Book Title: Samta Sagar Charitam
Author(s): Hemchandrasuri Acharya
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 30
________________ समतासागरचरितम् तैरेकाशनं कृतम् । पुनः सार्धत्रिवादने जनविज्ञप्त्या तैः प्रवचनं प्रकाशितम् । सायंकाले पूज्यप्रेमसूरीश्वरैः सह चैत्यपरिपाटीः कृता । द्वितीयादिने च ततो विहारः कृतः। इदं त्वेकं दृष्टान्तं प्रदर्शितम् । ईदृक्प्रसङ्गास्तु तेषां जीवने सदैव घटितवन्तः । तत्र तेषां सहनशीलताविनयगच्छचिन्तालोकोपकारादयो गुणाः दृष्टिविषय्यभवन् । ४५ सुरेन्द्रनगर उभयमहात्मानौ शततमौलिसमाप्तिसमीपं प्राप्ताः । ततस्तत्र गमनार्थं तैरुग्रविहाराः कृताः । पूज्यपादानां निश्रायामेव पारणककरणस्य निश्चय उभौ व्रतिनौ दृढावाऽऽस्ताम् । उग्रविहरणे सत्यपि शततमौलिसमाप्तिदिने पूज्यप्रेमसूरीश्वरातत्र प्राप्तुं नाशक्नुवन् । ततो मुनिभ्यामाचामाम्लान्यग्रे प्रवर्त्तितानि । पूज्यराजविजयैर्द्वितीयं वारं शतौलिकरणाय वर्धमानतपसो मूलमुप्तम् । भव्यस्वागतयात्रया सह श्रीसङ्घेन पूज्यप्रेमसूरीश्वराणां विशालसमुदायेन सह प्रवेशः कारितः । महोत्सवाः प्रारब्धाः । पूज्यप्रेमसूरीश्वरादिविशालसाधुसमुदायनिश्रायामुभयमुनयोः तपःपारणकं सञ्जातम् । सुरेन्द्रनगरसङ्घः कृतार्थोऽभवत्, श्रीसङ्घेन महान्लाभो लब्धः । ईदृक्महातपः पूर्णाहूतिः श्रीसङ्घेऽभवत् तेन श्रीसङ्घोऽपि हर्षपूरेण पूर्णोऽभवत् । श्रीसङ्घेनाऽतिशयेनानुमोदना कृता । इतः शंखेश्वरतीर्थमध्ये श्राद्धवर्यरुगनाथपुत्रहिंमतश्राद्ध उपधानतप आराधनां कारितवान् । पूज्यपंन्यासभद्रङ्करविजयमुनिभानुविजयादयोऽग्रे गत्वा तत्र प्राप्ताः । माला ** समतासागरचरितम रोपणप्रसङ्गे पूज्यप्रेमसूरीश्वराः विशालपरिवारेण सह शंखेश्वरं प्राप्ताः । उपधानतपःकारकहिंमतश्राद्धः स्वयमुपधानतपसि युक्तवान् । सस्त्वतीव वदान्य आसीत् । स्वजीवनार्जितसम्पूर्णरिक्थं तेनोऽपधानतपस्युपयुक्तम् । ततोऽप्यधिको व्ययो जातः । तथापि स्वीयोत्साहमभङ्क्त्वा वदान्यहृदयेन तेन लाभो गृहीतः । पूज्यप्रेमसूरीश्वराणां पुण्यनिश्रायामुपधानतपोमालारोपणमहोत्सवः सुष्ठु सम्पन्नोऽभवत् । तदा दादरसङ्घस्तत्रागतः। दादरसङ्घस्तु पूज्यपद्मविजयानां सत्सङ्गेनातीव रक्तोऽभवत् । ततस्तेषां दूरगमनेऽपि श्रीसङ्घः तेषां सङ्गं त्यक्तुमुद्यतो नाभवत् । दादरसङ्घेन पूज्य - प्रेमसूरीश्वरनिश्रायां शंखेश्वरात्सिद्धगिरेः षड्रिपालकतीर्थयात्राऽऽयोजिता । उल्लासपूर्वकं तीर्थयात्रासङ्घः शंखेश्वरात्सिद्धगिरिं प्रति प्रस्थितः । मार्गगतग्रामनगरेषु शोभनशासनप्रभावनापूर्वकं तीर्थयात्रासङ्घः सिद्धगिरिं प्राप्तः । तीर्थया - त्रामालारोपणादिप्रसङ्गा उल्लासपूर्वकं सम्पन्नाः । तदाऽमदावादज्ञानमन्दिरट्रस्टीगण आगत्योपस्थितः । तेन पूज्यप्रेमसूरीश्वराणां वि.सं.२०१३ वर्षस्य चातुर्मासं तत्र निर्णायितम् । विशालपरिवारेण सह पूज्यप्रेमसूरीश्वराः राजनगरं प्राप्ताः । अत्युल्लासपूर्वकं तेषां प्रवेशो ज्ञानमन्दिरमध्ये जातः । पूज्यभानुविजयानां वैराग्यरसभृतानि प्रवचनानि प्रारब्धानि । प्रातःकाले ते पूज्यहरिभद्रसूरिविरचितललितविस्तरोपरि शोभनां वाचनां दत्तवन्तः । मुनिवरैस्तस्यावतरणं कृतम् । तत् 'परमतेज भाग - १,२' रुपेण प्रकाशितम् । पूज्यपद्मविजयानामपि ४६

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80