्वं निंदनभ्युदस्थाद् द्राक, मुमुक्षुः पितरं निजम् ।।५२७|| दधावे रंहसोद्यम्य, लोहदंडं कृतांतवत् । आक्रष्टुं श्रेणिकं गुप्तेर्भक्त्वा तत्काष्ठपंजरम् ॥५२८॥ प्रेक्ष्य प्राहरिकर्मा, शशंसे श्रेणिकाय सः।। विद्युदंड इवासद्यः, स्वामिनायाति ते सुतः ॥५२९॥ मारयिष्यति मामेव, दुरात्मा कृतना(हा)ग्रणीः। विडंब्येति नृपो ध्यात्वा | प्राशीत्ताल पुटं विषम् ॥५३०। प्राग्वद्धायुष्कतायोगाद्विपद्य श्रेणिकस्ततः। प्रथमप्रस्तटे रत्नप्रभायां नारकोऽभवत् ॥५३॥ पराशुं श्रेणिकं प्रेक्ष्य, तत्रायातोऽथ कूणिकः । आक्रंदन कारयामास,श्रेणिकस्सौलदेहिकम् ॥५३२॥ मंत्रिमिर्विप्रलब्धोऽथ,सशोकः कूणिको नृपः। पिंडपातादिकार्येषु, पितृयै प्रवर्तितः।।५३३॥ निवेश्य सोऽन्यदा चंपा,त्रिखंडेशोऽन्यदा विभुम् । पप्रच्छाविरतश्चक्री, मृत्वा| कैति ? प्रभुर्जगौ ॥५३४॥ सप्तमे नरके सोऽथ, प्रोचे काहं गमी विभुः । षष्ठे इत्यवदद्यत्वं, न चतुर्दशरत्नभृत् ॥५३॥ सोऽथ | कूटानि रत्नानि, कृत्वा वैताढ्यमासदत् । तमित्रे स हतः षष्ठं, नरकं कूणिकोऽगमत् ॥५३६॥ उदायीनृपतिर्जजे, तता, कूणिकराद् सुतः । चंपापुर्या प्रचंडाज्ञस्त्रिखंडभरताधिपः ॥५३७॥ सोऽन्यदा पाटलीपुत्रं, कृत्वा तत्र कृतस्थितिः । जिनधर्मोद्यतः प्राज्यं, al साम्राज्यं सुचिरं व्यधात् ॥५३८॥ श्रीवीरं पुर्यपापायां, निर्वाणसमयेऽन्यदा । मंडलेशः पुण्यपालो,नत्वाऽपाक्षीदिदं यथा ॥५३९॥ प्रश्नश्चायं यथाऽभाणि, प्रभुश्रीहेमसूरिभिः । तथैव लिख्यतेऽसामिस्तद्वचः कस्य ने मतम् । ॥५४०॥ स्वामिन् ! खप्ना मया- २९॥ HORNSTOHOTOROLotoGROSC: पOHIGHGROIGOROROO For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र श्रेणिकचरित्रं ॥३०॥ पुण्यपालखप्नाः गाजHOROGGHORS चाष्टौ, दृष्टास्तत्र गजः१ कपिः । क्षीरदुः३ काक४ सिंहा न६ बीज७ कुंभा इमे क्रमात् ॥२४१॥ तथाऽऽख्याहि फलं तेषां, भीतोऽस्मि भगवन्नहम् । इति पृष्टो जगनाथो,व्याचकारेति तत्फलम् ॥५४२॥ विवेकवतो भूत्वाऽपि,हस्तितुल्या अतः परम् । वत्स्यंति | श्रावका लुब्धाः, क्षणकर्पिसुखे गृहे ॥२४३॥ न दौस्थ्येऽन्यस्खचक्रे वा, प्रव्रजिष्यंत्युपस्थिते । आत्तामपि परिव्रज्या, त्यक्ष्यति च कुसंगतः ॥५४४॥ विरलाः पालयिष्यंति, कुसंगेऽपि व्रतं खलु । इदं मजस्वप्नफलं, कपिस्वप्नफलं त्वदः॥५४५॥ प्रायः कपिसमा लोलपरिणामाल्पसत्त्वकाः । आचार्यमुख्या गच्छस्थाः, प्रमादं गामिनो व्रते ॥५४६॥ ते विपर्यासयिष्यंति, धर्मस्थानितरानपि।भाविनो विरला एव, धर्मोद्योगपराः पुनः ॥४७॥ धर्मश्लथेषु ये शिक्षा प्रदास्यन्त्यप्रमादिनः। ते तैरुपहसिम्यन्ते, ग्राम्यग्रामस्थ पौरवत् ।।५४८॥ इत्थं प्रवचनावज्ञाऽतः परं हि भविष्यति । प्लवंगमस्वप्नफलमिदं जानीहि पार्थिव ॥२४९॥ क्षीरद्रुतुल्याः सुक्षेत्रे, दातारः शासनार्चकाः। श्रावकास्ते तु रोट्यन्ते, लिङ्गिमिर्वञ्चनापरैः॥५५०॥ तेषां च प्रतिभास्वंति, सिंहसवभृतोऽपि हि । महर्षयः | सारमेया, इवासारमतिस्पृशाम्।।५५१॥ आदास्ते सुविहितविहारक्षेत्रपद्धतिम् । लिङ्गिनो बम्बूलसमाः,क्षीदुफलमीदृशम् ॥५५२॥ | धृष्टस्वभावा मुनयः, प्रायो धर्मार्थिनोऽपि हि । रस्यन्ते नहि गच्छेषु, दीर्घिकांभाविव द्विकाः ॥५५३॥ ततोऽन्यगच्छिकैः सूरिप्रमुशाखेवेचनापरैः। मृगतृष्णानिभैः सार्ध, चलिष्यन्ति जडाशयाः॥५५४॥ न युक्तमेभिर्गमनमिति तत्रोपदेशकान् । बाधयिष्यन्ते नितां| तं, काकखप्नफलं ह्यदः॥५५॥ सिंहतुल्यं जिनमतं, जातिस्भृत्यादिसुस्थितम् । विपत्स्यतेऽसिन् भरतावनौ धर्मज्ञवर्जिते ।।१५६॥ न कुतीर्थिकतिर्यचोमिभविष्यंति जातुचित् । खोत्पत्रकृमिवत् किंतु, लिंगिनोऽशुद्धबुद्धयः ॥५५७|| लिंगिनोऽपि प्राक् प्रभावाच,छ्वापदाभैः कुतीथिकैः । न जात्वमिभविष्यंति,सिंहखप्नफलं ह्यदः॥५५८॥अन्नाकरेष्वंबुजानि,सुगंधानीव देहिनः। धर्मिका गजल:Gzakoi: 18 ॥३०॥ For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagersuri Gyanmar श्रीदेवेन्द्र न्यायः न भविष्यति,संजाताः सुकुलेष्वपि।।५५९॥ अपि धर्मपरा भृत्वा,भविष्यति कुसंगतः। ग्रामावकरकोत्पन्नगईभाजवदन्यथा।।५६०॥ श्रेणिकचरित्रं बाकुदेशे कुकुले जाता, धर्मस्था अपि भाविनः। हीना इत्यनुपादेयाः, पद्यस्वप्नफलं बदः॥५६॥ यथा फलायाबीजानि, कर्पुबुद्ध्वो | बापरे वपेत् । तथा वप्यंत्यकल्प्यानि, कुपात्रे कल्प्यबुद्धितः॥५६॥ यद्वा धुणाक्षरन्यायाद्यथा कोऽपि कृषीवलः। अबीजांतर्गतं बीजं, | वपेत् क्षेत्र निराशयः॥५६३।। अकल्प्यांतर्गत कल्प्यमज्ञाताः श्रावकास्तथा। पात्रे दानं करिष्यति, बीजखमफलं ह्यदः ॥५६४॥ लाक्षमादिगुणपद्यांकाः, सुचरित्रांबुपूरिताः । रहःस्था भाविनः कुंभा, इव स्तोका महर्षयमा५६॥ श्लथाचारचरित्राब,कलशा मलिना इव । यत्र तत्र भविष्यति, बहवो लिंगिनः पुनः ॥५६६॥ समत्सराः करिष्यंति, कलहं ते महर्षिमिः । उभयेषामपि तेषां, साम्यं लोके भविष्यति ॥५६७॥ गीतार्था लिंगिनश्च स्युः, साम्येन व्यवहारिणः । जनेन ग्रथिलेनेवाग्रथिलोऽभूद्यथा नृपः॥५६८॥ तथा | हि पृथिवीपुर्या, पूर्णो नाम महीपतिः। सुबुद्धिस्तस्य चामात्यो, निधानं बुद्धिसंपदः ।।५६९|| कालं तेनागमिष्यंत, पृष्टोऽन्येयुः सुबुद्धिना । लोकदेवामिधोऽनेन, नैमित्तिकवरोऽवदत् ॥५७०॥ मासादनंतरं मेघो, वर्षिता तद्जलं पुनः। यः पास्यति स सर्वोऽपि, ग्रहग्रस्तो भविष्यति ॥५७१॥ कियत्यपि गते काले, सुवृष्टिश्च भविष्यति । पुनः सजा भविष्यंति, तत्पयःपानतो जनाः ॥५७२॥ राज्ञो मंत्री तदाचख्यौ, राजाऽप्यानकताडनात् । आख्यापयद् जने वारिसंग्रहार्थमथादिशत् ॥५७३॥ लोकोऽपि हि तथा चक्रे, |ववर्षोक्ते हि चांबुदः।कियत्यपि गते काले, संग्रहीतांबु निष्ठितम् ।।५७४॥ अक्षीणसंग्रहांभस्को, राजामात्यौ तु तो विना। नवांबु | लोकाः सामंतप्रमुखाश्च पपुस्ततः ॥५७५॥ तत्पानाद् अथिलाः सर्वे, ननृवर्जहसुर्जगुः। स्वैरं चिचेष्टिरेऽन्यच्च, विना तौ राजमंत्रिणी ||५७६॥ जनाः सर्वे सामंताद्या, ननृतुर्जहसुर्जगुः । स्वैरं चिचेष्टिरेऽन्यच्च, विना तौ राजमंत्रिणौ ॥५७७॥ राजामात्यैर्बिसहयो, RCISGHOKOIGHORRORONOR KOROLOGकाजाला ॥३१॥ For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाविखरूपं श्रीदेवेन्द्र श्रेणिकचरित्र ॥३२॥ | सामंताद्या निरीक्ष्य तौ। मंत्रयांचक्रिरे नूनं, अथिली राजमंत्रिणौ ॥५७८॥ असद्विलक्षणाचाराविमकावपसार्य तत् । अपरौ खापयिष्यामः, स्वोचितौ राजमंत्रिणौ ॥५७९॥ मंत्री ज्ञात्वेति तन्मंत्र, नृपायाख्यान्नृपोऽवदत् । आत्मरक्षा कथं कार्या, तेभ्यो वृंदं हि राजवत् ॥५८०॥ मंत्र्यूचे प्रथिलीभूय, स्थातव्यं अथिलैः सह । त्राणोपायो न कोऽप्यन्य, इदं हि समयोचितम् ॥५८१॥ कृत्रि| माथिलीभूय, ततस्तौ राजमंत्रिणौ। तेषां मध्ये ववृताते, रक्षतौ निजसंपदम् ॥५८२॥ ततः सुसमये जाते, शुभवृष्टौ नवोदके। | पीते सर्वेऽभवन् स्वस्था, मूलप्रकृतिधारिणः ॥५८३॥ एवं च दुष्षमाकाले, गीतार्था लिंगिमिः सह । सहशीभूय वत्यैति, भाविखसमयेच्छवः ॥२८४॥ इति श्रुत्वा स्वप्नफलं, पुण्यपालो महामनाः। प्रबुद्धःप्रावजचत्र, क्रमान् मोक्षमियाय च।।५८५॥ अथेन्द्रभृतिः श्रीवीरं, नत्वाऽप्राक्षीत् कृतांजलिः । एष्यत्कालखरूपं तु, शलाकापुरुषान्वितम् ॥५८६॥ स्वाम्युवाच गतैः पक्षनवत्या मम | निवृतेः । प्रवर्त्यति तथैकोनैः, पंचमो दुषमारकः ॥५८७॥ तथांते केवलं भावि, मनिर्वाणाच्च गौतमे । द्वादशाब्दास्ततोऽप्यष्टौ, | | वत्सराणि सुधर्मणः ॥५८८॥ भावी तस्स विनेयस्तु, जंबुश्वरमकेवली । वत्सराणि चतुश्चत्वारिंशतं सर्वविचभृत्।।५८९।। व्युच्छेत्स्यत्यत्र चैतानि, दश स्थानानि तद्यथा। आहारकपुलाकाख्ये,द्वे लब्धी परमावधिः॥१९॥ क्षपकोपशमश्रेण्यौ, मनःपर्यवकेवलौ। संयमत्रिकर्मत्यं च, जिनकल्पमहोदयौ ॥५९१॥ भाविनः षट् प्रभवाद्याः, श्रुतकेवलिनः क्रमात् । अत्र चांत्या चतुष्पुर्बी, स्थूलभद्रेऽतमेष्यति।। ९२२महाप्राणं च संस्थानमाद्यसंहननं तथा । मम मोक्षाद् गते वर्षशते सप्ततिसंयुते ॥५१३।। महागिरिसुहस्त्याद्या, भूरयः सूरयस्ततः । गणभृद्वज्रपर्यंता, भाविनो दशपूर्विणः॥५९४॥ दशपूर्ध्या व्यवच्छेदस्तुर्यसंहननस्य च । षोडशाब्दोनषड्वर्षशत्या तत्र भविष्यति।।२९५।। दशवर्षशतांतेऽतो, भावी पूर्वगतस्य तु । क्रमादेकादशांग्याच,समं छेदश्रुतेन तु॥२९॥पंचमासोत्तरे GOOGGCRORDनाल ॥३२॥ For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीदेवेन्द्र० श्रेणिक चरित्रं ॥३३॥ RTO ONG www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऽप्यष्टाविंशत्यन्दयुतेषु च । मम मोक्षाद् गतेष्वब्दशतेष्वेकोनविंशतौ ।। १७।। भावी म्लेच्छकुले राजा, विष्टौ चैत्राष्टमीदिने । त्रिनामा पाटलीपुत्रे, कल्की रुद्रश्चतुर्मुखः || ५९८ || मथुरापुरि कृष्णस्य, तदा देवकुलं महत् । अकस्मात् पवनोद्भूतं, जीर्णद्रुवत् पतियति || ५९९ || दुर्भिक्षडमरावृष्टिचौरेतिभयविह्वलाः । भविष्यंति जनास्तस्मिन् नृपे क्रूरतराशये ॥ ६०० ॥ कौमारेऽष्टादशाब्दानि तावत्येव च दिग्जये । ततो निष्कंटकं राज्यं, कल्किनो हि भविष्यति ||३०|| नंदस्य सोऽन्यदा स्तूपान्, पंच प्रेक्ष्यातिलोलुपः । खानयित्वा च तान् सर्वान् भूरि स्वर्ण ग्रहीष्यति ॥ ६०२ || धनाय यावत् सर्वस्मिन् खन्यमानेऽथ तत्पुरे । गौः पाषाणमयी देवादुत्थास्यति चतुष्पथे || ६०३ || घट्टयिष्यति सा साधून्, व्रजतस्तेन वर्त्मना । जलोपसर्गमासनं ज्ञास्यंति स्थविरास्ततः । ६०४ || ज्ञात्वेति केचिदन्यत्र, विहरिष्यति साधवः । स्थास्यंत्यन्ये तु तत्रैव, पानान्नादिषु गृभवः ||६०५ || सर्वे पाखंडिनोऽन्येद्युः, कल्किना याचिताः करम् । ददुर्यथार्थितं तस्मै, ते यस्मात् सपरिग्रहाः ||६०६ || साधवोऽप्यर्थितास्तेनाभ्यधुर्धर्म्मधना वयम् । धर्मलाभं विना राजन् ! दद्मः किं तेऽन्यदुत्तमम् १ || ६०७ ॥ पुराणेषूदितं किंच, पालयन् व्रतपालकान् । साधूंस्तत्पुण्यषष्ठांशभाजनं भूपतिभवेत् || ६०८ || दुष्कर्म्मणस्तदस्मात् त्वं, विरम क्षेममर्दनात् । एवमुक्तेऽपि तैरेप, भावी भृकुटिभीषणः ||६०९ || पूर्देवता ततोऽवक्ष्यत्, रे रे किं त्वं मुमूर्षसि १ । कल्किन्नकिंचनान् पूज्यान्, यदेवं याचसे यतीन् ॥ ६१० ॥ भीतस्ततो मुनीनेष, क्षमयित्वा विमोक्ष्यति । अथोत्पाता भविष्यंति, नगरक्षयसूचकाः ||६११॥ तत्र सप्तदशाहानि, वर्षिष्यति घनस्ततः । उद्धृत्य तत्पुरं गंगाप्रवाहः लावयिष्यति ॥ ६१२|| तत्र प्रातिपदः सूरिः, संघलोकोऽपि कोऽपि च । स्थाने स्थास्यति कल्की च, पुरलोकोऽपि कश्चन । ६१.३ ।। निवृत्ते च पयःपूरे, करिष्यति नवं पुरम् । नंदद्रव्येण तेनोच्चैः, कल्की केतुरिवोत्कटः ।। ६१४|| भविष्यंति जिनौकांसि, चरिष्यंति For Private and Personal Use Only कल्कि वृत्तं ॥३३॥ Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टा कल्किवृत्तं श्रीदेवेन्द्र श्रेणिकचरित्रं ॥३४॥ जाजHOROLGHOROGG महर्षयः। सुमिक्षं भावि पंचाशद्वत्सराणि निरंतरं ॥६१५॥ अथासन्नमृतिः कल्की, लिंगानि त्याजयिष्यति । सपत्राकृतिपात्रं च, | करिष्यति कुलिंगिनः ॥६१६।। क्षिप्वा प्रातिपदाचार्य, ससंघं वृषवाटके । मार्गयिष्यति भिक्षायाः, षष्ठभागं स दुष्टधीः ॥६१७॥ संघः शक्रं समाराद्धं, कायोत्सर्ग विधास्यति । कृतविप्राकृतिः क्षिप्रं, ततः सोऽत्रैत्य वक्ष्यति।।६१८| कलिकन्नरौत्सीः किं साधुन् , | कल्कपंकाकलंकितान् ? । स वक्ष्यति न मे रांति, मिक्षाषष्ठांशमप्यमी॥६१९॥ शक्रो भाषिष्यते नेते, किंचिद्दास्यंति निर्ममाः। तन् मुंचामून् द्रुतं नत्वा, भाव्यनर्थस्तु तेऽन्यथा ॥६२०॥ जल्पिष्यत्यथ जल्पाकः, कल्की कुप्यन्नरे भटाः!। अपसारयत क्षिप्रं, विप्रं धृत्वा गले दृढम्॥६२१॥ ततः शक्रोऽपि सक्रोधः, कल्किनं कल्कमंदिरम् । चपेटामुत्कटो दवा,द्राग् भस्मसात् करिष्यति॥२२॥ | आयुः संपूर्य राजाऽसौ, पडशीतिसमास्ततः । भविष्यति दुरंतायां, नारको नरकावनौ ॥३२३।। दत्ताख्यं कल्किना पुत्रं, विधाय परमाईतम् । स्थापयित्वा च तद्राज्ये,संघं नत्वा गमी हरिः॥६२४॥ दत्तो धम्मैकचित्तोऽथ,पितुः पापफलं सरन् । करिष्यति मही | मेनां, जिनायतनमंडिताम् ॥३२॥ जितशत्रुयथाख्यातस्तत्पुत्रो भविता नृपः । तस्यापि चौघघोषाख्यो, जिनसाधुकृतार्चनः | ॥६२६॥ भविताऽन्यान्यभूपानां, यावद् विमलवाहनः । भविता दुष्षमारांते, तावद् धर्मश्च संततम् ॥६२७॥ इदं च भरतक्षेत्रमहत्काले पुराऽभवत् । ग्रामारामपुराकीर्ण ,श्रिया खर्लोकसन्निभम् ॥६२८।। ग्रामा नगरवद्रम्याः,स्वापुराणीव तानि तु । कुटुंबिनो नृपौपम्या, नृपास्तु धनदोपमाः।।६२९॥ आचार्याश्चंद्रमस्तुल्याः, पितरो देवतानिभाः। जननीजनकश्वश्रूश्वशुरा जनका इव।।६३०॥ सत्यशौचार्जवक्षांतिविनयादिगुणान्वितः । सुशीलः मुकुलीनश्च, राजन्वांश्च जनस्तदा ॥३३॥ कालो यथा यथा गामी, दुष्पमाal यामतः परम् । निर्धर्मस्त्यक्तमर्यादो, भावी लोकस्तदा तदा ॥ ६३२ ॥ मिथ्यात्वमोहितमतिर्दयादाक्षिण्यवर्जितः। अविनीतो जापलालाakal मारीत ग्रामा नगरवानीजनकवा यथा यथा गाम अविनीतो | ॥३२॥ For Private and Personal use only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi रूपं श्रीदेवेन्द्रराजनः क्रूरः, कृतमय भविष्यति ॥६३३।। ग्रामाः पितृवनप्रायाः, पुराणि प्रेतलोकवत् । कुटुंबिनोतिभृत्याश्च, कृतिप्रतिमा नृपाःभाविकालश्रेणिक ॥६३४॥ लुब्धा लास्यंति निष्पीब्य, द्रव्यमेते नियोगिनः । तेऽपि लोकांस्ततो भावी, तिर्मितिमिगिलक्रमः ॥६३५।। चौराश्चौर्येण चरित्रं लुट्यंति, भूम्या भूमिभुजः करैः । देशांश्चांदोलयिष्यंति, वातोद्धृतबहित्रवत्।।६३६॥ पितॄन् देवान् गुरूनापि,मानयिष्यंति मानवाः। ॥३५॥ न प्रत्यक्षीभविष्यंति, देवा देव्यो यथा तथा ॥६३७॥ मनोवाक्कायकौटिल्यात् , स्नुषाः स्युः सर्पिणीसमाः। कालरात्रिसमाःश्वश्रूस्ताः प्रति क्रूरकर्ममिः ॥३३८॥ विलासैहसनैषैः, कटावक्रभाषणैः । गणिका इव निर्लज्जा, भविष्यंति कुलस्त्रियः ॥६३९॥ विरोधो भविता भूयान् , जने खाईंकतत्परे । धर्मकर्माप्रमादश्च, बहुजीवाकुला च भूः ॥६४०।। कूटक्रयतुलामानैर्जनो विश्वस्तघातकः । धर्मोऽपि भविता शौचमविश्वासः सुहृत्स्वपि ॥६४१॥ अकाले वर्षिता काले, न वर्षिष्यति वारिदः । सजना भाविनो | दुःस्था, दुर्जनाः सुस्थिताः पुनः॥६४२।। ज्ञानश्रद्धानविज्ञानध्यानधर्मधनायुषाम् । मणिमंत्रौषधादीनां, फलपुष्परसौजसाम्।।६४३॥ गात्रोच्चत्वस्य रूपस्य, क्रमाद्धानिर्भविष्यति । अन्येषामपि भावानां, शुभानां पंचमे हरे ॥३४४॥ षष्ठेऽधिकतरा त्वेवं, ज्ञात्वा यो धर्मकर्मणि । समुद्यस्यति तस्यैव, सफलं जन्म जीवितम् ॥१४॥ सुधर्माद्या भविष्यंत्याचार्या दुष्प्रसहातिमाः । युगप्रधान| ताभाजो, द्वौ सहस्रौ चतुयुतौ ॥६४६॥ मूरिर्दुष्प्रसहो नाम, फल्गुश्रीश्च प्रवर्तिनी । श्रावको नायलाभिख्या, सत्यश्रीश्राविका तथा ३४७।। संघोऽयं भरते भावी,राजा विमलवाहनः। धीसखः सुमुखश्चांत्योऽवसपिण्यां हि गौतमः ॥६४८॥ तदारतस्तु यः कश्चिद् , धर्मो नास्तीति वक्ष्यति। संघेन गुणसंघेन, स कार्यः संघतो बहिः॥६४९।। सोऽथ दुष्प्रसहः स्वर्गात ,च्युतो द्वादशवार्षिकः । प्रत्र| जिष्यति तस्याष्टी, समास्तु भविता व्रतम् ॥६५०॥ नंदीमावश्यकं चानुयोगद्वाराण्यसौ तथा । दशवैकालिकं जीतकल्पं चाध्येष्यते ॥३५॥ SHASHIGHAGHOGHOKGRO GookORROROMOUSKON For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीदेवेन्द्र० श्रेणिक चरित्रं ॥३६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुधीः ||६५१॥ स चतुर्दशपूर्बीव, तीर्थस्यास्य प्रवर्त्तकः । शक्रेणार्चिष्यतेऽभीक्ष्णं, लोकपालैश्च भक्तितः ॥ ६५२ || हस्तद्वयोच्छ्रितं गाश्रमायुर्विंशतिवत्सरी । तपश्च पष्ठमुत्कृष्टं, संघस्यास्य भविष्यति || ६५३ || दुष्षमांते स आचार्यो, विपद्याष्टमभक्तभृत् । सौधर्मे त्रिदशो भावी, विमाने सागरामिधे || ६५४ || च्युत्वा तस्मादसौ प्राप्य, भरतेऽत्र मनुष्यताम् । चारित्रं निरतीचारमाचर्य शिवमेष्यति ||६५५||धर्म्मस्याद्ये यमे छेदस्तत्राचार्ये दिवंगते । राजधर्म्मस्य मध्याह्ने, पराहेऽप्रेर्भविष्यति ।। ६५६ ।। इत्युक्ता दुष्षमा वर्षसहस्राण्येकविंशतिः । श्रूयतां गौतमेदानीं तावत्येवातिदुष्षमा || ६५७॥ नष्टे धर्मादिके भावी, हाहाभूतो भयानकः। कालः षष्ठारके मातृपुत्रादिस्थितिवर्जितः ||६५८ || वास्यति वायवोऽनिष्टाः, परुषाः पांशुवर्षिणः । दिवानिशं दिशो धूमायिष्यंते भीषणात्मिकाः ।। ३५९ ।। | अतिशीतं शशी स्रक्ष्यत्यादित्याश्चातितप्स्यति । शीतवातातपक्लांतो, जनोऽतिक्लेशमाप्स्यति ||६३०|| वर्षिष्यंते तदाऽत्यर्थ, क्षाराम्लाख्या घनाघनाः । विषाग्निविद्युदाख्याथ, स्वखनामानुसारि कम् ।। ६३१ ।। येन स्पृष्टेन पीतेन, जनानां भाविनो घनाः। शिरोऽर्त्तिश्वासशूलार्थः कासश्वासादयो गदाः ||६६२|| तृणगुल्मलतादीनां भविष्यति ततः क्षयः । नृतिर्यंचो भविष्यंति, तथा सर्वेऽपि दुःखि ताः ॥ ६६३ ।। वैतान्यर्षभकूटाद्री, गंगासिंधू च निम्नगे । मुक्त्वाऽन्यद् गिरिगर्त्तादि, भविष्यति समं समम् ।। ६६४ || भस्मरूपा तदा भूमिर्मुर्मुरांगारसन्निमा । कदाचित्कर्द्दमाकीर्णा, कदाचिद् वह्निदुर्गमा || ६६५ || विद्यते चोपवैताढ्यं, गंगासिंधोस्तटे तटे । बिलानि नव सर्वाणि द्वियुक्ता सप्ततिस्ततः ॥ ६६६ ।। तत्र स्थास्यति ते मर्त्याः, कुवर्णाः कर्कशोक्तयः । क्रोधनाश्व कुसंस्थाना, एकहस्तसमुच्छ्रयाः ||६६७ || निर्वस्त्रा नित्रपाः क्रूरा, नरा नार्यश्च भाविनः । विंशत्यब्दी नृणामायुः स्त्रीणां पोडशवत्सरी ॥६६८ ॥ तदाऽतिदुःखप्रसवा, षड्वर्षोदरिणी तथा । अनेकपुत्रपौत्रा स्त्री, वृंद्धा षोडशवार्षिकी ।। ६६९ ।। मांसासिनो मनुष्यास्ते, निष्कृपा निर्विवेककाः । For Private and Personal Use Only भाव्युत्सर्पिणी ॥३६॥ Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीदेवेन्द्र० श्रेणिकचरित्रं ॥३७॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीजमात्रं तु तियंचस्तदा तत्रैव भाविनः || ६७० || गंगासिंधुसरित्तोयं, तदा रथपथप्रमम् । प्रवक्ष्यति तथा मत्स्यनक्रचक्रकूलाकुलम् ||६७१|| रात्रौ तत्रैत्य मत्स्यादीन्, कष्ट्वा मोक्ष्यंति ते स्थले । दिवार्कतापपक्कांस्तान्, भोक्ष्यते च निशांतरे ॥ ६७२॥ ते कृत्वेत्यघमेष्यति, तिर्यक्षु नरकेषु च । षष्ठोऽरो भवितेत्यब्दसहस्राण्येकविंशतिम् ||६७३ ॥ यादृशाववसर्पिण्यावंत्योपांत्याविभावरौ । तावतौ तादृशावुत्सपिण्यामाद्यद्वितीयकौ ||६७४ ॥ तत्र प्रथमकारांते, पंचाप्येते घनाघनाः । सप्त सप्त दिनान्यत्र, वर्षिष्यंति पृथक् पृथक्। । ६७५ ।। ते च पुष्करदुग्धाज्यपीयूषरसनामकाः । भूशैत्यधान्यसुस्नेहौषधीरसविधायिनः ||६७६ ॥ द्रुमौपघिलतादीनि, निरीक्ष्य बिलवासिनः । निर्यास्यंति विलेभ्यस्ते, हृष्टा गुप्तिगृहादिव ॥ ६७७॥ वक्ष्यंतीतः परं मांसं न भक्ष्यं यस्तु भक्षिता । स त्याज्योऽन्त्यजयच्चेति, करिष्यंति व्यवस्थितिम् || ६७८ || कालो यथा यथा गामी, वर्धिष्यंते तथा तथा । वपुःशक्तिसुखायूंषि, धनधान्यादिकानि च ॥ ६७ ॥ यादृक्षे भरतेऽमुष्मिन्, कालस्तादृक्ष एव हि । अन्येषु भरतेष्वैश्वतेष्वपि च सर्वदा || ६८० ॥ ततः कुलकराः सप्त, दुष्पमतिऽत्र भारते । भाविनो गौतमैतेषामाद्यो विमलवाहनः ॥ ६८१ ॥ द्वैतीयीकः सुदासाख्यस्तृतीयः संगमामिधः । तुर्यः सुपार्श्वनामा च, पंचमो दत्तनामकः॥ ६८२ ॥ षष्ठस्तु सुमुखामिख्यः, संमुचिश्चेति सप्तमः । पूर्वोऽमीषां पुनर्भावी, जातजातिस्मृतिः स तु ॥ ६८३ || संग्रहीष्यति हस्त्यादीन् ग्रामादीन् रचयिष्यति । नीतिशिल्पकलादींश्च, प्रजानां दर्शयिष्यति ॥ ६८४|| इत्युक्तं दुष्पमादीनां स्वरूपं तव गौतम ! शलाकापुरुषानेवं, भाविनस्त्वधुना शृणु ॥ ६८५॥ सप्ताब्दपंचमास्यां चतुरशीतौ च गौतम ।। वत्सराणां सहस्रेषु गतेषु मम निर्वृतेः ॥ ६८६ ॥ उत्सर्पिण्यास्तृतीयारे, भविष्यत्या गतेष्विह । सार्घेष्वष्टसु मासेषु त्रिषु संवत्सरेषु च ॥ ६८७|| अत्रैव पुंड्रदेशेषु, शतद्वारामिधे पुरे । संमुचेर्नृपतेः पत्नी, भद्रानाम्नी भविष्यति || ६८८ || तदा श्रेणिकराड्जीवो, भयात् For Private and Personal Use Only पठार का दिखरूपं ॥३७॥ Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीदेवेन्द्र० श्रेणिक चरित्रं ||३८|| 5000 www.kobatirth.org कूणिक भूपतेः । भुक्त्वा तालपुटं रत्नमभायामुदयादि यः ||६८२ ॥ तत्राद्यप्रस्तटे सीमंतके च नरकेंद्रके । आयुश्चतुरशीत्यन्दसहस्रायतिवाह्य सः ॥ ६९० ॥ तत्तत्प्रभावनाप्राप्त प्राज्यपुण्यप्रभावतः । विश्वं विश्वं समुद्धर्तुमिव दुर्गमदुर्गतेः || ३२१|| समृद्धृत्य ततो मासे, शुचौ पक्षे सिते तथा । निशीथसमये षष्ठ्यां, चंद्रे हस्तोत्तरागते ||६९२ || ज्ञानत्रयपवित्रात्मा, त्राता त्रिजगतामपि । देव्यास्तस्याः सुतत्वेन, कुक्षाववतरिष्यति || ६९३ || भद्रा प्रशस्तसंपूर्ण दोहदा समये सुतम् । चैत्रशुद्धत्रयोदश्यां निशीथे जनयिष्यति ||६९४ || विधिवद्दिकुमारीभिः सूतिकर्म्मणि निर्मिते । जिनेंद्र स्त्रपयिष्यति, सुमेरौ सर्ववासवाः ||६२५ ॥ पद्मगर्भसमांगस्य तस्य जन्मोत्सवं पिता । विधायाधास्यते पद्मनाभ इत्यभिधां शुभाम् ||६९६ || निवेशयिष्यते राज्ये, पितृभ्यां सोऽष्टवार्षिकः । पूर्णभद्रामिधोऽन्येद्युर्माणिभद्रा मिधस्तथा ||६९७ || महर्षिकौ गुरौ तस्य सेनानीत्वं करिष्यतः । ततोऽस्य भावि नामान्यत्, देवसेन इति स्फुटम् ||६९८|| श्वेतवर्णश्चतुर्द्दतो, विमलः शंखकुंदवत् । करिरत्नं महामानं, भविता चास्य वाहनम् ।। ६९९ ।। वक्ष्यतेऽसौ ततो लोकैर्नाम्ना विमलवाहनः । इति नामत्रयख्यातश्विरं राज्यं करिष्यति || ७०० || दवाऽसौ वार्षिकं दानं पित्रोर्गतवतोर्दिवम् । दशम्यां मार्गशीर्षस्य, कृष्णायां प्रव्रजिष्यति ॥ ७०१ || विहृत्य सातिरेकां स, द्वादशाब्दीं प्रथमोऽर्हन् । राधशुद्धदशम्यां तु, लप्स्यते केवलश्रियम् ||७०२|| सप्रतिक्रमणं धर्म्ममचेलं पंचयामिकम् । यथाऽहं कथयामास, कथयिष्यत्यसौ तथा ।। ७०३ ॥ मया यथा महाराजा, अष्टौ प्रव्राजिताः किल । प्रव्राजिष्यति स तथा, पद्मनाभजिनोऽपि हि || ७०४ || स्वर्णरुक् सप्तहस्तोच्चत्रिंशद्वर्षाणि केवली । विहृत्य दर्शयामिन्यां, कार्त्तिके शिवमेष्यति || ७०५ || मत्तुल्योऽयं यथा भावी, वर्णमानादिना जिनः । पार्श्वादिसदृशोऽन्येऽपि, प्रतीपं भा विनस्तथा । ७०६ || तेषां नामानि कथ्यंते, जीवाः पूर्वभवेषु च । तत्र जीवः सुपार्श्वस्य, सुरदेवो द्वितीयकः ॥७०७॥ तृतीयोऽर्हन् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पद्मनाभजिनः ||३८|| Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit श्रीदेवेन्द्र चरित्रं ॥३९॥ श्रेणिक जिनास्तजीवाश्च IMGHOMGHOGHOROSHOO | मुपाख्यिो , जीवः पोट्टिलकस्य तु । तुर्यः स्वयंप्रभामिख्यो, जीवो दृढायुषः पुनः॥७०८॥ पंचमः कार्तिकजीवः, सर्वानुभूति| नामकः । जिनो देवश्रुतो नाम, जीवः शंस्वस्य षष्ठकः ॥७०९।। उदयाख्यो जिनो भावी, नंदजीवस्तु सप्तमः। जीवः सुनंदसंज्ञस्या- | टमः पेढालनामकः ॥७१०॥ जिनेन्द्रः कैकशीजीवो, नवमः पोट्टिलः पुनः । जीवो रेवतिनाम्नस्तु, शतकीर्तिर्दशमोऽर्हन् ॥७११॥ जीवः सत्यकिसंज्ञस्यैकादशः सुव्रतो जिनः । कृष्णस्य शीरिणो जीवोऽममाख्यो द्वादशो जिनः।।७१२॥ बलदेवस्य जीवोऽर्हनिष्ककाषायत्रयोदशः। रोहिणीश्राविकाजीवो, निष्पुलाकश्चतुर्दश ॥७१३॥ निर्ममः मुलसायास्तु, जीवः पंचदशो जिनः। रेवतीश्राविकाजीall वश्चित्रगुप्तस्तु षोडशः ॥७१४॥ जीवो गवालिनाम्नस्तु,समाधिः सप्तदशोऽर्हन् । जीवो गागलिसंज्ञस्याष्टादशः संवरामिधः॥७१०॥ | जीवो द्वीपायनस्यैकोनविंशोऽर्हन् यशोधरः । जीवः कर्णस्य विंशस्तु, विजयाख्यो जिनेश्वरः ॥७१६।। जीवस्तु नारदस्बैकविंशो मल्लामिधो जिनः। अंबडस्य तु जीवोऽर्हन् ,द्वाविंशो देवनामकः।।७१७॥ त्रयोविंशो जिनोऽनंतवीर्यो द्वारमदस्य तु । जीवः स्वातेः | पुनर्जीवश्चतुर्विंशोत्र भद्रकृत् ॥७१८॥ चक्रिणोऽपि तथैवामी, दीर्घदंतामिधोऽग्रिमः । द्वितीयो गूढदंताख्यः, शुद्धदंतस्तृतीयकः | ॥७१९॥ तुर्यः श्रीचंद्रनामा तु, श्रीभूतिरिति पंचमः । सोमामिधानकः षष्ठः, सप्तमः पद्मनामकः ॥७२०॥ अष्टमस्तु महापद्मो, | नवमो दर्शनाहयः । दशमो विमलश्चैकादशो विमलवाहनः ।।७२।। द्वादशोऽरिष्ठनामा तु, नवामी त्वर्धचक्रिणः। नंदिश्व नंदिमिप्रश्च, तथा सुंदरबाहुकः ॥७२२॥ महाबाहुरतिवलो, महाबलो बलस्तथा । द्विपृष्ठश्च त्रिपृष्ठश्च, बलदेवास्त्वमी नव ॥७२॥ बलश्च | वैजयंतश्चाजितो धर्मश्च सुप्रभः । तथा सुदर्शनानंदी ,नंदनः पद्म इत्यपि ॥७२४॥ तिलको लोहजंघश्च, वज्रजंधश्च केसरी । बलिः प्रह्लादनामा च, तथाऽपराजितामिधः ॥७२०॥ भीमः सुग्रीवनामा च, नवामी प्रतिविष्णवः। शलाकापुरुषा एते,त्रिषष्टिरिति भाविनः KOLokजाजाजHORRON ॥३९॥ For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir O श्रीदेवेन्द्र चैत्यविधिः श्रेणिकचरित्रं // 40 // // 72 // पृष्टमागामिकालादिस्वरूपं यत्वया किल / इंद्रभूते ! तवाग्रे तद् ,तन्मयेति प्ररूपितम् // 727 // श्रुत्वेति गौतमो वीरं, ववंदे प्रभुरप्यथ। कार्तिके दर्शयामिन्यां, जगाम पदमव्ययम् / / 728 // इत्युच्चैर्जिनशासनोन्नतिगतं तीर्थेश्वरत्वं फलं, ज्ञात्वा श्रेणिकभूपते| रविरतस्याप्युत्तमं सर्वथा। भव्या! भक्तिभरावनम्रतनवः कुर्चीवमेनां मुदा, येन स्यादचिरेण वोऽपि सुलभा सर्वज्ञता निश्चितम् | // 729 // ॥प्रभावनायां श्रेणिककथा // इति श्रीअविच्छिन्नशासनखरूपतपोगच्छदिनमणिश्रीदेवेन्द्रसूरिसूत्रितं श्रीश्रेणिकचरित्रं / / becauseococceDecemovincescarserocareer DIGHIONSHONGIGARDROICE // 40 // For Private and Personal Use Only