Page #1
--------------------------------------------------------------------------
________________
प्राप्तिस्थानानि
श्रीमहावीरस्वामिने नमः नमो नमः श्रीगुरुप्रेमसूरये
१)
समतासागरचरितम्।
२)
बी. ए. शाह एन्ड ब्रधर्स २, अरिहन्त एपार्टमेन्ट, इर्ला नरसींग हाउस पासे, एस. वी. रोड, इर्ला, पार्ला (वेस्ट) मुम्बई-५६. फोन नं. : २२२५ २५५७ पी. ए. शाह ज्वेलर्स ११०, हीरापन्ना, हाजीअली, मुम्बई-२६. फोन नं. : २३५२११०८, २३६७१२३९ मूलीबेन अम्बालाल रतनचन्द जैन धर्मशाला स्टेशन रोड, विरमगाम
: लेखक : प.पू. वैराग्यदेशनादक्षाचार्यदेवश्रीमद्विजय
हेमचन्द्रसूरीश्वराः।
४) दिलीप राजेन्द्रकुमार शाह
नन्दिता एपार्टमेन्ट, भगवाननगरनो टेकरो, पालडी, अमदाबाद-७. फोन नं. : २६६३९१८९
श्री जिनशासन आराधना ट्रस्ट C/o. चन्द्रकान्त एस. संघवी ६/बी, अशोका कोम्पलेक्स, रेल्वे गरनाळा पासे, पाटण, उ. गु. फोन नं. : २३१६०३
: प्रकाशक: स्व. मूलीबेन अम्बालाल संस्थापित सङ्घवी अम्बालाल रतनचन्द जैन धार्मिक ट्रस्ट
६)
डॉ. प्रकाशभाई पी. गाला बी-६, सर्वोदय सोसायटी, एल. बी. एस. मार्ग, साँईनाथनगर, घाटकोपर (वेस्ट) मुम्बई-८६. फोन नं. : २५००५३७८
विक्रम सं. २०६४
वीर सं. २५३४
मुद्रक : श्री पार्थ कोम्प्युटर्स ५८, पटेल सोसायटी, जवाहर
चोक, मणिनगर, अमदावाद. फोन : २५४६०२९५
Page #2
--------------------------------------------------------------------------
________________
# दिव्यकृपावर्षयितारः ॥ सिद्धान्तमहोदधि-पूज्यपादाचार्यदेवश्रीमद्विजय-प्रेमसूरीश्वराः, न्यायविशारद-पूज्यपादाचार्यदेवश्रीमद्विजय-भुवनभानुसूरीश्वराः, समतासागर-पूज्यपाद-पंन्यासप्रवरश्रीपद्मविजयगणिवराः ।
शुभाशीर्वाददातारः ॥ गच्छाधिपति-पूज्यपादाचार्यदेवश्रीमद्विजय-जयघोषसूरीश्वराः
* प्रकाशकीयम् * स्व. पूज्यपादाः पंन्यासश्रीपद्मविजयगणिवरा अस्माकमनन्तोपकारिण आसन्। ते शासनरत्नमासन्। वीरयोधैरिव तैः। परीषहोपसर्गसैन्येन सह युवा संयमजीवनं सफलीकृतम्। तेषामिदं सक्षिप्तं चरित्रं वयं सहर्ष प्रकाशयामः। अत्रैचरित्रविषयकं कमपि विशेषं लिखितुं नेच्छामः। वाचकवर्ग एतचरित्रपठनेनैव तं ज्ञास्यति। जिनशासनवर्तमानकालीनश्रेष्ठसाधकेषु पूज्यानामन्तर्भावकरणेऽतिशयोक्तिर्न स्यात्किन्त्वल्पोक्तिरेव स्यात्। इदं चरित्रं पूज्यानां घोरोगसाधनाविषयकमस्ति, यत्पठनेन यूयं रोमाञ्चिता भविष्यथ, आत्मन्यलौकिकभावाननुभविष्यथ, आराधनाकरणे बलं लप्स्यध्वे, युष्माकंप्रमादा दूरीभविष्यन्ति। महारोगेषु त्वेतचरित्रमत्यन्तमाश्वासनं भूत्वाऽऽराधनामार्ग दर्शयिष्यति। वयं विज्ञपयामो यदेतन्चरित्रं केवलं सकृदेव न पठनीयं किन्त्वनेकशः पठनीयमन्याँश्च पाठनीयम्। अत्र यूयं कलिकालेऽतीवाशक्यां साधनां द्रक्ष्यथ । चतुर्थारकमुनिपराक्रमान्यूयमेतत्काले द्रक्ष्यथ। पूज्यान्प्रति युष्माकं बहुमानभावोऽतिशयेन वय॑ते। अद्यापि जिनशासन ईदृशान्यनेकरत्नानि सन्तीति ज्ञात्वा युष्माकं बीजवपनं भविष्यति। पूज्यान्भावेन वन्दित्वाऽस्माकं वक्तव्यं समापयामः। लि. सङ्घवी अम्बालाल रतनचन्द जैन धार्मिक ट्रस्ट
ट्रस्टिगणः ताराचन्द अम्बालाल शाह धरणेन्द्र अम्बालाल शाह पुण्डरिक अम्बालाल शाह उपेन्द्र ताराचन्द शाह
मुकेश बन्सीलाल शाह
भावपूर्णा वन्दनाः । अस्मत्कुलात्प्रव्रज्य शासनं प्रकाशयन्तः पूज्याः पूज्यपाद-आचार्यदेव-श्रीमद्विजय-हेमचन्द्रसूरीश्वराः
पूज्यपाद-प्रवर्तीनी-श्रीरञ्जनश्रीशिष्याप.पू. प्रवर्तिनी श्रीवसन्तप्रभाश्री:
पूज्यपाद-प्रवर्तीनी-श्रीइन्द्रश्रीशिष्याप.पू. साध्वी श्रीस्वयम्प्रभाश्रीः पूज्यपाद-प्रवर्तीनी-श्रीवसन्तप्रभाश्रीशिष्याप. पू. साध्वी श्रीदिव्ययशाश्रीः
Page #3
--------------------------------------------------------------------------
________________
ग्रन्थपठनात्प्रूवम् । वर्तमानकालीन (पञ्चमारककालीन) उत्कृष्टसाधनायाः कल्पनां कुरुत । तत एतच्चरित्रं पठत । युष्माकं कल्पनाऽवश्यं । वितथा भविष्यति। अत्र यूयं कल्पनातीतां साधनां द्रक्ष्यथ, तेन युष्माकं हृदयं विस्मितं भविष्यति, यूयं सम्भ्रममनुभविष्यथोचैश्च बहुमानेन युष्मदात्मैतत्साधकचरणयोर्नमिष्यति। यूयमपि शीघ्रं मुक्ति प्राप्स्यथ ।।
सावधाना भवत....... परमात्ममहावीरस्य शासनं सार्धपञ्चविंशतिशताधिकेभ्यो । वर्षेभ्योऽविच्छिन्नमागच्छन्नस्ति । गणधरा आचार्याश्च परमात्मशासनं वहन्ति,महावीरपरमात्मनः षड्सप्ततितमपट्टे पूज्यपादा सिद्धान्तमहोदधिस्व.आचार्यदेवश्रीमद्विजयप्रेमसूरीश्वराः । सञ्जाताः । ते शासनस्य सङ्घस्य च कुशलनेतार आसन्, स्वीयोत्कटसंयमज्ञानबलेन तैरेको विशालमुनिसमुदायः सृष्टः । तत्पट्टधराः पू. आ. भुवनभानुसूरीश्वरा वीरप्रभोः सप्तसप्ततितमपट्टे विराजिताः। प्रबलन्यायाभ्यासेन ते शास्त्रमर्म यावद्गत्वा सत्यरहस्यं प्रकटितवन्तः । ते सदैव गुरुनिश्रावर्त्तिन आसन् । तैरपि मुनिसमुदायस्य योगक्षेमौ कृतौ। तेषां शिष्यरत्नं समतासागर-पंन्यासश्रीपद्मविजयगणिवरा अभवन्। ते स्वगुरुदेवेन (सांसारिकज्येष्ठबन्धुना) सहैव प्रव्रजिताः । तेषां शिष्याः सञ्जाताः। उभाभ्यां भ्रातृभ्यां विनय-भक्ति+ स्वाध्याय-वैयावृत्त्य-तपस्त्यागादियोगाः सुष्ठु साधिताः । तौ
प्रेमसूरीश्वराणां दक्षिणवामहस्तसमानावास्ताम् । पूज्यानां सेवां
कुर्वद्भ्यां भ्रातृभ्यां शोभनं ज्ञानमर्जितम्, श्रुतज्ञगुरुसेवोपासन एव श्रुतप्राप्तिमार्गतयोत्तराध्ययनादिसूत्रेष्वपि दर्शिते । एको न्यायविशारदः सञ्जातोऽपरश्च व्याकरणविद्वानभवत् । प्रकरणागमषड्दर्शनयोगादिग्रन्थतलस्पर्शिज्ञानमपि द्वाभ्यां : प्राप्तम्। गीतार्थों सञ्जातौ । पूज्यैः सह विहरद्भ्यां ताभ्यामनेके जीवाः प्रतिबोध्य प्रव्राजिताः । प्रव्राजितानां च सारणादिभिः योगक्षेमौ कृतौ। प्रव्राजितानां आसेवनशिक्षादापनाय मुख्यतया पद्मविजया नियुक्ताः । गुरुकृपया तैरेतद्विषये शोभना सफलता प्राप्ता। अनेकसंयमिसंस्कारवत्मुनयस्तैः सङ्घरक्षार्थ निष्पादिताः। ते मुनयोऽद्यापि शासने सो च संयमसुवासं विस्तारयन्तो दृश्यमानाः सन्ति । * 'कलि वक्को ।' इति शास्त्रवचनम् । दुष्टो वक्रश्च कलिः
सत्कार्येषु सदैव विघ्नान्युत्थापयति । कलिनैतत्प्रवृत्तौ स्व-: हस्तः प्रसारितः। पञ्चदशवर्षसंयमसुसाधक-स्वपरकल्याणसाधकाश्चैते पुण्यपुरुषाः भयङ्करकेन्सरव्याधिना प्रहृताः। तथापि साधनावेगो हीनो न जातः, अपि तु वृद्धः। उच्छलत्संवेगनिर्वेदाभ्यां संयममासक्षपणादिधोरतपश्चर्याभ्यां चैते साधकपुरुषाः परीषहरोगाद्युपसर्गः सहायुध्यन् । इदं दृष्ट्वा सर्वे स्तब्धाः सञ्जाताः। कल्पनातीतोगसाधनाद्वारान्तरशत्रवस्तै शिताः । इदं विस्मयस्मेरनेत्रैः सर्वेऽपश्यन्नन्वमोदयश्च । एतेन रोगेण ते दशवर्षान्यावत्पीडिताः । रोग्यवस्थायामप्युग्रतपश्चर्याऽऽगमसूक्ष्मस्वाध्यायैकाग्रचित्तजापध्यान
Page #4
--------------------------------------------------------------------------
________________
वाग्रोधलेखनादिप्रेरणाकृतमुनिश्रावकयोगक्षेमप्रवृत्तयः सर्वानाश्चर्यमुग्धानकुर्वन् ।
अन्तिमोच्छ्वासं यावत्ते कर्मसत्तया सहाऽयुध्यन् । वि.स. २०१७ वर्षे श्रावणकृष्णैकादशीतिथौ स्वप्रगुरुदेवाचार्यश्रीमद्विजयप्रेमसूरीश्वर-गुरुदेवपंन्यासभानुविजय-आ. यशोदेवसूरीश्वर-पं. भद्रङ्करविजयादिविशालमुनिसमुदायचतुर्विधसङ्घपावननिश्रायामद्भूतसमाधिना जीवनयात्रा समाप्य स्वर्ग प्रति प्रस्थिताः । तदा शताधिकसाधुपालकपित्राचार्यदेवश्रीमद्विजयप्रेमसूरीश्वरहृदयादुद्गारा निःसृताः- 'मम दक्षिणो हस्तो नष्टः ।
अष्टचत्वारिंशद्वर्षप्रमाणलघुजीवनयात्रायां तैः षड्विशतिवर्षसंयमयात्रा पालिता । यदि ते स्तोककालमधिकमजीविष्यंस्तदाऽद्य सङ्घशासनसमुदायपरिस्थितिर्विशिष्टाऽभविष्यत्, तेषां योगक्षेमप्रवृत्त्या च निष्पादिताः प्रभूता मुनिवरा अद्य शासनसङ्घयोर्विशेषप्रकाशं व्यस्तारयिष्यन् ।' किन्तु कालभवितव्यतादिकं निश्चितम्। तथापि षड्विंशतिवर्षसंयमपर्याये तैर्यः सुगन्धः प्रसारितः सोऽद्यापि: सर्वत्रानुभूयते। तैर्दत्तान्यालम्बनानि वर्षाणां सहस्राणि यावदखण्डितानि भविष्यन्ति ।
प्रस्तुतचरित्रे तु तेषां जीवनस्यात्यल्पकथनमेवाऽस्ति। सम्पूर्णन्यायो दातुं न शक्यो मया, तहृदयसूक्ष्मभावज्ञानसामर्थ्य मयि न विद्यते। तत्साधनामानक्षमक्षयोपशममद्यापि नाहं लब्धवान् । तथापि तेषां जीवनस्य : यत्स्तोकमपि कथनमत्रास्ति तदपि महदनेकजीवनप्रका
शकञ्चास्ति। तान्प्रतीषत्कृतज्ञताभावप्रकटनाशयेन तान्प्रतीषद्भक्तिभावेन चैतदल्पालेखनप्रयासो मया कृतः । अत्र तान्प्रत्यन्यान्वृद्धान्प्रति वा यः कश्चिदप्यविनयो जातः स्यात्तर्हि तस्य सरलभावेन क्षमा याचे ।
इदमत्रावधेयम् । पूज्यपद्मविजयस्वर्गमनद्वितीयवर्षे पूज्यमित्रानन्दसूरिपूज्यभद्रगुप्तसूरिभ्यां तेषां चरित्रं 'पद्मसुवास' पुस्तकरुपेण लिखितम् । अत्र तत्पुस्तकमतीव सहायीभूतम्। ततोऽत्र प्रसङ्गे तयोर्महात्मयोरुपकारमपि स्मरामि, एतदूज़ पूज्यानां साक्षादनुभूतप्रसङ्गा अप्यत्रालिखिताः । ___एतच्चरित्रालेखनजातगुणानुरागेण तत्सदृशगुणसाधने प्राप्नुयां भवान्तरेऽपि तद्योगं प्राप्नुयां ‘पत्तेसु एएसु अहं सेवारिहे सिया, आणारिहे सिया, पडिवत्तिजुत्ते सिया, निरइयारपारगे सिया' इति च पञ्चसूत्रोक्तानुसारेणाहं तत्सेवायोग्यो भवेयमाज्ञापालनयोग्यो भवेयमाज्ञाप्रतीच्छको भवेयं निरतिचाराज्ञापारप्रापको भवेयमविचलमुक्तिसुखं प्राप्नुयामित्येकमात्रशुभाभिलाषा मनसि वर्त्तते ।
अत्र चरित्रे 'आचार्यभगवत्पूज्यपादश्री' इत्यादि शब्दप्रयोगेण प्रेमसूरीश्वराणां, 'प्रगुरुदेवश्री' इति शब्दप्रयोगेण पं.भानुविजयानां, 'पूज्यश्री' इति शब्दप्रयोगेण च पं. पद्मविजयानामुल्लेखः कृत इति वाचकवर्गोऽवधारयतु ।
प्रस्तुतचरित्रं लिखता मया पूज्यानामन्येषां वेषदप्यविनय आशातना वा कृता स्यात्तर्हि पुनः पुनस्तस्य क्षमा याचे ।।
पं. पद्मविजयचरणकिङ्करो
हेमचन्द्रविजयः
Page #5
--------------------------------------------------------------------------
________________
NM
40%
ग्रन्थोत्पत्तिस्थानम् भयङ्करकेन्सरव्याधौ यदा पूज्यपद्मविजयानां वानरुद्धा । तदा ते लिखित्वा वाचनाः प्रेरणाश्च दत्तवन्तः । तासां वाचनाप्रेरणानां पुस्तिका मत्सकाश आसीत् । सा 'साधुतानो उजास' नाम्ना प्रकाशिता, तत्राऽग्रे पूज्यानां संक्षिप्तचरित्रस्य लेखनं प्रारब्धम् । परन्तु तदतिविस्तृतं जातम् । अतः स्वतन्त्रपुस्तकरुपेण तचरित्रमत्र प्रकाश्यते ।
साध्वीश्रीहंसकीर्तिश्री: अमदावाद (पूज्यानां सांसारिकभगिनी)
पंन्यासपद्मविजयानां जीवनपरिचयः नाम
:पू. पं. पद्मविजयगणिवराः । सांसारिकनाम : पोपटलालः । जन्मतिथि: : आषाढशुक्ल ६, वि.सं. १९६९ । जन्मस्थलम् : अमदावादः । मातृनाम
:भूरीबेन । पितृनाम
: चीमनभाइ। भ्रातरः
: शांतिभाइ, कान्तिलाल (पू. गच्छाधिपति आ. श्रीमद्विजय भुवनभानुसूरीश्वराः), चतुरभाइ,
जयन्तीभाइ (मुनि तरुणविजयः) भगिन्यः
शारदाबेन, वसुबन, बबीबेन ।
(सा.हंसकीर्तिश्रीः) । दीक्षातिथिः : पोष शुक्ल १२, वि.सं. १९९१ । दीक्षास्थलम्
चाणस्मा । उपस्थापनातिथिः : माघ शुक्ल १०, वि.सं. १९९१ ।। उपस्थापनास्थलम् : चाणस्मा प्रगुरुदेवः : पूज्यपाद-आचार्य-श्रीमद्विजय
प्रेमसूरीश्वराः । गुरुदेवः
: मुनिश्री भानुविजयः । गणिपदप्रदानतिथि: : फाल्गुन शुक्ल १२,वि. सं. २०१२। गणिपदप्रदानस्थलम् : पूना । पंन्यासपदप्रदानतिथिः : वैशाखशुक्ल ६, वि. सं. २०१५ । पंन्यासपदप्रदानस्थलम् : सुरेन्द्रनगरम् । स्वर्गमनतिथि: श्रावणकृष्ण ११, वि.स. २०१७ । स्वर्गमनस्थलम् :: पिण्डवाडा । आयुः
:४८ अब्दाः । संयमपर्यायः :२६ अब्दाः ।
नूनं ! यद्रत्नं शासनोन्नतिकृत आवश्यकमासीत्तद्रत्नं कालराजेनाकस्मादाक्षिप्तम्। तस्य नररत्नस्य गमनेनाद्य समुदायस्य शासनस्य च महती हानिर्जाता। तेषामनेकगुणोपकारवात्सल्यभावा । अविस्मरणीयाः । तेषामनन्तोपकाराः प्रत्युपकर्तुमशक्याः । भङ्करव्याधौ तेषां समतासमाधी साधकजीवनकृत आदर्शदृष्टांतरुप आस्ताम् । अस्माभिः कृता तेषां प्रभूताऽप्यनुमोदनाऽल्पैव ।
Page #6
--------------------------------------------------------------------------
________________
4
अथ ग्रन्थप्रकाशकप्रशस्तिः
(शार्दूलविक्रीडितम्) पादाङ्गुष्ठसुचालितामरगिरिर्हस्तास्तदेवस्मयः, जिह्वाखण्डितशक्रसंशयचयो, वाइनष्टहालाहलः । सर्वाङ्गीणमहोपसर्गदकृपा-नेत्राम्बुदत्ताञ्जलिः, दाढादारितदिव्ययुत्समवतात्-श्रीवर्धमानो जिनः ।।१।।
(उपजातिः) श्रीगौतमस्वामि-सुधर्मदेव-जम्बूप्रभु-श्रीप्रभवप्रमुख्याः । सुरीशपूजापदसूरिदेवा, भवन्तु ते श्रीगुरवः प्रसन्नाः ।।२।।
(वसन्ततिलका) एतन्महर्षिशुचिपट्टपरम्पराजान्
आनन्दसूरिकमलाभिधसूरिपादान् । संविग्नसन्ततिसदीशपदान् प्रणम्य,
श्रीवीरदानचरणांश्च गुरुन् स्तविष्ये ।।३।। श्रीदानसूरिवरशिष्यमतल्लिका स,
श्री प्रेमसूरिभगवान् क्षमया क्षमाभः । सिद्धान्तवारिवरवारिनिधिः पुनातु,
चारित्रचन्दनसुगन्धिशरीरशाली ।।४।।
(शार्दूलविक्रीडितम्) प्रत्यात्रिशतर्षिसन्ततिसरित्-स्रष्टा क्षमाभृद्महान्,
गीतार्थप्रवरो वरश्रुतयुतः सर्वागमानां गृहम् । तर्के तर्कविशुद्धबुद्धिविभवः सोऽभूत् स्वकीयेऽप्यहो,
गच्छे संयमशुद्धितत्परमतिः प्रज्ञावतामग्रणीः ।।५।। तत्कालीनकरग्रहग्रहविधा-वब्दे ह्यभूद् वैक्रमे,
तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः |
कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो, बवड्शेन निवारितः खकरखौ-प्ठे पिण्डवाडापुरे ।।६।।
(वसन्ततिलका) तत्पट्टभृद् भुवनभान्वभिधश्च सरिः,
श्रीवर्धमानसुतपोनिधिकीर्तिधाम । न्याये विशारद इतीह जगत्प्रसिद्धो,
जातोऽतिवाक्पतिमति-मतिमच्छरण्यः ।।७।। तस्याद्यशिष्यलघुबन्धुरथाजबन्धु
तेजास्तपाश्रुतसमर्पणतेजसा सः । पंन्यासपद्मविजयो गणिराट् श्रियेऽस्तु,
क्षान्त्येकसायकविदीर्णमहोपसर्गः ।।८।। सर्वाधिक श्रमणसार्थपतिर्मतीशः
पाता चतुःशतमितर्षिगणस्य शस्यः । गच्छाधिनाथपदभृज्जयघोषसूरिः
'सिद्धान्तसूर्य' यशसा-जयतीह चोच्चैः ।।९।। सबुद्धिनीरधिविबोधनबद्धकक्षः,
वैराग्यदेशनविधौ परिपूर्णदक्षः । सीमन्धरप्रभुकृपापरपात्रमस्तु |
श्रीहेमचन्द्रभगवान् सततं प्रसन्नः ।।१०।। कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिनां
लोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेव-श्रीमद्विजयहेमचन्द्रसूरीश्वराणां सदुपदेशेन सङ्घवी अम्बालाल रतनचन्द जैन धार्मिक ट्रस्टेन: प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः ।
वि. सं. २०६४
वि
...
Page #7
--------------------------------------------------------------------------
________________
श्री-प्रेम-भुवनभानुसूरि-सद्गुरुभ्यो नमः |
+ विषयानुक्रमः ॥
सुकृतस्य सहभागी
क्र.
विषयः
पृष्ठ क्र.
१-९४
१. समतासागरचरितम्।
(पन्न्यासश्रीपद्मविजयचरितम्)
२. परिशिष्टः १ - हृदयोद्गाराः।
९५-१२९
परिशिष्टः २ - सुकृतदानम्।
१३०-१३३
"समतासागरचरितम्" ग्रन्थप्रकाशनस्य सम्पूर्णोः लाभः प्रवर्त्तिनीश्री रञ्जनश्री शिष्या
प्रवर्त्तिनीश्री वसन्तप्रभाश्री आदि साध्वीगणस्य वि.सं.२०६२ वर्षस्य चातुर्मासे समुदितेन ज्ञाननिधिद्रव्येण
श्री-हेम-प्रभा-दिव्य-आराधनाभुवन, दीपकुञ्ज सोसायटी, भगवाननगरनो टेकरो,
पालडी, अमदावाद
अनेन गृहीतोऽस्ति। सुकृतस्य भूरि भूर्यनुमोदना ।
१३४-१४६
४. परिशिष्टः ३ - प्रियतमश्लोकाः
समाधिसाधकप्रेरणापत्राणि च।
ली. सङ्घवी अम्बालाल रतनचन्द जैन धार्मिक ट्रस्ट
ट्रस्टीगणः ।
Page #8
--------------------------------------------------------------------------
________________
+
समतासागरचरितम् - -- - १
समतासागरचरितम्।
(पन्यासश्रीपद्मविजयचरितम्) निर्वाणनगरप्राप्तान् नमस्कृत्य समाहतः । सर्वगुरूँश्च संस्मृत्य निर्यामकान्भवोदधेः ॥१॥ वाणी सूक्ष्मार्थबोधार्थं तथा निधाय चेतसि । श्रीपद्मगणिवर्याणां लिख्यते चरितं मया ॥२॥
भारतदेशस्याऽनेकराज्येषु गुजरातराज्यं मुख्यमस्ति ।। सिद्धराजजयसिंहकुमारपालादिधर्मनिष्ठभूपालानां कालादियं । भूमिरतीवधार्मिका संस्कारिता चास्ति। अत्र भूमौ विपुलस
ङ्ख्याहिन्दुधर्मिषु सत्स्वपि जैनधर्म उच्चैर्विकसितः प्रसृतश्चाऽस्ति। अस्मिन् राज्ये प्राचीनकालाच्छाश्वततीर्थशत्रुञ्जयगिरिनारतालध्वजप्रभासपत्तनोनाजारातारंगापानसरसेरिसाशवेश्वरपत्तनखंभातादिसङ्ख्यातीतजैनतीर्थाण्यस्तित्वं बिभ्रति। तेषु शत्रुञ्जयतीर्थं तु शाश्वतमस्ति। अद्याप्यस्य तीर्थस्य महिमाऽऽश्चर्यकारी वर्तते । प्रभूता धर्मात्मानस्तीर्थयात्रां कृत्वा स्वात्मानं पवित्रीकुर्वन्ति।
गुजरातराज्यस्य राजधानी अमदावादोऽस्ति। राजनगरकर्णावत्यादयस्त्वस्य पर्यायशब्दाः। किश्चाऽयं जैनानां नगरस्य समानोऽस्ति तेनाऽयं जैननगरोऽपि कथ्यते । अत्र प्रभूता जैना वसन्ति, अनेकजिनालयोपाश्रयाश्च सन्ति । श्रमणोपासकश्रमणोपासिकाश्च बहवः सन्ति । उपाश्रयेषु साधुसाध्व्यश्चातुर्मासकं कुर्वन्ति । शेषकाले (ऋतुबद्धकाले)ऽपि
२ 0000-00- समतासागरचरितम् । बहुशो विहरन्ति । जिनवाणी श्रावयन्ति । जिनगृहाण्यपि सदैव भक्तिनादेन शब्दमयानि, श्रावकश्राविकाश्च धर्मे रताः प्रतिदिनं प्रातः दर्शन-पूजे कुर्वन्ति, जिनवाणीं शृण्वन्ति, सामायिकमनुतिष्ठन्ति। नमस्कारसहित-चतुर्विधाहारप्रत्याख्यानानि तु सदैव स्युरेव । उत्तमश्रावकास्तु एकाशनादिन्यपि कुर्वन्ति, सामायिक- प्रतिक्रमणपर्वतिथिपौषधादिकरणं तेषां । नित्यक्रम एव ।
अस्यां धर्मनगर्यां कालुपुरमार्गे प्रभूतजैनवास्तव्या - कालुशीनाम्नी 'प्रतोलिका' अस्ति । तत्र त्रीणि जिनचैत्यानि शोभन्ते । १. संभवनाथजिनमंदिरं, अत्र मूलनायकः संभवनाथजिनः, प्रथमभूमौ शांतिनाथजिनो मूलनायकः भूमिगृहे च चिंतामणिपार्श्वनाथो मूलनायकः २) अस्य भूमिगृहात् समीपवर्तिसोपानपंक्तिमारुह्य द्वितीये विजयचिंतामणीपार्श्वनाथजिनगृहे गम्यते ३) तृतीयं तु चैत्यमजितजिनस्य । ___ संभवनाथभगवद्मन्दिरसमीपे चीमनाह्वश्रावकोत्तमः: वसति । स परमार्थेन प्रभुभक्तोऽस्ति, सो यदा प्रभुभक्तौ लीनो भवति तदा सर्वसंसारं विस्मरति, उभयकालावश्यकपूजाप्रवचनश्रवणादिकं नित्यं करोति, प्रतिक्रमणसूत्रं पठतस्तस्य हृदयं गद्गदीभवति नेत्राभ्यां चाश्रूणि वहन्ति ।।
चीमनश्राद्धस्य धर्मपत्नी भूरिश्राविका । सा रत्नकुक्षिमाता यस्य त्रयः पुत्रा एका च पुत्री स्वात्मानं जिनशासने समर्प्य क्रमेणाचार्यपदं, पंन्यासपदं, मुनिपदं, साध्वीपदं च प्राप्ताः ।
Page #9
--------------------------------------------------------------------------
________________
समतासागरचरितम् **
पंन्यासपद्मविजयस्तयोर्द्वितीयः पुत्र आसीद्यः षड्विंशतिवर्षचारित्रपर्यायं पालयित्वाऽसाध्यरोगं न केवलं समाधिनाऽधिसह्य, अपि तु तस्मिन्रोगेऽप्यत्युग्रसाधनां कृत्वा कर्मवैरिणं तिरस्कृत्य स्वर्गमाप्तवाँस्तस्य साधनायाः पराक्रमकथाऽत्राऽऽलिख्यते ।
आषाढ शुक्ल नवम्यां तथौ पवित्रदिवसे सुश्राविका भूरिः पुत्रं प्रसूतवती । मातापित्रादिसकलसम्बन्धिजनाः हृष्टाः । तस्य पुत्रस्य ‘पोपटलाल' इति नाम स्थापितम् । पूर्वभवात् संस्कारान्गृहीत्वाऽऽगतस्य पोपटलालस्यापि दिनचर्या धर्मेण वासिताऽभवत्, प्रभुपूजा- गुरुवन्दनाऽभक्ष्यादित्याग-नवकारसहितप्रत्याख्यान - चतुर्विधाहाररजनिभोजनत्याग - धार्मिकाभ्यासाः तस्य नित्यक्रमोऽभूत्, लेखशालायोग्यवयसि जाते सः पठनार्थ मनसुखश्राद्धस्य शालायां नीतः । ज्येष्ठभ्राता कांतिरपि तत्रैव पठति स्म ।
मनसुखश्राद्धस्य ज्ञानशालायां व्यावहारिकशिक्षणेन सह धार्मिकशिक्षणमपि पाठ्यते स्म । तत्प्रभावात् वयसश्चतुर्दशे हायने द्वितीयकर्मग्रन्थपर्यंतमभ्यासं प्राप्तवान् ।
यौवनवयस्यपि वर्तमाने तस्मिन्सर्वत्र दृश्यमाना स्वच्छन्दता विलासिता च स्वल्पाऽपि नादृश्यत स जन्मत एव विरागवानासीत्, नाटकशालाप्रेक्षणकगृहोद्यानेषु नारज्यत । निर्मलब्रह्मचर्यपालनं तस्य सहजमवर्त्तत । मेट्रिकपर्यंतं व्यावहारिकज्ञानमभ्यस्य सांसारिकहेतुभिः स सेवककर्म कृतवान् । तदार्तुबद्धकाल उपाध्यायप्रेमविजयगणिवर्याः कालुशीपोलिकाया
४
* समतासागरचरितम्
उपाश्रयमध्ये समवसृताः । मुनिश्रीभक्तिविजयशिष्यमुनिश्रीकीर्तिविजयो रोगपीडित आसीत् । तस्य शुश्रूषां स्वशिष्यैस्ते कारितवन्तः ।
पोपटलालस्य उपाश्रयगमननित्यक्रमोऽभूत् । स उपाध्यायवर्याणां प्रत्याकृष्टोऽभूत् । उपाध्यायवर्या अप्यतिशयप्रतिभावन्तः रत्नपरीक्षकाश्चासन् । ते पोपटलालस्य शक्तिं भावनाञ्च ज्ञातवन्तः । तैस्तस्य संसारकूपनिःसरणाय हस्तावलंबनं दत्तम् । पूज्यवर्याणां पवित्रहस्तेन पोपटलालेन यावज्जीवं ब्रह्मचर्यव्रतं गृहीतम् । चारित्रभावस्य वृद्धिर्जाता ।
विक्रमसंवत्सरे नवत्यधिकैकोनविंशतिशततमे उपाध्याय श्रीप्रेमविजयाः स्वशिष्यपंन्यासरामविजयादिभिस्सह चातुर्मासार्थं दोशीवालाप्रतोलिकायां विद्याशालां पूतवन्तः । तेषां स्फटिकसमचारित्रप्रभावेनाकृष्टा केचिद्भावुकास्तेभ्यश्वारित्रप्रेरणां लभमाना आसन् ।
तदानीं पोपटलालस्य ज्येष्ठभ्राता कांतिलालः मेट्रिकपरीक्षामुत्तीर्य लंदनस्य बैंकिंगपरीक्षां प्रथमकक्षयोत्तीर्य राजनगरस्य केंद्रबैंकमध्ये नियुक्तवान् । सोऽप्युपाध्यायवर्याणां संयमसुवासेनाकृष्टश्चारित्रभावनावाँश्च सञ्जातः । इत्थं द्वयोर्भ्रात्रोर्युग्मं जातम्। परस्परं संयमग्रहणेच्छां ज्ञापितवन्तौ । तदानीं स्वजनेभ्यः संयमग्रहणस्यानुज्ञा प्राप्तुमतीव दुर्लभाssसीत् । कदाचिदेव स्वजनानुमत्या दीक्षा अभवत् । द्वौ भ्रातरावपि संयमग्रहणावसरं प्रतीक्षमाणौ स्थितौ । तस्मिन् काल उपाध्यायवर्याः स्वशिष्यपंन्यासजंबूवजियगणिवर्यादि
Page #10
--------------------------------------------------------------------------
________________
समतासागरचरितम् 443
परिवारेण सह विहरन्तः चाणस्मानगरं प्राप्ताः ।
तत्र काले चाणस्मास घोऽतीवोत्साहवानभूत् । संङ्घसमक्षं रहसि वा कमपि मुमुक्षं दीक्षां दापयितुं सदैव तत्पर आसीत् । तदा चाणस्मानगरे प्रभूता दीक्षा अभवन् ।
।
एकस्मिन्शुभदिने कांतिलालपोपटलालौ द्वौ सहोदरौ चाणस्मानगरं प्राप्तौ । सङ्घस्योत्साहो मानातीत आसीद्यतो द्वावुत्साहवन्तौ युवानौ संयमं ग्रहीतुं चाणस्मासङ्घसमक्षं उपस्थितौ । सङ्घेन रथयात्रया सह सम्पूर्णग्रामे वार्षिकदानं दापितम् । विक्रमाब्दस्य एकनवत्यधिकैकोनविंशतिशततमे संवत्सरे पौषमासे शुक्लपक्षे द्वादश्यां तिथौ शुभदिन उपाध्यायवर्यपवित्रहस्तेनोभाभ्यां भ्रातृभ्यां चारित्रं स्वीकृतम्, ज्येष्ठ भ्राता कान्तिलाल उपाध्यायवर्याणां शिष्यो जातस्तस्य च नाम मुनिश्रीभानुविजय इति सञ्जातम् । लघुबंधु: पोपट - लालः स्वज्येष्ठबंधोर्मुनिश्रीभानुविजयस्य शिष्यो मुनिश्री - पद्मविजयः सञ्जातः । पवित्रपुरुषाणामागमे सति गुरुदेवानामाचार्यपदारोपणम् ।
उभयभ्रात्रोराराधना प्रारभत। पूज्योपाध्यायवर्याणां सूरिपदप्रतिष्ठापनं यद्वर्षैः दुःसाध्यमभूत्तत्सहोदरयोः पवित्रपादन्यासेन सुसाध्यमभवत्। पूज्यपादगच्छाधिपतिदानसूरीश्वराः पाश्चात्यप्रभूतवर्षैरुपाध्यायवर्यानाचार्यपदं स्वीकर्तुमाग्रहं कुर्वाणा अभवन्। किन्तूपाध्यायवर्यैः कथमपि न तत्स्वीकृतम् । अपि च यदा गुरुवर्या अतीवाग्रहं कृतवन्तस्तदा तेषां नयन आर्द्रेऽभवताम्। तेन दानसूरीश्वराः किमपि विशेषप्रयत्नं कर्तुं
५
६
* समतासागरचरितम्
नाशक्नुवन् । चाणस्मानगरे दीक्षां सम्पाद्योपाध्यायवर्याः पत्तनं पूतवन्तः। तत्र ग्लानमुनिश्रीजिनविजयस्य वैयावृत्त्यं ते स्वशिष्यैः कारितवन्तः। इतो गच्छाधिपतिदानसूरीश्वराः राधनपुरसङ्घस्य विज्ञप्त्या राधनपुरे चैत्रीओलिनिमित्तमागताः । ओलीनिमित्तं महोत्सवः प्रारब्धः । तदैकमुमुक्षोर्दीक्षा निश्चिताऽअभवत् । तथा पंन्यासरामविजयगणिवर्यस्योपाध्यायपदार्पणमपि निश्चितम् । चैत्रशुक्लचतुर्दश्याः शुभदिनं समीपमासीत् । दानसूरीश्वराश्चिन्तातूरा आसन्, 'मम स्वास्थ्यं मुहुर्मुहुरस्वस्थं भवति । यदि मम किंचिदमङगलं स्यात्तर्हि पश्चात्समुदायस्य नायकः कः ? उपाध्यायप्रेमविजय आचार्यपदं स्वीकर्तुमसम्मतोऽस्ति । किन्त्वधुना कश्चिदादेशः प्रेषणीयः । युक्त्या कार्यं सम्पादनीयम्।' तैः पंन्यासरामविजयस्यापि ज्ञापितम् । सर्वे सम्मता अभवन्। गच्छाधिपतिभिः पत्तने संदेशः प्रहितः - 'त्वरया राधनपुरमागन्तव्यम्।' इतश्च मुम्बापूर्या वर्तमानपत्रेषु ज्ञापितं यच्चैत्रशुक्लचतुर्दश्यामुपध्याय- प्रेमविजयानामाचार्यपदप्रदानं भविष्यति। उपाध्यायवर्याणां पत्तन एतावन्मात्रः संदेशो मिलितो यत्सत्वरमागन्तव्यम् । गुरुदेवानां संदेशं पाप्य ते तदैवोद्यता अभवन्। उग्रविहारं कृत्वा द्वितीयदिनसन्ध्यायामेव राधनपुरं प्राप्ताः । हृदये शंकाऽऽसीत् - गुरुदेवानां स्वास्थ्यं सुचारु वर्तते न वा ? उपाश्रयं प्राप्यासने गुरुदेवं स्वस्थं दृष्ट्वा प्रसन्ना अभवन् । गुरुदेवं वन्दित्वा चरणयोरुपाविशन्। सुखशातापृच्छा कृता । गुरुदेवैः कथितमद्यैव निमंत्रणं
Page #11
--------------------------------------------------------------------------
________________
समतासागरचरितम् -00-
00-
00-
७
f
८
origam-
00- समतासागरचरितम् :
उपाध्यायश्रीरामविजयः सञ्जातः नूतनदीक्षितश्च युवा मुनिश्रीरविविजयः सञ्जातः। आचार्यपदप्रदानदिनस्य सन्ध्यायामेव । नूतनाचार्या ग्लानमुनिशुश्रुषानिमित्तं पत्तनमभि विहृतवन्तः ।
इत्थमुभयशिष्यपवित्रपादन्यासेन गुरुदेवाः शासनस्य समुदायस्य चोत्कृष्टपदं प्राप्ताः ।
दापनीयं श्वश्च प्रातः कालस्य ग्रहणं करणीयम्। (आचार्यपदप्रदानावसरे पूर्वसंध्यायां विशिष्टां क्रियां कृत्वा प्रातः कालग्रहणस्य क्रिया सम्पादनीया भवति ।) उपाध्यायवर्टातो गुरुदेवानामभिप्रायः । पुनः सैव प्रार्थना, स एव पदग्रहणस्य निषेधः, चक्षुषोरश्रूणि । “गुरुदेव ! युष्माकं विद्यमानतायां ममाऽनेन पदेन किं करणीयम् ? गुरुदेव ! मय्यस्य पदस्य योग्यता नास्ति। इदं पदं महत्कंटकितं मुकूटमस्ति। विधिपूर्वकमिदं पदं वोढव्यमन्यथा मम संसारवृद्धि विनी।" ! इत्थमतिशयमाग्रहं कृतवन्तः । किंत्वस्मिन्नवसरे गुरुवर्या अतीव निष्प्रकम्पा सञ्जाताः । मधुरया किंत्विषत्कव्या वाचा कथितं- "प्रेमविजय ! अद्य पर्यंतं मया तव विज्ञप्तिः स्वीकृता, किन्त्वधुना त्वया ममाऽऽदेशो माननीयः। तव : कामपि वार्तामहं न श्रोष्यामि, इयं ममाऽऽज्ञा वर्तते यत्त्वयाचार्यपदं स्वीकरणीयमेव । यदि ममाऽऽज्ञा तव न मता तर्हि निषेधं कुरुष्व।"
उपाध्यायवर्याः संकटेऽपतन्। इत आचार्यपदस्य गंभीरता दृष्टा, यदि च पदं सम्यग्न वोढं तर्हि संसारवृद्धेर्भयम्। इतो गुरुदेवानां निश्चलाऽऽज्ञा, अन्ततोऽश्रुभिः सह गुर्वाज्ञां बहुमत्वाचार्यपदग्रहणस्य सम्मतिः दर्शिता । चैत्रशुक्लचतुर्दशीपवित्रदिवसे राधनपुरमध्ये चतुर्विधसङ्घोपस्थितौ दानसूरीश्वराणां हस्तेन वर्तमानकाले जैनशासनस्य । सर्वश्रेष्ठतमाऽऽचार्यपदं स्वीकृत्य पूज्योपाध्यायवर्या आचार्यविजय-प्रेमसूरीश्वराः सञ्जाताः । तदैव पंन्यासरामविजय
समर्पणभावो विनयो वैयावृत्त्यञ्च साधनाया यज्ञः प्रारब्धः । उत्तराध्ययनसूत्रे प्रथमाध्ययन आदौ विनयसाधना प्रदर्शिता । उभयनूतनमुनिवर्याभ्यां । स्वजीवनं गुरुचरणयोः समर्पितम् । मनोवाक्कायेभ्यो स्वाधिपत्यमुत्थाप्य गुर्वाधिपत्यस्य स्थापनं समर्पणं कीर्तितम्। अत्रापि भ्रातृभ्यां स्वमनोवाक्कायाः त्रयोऽपि (न केवलौ वचनकायौ, मनोऽपि) गुरोः समर्पिताः । न केवला गुर्वाज्ञां, गुर्विच्छामपि तावनुसरन्तावास्ताम् । विहारेऽपि गरूपधिं गृहित्वा सन्ध्याविहारे च जलभृतघटान्गृहित्वाऽऽचार्यवर्यैः सहैव द्वावपि मुनी अचलताम् । सदैव तावाचार्यवर्याणां : भोजनस्य पश्चात् भोजनमकुरुताम् । आचार्यवर्याणां दीक्षादिनात् । प्रभृति मध्याह्न भोजनानन्तरं स्थंडिलभूमिगमनस्य नित्यक्रम आसीत्। मुम्बापूरी-राजनगरादिनगरेषु समीपे स्थंडिल-: भूमेरभाव आचार्यवर्या द्विमइलपर्यंतवर्तिस्थंडिलभूमीष्वप्यगच्छन् । वैशाखज्येष्ठभाद्रपदाश्विनमासानां तीव्रतापेऽपि पूज्यवर्याणां एष नित्यक्रमोऽखंडित आसीत् । तदा पूज्य
Page #12
--------------------------------------------------------------------------
________________
में समतासागरचरितम् -goraamaagnore-
९
of
१०
%arkaryay
- समतासागरचरितम् ।
42
पद्मविजया सदैवाचार्यवर्यैः सह शनैः शनैः मन्दगत्याऽगच्छन्। आचार्यवर्याणां स्वगुरुदेवानां = भानुविजयानां सेवायां ते तत्परा आसन् । भानुविजयैः सह दीक्षितैरपि तैर्यावज्जीवं बालकसदृशो लघुभावस्तेषां प्रति प्रदर्शितः।
स्वगुरुदेवानां प्रभूतं कार्य स्वयं कृत्वा गुरुदेवानामध्ययनाध्यापनशासनसेवाकार्येष्वनुकूलतामकुर्वन् । महानिशिथश्रुतस्कंधस्य योगोद्वहनं गुरुशिष्यौ युगपदकुरुताम् एकदा गुरुदेवानामुपरिस्थितपात्रगतकधःस्थिताहारपात्रेऽपतत।* यद्येतस्याहारस्य पारिष्ठापनिका क्रियेत तर्हि गुरुदेवानां दिनं पतेत्। तेन गुरुभक्तोऽयं शिष्यः कटुमिश्रितं सर्वमप्याहारं भुक्तवान् । नूतनेन च शुद्धेनाहारेण गुरुदेवानां भक्तिमकरोत्। ईदृशानि तु नैकानि गुरुभक्तिप्रसङ्गानि तेषां जीवनेऽभवन्।
वेयावचं निचं करेह संजमगुणधराणं । सव्वं किर पडिवाइ वेयावच्चं अपडिवाई ॥ शास्त्रगतैतच्छलोकमाचार्यवर्यैः हृदयेऽकितम् । जो गिलाणं पडिसेवइ सो मां मन्नइ ।
इदमोघनियुक्तिगतं भगवद्वचनं पूज्यैरात्मसात्कृतम्। तेषामिदं मुख्यं जीवनमन्त्रमासीत्। तैः स्वाध्यायादपि मुनिसेवाया अतीव महत्त्वं दत्तम् । तस्माच्चोपाध्यायपदं यावत् ते गोचरचर्या व्यहरन् साधुभक्तिमकुर्वन् । ग्लानमुनिपरिचर्या , तैर्जीवनस्यांतिमश्वासोच्छवासं यावत् कृता ।
पूज्यपद्मविजयैरपि सेवैव जीवनमन्त्रं कृतम् । गुरू
वर्याणामद्भूतसेवया सहान्यमुनीनामपि सेवायां ते सदा तत्परा आसन् । अत्र ते लघुगुरूभेदमपि नापश्यन्। ईदृशानि तु शतशः प्रसङ्गानि सञ्जातानि यत्र कस्यचित्किमप्यस्वास्थ्य सञ्जातं तर्हि सत्वरं पद्मविजयास्तत्र गत्वा योग्यां परिचर्या कृत्वा मुनि स्वस्थमकुर्वन् । यावत् केन्सररोगेऽपि त इदं - न व्यस्मरन् । शिवगञ्ज संवत्सरीपर्वदिने गुणानन्दविजयेनोपवासः कृतः । रात्रौ निद्रा नागच्छद्ममीरागच्छदशक्तिः संजाता। संस्तारके पार्वान्यघर्षत् । पूज्यपद्मविजयानामपि तदाऽष्टम उपवास आसीत्केन्सरस्य च भयड़करो रोग आसीत। तथापि ते गुणानन्दविजयस्य समीपं गताः । शनैः शनैः कटीभागं समबाधयन्ननाहारीभैषजं दत्तवन्तः। तस्य स्वस्थता सम्भवनानन्तरमेव च स्वासने गताः। सहवर्ति बालसाधूनां स्वाध्यायस्य संयमस्य च चिन्तया सह तेषां शरीरस्यापि चिन्तामकुर्वन् । कस्यचिदपि ग्लानावस्थायामौषधपथ्यादिन्यकारयन् । इत्थं गुरुसमर्पितभावविनयवैयावृत्त्यानि त्रयः गुणाः पूज्यपद्मविजयरात्मसात्कृताः ।
ज्ञानसाधना गुरुसमर्पितभावपूर्वकं विनयेन भक्त्या च सह तैः स्वाध्यायकृतेऽतीव पुरुषार्थः कृतः । इदं त्ववधारणीयं- ये गुरुसमर्पितभावेन विनयेन भक्त्या च सह ज्ञानं प्राप्नुवन्ति तेषां ज्ञानं परिणतं भवति । येषां हृदये गुरुसमर्पितभावः विनयः भक्तिश्च नास्ति तेषां सम्यग्ज्ञानमपि कदाचिद् विपर्यासभावमुपैति विपरितं च परिणमति कदाचिदुत्सूत्रे
-
-
-
-
Page #13
--------------------------------------------------------------------------
________________
समतासागरचरितम्
कदाग्रहादौ वा जीवं पातयित्वा विनाशं सृजति, गुरुसमर्पितभावेन सह लब्धं ज्ञानं स्वपरेषामुपकारकं भवति, गुरुसमर्पितभावरहितञ्च ज्ञानं प्रायः स्वपरेषामपकारकं संभवति । पद्मविजयास्तु परमगुरुदेवानां स्वगुरुदेवानां च सेवायां सदैव निरता आसन् । उभयगुरुदेवानां सेवां कुर्वद्भिस्तैस्तेषां कृपया शोभनं ज्ञानमुपार्जितम् ।
गृहस्थावस्थायां मनसुखश्राद्धशालायां पठद्भिस्तैः पञ्चप्रतिक्रमणसूत्राणि चतुःप्रकरणानि भाष्यात्रयं प्रथमद्वितीयकर्मग्रन्थौ यावदधीतं । उपरिशालायां संस्कृतस्याभ्यासः कृतः । तेन पूज्याचार्यवर्यैर्भ्रातरौ संस्कृतकाव्यानि पाठयित्वा भानुविजयो न्यायाध्ययनं कारितः पद्मविजयश्च सिद्धहेमव्याकरणाध्ययनं पण्डितसकाशे कारितः । षट्सहस्रप्रमाणलघुवृत्त्या सह सिद्धहेमव्याकरणं कंठस्थं कृतम् । तेन सहाष्टादशसहस्रप्रमाणायाः बृहद्वृत्तेरवगाहनापि कृता। एकस्मिन् वर्षे कंठस्थीकृतस्य व्याकरणस्य पुनरावृत्तिस्ते त्रिभी रात्रिभिररकुर्वन् ।
तदधिकं च प्रकरणषट्कर्मग्रंथ - वीतरागस्तोत्र - योगशास्त्र- शान्तसुधारस- ज्ञानसार - जीतकल्प- अभिधानकोश, धातुपाठ - तत्त्वार्थसूत्र, उत्तराध्ययनसूत्र उपदेशमालेत्यादिगंथस्थ श्लोकानां सहस्राणि तैः कंठस्थानि कृतानि ।
मूलसूत्रैः सहाचार्यवर्याणां समीपे प्रकरणकर्मग्रंथप्रज्ञापनाभगवतीकर्मप्रकृत्यादिग्रंथानां पदार्थानां ज्ञानं लब्धं कठस्थं च कृतम् ।
११
* समतासागरचरितम्
इत्थं व्याकरणप्रकरणग्रंथैः सह तैः षड्दर्शनशास्त्राण्यपि पठितानि । न्यायसिद्धान्तमुक्तावलीदिनकरीकुसुमांजलीव्युत्पत्तिवादसांख्यकारिकावैशेषकिदर्शनयोगदर्शनवेदांतपरिभाषेत्यादिग्रन्थानां परिशीलनं कृतम् । प्रमाणनयतत्त्वालोकरत्नाकरावतारिकास्याद्वादमंजरीसंमतितर्कनयोपेदशललितविस्तराशास्त्रवार्तासमुच्चयेत्यादिजैनन्यायशास्त्राणामप्यवगाहनं
१२
कृतम् ।
तत्त्वार्थसिद्धसेनीयबृहट्टिकादिगंबरीयतत्त्वार्थराजवार्तिककर्मग्रन्थटीकायोगबिंदुयोगदृष्टिविंशतिविंशिकायोगशास्त्रत्रिषष्टिशलाकापुरुषचरित्रतिलकमञ्जरीशांतिनाथमहाकाव्यशा
लिभद्रमहाकाव्यपद्मानन्दमहाकाव्यगुरुतत्त्वविनिश्चयद्वात्रिंशद्
द्वात्रिंशिकोपमितिपुष्पमालोपदेशमालाषोडशकाष्टकप्रकरणधर्म
बिन्दूपदेशपदसमराइच्चकहाप्रबन्धभवभावनाद्यनेकशास्त्राण्यवलोकितानि । आवश्यकसूत्रौघनिर्युक्त्यिाचाराङ्गोत्तराध्ययनस्थानाङ्गादिबृहत्कल्पव्यवहारपर्यंतागमसमुद्रस्यावगाहना कृता । प्रायः पञ्चचत्वारिंशदागमाः सटीकाः तैरभ्यस्ताः ।
शास्त्रावलोकनेन सहाचार्यवर्याणां सूचनया तैरनेकग्रन्थस्थपदार्थानां सङ्ग्रहोऽपि कृतः । एते ग्रन्था अपि प्रभूताः । तथा च निशीथसूत्रव्यवहारसूत्रसम्मतितर्कनयोपदेशषोडशकानेकांतव्यवस्थाप्रकरणशांतिरक्षितविरचितकमलशीलकृतटीकासहिततत्त्वसंग्रहमहानिशीथसूत्रधर्मरत्नप्रकरणनेमिचंद्र
सूरिकृतमहावीरचरित्रानेकग्रन्थस्थदेवद्रव्यपाठचैत्यवन्दनभा
ष्योपदेशमालोपदेशरत्नाकरोपदेशपदयोगदृष्टिसमुच्चयसंस्कृत
Page #14
--------------------------------------------------------------------------
________________
समतासागरचरितम् -40
00-00- १३
4 १४ Moraparkonk- समतासागरचरितम् ।
नियमप्राकृतव्याकरणसाधुहितशिक्षाद्वात्रिंशिकापरिशिष्टपर्वदशमपर्वप्रबन्धचिन्तामणीसंयमचर्यापुरातनप्रबन्धसङ्ग्रहचतुविंशतिप्रबंधनमस्कारफल-प्रकरणानि।
संयमजीवने तैर्गुरुसेवा-गच्छचिन्तान्यकर्तव्यलोकोपकारविहारचर्यादीनामखण्डितकरणेन सह लक्षशः श्लोकप्रमाणानि शास्त्राणि पठितानि।
अथ ज्ञानदानम् । विशालज्ञानतलस्पीभ्यासं कुर्वाणा गुरुदेवा न केवलं! ज्ञानप्राप्त्या संतुष्टा आसन, अपि तु तैः सम्यग्ज्ञानस्यानेकार्थिजनेभ्यो दानमपि कृतम् । तेषामध्यापनपद्धतिरपि शोभनाऽऽसीत् । प्रायस्ते पञ्चाशद् मुनिवरान्संस्कृतप्राकृतव्याकरण-न्यायादिविषयाः पाठितावन्त आगमानामन्यशास्त्राणां । च वाचना दत्तवन्तः। तेषाः संयमशुद्धिरतीव प्रियाऽऽसीत्। ते न केवलं शाब्दिकज्ञानं दत्तवन्तः किन्त्वध्येतृणां जीवनस्यापि चिन्तां कृतवन्तः। शिक्षणेन सह संस्करणस्यापि करणं तेषां : जीवनस्य महत्तमं कार्यमासीत्। ते साधून शास्त्राण्यवाचयंस्तेन च सह साधुजीवनस्पशिविषयान् गुरुसमर्पण-ब्रह्मचर्यजीवरक्षा-समितिगुप्तिपालन-निर्दोषभिक्षाचर्या-त्यागइन्द्रियनिग्रह-विनय-सेवादीन् प्रति विशिष्टप्ररेणामपि दत्तवन्तः । ।
सुसंयमिनां शास्त्रज्ञातृणाञ्च मुनीनां सम्पादनमिति तेषां जीवनमन्त्रमासीत् । पूज्यगुरुदेवभानुविजया वैराग्यरसयुक्तदेशनया मुमुक्षून्संयमं प्रत्यभिमुखानकुर्वन् । पूज्यप्रगुरुदेवा आचार्यवर्यास्तान्दृढिकृत्य चारित्रं दत्त्वा पद्मविजयेभ्यः
समार्पयन् । पद्मविजयाः साधूनां शोभनं जीवनशिल्पं रचयन्ति स्म । तेषां जीवनस्येदमेव मुख्यं कार्यमासीत् । इदानींतने कालेऽपि बहुमुनिवरेषु संयमस्योत्तमसंस्कारैः सह विद्वत्ता दृश्यते तत्र पूज्याः एव निमित्तीभवन्ति स्म । बालमुनींस्तु तेऽतीव वात्सल्येन ग्रहणासेवनशिक्षे दत्तवन्तः । तेन च ते सदा तेषां - समीपे एव वसन्ति स्म। स्वपरेषां शिष्यानां भेदमकृत्वा ते समुदायस्य कमपि साधुमपाठयनासेवनशिक्षां च दत्तवन्तः। इत्थं समुदायस्य महत्त्वपूर्णकार्यस्य वहनेन तैरुभयगुरुदेवा । निराकुला कृताः । तेन ते शासनस्यान्यकार्येषु स्वीयं समयं । दातुमशक्नुवन् । अग्रे वर्णयिष्यामो यत्केन्सराख्यभयङ्करव्याधौ । जल्पीतुमशक्तास्तेऽसह्यवेदनायामपि पत्रे लिखित्वा लिखित्वापि मुनिभ्यः संयमप्रेरणा ददुः । सदाऽन्तर्मुखतायां लीना आचार्यवरा अपि तेषामनया प्रवृत्त्या प्रसन्ना बभूवुः । इत्थं च तैरुभयगुरुदेवानां शोभना कृपा सम्पादिता, तेषां जीवनस्यैकैव महत्त्वाकाङ्क्षाऽऽसीद्यत्गुरुदेवाः कथमतीव प्रसन्ना भवेयुः। न केवलं गुरुदेवानामाज्ञाविपरितः, अपि तु तेषामिच्छाविपारित एकोऽप्यंशस्तैः स्वजीवने न प्रवेशितः । तत एव तेषां हितशिक्षासु प्रेरणापत्रेषु च सर्वत्र समर्पितभावविनयभक्तिसेवानामुक्तयः दृश्यन्ते ।
एतद्विषये तेषां क्षयोपशमोऽतीव तीव्रः सञ्जातः। तैरेकं सूत्रं निर्मितं- गुरौ मानुषी बुद्धिं कुर्वाणो नरकं व्रजेत् । ते गुरौ न सामान्यमनुष्यस्य, अपि तु भगवतो दर्शनमकुर्वन्।
+ NK
Page #15
--------------------------------------------------------------------------
________________
, समतासागरचरितम्
meriment १५
*
१६
generalm- समतासागरचरितम् ।
अथ तपः त्यागश्च पूज्यपद्मविजयानां संयमजीवनं द्विविभागीभवतिदीक्षाप्रभृतिप्रारंभिकषोडशवर्षाणि तत्पश्चाच्च केन्सरामयावस्थायां व्यतितानि समाधिमयानि दशवर्षाणि।
तैर्दीक्षादिनादेवैकाशनानि प्रारब्धानि। इदं च तैः स्वप्रगुरुदेवप्रेमसूीरश्वराणां जीवनाद्गृहीतम् । पूज्याचार्यवर्याः स्वजीवने दीक्षादिनादेवैकाशनानि कृतवन्तः। अष्टषष्टिवर्षसंयमपर्याये हृदयरोगपश्चाद्भाव्यन्तिमद्वित्राणि वर्षाणि मुक्त्वा । पूज्याचार्यवर्यैः प्रायशः पञ्चषष्टिवर्षाण्यखण्डितान्येकाशनानि कृतानि, तत्रापि प्रायेण मिष्टान्नफलानां तु सदैव त्याग एवा-2 ऽऽसीत् । पुनापत्तनचातुर्मासेषु तु तैरकाशनेष्वप्याहारसूपयोराहारपयसोश्च द्वयोर्द्रव्ययोरभिग्रहः कृतः। एकाशनैः सह । विहारादिषु जैनानामभावे जैनेतरगृहानीतनिर्दोषाहारेण ते स्वनिहिं कृतवन्तः। अन्यच्च ग्लानभक्ति-वैयावृत्त्य-गुरु-विनयस्वाध्याय-उग्र ब्रह्मचर्य-अन्तर्मुखता-कषायमन्दतासहनशीलताद्यनेकगुणसाधनासुवासोऽपि परमगुरुदेवानां जीवनात्पूज्यपद्मविजयैर्गृहीतः । दीक्षादिनादेव नित्यैकाशनमिष्टान्नफलशुष्कफलत्यागाद्यभिग्रहास्तैः कृताः । जल्पनसमये : यदि मुखवस्विकाया उपयोगो विस्मृतस्तर्हि चकारस्त्यजनीय। इति तैरभिग्रहः कृतः । पुनः केन्सररोगवृद्धावन्ते चोदरे नलिकायोजनानन्तरं केवलं द्रवपदार्थग्रहणात्तेषां सर्वत्यागः सञ्जातः । किंतु कदापि तैरेतस्य विचारोऽपि न कृतः ।। निसर्गेण दत्तां परिस्थितिं सहर्ष स्वीकृत्य परिस्थित्यनु
सारेणाधिकाधिकाराधना करणीयेति तेषां दृढः सङ्कल्प आसीत् । तेषां समय एवामेरिकोपप्रमुखडल्लासः केन्सरव्याधिना पीडित आसीत् । विश्वविश्वे तेन घोषणा कारिता यद्यः कश्चिदपि मम व्याधेरुपशमनं करिष्यति तस्मा : अहमिच्छानुसारेण द्रव्यं दास्यामि । दीनतापूर्णा घोषणां कारयतोऽतिधनाढ्यस्य तस्येयमवस्था जाता। तदा निःस्पृहा : अकिंचनाश्च गुरुदेवा केन्सरव्याधिनेषदप्यदीना व्याधिं कर्मक्षपणशोभनावसरं गणयन्नात्मारामे रता आसन् । कीदृशी । गुरुदेवानां गौरवपूर्णा स्थितिः ! नूनमतीव चिन्तनानन्तरं प्रतिभासते यचतुर्थारकसाधकः कर्मविचित्रतया पंचमारकेऽत्र : भरतेऽवतीर्णः । शास्त्रेषु चतुर्थारकमुनीनां परिषहसहनादिवर्णनं यथा दृश्यते साक्षात्तथैव गुरुदेवानां जीवनेऽप्यदृश्यत ।। केन्सरव्याधौ तैः कृताया मासक्षपणादिघोरतपश्चर्याया वर्णनमग्रे करिष्यामः। केन्सरव्याधिभवनात्पूर्व तैर्नित्यैकाशनैः सह वर्धमानाचामाम्लतपस एकोनचत्वारिंशदोलयः कृताः । आहारेष्विव वस्त्रेष्वपि ते निःस्पृहा आसन्। मासात् पूर्व वस्त्राणि क्षालयितुं न दत्तवन्तः । मलिनवस्त्राणि ते साधुताया भूषणस्वरुपाण्यमन्यन्त । ते विभूषाया विरोधिन आसन्।
अथ निःस्पृहता साधुजीवने प्रारंभ आहारस्योपधेश्च स्पृहया संयमजीवनं मलिनं भवति पश्चाच्च व्याख्यानशिष्यपदवीनां स्पृहया जीवनं दूषितं सञ्जायते इति परमगुरुदेवस्वगुरदेवानां हितशिक्षावचनान्यपि तैः स्वजीवने पालितानि। परमगुरुदेवानाम
Page #16
--------------------------------------------------------------------------
________________
4
१८
ort+rera
- समतासागरचरितम् ।
-
-
में समतासागरचरितम् +000-
- १७ द्भूतनिःस्पृहता जगति प्रसिद्धाऽस्ति। आहारविषये यत्किंचित्पात्रकमध्य आगच्छति तेन निर्वाहकरणं, वस्त्रविषये प्रावृतवस्त्राधिकासंग्रहः, व्याख्यानपट्टात्सदाऽलिप्तिः, अनेकजीवप्रतिबोधनेऽपि स्वशिष्याकरणान्यशिष्यकरणं गुर्वाज्ञया रुदतः सत आचार्यपदस्वीकरणं, एते प्रसङ्गाः परमगुरुदेवानामुत्कटनिःस्पृहतां प्रतिव्यक्तीकुर्वन्ति। पूज्यपद्मविजया अपि प्रारंभादेवाहारे वस्त्रे च निःस्पृहा आसन्। शोभनमूल्यववस्त्राणि तु ते कदापि न गृहीतवन्तः।। शोभनमूल्यववस्त्रेभ्यस्ते सदैव दूर एवाऽतिष्ठन् । अद्भूतप्रवचनशक्तौ सत्यामपि तैर्व्याख्यानाय महत्त्वं न दत्तम् ।। कदाचिद्गुरुदेवानामाज्ञया पृथक्चातुर्मासादिषु स्वनियोगं । मन्वानास्ते व्याख्यानं कृतवन्तः । तेषां प्रवचनमतीव शोभनमासीत्तथापि तेषु व्याख्यानस्य व्यसनं नासीत् ।। चातुर्मासादियत्कार्यसम्पादनाय गुरुभिः प्रहितास्तत्कार्यसमाप्त्यनन्तरं ते झटित्येव पुनर्गुरुचरणयोरुपस्थितवन्तः।। प्रसङ्गागमने केवलमनुग्रहबुद्ध्यैव व्याख्यानं कृतवन्तः । किन्तु व्याख्यानात्प्राप्याया यशःकीर्तेः सकाशात् ते सदा दूरे स्थितवन्तः। अल्पपरिग्रहं अल्पलोकपरिचयं च ते । निःस्पृहतायाः शिखरस्य प्रापणे पदवीसमानममन्यन्त। तेन बहुमूल्यवस्वत्यजनमिव लोकपरिचयमपि त्यक्तवन्तः । तेषां प्रवचनविषयाः तपस्त्यागात्मपरिणतिसंयमविशुद्धय आसन् । साधूनपि पुनः पुनस्ते शिक्षा दत्तवन्तः-"प्रवचनपट्टमतीव दुष्पचमस्ति। विरलमहानुभावानामेव तज्जीर्यति । सङ्घस्य
-
-
सत्कारः सन्मानञ्च लभ्येते। लोकसंपर्को विशेषेण भवति। सरलहृदयलोका अतीवभक्तिं कुर्वन्त्यनेकशः प्रणाम कुर्वन्ति- इदं सर्वं व्याख्यातृजीवने परिषहरूपमस्ति । आत्मार्थिजीवैरेतन्मनसि धारणीयं यद्व्याख्यानप्रवृत्तिसमये: यदि जीवः स्वस्य लक्ष्यं न धारयति, लोकानां मानसन्मानभक्त्यादिषु लिप्यते, आत्मपरिणतिं स्खलयति : तदा तस्य परिणामोऽतीव भयङ्करो भवतीत्यादि ।"
निःस्पृहतया सह तेऽतीव सरला आसन् । मनस्यन्यत्किञ्चिदहिश्चान्यत्किञ्चिदिति तेषां स्वभाव एव नासीत्।। गुरुभिस्सह तु मायाचारोऽसम्भावनीयः । किन्तु मुनिभिस्सहापि ! ते सरलमेव व्यवहारं कृतवन्तः । त इदममन्यन्त यद्हृदये दम्भमायानां सङ्ग्रहं कुर्वाणस्योन्नतिद्वाराणि स्थगितानि भवन्ति प्रतिपक्षव्यक्तेश्चातीव हानिर्जायते।
__ अथ सहनशीलता साधनाया उत्तुङ्गशिखरमारोढुं सहनशीलताऽनिवार्या ऽस्ति। समाधेरयमेवार्थो विपरीतपरिस्थितिरपि समतया सोढव्या। गजसुकुमाल-मेतार्य-स्कन्दकमुनिवरादयः मरणान्तपरिषहानपि समभावेन सोदवा केवलज्ञानं लब्धवन्तो मुक्तिञ्च प्राप्तवन्तः। ईदृगुच्चैरादर्शषु रममाणाः पूज्याचार्यवर्या अप्यद्भूतसहनशीलताया मूर्तिसमा आसन् । स्वजीवने तैः शारीरिकमानसिकोभयप्रकारेणाऽतीव सोढम् । विशालसमुदाये, महति जिनशासने सङघे चोत्थिताननेकप्रश्नांस्ते मानसिकसमतापूर्वकं समुदायसङ्घस्य हितं यथा स्यात् तथा
-
Page #17
--------------------------------------------------------------------------
________________
में समतासागरचरितम् +000-
-
१९
२० .
comera
- समतासागरचरितम् ।।
निराकृतवन्तः । उग्रविहार-निर्दोषाहारचर्या-तीव्रत्याग-नित्यैकाशनादि-कठोरसाधनाभिस्तैः शरीरमपि परिकर्मितम् । तेषां : निरोगिशरीरेऽपि पुराकृतकर्मणामुदयेन भ्रमद्वायोः पीडा पौनःपुन्येनाभवत् । तदा तेषां शरीरे शूलक्षेपणसदृशी वेदनाऽभवत्।। तथापि ते तां समतया सोढवन्तः । मन्दपीडां तु न कश्चिदपि कथितवन्तः । सर्वाणि भैषजानि निष्फलानि सजातानि, यदा यदा त औषधं प्रयुक्तवन्तस्तदा तदा तेषां पीडाया वृद्धिरभवत्, केवलं उष्णजलतापयोगेन तेषामिषत्स्वस्थताऽभवत् । किन्तु तत्कृतेऽपि ते निर्दोषस्वाभाविकोष्णजलानयनस्याग्रहं कृतवन्तः । अन्तिमावस्थायां तु तैर्मनो ! दृढीकृत्य कर्मशत्रुभिः सह योद्धं निर्दोषोपचारमपि निषिध्य सहनस्यैव निर्णयः कृतः।
पूज्यपादा भानुविजया अपीदृक्कठिनसंयमजीवनस्य साधका आसन् । पूज्यपद्मविजयैरुभयगुरुदेवानां गुणसमृद्धिः सम्पूर्णतया गृहीता । न केवलं गृहीता किन्तु केन्सरादिरोगेषु घोरपीडासहनेन सा विकासिताऽपि । केन्सररोगे घोरपीडायां तेषां सहनशीलताया वर्णनमग्रे करिष्यामि । वि.सं.१९९८ वर्षे खम्भातचातुर्मासमध्य एकः प्रसङ्गगोः घटितो यस्मिँस्तेषां सहनशीलतायाः परीक्षा जाता । पूज्यपद्मविजयाश्चिरकालाजीर्णज्वरेण पीडिता आसन्। ततोऽन्योपायाऽभावे पर्युषणानन्तरं वैद्येन तेभ्यः सोमलस्येजेक्शनं दत्तम् (इजेक्शनं-एकं साधनं यस्मिन्सूच्या : शरीरान्तरौषधः प्रवेश्यते।) अशुभकर्मोदयात् नाड्यां दत्तमिजेक्शनं नाडी विद्ध्वा मांसपेशिषु प्राविशत् । द्विमुहूर्ता
नन्तरं तु शरीरेऽशाता प्रसृता। हस्तः पीडितः । शरीरमस्वस्थं सञ्जातम् । दाहपीडाभ्यामतिशयेन वेदनोत्पादिता । यदि ते तदैव तस्य सूचनमकरिष्यस्तदा ऽन्येनेजेक्शनेन तस्य वारणमभविष्यत् । किन्तु तेषां स्वभावः सहनस्यासीत् ।। ततस्तैः किमपि न कथितम् । यदा वेदना-ऽसह्या जाता तदा वैद्य आहूतः । सोऽपि तूर्णमागतः । परन्तु तदानीं : प्रभूतः कालो व्यतीतः । वारणस्य कोऽप्युपायो नासीत् । हस्तः पक्वः सञ्जातः । तीव्रा वेदना प्रारब्धा । हस्तः पृथुलः सञ्जातः । पूज्यप्रेमसूरीश्वराः पूज्यभानुविजयाश्च समाधिसहनशीलतार्थं भव्याः प्रेरणा दत्तवन्तः । पद्मविजयैरत्यन्तसमतया पीडा सोढा, न केवलं पीडा सोढा किन्तु खिन्ना वैद्या अपि तैराश्वासिताः- 'नायं युष्माकं दोषः, किन्तु मम पूर्वकर्मणामेवायं विपाकः । श्रीसङ्घोऽप्यतिभक्तिभरेण तेषां सेवामकरोत् । अन्ततो गत्वा हस्ते कर्तर्या व्रणः कृतः । किन्तु सो व्रणः कथमपि रुग्रहितो न जातः। चातुर्मासानन्तरं तेऽमदावादमागताः । सेवातत्परेण वैद्येन सोभागचन्देन शस्त्रक्रिया कृता। अयं तेषां रोगश्चतुर्षान्मासान् यावत्प्रवृत्तः। तदा तैरभूतसहनशीलता प्रदर्शिता। विशिष्टप्रतिकूलप्रसङ्गेषु तेषां मानसिकसहनशीलताऽप्यद्भूताऽभवत् ।
ब्रह्मचर्यसाधना ब्रह्मचर्यं तु साधुत्वस्य प्राणः । सम्पूर्णब्रह्मचर्यरहितः साधुः सदाचाररहितश्च श्रावक एतावुभावपि जीवन्मृतकौ स्तः। एतद्गुणविहीनानि समाजराज्यराष्ट्राणि विनाशस्यान्तिके
Page #18
--------------------------------------------------------------------------
________________
* समतासागरचरितम्
aftegort- २१
*
२२
omkarenger
- समतासागरचरितम् ।
+8
M
तिष्ठन्ति। तेषां श्वासोच्छ्वासाः लोहकारधमनीसदृशाः प्रवर्तन्ते । देशसर्वब्रह्मचर्य विना कोऽपि जीवः चित्तप्रसन्नतां नाप्नोति । इदं सर्वगुणानां मूलम् । इदं सर्वधर्माचरणानां मूलम् । मूलरहितं गृहं न चिरं तिष्ठति, तथा ब्रह्मचर्यगुणं विना सर्वाणि धर्माचरणानि निष्फलानि सन्ति । पूज्यप्रेमसूरीश्वरा एतद्गुणेऽग्रगण्या आसन्। तैरेतद्विषये मनोवाक्कायानां शोभना शुद्धिः सम्पादिता । समुदायेऽप्येतत्पालनाय ते सदैवातीव जागरुका आसन् । ते स्वयं ब्रह्मचर्यनववृत्तीन्पालितवन्तः । समुदायस्य सर्वसाधूनपि त एतत्वृ-। त्तीपालनकृते प्रेरितवन्तः । ते पुनः पुनः साधुभ्योऽकथयन्-: 'तपःत्यागस्वाध्यायादिषु युष्माकं क्षतीरहं सहिष्ये, किन्तु : चतुर्थव्रतपालनमध्ये सूक्ष्मामपि क्षतिमहं नो सहिष्ये।' ते । स्वयं विजातीयसम्पाद्दूरे स्थितवन्तः। साधुभ्योऽपि तेषामियमेवापेक्षाऽऽसीद्यत्तेऽपि विजातीयसंपर्काढूरे तिष्ठेयुः । कदाचित्कस्यचिन्मुनेर्विजातीयसम्पर्कवार्ता यदा ते ज्ञातवन्तस्तदा तीव्रदण्डेन तं निवारितवन्तः । कदाचित्कोऽपि कर्मवशेन स्खलितस्तदा तेन शुद्धिमप्यकारयन्। पूज्यपादा एतव्रतशुद्ध्यर्थमतीवाग्रहवन्त आसन्। तेषां ब्रह्मचर्यशुद्धिस्त्वीदृग्विशिष्टाऽऽसीद्यत्तस्याः प्रभावेन तेषां सान्निध्ये निवेशन-1 मात्रेणान्येषां वासनाविकाराः प्रशांता अभवन् । न केवलमेतत्किन्तु तेषां नामस्मरणमात्रेण ब्रह्मचर्यरक्षाया अनेकप्रसङ्गाः सञ्जाताः । 'ब्रह्मचारिणा चिन्तितं कदापि निष्फलं न भवति'- इयमुक्तिस्तेषां जीवने यथार्था सञ्जाता। एतद्
महागुणप्रभावेण तैरुत्तमसंयमितपस्विविद्वत्प्रभावकव्याख्यातृमुनीनां महान्समुदायो जनितः । पूज्यपादा यदा यदा यं यं मनोरथमकुर्वन् तदा तदा सः सः प्रायस्तेषामेतन्महद्गुणप्रभावेण सिद्धोऽभवत्। पूज्यपादानां ब्रह्मचर्यगुणवर्णनमाचार्यजगचन्द्रसूरिभिस्तेषां भाषारासमध्य इत्थं कृतम्। પ્રેમસૂરીશ્વર ! ગુણના આકર, ગુણ હૈઈ અમ દુ: ખ મીટાવો હો ગુરુવર, . ધીરપુરુષ તે સહન કર્યું જિમ, તૈહ તણી અમ રીતિ બતાવૌ હૌ ગુરુવર.૧ ૬ બ્રહ્મચર્યનું તેજ વિરાજૈ, જૈ મલ સર્વ ગુણોનું હો ગુરુવર, મન-વચ-કાય વિદ્ધ જ એ તો, ચિત્ત દરે ભવિજનનું હો ગુરુવર.૨ ગુણ ગાતા મેં હૈ ઈ જન દીઠા, અહો મહા બ્રહ્મચારી હો ગરવર, છે આ કાલે દીઠૌ નહીં ઐહવૌ, વિપુદ્ધ વતનો ધારી હો ગુરુવર.૩ L સ્ત્રીસાધ્વી સન્મુખ નવી જોયુ, વૃદ્ધપણે પણ તેં તો હો ગુરુવર, આ વાત કરે જબ હૈત નીપજે, દૃષ્ટિ ભૂમિ હૈ તો હો ગુરુવર. ૪ : શિષ્યગણનૈ એહ શિખવીય, દૃઢ આ વિષયે રહેજે હૉ મુનિવર, એહતણા પાલનને કારણ, દુઃખમરણ નવી ગણજો હો મુનિવર.૫ સંયમમહેલ આધાર જ ઐ તો, દૃષ્ટિદૉષે સવિ મીંડુ હો મુનિવર, કર્મકટકનૈ આતમઘરમાં, પૈસવા મોટ, ઈડુ હો મુનિવર. બ્રહ્મમાં ઢીલા પદવીધર પણ, જાય નરક ઔવારે હો મુનિવર,
દ્ધ આલૌયણ કરે તન્હ તેથી, દુઃખ સહે તિહાં ભારે હો મુનિવર.૭ વિજાતીયનો સંગ ન કરજ, સાપ તણી પરે ડરજો હો મુનિવર, કામકુટીલનો નાશ કરીને, અવિચલ સુખડા વરજો હૌ મુનિવર.૮
भावार्थ:- हे प्रेमसूरीश्वराः ! हे गुणाकराः ! गुणान्दत्वाऽस्माकं दुःखानि दूरीकुरुत । हे धीरपुरुष ! यथा त्वया
Page #19
--------------------------------------------------------------------------
________________
* समतासागरचरितम्
aftegort- २३
*
२४
generation- समतासागरचरितम् ।
-
-
+49
सोढं सा रीतिरस्मान्दर्शय । हे गुरुवर ! तव ब्रह्मचर्यतेजो विराजमानमस्ति । ब्रह्मचर्यगुणं तु सर्वगुणमूलम् । तव मनोवाक्कायानि विशुद्धानि सन्ति । तानि भव्यजनानां चित्तानि हरन्ति । हे गुरुवर ! मया प्रभूता जनास्तव गुणस्तुति कुर्वन्तो दृष्टा यथा गुरुवर महाब्रह्मचार्यासीत्, अस्मिन्काले ईदृग्विशुद्धव्रतधरो न दृष्टः । हे गुरुवर ! त्वया वार्धक्येऽपि स्त्रीसाध्वीसन्मुखं न विलोकितम् । कारणे तु यदा ताभिः समं वार्तामकरोस्तदापि तव दृष्टिस्तु भूमिमेवास्पृशत्। हे गुरुवर! ! त्वया शिष्यवृन्दः शिक्षितः यदेतद्विषये युष्माभिदैर्भवितव्यम्।। तत्पालनकृते दुःखमरणेऽपि मा गणयध्वम् । हे मुनिवराः !! विशुद्धब्रह्मचर्यं तु संयमप्रासादाधारः, दृष्टिदोषे सर्व शून्यं भवति। दृष्टिदोषस्तु कर्मानीकस्यात्मगृहे प्रवेशनाय बृहच्छिद्रमस्ति। हे । मुनिवराः ! ब्रह्मचर्ये शिथिलाः पदविधरा अपि घोरनरकातिथितां भजन्ति, अतिचाराणां शुद्धालोचनप्रायश्चित्ताभावे तत्र तीव्र दुःखं सहन्ते । हे मुनिवराः! यूयं कदापि विजातीयसङ्गं मा कुरुध्वम् । सदैव ताभ्यो सर्पेभ्य इव बिभीत । कुटिलकामं विनाश्याविचलसुखानि वृणुध्वम् ।
पूज्यभानुविजया अप्येतद्विषये सम्पूर्णतया जागरुका ! आसन् । पूज्यपद्मविजयैरप्येतद्विषय उभयगुरुदेवानामनुकरणं कृतम् । साध्वीस्त्रीभिः सह तेषां लेशमात्रोऽपि संसर्गो नाऽभवत्। उपदेशदाननिमित्तमपि तैः स्वजीवने कदापि विजातीयपरिचयो न कृतः। ब्रह्मचर्यसर्ववृत्तिशोभनपालनं तेषां जीवन आसीत्। ते बहुलतया गुरुकुलवास एवाऽवसन् । तत एतद्गुणः सुष्ठ
रक्षितस्तैः। न केवलमेतत्किन्तु कदाचिद्गुर्वाज्ञया चातुर्मासार्थमन्यकार्यनिमित्तं वा यदा ते पृथग्विहृतवन्तस्तदापि ते निरतिचारा मर्यादाः स्वयं पालितवन्तोऽन्यैश्च पालितवन्तः। काव्यादिपठनपाठने शृङ्गाररसयुक्तश्लोकांस्तु ते त्यक्तवन्तः।
परार्थकरणम् । "जयवीयराय'सूत्रे ‘परत्थकरणं' इति पदेन परमात्मसकाशे परार्थकरणस्य याचना क्रियते । टीकाकृत एतत्पदविवरणं कुर्वन्तो ज्ञापयन्ति- 'जीवलोकसारं पौरुषचिह्नमेतत्।' परार्थकरणं समस्तजीवलोकस्य सारभूतं वर्त्तते तथा । पुरुषार्थस्य चिह्न-ज्ञापकलक्षणं वर्तत अर्थात् पुरुषार्थस्य सफलता परार्थकरणेऽस्ति। यथाशक्ति यथासंयोगं चान्यकार्यकरणं, अन्येषां साहाय्यकरणं, स्वीया शारीरिकमानसिकशक्तिरन्यशोभनकार्ये प्रयोक्तव्या इति परार्थकरणम्। तदेव वास्तविकं पुरुषार्थमस्ति । साधनायामपि केवलं स्वार्थ चिन्तयंस्तात्त्विकसाधनां कर्तुं न शक्नोति । तत एव साधुपदव्याख्यायां यो स्वयं दर्शनज्ञानचारित्राराधनया मोक्षं साध्नोति सः साधुरिति प्रदर्शनेन सह यो मोक्षसाधनाया-1 मन्येषां साहाय्यं करोति सः साधुरित्यपि प्रदर्शितम् । तीर्थकृज्जीवाकालिकविशेषणेष्वपि 'परार्थव्यसनं' प्रथमस्थानं बिभर्ति।
पूज्यपद्मविजयानां स्वभावोऽपि परार्थकरणेनानुस्यूत । आसीत् । अत एव भयङ्करकेन्सरव्याधावप्यन्यमहात्मनामशातां पीडामसमाधिं वा ज्ञात्वा ते तूर्ण तत्र प्राप्नुवन्, तेषां ।
Page #20
--------------------------------------------------------------------------
________________
* समतासागरचरितम्
aftegort- २५
२६ friendra- समतासागरचरितम् ।
प्रभूतं साहाय्यमकुर्वन् सुन्दरसमाधिं च दत्तवन्तः । तैः स्वशिष्याद्यतिरिक्ता अप्नेके मुनयः पाठिताः । संस्कारदानमपि तेभ्यस्तैर्दत्तम् । व्याख्यानादिकृतेऽन्यसङ्घष्वपि स्वमुनीन्प्रहितवन्तः । ग्लानमुनिसेवावसरं तु ते कदापि नामुञ्चन्। स्वयं ग्लानमुनीन्सेवितवन्तोऽन्यैरपि सेवितवन्तः । अनेकश्रावकश्राविकाभ्योऽपि तैः शोभनं शिक्षणं संस्काराश्च दत्ताः। षड्विंशतिवर्षपर्याये तेषां प्रभूता चातुर्मासाः गुरुदैवैः सहैवाभवन् । किन्तु गुर्वाज्ञया वि.सं.२००२ वर्षे लुणावानगरे, वि.सं. २००३ वर्षे धिणोजनगरे, वि.सं. २००४ वर्षे लींछनगरे, वि.सं.२००९, २०१०, २०१२, २०१४ वर्षेषु च । दादरनगरे तैः पृथग्चातुर्मासाः कृताः । एतेषु चातुर्मासेषु सहवर्तिमुनिगणशास्त्राभ्यासकारणेन सह तैः श्रीसर्छ । जनेभ्योऽपि शोभन उपदेशो दत्तः। तेषां वाणिर्वैराग्यरसनिर्भरा मर्मवेधिनी चाऽसीत् । सा श्रोतृहृदयमतीव प्रभावितवती। अत एतेषु क्षेत्रेषु तेषामीयान्सुगन्धः प्रसृतः यच्छ्रावकाः चिरं तान्स्मृतवन्तः । श्रद्धायामाचरणायाञ्च सर्वान्दृढीकरणस्य कलां ते धृतवन्तः। ते श्रावकेभ्यो व्याख्यानं तु दत्तवन्त एव, जीवविचारनवतत्त्वतत्त्वार्थसूत्रादिप्रकरणग्रन्थविषया वाचना अपि प्रकाशितवन्तः । बहुशा रात्रौ स्नात्रपूजाया अन्यपूजानां चार्थान्रागाँश्चापि पाठितवन्तः। तथा साधूनां स्वाध्यायसंयमादियोगानपि ते चिन्तितवन्तः । सारणावारणादिष्वपि तेऽप्रमत्ता आसन् । पूज्यप्रेमसूरीश्वरा अपि साधून संस्करणार्थ तेषां समीपे प्रेषितवन्तः । तेऽपि साधूनां सर्वाङ्गीणविकासाथ
प्रयतितवन्तः । साधूनां पाठनं, रात्रौ नियमपूर्वकं स्वाध्यायकारणं, समितिगुप्तिपालनकारणं, श्रावकाणां मार्गे योजनं, श्रावकश्रद्धादृढीकरणमित्यादिषु कलासु तेऽतीव प्रवीणा आसन्, श्रीसङ्घोऽपि साधूनां संयमस्वाध्यायादियोगान्दृष्ट्वाऽतीव: प्रभावितः समजायत ।
गच्छसेवा पूज्यप्रेमसूरीश्वरैः स्वीयविशुद्धचारित्रप्रभावेनैको विशालः साधुसमुदायो निर्मितः । एतत्समुदाययोगक्षेमकरणे पूज्यपद्मविजया अपि तान्साहाय्यं कृतवन्तः । प्राक्प्रदर्शितवत्सहवर्तिमुनिगणनूतनाध्ययनप्राचीनपरावर्तनसंयमादीनां ते संपूर्णतया चिन्तामकुर्वन् । मुहुर्मुहुस्ते मुनिभ्यः शोभनाः प्रेरणा दत्तवन्तः । परमगुरुदेवप्रेमसूरीश्वरान् गुरुदेवपन्नयासभानुविजयान्प्रति च साधूनां हृदयेषु परमोचैःकोटिबहुमाननिर्माणमिति तेषां प्रेरणानां मुख्यो ध्वनिरासीत् । ते सदैवानुवर्त्तनविनयभक्तिभ्यो महत्त्वं दत्तवन्तः । (गुर्विच्छानुसरणमनुवर्त्तनम्) । त उभयगुरुदेवानां गुणानामुपकाराणां च शोभनं यथार्थश्च वर्णनं कृतवन्तः । तेन सह ते मुनीन्सर्वयोगेषु निष्णातानिर्मितवन्तः । अन्यच्च ते योगानां यथोचितं समतुलनं कृतवन्तः । पाठनेन विदूषां पण्डितानां वा साधनां निर्माणमिति तेषां केवलं ध्येयं नासीत्। तैर्निर्मिता मुनय आगमादिशास्त्रवेत्तारः संयमशोभनपालनकर्तारश्चापि आसन् । प्रायशस्ते मुनयः नित्यमेकाशनं कृतवन्तः । तत्रापि निर्दोषाहारजलानि गवेषितवन्तः । वैयावृत्त्येऽपि ते निष्णाता अभवन्।
Page #21
--------------------------------------------------------------------------
________________
समतासागरचरितम् 443
विनयभक्तिष्वपि तेऽतीव कुशलाः सञ्जाताः । इत्थं मुनिगणसंस्करणेन तैरपूर्वा गच्छसेवा कृता । भयकृत्केन्सरव्याधौ पीडावर्धनेन यदा मुखेन भोजनं भाषणं च स्थगितं तदापि ते लिखित्वाऽपि बालमुनीन्प्रेरितवन्तः । ते श्रावकानपि पत्रादिभिराराधनायां प्रेरितवन्तः ।
२७
समुदायस्यान्यकार्येष्वपि ते सततं व्यस्ता आसन् । पूज्यप्रेमसूरीश्वराणां मन्त्रीसदृशास्तेऽभवन् । पूज्यानां संपूर्णं पत्रव्यवहारं ते निभालितवन्तः । आगतपत्राणि पूज्येभ्यो दर्शयित्वा तेषामिच्छानुसारं प्रत्युत्तराणि ते लिखितवन्तः । पूज्याः श्रीसङ्घेऽग्रगण्या आचार्या आसन् । ततोऽनेकशो विविधसङ्घप्रश्नाः पूज्यानां समीप आगतवन्तः । तदा तेषां समाधानकरणकार्ये ते पूज्यानामनन्याः सहाया अभवन् । इत्थं गच्छसेवया सह सङ्घसेवाया अपि लाभं ते प्राप्तवन्तः । देवद्रव्यप्रश्नेष्वनेकशास्त्रपाठान्सङ्गृह्य तैः पूज्यप्रेमसूरीश्वरान्वयेन विविधाचार्यमुनिभिः सार्धं पत्रव्यवहारः कृतः । एवमेव सर्वप्रसङ्गेषु पूज्यप्रेमसूरीश्वरैः सह वसनेन तेऽनेकप्रसङ्गपारप्रापणार्थं यत्नं कृतवन्तः । मुम्बापुरीधारासभामध्ये 'बालदीक्षा - प्रतिबंधको' निर्णय आगतः । पूज्यप्रेमसूरीश्वरैस्तस्य निष्फलीकरणार्थमहर्निशं परिश्रमः कृतः । तदा पूज्यपंन्यासभानुविजयपूज्यपद्मविजया अपि तावदेव प्रयतितवन्तो निर्णयं च निष्फलं कारितवन्तः ।
पूज्यप्रेमसूरीश्वरैः सह सदैव विपुलः साधुसमुदायोऽवसत् । पूज्यपद्मविजया एतत्तविशालसमुदायस्य भोजनादिपरिवेषणस्य
* समतासागरचरितम्
परिश्रमं कृतवन्तः । एतत्कार्ये ते वृद्धयतीनां भक्तिं कृतवन्तः, बालवृद्धग्लानसहिष्ण्वसहिष्ण्वादिसर्वसाधून्सम्भालितवन्तः । ततस्ते सर्वसाधुहृदयेऽवसन् । राजानः स्वीयोत्तममन्त्रिभ्यो निश्चिन्ताः सन्ति । तथैव पूज्यपद्मविजयसदृशमन्त्रिभ्यः पूज्यप्रेमसूरीश्वरा अप्यतीव निश्चिन्ता आसन् । तत एव पूज्य - पद्मविजयस्वर्गवासप्रसङ्गे पूज्यप्रेमसूरीश्वराणां मुखात्सहजभावेन शब्दा निःसृताः - 'मम दक्षिणो हस्तो नष्टः । इत्थं विनय - समर्पितभाव-भक्ति- अनुवर्त्तनैः गुरुदेवहृदये स्थानं प्राप्य ते धान्यतिधन्याः सञ्जाताः । अधोलिखितशास्त्रश्लोकतैः स्वजीवने सार्थकः कृतः ।
धन्ना ते जीयलोए गुरवो निवसंति जस्स हिययंमि । धन्नाण वि सो धन्नो गुरुण हियए वसइ जो उ ।।
यस्य हृदये गुरवो निवसन्ति ते जीवलोके धन्याः । स तु धन्यानामपि धन्यो यो गुरूणां हृदये वसति ।
अष्टप्रवचनमातृपालनम् - क्रियातत्परता पञ्चसमितयः त्रिगुप्तयश्चेत्येता अष्टौ प्रवचनमातरः शास्त्रकृद्भिः कथिताः । अत्र प्रवचनपदेन संयमः ज्ञेयः । संयमस्यैता अष्टौ मातारः सन्ति । विरागिणं शालिभद्रं यदा माताऽकथयत्- “बाल ! अत्र त्वहं त्वां निभालयामि, किन्तु प्रव्रज्यायां त्वां कः सम्भालयिष्यति ?” तदा शालिभद्रेण प्रत्युत्तरं दत्तं - "मातः ! अत्र तु त्वमेकैव में माताऽसि, किन्तु संयमजीवने तु मामष्टाष्टौ प्रवचनमातारः सम्भालयिष्यन्ति ।"
२८
Page #22
--------------------------------------------------------------------------
________________
समतासागरचरितम्
माता पुत्रं प्रसूते । ततस्तं संवर्धयति पुष्णाति च, एवमेव सुष्ठु पालिताः प्रवचनमातारः संयमदेहं जनयन्ति वर्धयन्ति च । पूज्यप्रेमसूरीश्वराः पूज्यभानुविजयाश्च स्वीयानन्यसाधनायां सत्यामपि विशालगच्छसङ्घचिन्तायामपि च सत्यां प्रवचनमातृपालने सदा दत्तावधाना आसन्, कदाचिदनाभोगेनापि स्खलनायां जातायां ते स्वयं स्वं शिक्षितवन्तो दण्डितवन्तो यथा रजोहरणप्रतिलेखनस्य विस्मरणे तेऽन्यदिन आचामाम्लं प्रत्याख्यातवन्तः, भोजनावसरे भाषस्खलनायां जातायां ते पञ्चविंशतिक्षमाश्रमणान्दत्तवन्तः । पूज्यपद्मविजयैरपि आशैशवादेते संस्काराः प्राप्ताः प्रारब्धाश्च । वसतौ बहिर्वा चलने भूमिविलोकनं ते कदापि न विस्मृतवन्तः। अन्धकारभवनपूर्वमेव हस्ते दण्डासनं गृहीतवन्तः, तदुपयोगपूर्वकं च चलितवन्तः । भाषासमितिवचनगुप्तिपालनकृते ते परिमितमेव भाषितवन्तः । तदपि यदि आवश्यकं तदा पथ्यं तथ्यं च वचनमुच्चरितवन्तः । एषणासमित्यां तु तेषां कौशलमद्वितीयमासीत् । गोचर्यां दोषान् सूक्ष्मेक्षिकया गवेषयित्वा निर्दोषाहारजलान्यानीय तेन स्वं निर्वाहितवन्तः । भिक्षा कथमानेया ? कथं दोषाणां गवेषणं करणीयं ? दातृभाववृद्धिः कथं सम्पादनीया ? कियन्ति वस्तूनि सन्ति ? ततः कियन्ति गृहीतव्यानि ? इत्यादिकं स्वेन समं साधून्गोचर्यां नीत्वा तेऽतीव सूक्ष्मतया तान्शिक्षितवन्तः । तेऽनेकशोऽकथयन्यदवसर आगते साधुः व्याख्यानसकाशात् गोचर्याऽधिकमधिकलोकांश्च प्रतिबोद्धुं शक्नोति । वस्तूनां
२९
- समतासागरचरितम् ग्रहणमोक्षणेषु, द्वारवातायनानामपावरणपिधानेषु, प्रश्रवणादिपरिष्ठापनेषु, स्थंडिलभूमिगमने ते चतुर्थपञ्चमसमिती सततमुपयुक्तवन्तः। प्रतिलेखनप्रमार्जनानि ते कदापि न विस्मृतवन्तः । अभ्यासेन तेषामुपयोग ईदृग्दृढः सञ्जातो यत्केन्सरव्याधावपि प्रतिलेखनप्रमार्जनेषु ते न स्खलितवन्तः।
पूज्यपद्मविजयानां ज्ञानसाधनाया विस्तरेण वर्णनं पूर्व कृतम् । किन्तु ज्ञानेन सह क्रियायामपि ते तावदेव जागरुका आसन्, ते क्रिया मुद्राभिः सहैकाग्रतयाऽकुर्वन्, स्वाध्यायलोभात् ते क्रिया रभसाऽविधिना च नाकुर्वन् । यथाशक्त्युर्ध्वस्थानेनैव ते प्रतिक्रमणादिक्रियाः सम्पादिवन्तः। शस्त्रक्रियासमयेऽपि क्लोरोफार्मस्य प्रभावापसरणे सति रात्रौ तैः प्रतिक्रमणं स्मृतम् । आलोचनाप्रायश्चित्तयोरपि ते नियमिता आसन् । प्रतिदिनं सायंकाले दिनजातातिचारांस्ते विनापवादं लिखितवन्तः । उचितकाले गुरुभ्य आलोचनां दत्त्वा प्रायश्चित्तं वोढवन्तः । कदाचिद्रात्रौ 'लोगस्स' सूत्रस्य मालाजापं कृत्वा ते प्रायश्चित्तर्णादनृण्यभवन् । दोषेष्वरुचिः प्रायश्चित्तेन च शुद्धिकरणमिति तेषामद्भूतात्मजागृतेः सूचक आस्ताम् । भयकृत्केन्सरव्याधौ सुरेन्द्रनगरमध्ये, शरीरपुष्ट्यर्थं तेषामुदरे नलिका योजिता । ततस्ते मृत्युमुखात्पुनरागताः । तदा यदाधाकर्मिकादिकसेवनं सञ्जातं ये च शस्त्रक्रियायामारम्भसमारम्भादिदोषाः प्रतिसेवितास्तेषां न केवलं मनसा किन्तु पूज्यप्रेमसूरीश्वरसमक्षमपि निन्दनगर्हणे ते कृतवन्तस्तेषाञ्च सूचनानुसारेण जापादिकरणेन स्वात्मानं शोधितवन्तः ।
३०
Page #23
--------------------------------------------------------------------------
________________
में समतासागरचरितम् -goraamaagnore- ३१
4
३२
%e0
%antra
- समतासागरचरितम् ।
शिष्यादिपरिवारः । पूज्यपद्मविजया यावज्जीवं गुरुसेवावतिन आसन् । स्वप्रगुरूदेवपूज्यप्रेमसूरीश्वराज्ञया तैः स्तोका एव चातुर्मासाः पृथग्कृताः । तदतिरिक्तं संपूर्ण जीवनमुभयगुरुदेवपवित्रसेवायां गुरुकुलवास एव व्यतीतम् । त उभयगुरुदेवानामतीव नम्राः सेवका आसन् । अतः शिष्याधुत्पादनं प्रति तेषां लक्ष्यमेव नासीत् । स्वगुरुभ्रातृस्ते स्वशिष्यवदेव ततोऽप्यधिकं वा सारितवन्तः । तेषां योगक्षेमादिकं कृतवन्तः, ग्रहणासेवनशिक्षे तेभ्यो दत्तवन्तः । न केवलमेतत्, ते गुरुभ्रातरोऽपि तान्गुरुवन्मतवन्तः विनयादिकं च प्रयुक्तवन्तः । तथापि तेषामनिच्छायां सत्यामपि गुरुदेवैः कतिचित्साधवस्तेषां शिष्यत्वेन कृताः ।
वि.सं.१९९९ वर्षे मुनिश्रीमित्रानन्दविजयस्तेषां सर्वप्रथमः शिष्यः सञ्जातः । वि. सं.२००८ वर्षे तेषां द्वौ शिष्यौ ? सञ्जातौ- मुनिश्री हेमचन्द्रविजयः (एतचरित्रप्रणेता) मुनिश्रीजगचन्द्रविजयश्च । ततः क्रमशः मुनिश्रीनन्दीवर्धनविजयो मुनिश्रीगुणभद्रविजयो मुनिश्रीजयवर्धनविजय इत्यादयस्तेषां : शिष्याः सञ्जाताः । मुनिश्रीजयवर्धनविजयस्य शिष्यो मुनिश्रीविद्यानन्दविजयः सञ्जातः । अधुना मुनिश्रीमित्रानन्दविजयो मुनिश्रीहेमचन्द्रविजयो मुनिश्रीजगच्चन्द्रविजयो मुनिश्रीविद्यानन्दविजयो मुनिश्रीमित्रानन्दविजयशिष्याश्च मुनिश्रीमहाबलविजयमुनिश्रीकीर्तिसेनविजयमुनिश्रीपुण्यपालविजय
मुनिश्रीहेमरत्नविजया आचार्यपदं धारयन्ति विशालपरिवारेण च सह विहरन्ति ।
पूज्यपद्मविजयानां संसारि लघुबन्धुर्जयन्तिरपि तत्पश्चा-* चारित्रं प्राप्य पूज्यभानुविजयशिष्यः मुनिश्रीतरुणविजयोऽभवत्। तेषां संसारिभगिन्यपि वि.सं.२००३ वर्षे मुम्बापुर्या दादरज्ञानमंन्दिरमध्ये पूज्यप्रेमसूरीश्वराणां हस्तेन प्रव्रज्यां प्राप्य साध्वीश्रीहंसकिर्तिश्रीः सञ्जाता। साऽप्यधुना विशालसाध्वीपरिवारस्वामिन्यस्ति संयमाराधनाकरणकारणेषु च तल्लीनाऽस्ति ।
पूज्यप्रेमसूरीश्वरैः पूज्यपद्मविजयानामत्यन्तं सुपात्रतां । ज्ञात्वा वि.सं.२०११ वर्षे पुनानगरेऽन्यमुनिभिः पूज्यभानुविजयैश्च सह तेषां भगवतीसूत्रयोगोद्वहने प्रवेशः कारितः, वि.सं.२०१२ वर्षे फाल्गुनमासे गणिपदं तेभ्यः प्रदत्तम् ।। पूज्यपद्मविजयानां केन्सरव्याधिः वि.सं.२००६ वर्षे प्रारब्धः।। किन्तु किरणप्रभावेण सः शान्तोऽभवत् । ईदृगवस्थायामपि तैः षण्मासपर्यंतं पञ्चमाङ्गभगवतीसूत्रयोग उद्वाहितः । न केवलमेतत्किन्तु पुनानगरे तैर्वर्धमानतपस एकोनचत्वारिंशत्तम्योलिरपि कृता । अग्रे वि.सं.२०१५ वर्षे वैशाखमासे पूज्यप्रेमसूरीश्वरैरन्यमुनिभिः सह ते पन्न्यासपदे आरोहिताः । ___एतन्महागुरुदेवानां वि.सं.१९९१ वर्षात् वि.सं.२००६ वर्षपर्यंत पञ्चदशवर्षकृतसाधनां लेशेन प्रकाशयितुं मया बालचेष्टा कृता, यतस्तेषां सम्पूर्णसाधनां यथार्थमालिखितुमावश्यकस्य क्षयोपशमस्य ज्ञानस्य च मयि सम्पूर्णाभावो वर्त्तते,
Page #24
--------------------------------------------------------------------------
________________
में समतासागरचरितम् -goraamaagnore- ३३
4N
केवलमनुमोदनार्थं गुणानुवादकरणार्थं च मया एषः प्रयत्नः कृतोऽस्ति ।
अधुना पूज्यपादानां केन्सरमहाव्याधौ कर्मसत्तया सह प्रचण्डयुद्धरुपविशिष्टसाधनां किञ्चिदक्षरारुढकरणस्य प्रयत्न करोमि ।
कर्मसत्तया सह तुमुलं युद्धं,
केन्सरभयङ्करव्याधावुनसाधना । पूज्यपद्मविजयानां शरीरे वि.सं.२००६ वर्ष एव केन्सरचिह्नानि प्रादुर्भूतानि । वि.सं.२००७ वर्षे मुम्बापुर्या तस्य निदानं जातम् । वि.सं.२०१७ वर्षे श्रावणकृष्णैकादशीं यावत्त एतदुग्ररोगेण सहायुध्यन् । एतदुग्ररोगमध्ये तैरुग्रसाधना कृता, अद्भूतसमतासमाधी धृते । तद्वर्णनपठनेन नेत्र आद्रं भवेताम्। चल्यतामधुना तत्साधनां वि-: चारयामः।
वि.सं.२००६ वर्षस्य चातुर्मासः सिद्धान्तमहोदधिकलिकालकल्पतरुसङ्घवात्सल्यधारकपूज्यपादाचार्यश्रीमद्विजयप्रेमसूरीश्वराणां तत्पट्टालंकारपूज्याचार्यश्रीमद्विजयरामचन्द्रसूरिपूज्याचार्ययशोदेवसूरिपूज्यपंन्यासभद्रङ्करविजयादिविशालसमुदायेन सह शत्रुञ्जयतलहट्टिकास्थपालीताणानगरे जातः । पूज्यभानुविजयपूज्यपद्मविजया अपि चातुर्मासे तैः सहैवावसन् । पूज्यप्रेमसूरीश्वरैः पूज्यरामचन्द्रसूरिपूज्यपंन्यासभद्रङ्करविजयपूज्यमृगाङ्कविजयपूज्यहेमन्तविजयपूज्यत्रिलोचनविजयपूज्यभानुविजयपूज्यपद्म
4 ३४ generation- समतासागरचरितम् । विजयादिभ्यः छेदसूत्राणां वाचना दत्ता, तैरपि छेदसूत्ररहस्यानि ज्ञातानि । दिपालिकादिनेषु पूज्यपद्मविजयाः ज्वरेण पीडिताः। पालिताणाचातुर्माससमाप्त्यनन्तरं पूज्यपद्मविजयाः पूज्यप्रेमसूरीश्वरादिभिः सह विहृत्य भावनगरं गताः । तत्र : संवेगवैराग्यरसनिर्भराणि प्रवचनानि सञ्जातानि । ततो घोघातालध्वजधंधुकानगराणि स्पृष्ट्वा ते लिम्बडीनगरं प्राप्ताः । * तत्र पद्मविजयानां मस्तके तीव्रा वेदनाविर्भूता, कर्णेषु 'घरर' इति शब्दश्रवणं प्रारब्धम् । भोजनमपि तेऽतिकृच्छ्रेण गिलितवन्तः । तत्रैव केन्सरव्याधिः प्रारब्धः। पूज्यप्रेमसूरीश्वराः शासनप्रश्नैः सदा चिन्तिता आसन् । तत्समाधानकृते तैरुतमकुलसम्पन्नान्सुशिक्षितानासन्नपञ्चविंशतियूनः प्रव्राजयितुं शत्रुञ्जयगिरौ सङ्कल्पितम् । तत्सङ्कल्पस्य सफलीकरणार्थ । मुम्बापुरीगमनमावश्यकमासीत् । किञ्च श्राद्धवर्यजीवतलालेनात्याग्रहपूर्वकं मुम्बापुर्या पादावधारणार्थ विज्ञप्तिरपि कृता। पालीताणाचातुर्मासे मुम्बापुरीमुमुक्षवः पूज्यैः सहैवावसन्। तेषां । दीक्षायाः सम्भावनाऽपि आसीत् । एतैः कारणैः श्राद्धवर्यजीवतलालविज्ञप्तिं स्वीकृत्य पूज्यैः मुम्बापुरीं प्रति प्रयाणं कृतम् । मार्गे पूज्यपद्मविजयानां स्वास्थ्यमचार्वेवाभवत् । तथापि दृढमनोबलस्वामिनस्ते दीर्घविहारेष्वपि पूज्यैः सहैवाचलन् । प्रवचनान्यपि दत्तवन्तः, प्रायशः पौरुषीप्रत्याख्यानं कृतवन्तः, स्वास्थ्ये चारुण्येकाशनमपि प्रत्याख्यातवन्तः ।। दीर्घाध्वानं विहृत्य पूज्यप्रेमसूरीश्वरैः सह ते प्रायः नववादने दशवादने वा प्राप्यं नगरं प्राप्नुवन् । ततस्तेषां स्वागत
Page #25
--------------------------------------------------------------------------
________________
* समतासागरचरितम्
aftegort- ३५
यात्राऽभवत्, ततः प्रवचनवर्षाऽभवत्, ततः साधवो गोचर्यर्थं निरगच्छन्, ततः प्राय एकवादने सर्वे समुद्देशनमण्डल्यां समुद्देशनार्थमुपाविशन् । अस्वस्थतायां सत्यामपि ते पूज्यैः सह सर्वकार्यक्रमेषु सहैवातिष्ठन् । अध्वन्यानन्दादिनगरेषु निष्णातवैद्यैस्तेषां चिकित्सनेऽपि किमपि विशेषनिदानं न प्राप्तम् । पूज्यभानुविजयाः सुरतनगरे त्रियुवदीक्षाप्रसङ्गेऽग्रे गताः। त्रीन्यूनो दीक्षित्वा ते मुम्बापुरीं प्रत्यचलन् । महेसाणावासिश्रीकान्तिलालः प्रव्रज्य मुनिश्रीधर्मगुप्तविजयः सञ्जातः, सुरतनिवासिश्रीफतेचन्दः प्रव्रज्य मुनिश्रीधर्मानन्दविजयः सञ्जातः, कच्छ्वासिश्रीतेजपालः प्रव्रज्य : मुनिश्रीतत्त्वानन्दविजयः सञ्जातः । त्रयोऽपि वतिनः पूज्यभानुविजयानां शिष्याः समजायन्त । श्रीफतेचन्दस्य द्वाभ्यां । भगिनीभ्यामपि तत्र प्रव्रज्या गृहीता ।
मुनिश्रीहेमन्तविजयमुनिश्रीपद्मविजयादिभिः सह विहरद्भिः पूज्यपादाचार्यप्रेमसूरीश्वरैरपि राणपुरनगरे मूलचन्दनाम्नो मुमुक्षोर्दीक्षा कृता, तस्मै मुनिश्रीभद्रगुप्तविजय इति नाम प्रदत्तम् । सः पूज्यभानुविजयानां शिष्यः सञ्जातः । ततो मुम्बापुर्यां वैशाखशुक्लतृतीयादिने लालबागोपनगरे भव्यस्वागतयात्रया सह पूज्यैः प्रवेशः कृतः । पूज्यभानुविजयानां वैराग्यपूर्णानि प्रवचनानि सञ्जातानि । अनेकपुण्यात्मभिः तेषां प्रवचनगङ्गायां स्नानं कृतम् । वैशाखशुक्लषष्ठयां मुमुक्षुश्रीरमणिकस्य दीक्षा जाता, सः पूज्यभानुविजयानां शिष्यो। मुनिश्रीराजेन्द्रविजयः सञ्जातः ।
f३६ %arkaryay - समतासागरचरितम् । 1 पूज्यपद्मविजयानां शारीरिकास्वास्थ्यं वर्धमानमासीत्,' मस्तके पीडाऽभवत्, भोजनगिलनं कृच्छ्रे णाभवत्, गलनासिकाभ्यामनेकशो रक्तमपि निरगच्छत् । तथापि तेषां । दैनिकचर्या पठनपाठनादिप्रवृत्तयश्चास्खलितधारयाऽचलन् । वैद्या : अपि पूज्यपद्मविजयानां रोगनिदानं कर्तुं नाशक्नुवन्। तदानीं कोटोपनगरश्रावकाः डोक्टरहरिमानीतवन्तः। तेन पूज्यपद्मविजयानां शरीरं चिकित्सितं, तेषां च गलकमन्तवृत्त्या समीचिनतया निभालितं, बहिर्वृत्त्या तेन हस्तेन तेषां गलकं, बलपूर्वकं स्पृष्टम् । ततः कतिचित्क्षणान्यावद्विचिन्त्य गलके केन्सरग्रन्थेस्तेनानुमानं कृतम् । मुम्बापुरीरुग्णालयमध्ये तेषां । 'बायोपसी' चिकित्सा कृता । ततः केन्सरस्य निदानं जातम् ।
केन्सरव्याधिः कीदृक्भयङ्करोऽस्ति तद्वयं विद्मः । किञ्च तत्काले किरणग्रहणं विना केन्सरपीडाशमनायान्योपायो नासीत् । केन्सरस्त्वसाध्यो व्याधिः । केन्सरः शरीरे घोरपीडोत्पादको रोगः। एतन्नामश्रवणेनाप्यनेके जनाः खिन्ना अभवन् । अत एवानेकप्रसङ्गेषु स्वजना रोगिणः केन्सरनिदानं गोपितवन्तः। पूज्यपद्मविजयैतिं यत्तेषां शरीरं केन्सरव्याधिना ग्रस्तमभवत् । तथापि ते सम्पूर्णतया स्वस्था अभवन् । ते देवगुरुणामुपर्यगाधश्रद्धावन्त आसन् । श्रीअरिहन्तसदृग्देवपूज्यप्रेमसूरिपूज्यभानुविजयसदृशगुरुन्प्राप्य तेऽतीव निश्चिन्ता अभवन् । ततः केन्सरनिदानेऽपि तेषां चित्तप्रसन्नता मनागपि हीना न सञ्जाता । प्रत्युत तेऽधिकं सावधानीभूयाराधनाया
Page #26
--------------------------------------------------------------------------
________________
में समतासागरचरितम् -
-
-
३७
* ३८
omkarenger
- समतासागरचरितम् ।
मुत्साहवन्तोऽभवन् । केन्सरग्रन्थिनिर्णये सजाते गुरुदेवसूचनया निष्णातवैद्यस्य रासायणिकोपचारास्तैः प्रारब्धाः । किन्तूपचारैर्विक्रिया दर्शिता । शरीरे तीव्रधर्मप्रकोपः सञ्जातः, उपवेशनस्थाने व्रणानि सञ्जातानि । त उपवेष्टुमपि नाशक्नुवन्, सोढुमपि नाशक्नुवन, ईदृशी तेषां शारीरिकपरिस्थितिः सञ्जाता। पयुर्षणपर्वागतम् । तैस्त्वग्वर्त्तनेनापि लोचः कारितः। ईदृश्यासीत्तेषां संयमैकनिष्ठताचारदाढयं च । अन्ततो गत्वाऽन्येन वैद्येन रासायणिकविक्रिया निपुणतया वारिताः।।
पूज्यपद्मविजयानामियं विशेषताऽऽसीद्यदीदृग्भयङ्करव्याधावपि ते प्रतिकारार्थ कदापि विचारमात्रमपि न कृत-: वन्तः। उभयगुरुदेवसूचनानुसारेण योग्यसमये योग्योपचारपथ्यानि ते सेवितवन्तः। कदाचिदुपचारा विक्रियामपि दर्शितवन्तस्तथापि तेषां मनसि मनागप्यप्रसन्नताऽसमाधिरावेशो वा न प्राविशत् । स्वजीवनचरमक्षणं यावत्तेषामयं समर्पितभाव आसीत् ।
वैद्यैः किरणग्रहणं सूचितम् । अन्ततः टाटारुग्णालये चिकित्सा कारिता । प्रायोऽष्टाविंशतिरुपवेशनानि सञ्जातानि। ग्रन्थिर्विलीना । इषत्स्वस्थतानुभवो जातः। प्रतिचातुर्मासं टाटारुग्णालये चिकित्सा कारणीयेति तत्रत्यडोक्टरबोर्जीसस्य सूचनमासीत् । ततः वि.सं.२००९ वर्षे पूज्यपद्मविजयैर्दादरमध्ये चातुर्मासः कृतः। पूज्यप्रेमसूरीश्वराणां चातुर्मास ईर्लाब्रीजमध्य आसीत्, पूज्यभानुविजयानां च ।
चातुर्मासः पार्लामध्य आसीत् । तदानीं पार्ला विकसन्नुपनगरमासीत् । अतस्तत्र व्यवस्थितः सङ्घ उपाश्रयो वा नासीत् । ततो न कोऽपि तत्र चातुर्मासं कृतवान् । सङ्घोऽप्याराधनारागेण सुष्ठु रञ्जितः । चातुर्माससमाप्त्यनन्तरमृतुबद्धकालेऽपि ते तत्र स्थिताः । वैराग्यरसनिर्भरप्रवचनैरनेकभव्यात्मानो भाविताः ।। ___फाल्गुनमासे पूज्यप्रेमसूरीश्वरैः सपरिवारै सिकनगरं प्रति विहारः कृतः ।
पूज्यपद्मविजयानां दादरचातुर्मासमप्यतिभव्यं सजातम् । पूज्यप्रेमसूरीश्वरैर्नूतनदीक्षितसाधुबृहत्समुदायः संस्करणकृते पूज्यपद्मविजयैः सह प्रेषितः। पूज्यपद्मविजयैर्मुनयोऽपि शोभनमभ्यासं कारिताः । तैर्मुनिभ्यः संयमस्य सुशिक्षा दत्ता। साधवोऽपि नित्यैकाशनसततस्वाध्यायजिनभक्तिविनयवैयावृत्त्यादियोगेषु तल्लीनाः सञ्जाताः। श्रीसङ्घनापि वास्तविकगुरुकुलवासो दृष्टः श्रीसङ्घोऽतीव प्रभावितः।।
पूज्यपद्मविजयानामियं विशेषताऽऽसीद्यत्ते महात्मानो वात्सल्येन स्वाध्याये विनयभक्त्यादिष्वपि च समीचिनतया योजितवन्तस्तथा तेषां हृदयेऽत्युच्चैः समर्पितभावं निर्मीतवन्तः। ते साधुभ्यः संयमाचारसमितिगुप्तिपालनादिविषयेषु वाचनां दत्तवन्तो व्यक्तिगतां च प्रेरणां दत्तवन्तः। तच्चातुर्मासे तेषां स्वास्थ्यमपि सुचार्वासीत् ।
चातुर्माससमाप्त्यनन्तरं ते कियत्कालं तत्रैव स्थिताः। फाल्गुनमासे पूज्यप्रेमसूरीश्वरैः सह तैरपि नासिकनगरं प्रति
Page #27
--------------------------------------------------------------------------
________________
में समतासागरचरितम् -
-
-
३९
4 ४०
amirmiri
- समतासागरचरितम् ।
-440
विहारः कृतः । भिवंडीमुरबाडादिनगरेषु शासनप्रभावनां कुर्वन्त: आचार्या नासिकं प्राप्ताः। श्रीसङ्घन भव्यं स्वागतं कृतम् । नासिकनगरे पूज्यप्रेमसूरीश्वरनिश्रायां पूज्यभानुविजयैः शालाऽपठनकाले ज्ञानसत्रं प्रारब्धम् । अनेकैर्युवभिः शोभनं शिक्षणं प्राप्तम् । श्रीसङ्केपि प्रतिदिनवैराग्यपूर्णप्रभावकप्रवचनैर्जागृतिरागता। वर्तमानकाले योज्यमानानां शिबीराणां बीजं नासिकनगर उप्तम् । नासिकनगरे पूज्यपद्मविजयानां नासिकाया रक्तं पतितुं प्रारब्धम् । केन्सरस्येषत्प्रभावज्ञानेन ते पुनर्दादरनगरमागताः । तत्र चिकित्सया तेषामारोग्यं सुचारु । सञ्जातम् । वि.सं.२०१० वर्षेऽपि तेषां चातुर्मासं दादरोपनगरे । एवाऽभवत् । पुण्योदयेन दादरसङ्घन प्रभूतलाभः प्राप्तः । इतः पूज्यप्रेमसूरीश्वरा नासिकनगराद्विहृत्य सिन्नरादिनगराणि, स्पृष्ट्वा चातुर्मासार्थमहमदनगरं प्राप्ताः । तत्र पूज्याचार्ययशोदेवसूरिपूज्यत्रिलोचनविजयपूज्यभानुविजयादिचतुस्त्रिशत्साधुभिः सार्धं तेषां प्रभावकं चातुर्मासं सञ्जातम् ।। गुणसागराचार्यगुणान्साक्षाद्दर्शयन्नेको भव्यः प्रसङ्गो घटितः ।
चातुर्माससमाप्त्यनन्तरं कार्त्तिककृष्णषष्ठ्या भव्यं दिनमागतम् । तत्तु प्रेमसूरीश्वराणां दीक्षादिनमासीत् । शतशः साधूनामुपकारीणां चारित्ररत्नदातृणां पूज्यपादानां प्रेम-1 सूरीश्वराणां संयमजीवनस्यानुमोदनाकरणस्य भावना सर्वमहात्मनां मनस्युद्भूता । तद्दिने प्रायः सर्वैः शुद्धमाचामाम्लं । कृतम् । पूज्यभानुविजयैः प्रवचने पूज्यानां गुणानुवादः कृतः। मध्याह्ने सर्वे मुनयः पूज्यानामन्तिके सम्मिलिताः । सर्वैः
पूज्यानां हितशिक्षाप्रसादनार्थ विज्ञप्तिः कृता । पूज्यानां हृदयं व्यथया भृतम् । बाष्पार्द्रनेत्राभ्यां तैः कथितं 'अहं गुणानुवादपात्रं नास्मि, युष्माभिः पूज्यहेमचन्द्रसूरीणां वा पूज्यहीरसूरीणां वा गुरुदेवपूज्यदानसूरीणां वा गुणानुवादाः कर्त्तव्याः । मयि तु: तादृशगुणाभावो वर्त्तते ।' तेषां नम्रतया सर्व वातावरणं प्रभावितम् । सर्वेषामक्षीण्यश्रुभिरामा॑णि सञ्जातानि, ततः पूज्यैः शासनरागसंयमशुद्धिविषयान्प्रकाशयन्ती हृदयभेत्री वाचना दत्ता । तचातुर्मासेऽहमदनगरसङ्घप्रमुखः बाबुभाईश्राद्धः सभार्यः वैराग्यरागरक्तीभूय प्रव्रज्याग्रहणार्थमुद्यतोऽ भवत्। सांसारिकव्यवहारसमापनाय तैः प्रव्रज्यामुहूर्त चतुर्मासानन्तरं निष्काशितम् । इतः दादरनगरे पूज्यपद्मविजयानां पुण्यनिश्रायामुपधानतपः प्रारब्धः। उपधानतपःमालारोपणप्रसङ्गे तथा तदैकमुमुक्षुदीक्षाप्रसङ्गे च पूज्यप्रेमसूरीश्वराणां पादावधारणविज्ञप्तिकरणार्थ दादरसङ्घोऽहमदनगर उपस्थितोऽभवत् । श्रीसङ्घस्योत्कटभावनां ज्ञात्वा पूज्यैरपि सम्मतिर्दर्शिता । अहमदनगराद्विहृत्य पूज्यपादाः पुनानगरं स्पृष्ट्वा दादरं प्राप्ताः। श्रीसचेनोल्लासपूर्वक स्वागतं कृतम् । उभयगुरुदेवमीलनेन पूज्यपद्मविजया अतिहर्षिता अभवन् । दादरप्रसङ्गं समाप्य सर्वे ऽहमदनगरे बाबुभाईश्राद्धवर्यस्य सभार्यस्य दीक्षाप्रसङ्गे प्राप्ताः। बाबुभाईश्राद्धोऽपि जैनेतरेषु 'बाबुशेठ' इति प्रख्यातोऽभवत् । तस्य महाभिनिष्क्रमणनिर्णयेन न केवलं जैनसङ्घः किन्तु जैनेतर अप्यतिप्रभाविताः । फाल्गुनशुक्लचतुर्दश्यामुभया
Page #28
--------------------------------------------------------------------------
________________
* समतासागरचरितम्
aftegort- ४१
* ४२
karenger
- समतासागरचरितम् ।
चार्यविशालसाधुसमुदायनिश्रायां दीक्षाप्रसङ्गो भव्यतया सम्पन्नोऽभवत्। सम्पूर्णनगरे जैनेतरेष्वेकैव वार्ता प्रसृता यत् । 'बाबुशेठ सन्नयस्तः'। नूतनमुनिराजः धनेश्वरविजयः पूज्याचार्ययशोदेवसूरीश्वराणां शिष्यः सञ्जातः । सम्पूर्णदिनं यावत् तस्य दर्शनार्थं जैनजैनेतरे प्रभूतसङ्ख्ययोपाश्रयमागच्छन्। न केवलमहमदनगरं किन्तु समस्तमहाराष्ट्रराज्यं तच्छ्रीमतो । दीक्षया प्रभावितमभवत्। दीक्षापश्चात्पूज्यपादाः सपरिवारा महाराष्ट्रस्यान्यग्रामनगरेषु विहृताः । अत्युग्रविहाराः सञ्जाताः। वि.सं.२०११ वर्षे चातुर्मासार्थं ते पुनानगरमागताः । शतानां । माईलानां विहारः पूज्यपद्मविजयैरपि गुरुदेवैः सह पादविहारेणैव ! कृतः । केन्सरव्याधावपि तेषामियं साधना सर्वान्नतमस्तकान् । व्यधात् । अनेकग्रामेषु पूज्यपद्मविजयैः प्रवचनान्यपि दत्तानि।
पूनानगरे पूज्यप्रेमसूरीश्वरैः पूज्ययशोदेवसूरिपूज्यभानुविजयपूज्यपद्मविजयादिविशालपरिवारेण सह सुवर्णकारधर्मशालायां चातुर्मासाथ प्रवेशः कृतः । चातुर्मास आराधनया सुवासितो जातः। केन्सरव्याधिशमनाय गृहितकिरणैः प्रातःकाल एव पूज्यपद्मविजयानामोष्ठौ शुष्कावभवताम् । प्रथमालिकायां कृतायामेव ताव!ऽभवताम् । तथापि तैरेकाशनान्येव कृतानि । न केवलमेतत्किन्तु तैर्वर्धमानतपस एकोनचत्वारिंशत्तम्योलिरपि कृता । यदा केन्सरव्याधिः केवलं किरणप्रभावेणाच्छादितः यदा च किरणविक्रियारुपधर्मः सम्पूर्णशरीरे व्याप्नोत् तदा विविधफलरसपानेन तद्विध्यापनमकृत्वाऽयं साधक एकाशनानि वर्धमानतपस
श्चैकोनचत्वारिंशत्तम्योलिं कृतवान्- इदं कल्पनाविषयातीतम्। तेषामात्मन्याराधनातपस्त्यागान्येकरसीभूतान्यभवन्। अत एवेदं शक्यमभवत् । तेषां साधना न केवलं तत्रैव स्थगिता किन्तु दिपालिकानन्तरं तैरन्यानेकमुनिभिः सह भगवतीसूत्रषण्मासयोगोद्बहने प्रवेशः कृतः । योगोद्वहने च कालग्रहणपाटलीस्वाध्यायप्रस्थापनादिक्रियाभिः सहितैराचामाम्लनिर्विकृतिकादितपांसि दीर्घकालं यावदप्रमत्तभावेन कृतानि। ततः फाल्गुनमासे पूज्यप्रेमसूरीश्वरैः पूज्यभानुविजयपूज्यपद्मविजयेभ्योऽन्यानेकमुनिभ्यश्च गणिपदं प्रदत्तम् । तपस्त्यागाभ्यां सह तेषां पठनपाठनप्रवृत्तिरपि सततं प्रावर्त्तत । रात्रावपि ते जापध्यानादिकं कृतवन्तः। त एक क्षणमपि न प्रमादं कृतवन्तः । चातुर्मासानन्तरं पुनानगरे शील्डर-राजस्थाननिवासिमोटाजीश्रावकेण स्वकाष्ठशालायामत्युत्साहपूर्वकमुपाधनतपआराधना पूज्यनिश्रायां कारिता। तत्र विशालसंङ्ख्यायामाऽऽराधकाः युक्तवन्तः । उपधानतपोमालारोपणगणिपदप्रदानादिप्रसङ्गान्समाप्य पूज्यप्रेमसूरीश्वराः विशालपरिवारेण सह मुम्बापुरीं गताः । इतो गुजरातराज्ये विहरत्पंन्यासकान्तिविजयमुनिराजविजयैर्वर्धमानतपसो नवनवतीतम्योलिः समाप्ताऽऽसीत् । (मुनिराजविजयाः पश्चादाचार्यराजतिलकसूरीश्वराः सञ्जाताः अष्टाशित्यधिकद्विशतौलिसमाराधकाश्च समजायन्त।) शततमौलिपारणकं पूज्यप्रेमसूरीश्वरनिश्रायां करणीयमिति तेषां दृढा भावनाऽऽसीत् । सुरेन्द्रनगरसङ्घस्यापि भावना जाता यत्पूज्यपादप्रेमसूरीश्व
--
-
Page #29
--------------------------------------------------------------------------
________________
समतासागरचरितम् 443
४३
राणां सुविशालपरिवाराणां चातुर्मासं सुरेन्द्रनगरे कारणीयम्, चातुर्मास एवोभयतपस्विमहात्मानौ शततमौलिं प्रारभेताम् ततश्च महोत्सवपूर्वकं तयोः पारणकं कारणीयम् । एतत्कृते सुरेन्द्रनगरसङ्घः पूज्यप्रेमसूरीश्वरान्विज्ञप्तिं कर्तुमागच्छत् । किन्तु कारणवशात् पूज्यपादैर्मुम्बापुर्यां चातुर्मासं कृतम् ।
वि.सं.२०१२ वर्षे पूज्यप्रेमसूरीश्वरपूज्यभानुविजयानां चातुर्मासं लालबागोपनगरेऽभवत् । दादरसङ्घस्त्वेतदवसरमसाधयत् । अत्याग्रहपूर्णविज्ञप्त्या दादरसङ्घेन पूज्यपद्मविजयानां चातुर्मासं दादरमध्ये कारितम् । चातुर्मासे पूज्यप्रेमसूरीश्वरैरासन्नपञ्चविंशतयः साधवः संयमशोभनसंस्करणकृते पूज्यपद्मविजयैः सह प्रेषिताः । पूज्यपद्मविजयैरप्यप्रमत्तभावेन सारणावारणादिकं कृत्वा साधुषु संयमशोभनसंस्कारसेचनं कृतम् । तेषां वात्सल्यनिर्भरप्रेरणाभिः साधवो नित्यमेकाशनं कृतवन्तः । तेन सह ते स्वाध्यायवैयावृत्त्यविनयादिसर्वयोगेषु कुशला सञ्जाताः । तैः श्रावकेभ्योऽपि मधुरवैराग्यरसयुक्तोपदेशवाण्या सत्तत्त्वज्ञानं परिवेषितम् । तेषां वाण्या श्रावकाः जिनशासनं प्रति दृढानुरागवन्तः सञ्जाताः, सिद्धान्तेषु दृढाः सञ्जाताः देवगुरूणां भक्ताः सञ्जाताः, क्रियारुचयश्चाऽभवन् । किञ्च श्रावकैर्वर्धमानतपोऽपि प्रारब्धम् ।
वि.सं.२०१२ वर्षे लालबागमध्ये पूज्यप्रेमसूरीश्वराणां चातुर्मासं शासनप्रभावनापूर्वकं सम्पन्नम् । इतो दादरमध्य उपधानतपःकारणस्य निर्णयो जातः । ततश्चातुर्माससमात्यनन्तरं तैः स्वीयविशालपरिवारेण सह दादरमध्ये आत्म
समता सागरचरितम् कमललब्धिज्ञानमन्दिरे पादाववधृतौ । तत्र मालारोपणप्रसङ्गोऽपि भव्यतया सम्पन्नोऽभवत् ।
इतः पूज्यपन्न्यासकान्तिविजयमुनिराजविजयौ शततमौलिपूर्णाहुतिनिमित्तं पूज्यप्रेमसूरीश्वरनिश्रामत्यातुरतया काङ्क्षन्तावास्ताम् । ततः चातुर्माससमाप्त्यनन्तरं पूज्यप्रेमसूरीश्वरैः मुम्बापुर्याः सुरेन्द्रनगरं प्रति विहारः प्रारब्धः । व मुंबापुरी क्व च सुरेन्द्रनगरम् ? तथापि तद्विहारेऽपि पूज्य - पद्मविजयाः पूज्यप्रेमसूरीश्वरैः सहैवाऽचलन् । ते स्वीयं शरीरमिषदपि न चिन्तितवन्तः । पूज्यप्रेमसूरीश्वराणां चलनवेगः स्वभावेन मन्द आसीत् । तथापि पूज्यपद्मविजयाः मन्दगत्या तैः सममेवाऽचलन् । प्रायो नववादने दशवादने वा ते स्थानं प्राप्नुवन् । ततो बृहन्नगरेषु स्वागतयात्रा निरगच्छत् । तत उपाश्रयप्रवेशे प्रवचनवर्षाऽभवत् । द्वादश-वादनमेकवादनं वा स्वभावेनाजायत । ततो यतयो गोचर्यर्थ निरगच्छन् भोजनं चाऽकुर्वन् । पूज्यपद्मविजया औषधमपि एकवादनपश्चादेवागृह्णन् । ते विहारेऽपि प्राय एकाशनान्येव कृतवन्तः । तत्रापि समुद्देशनमण्डल्यां साधून्परिवेष्यैव ते स्वयं भोजनार्थमुपाविशन् । एकं प्रसङ्गं दर्शयामि ।
वडोदरानगरे पूज्यप्रेमसूरीश्वराः चिरादागताः । ततः श्रीसङ्घोऽतीवोत्साहितोऽभवत् । पूज्यप्रेमसूरीश्वराः शनैः शनैः विहरन्द्वादशवादने वडोदराबहिः प्राप्ताः । ततः स्वागतयात्रया सह नगरे परिभ्रम्य सार्धैकवादन उपाश्रयं ते प्राप्ताः । पूज्यपद्मविजयैः प्रभावकवाण्या प्रवचनं श्रावितम् । सार्धद्विवादने
४४
Page #30
--------------------------------------------------------------------------
________________
समतासागरचरितम्
तैरेकाशनं कृतम् । पुनः सार्धत्रिवादने जनविज्ञप्त्या तैः प्रवचनं प्रकाशितम् । सायंकाले पूज्यप्रेमसूरीश्वरैः सह चैत्यपरिपाटीः कृता । द्वितीयादिने च ततो विहारः कृतः। इदं त्वेकं दृष्टान्तं प्रदर्शितम् । ईदृक्प्रसङ्गास्तु तेषां जीवने सदैव घटितवन्तः । तत्र तेषां सहनशीलताविनयगच्छचिन्तालोकोपकारादयो गुणाः दृष्टिविषय्यभवन् ।
४५
सुरेन्द्रनगर उभयमहात्मानौ शततमौलिसमाप्तिसमीपं प्राप्ताः । ततस्तत्र गमनार्थं तैरुग्रविहाराः कृताः । पूज्यपादानां निश्रायामेव पारणककरणस्य निश्चय उभौ व्रतिनौ दृढावाऽऽस्ताम् । उग्रविहरणे सत्यपि शततमौलिसमाप्तिदिने पूज्यप्रेमसूरीश्वरातत्र प्राप्तुं नाशक्नुवन् । ततो मुनिभ्यामाचामाम्लान्यग्रे प्रवर्त्तितानि । पूज्यराजविजयैर्द्वितीयं वारं शतौलिकरणाय वर्धमानतपसो मूलमुप्तम् । भव्यस्वागतयात्रया सह श्रीसङ्घेन पूज्यप्रेमसूरीश्वराणां विशालसमुदायेन सह प्रवेशः कारितः । महोत्सवाः प्रारब्धाः । पूज्यप्रेमसूरीश्वरादिविशालसाधुसमुदायनिश्रायामुभयमुनयोः तपःपारणकं सञ्जातम् । सुरेन्द्रनगरसङ्घः कृतार्थोऽभवत्, श्रीसङ्घेन महान्लाभो लब्धः । ईदृक्महातपः पूर्णाहूतिः श्रीसङ्घेऽभवत् तेन श्रीसङ्घोऽपि हर्षपूरेण पूर्णोऽभवत् । श्रीसङ्घेनाऽतिशयेनानुमोदना कृता ।
इतः शंखेश्वरतीर्थमध्ये श्राद्धवर्यरुगनाथपुत्रहिंमतश्राद्ध उपधानतप आराधनां कारितवान् । पूज्यपंन्यासभद्रङ्करविजयमुनिभानुविजयादयोऽग्रे गत्वा तत्र प्राप्ताः । माला
** समतासागरचरितम रोपणप्रसङ्गे पूज्यप्रेमसूरीश्वराः विशालपरिवारेण सह शंखेश्वरं प्राप्ताः । उपधानतपःकारकहिंमतश्राद्धः स्वयमुपधानतपसि युक्तवान् । सस्त्वतीव वदान्य आसीत् । स्वजीवनार्जितसम्पूर्णरिक्थं तेनोऽपधानतपस्युपयुक्तम् । ततोऽप्यधिको व्ययो जातः । तथापि स्वीयोत्साहमभङ्क्त्वा वदान्यहृदयेन तेन लाभो गृहीतः । पूज्यप्रेमसूरीश्वराणां पुण्यनिश्रायामुपधानतपोमालारोपणमहोत्सवः सुष्ठु सम्पन्नोऽभवत् । तदा दादरसङ्घस्तत्रागतः। दादरसङ्घस्तु पूज्यपद्मविजयानां सत्सङ्गेनातीव रक्तोऽभवत् । ततस्तेषां दूरगमनेऽपि श्रीसङ्घः तेषां सङ्गं त्यक्तुमुद्यतो नाभवत् । दादरसङ्घेन पूज्य - प्रेमसूरीश्वरनिश्रायां शंखेश्वरात्सिद्धगिरेः षड्रिपालकतीर्थयात्राऽऽयोजिता । उल्लासपूर्वकं तीर्थयात्रासङ्घः शंखेश्वरात्सिद्धगिरिं प्रति प्रस्थितः । मार्गगतग्रामनगरेषु शोभनशासनप्रभावनापूर्वकं तीर्थयात्रासङ्घः सिद्धगिरिं प्राप्तः । तीर्थया - त्रामालारोपणादिप्रसङ्गा उल्लासपूर्वकं सम्पन्नाः । तदाऽमदावादज्ञानमन्दिरट्रस्टीगण आगत्योपस्थितः । तेन पूज्यप्रेमसूरीश्वराणां वि.सं.२०१३ वर्षस्य चातुर्मासं तत्र निर्णायितम् ।
विशालपरिवारेण सह पूज्यप्रेमसूरीश्वराः राजनगरं प्राप्ताः । अत्युल्लासपूर्वकं तेषां प्रवेशो ज्ञानमन्दिरमध्ये जातः । पूज्यभानुविजयानां वैराग्यरसभृतानि प्रवचनानि प्रारब्धानि । प्रातःकाले ते पूज्यहरिभद्रसूरिविरचितललितविस्तरोपरि शोभनां वाचनां दत्तवन्तः । मुनिवरैस्तस्यावतरणं कृतम् । तत् 'परमतेज भाग - १,२' रुपेण प्रकाशितम् । पूज्यपद्मविजयानामपि
४६
Page #31
--------------------------------------------------------------------------
________________
में समतासागरचरितम् -
-
-
४७
4 ४८
tarkonkrapart- समतासागरचरितम् ।
दैनिकाराधनाः समतापूर्वकं प्रावर्तन्त । केन्सर आवृत आसीत्। किन्तु सम्पूर्णतया ध्वस्तो नासीत्। अतस्तस्येषत्पीडा अनेकाशस्तेऽन्वभवन् । तथापि ता अवज्ञाय ते पठनपाठनादिक्रियासु प्रवृत्तिशीला आसन् । चातुर्मासदिनान्याराध-: नामयानि व्यतीतानि ।
अनेकगच्छविभक्तजैनसो तपागच्छः प्रधानोऽस्ति । बहुश्रुतमहोपाध्यायश्रीयशोविजयैः स्वीयश्रुतावगाहनप्रभावेण परमात्मशुद्धपरम्परा तपागच्छेऽस्ति इति प्रतिपादितम् ।। परमात्ममहावीरस्य परम्परा निर्ग्रन्थगच्छत्वेन ख्याताऽभवत्।। पञ्चदशपट्टादियं परम्परा चन्द्रगच्छत्वेन ख्यातिमत्यभवत् ।। षोडशपट्टादियं परम्परा वनवासीगच्छत्वेन प्रसिद्धिमगात् ।। षट्त्रिंशत्तमपट्टादियं वडगच्छत्वेन प्रख्यातिमगच्छत् । चतु-: श्चत्वारिंशत्तमपट्टे जातेन तपस्विरत्नेनाचार्यजगच्चन्द्रसूरिणा द्वादशवर्षपर्यन्तमाचामाम्लानि कृतान्यतो मेवाडस्य कुंभाराज्ञा तेभ्यो ‘महातपा' इत्युपाधिदत्ता। ततस्ततः प्रभृति समस्तपरम्परा तपागच्छत्वेन प्रसिद्धाऽभवत्। एतत्तपागच्छे महाप्रभावकतपस्विसंयमिन आचार्या जातपूर्वाः, सहस्रशो मुनयोऽपि भूतपूर्वाः । आचार्यश्रीहीरसूरीश्वरकाले पंन्यासानां शतानि पञ्चविंशतिशतानि च मुनीनां तपागच्छेऽभवन्। ततः काल-1 क्रमेण साधुसङ्ख्या हीयमानाऽभवत् । साधुसमुदाये शिथिलतया प्रवेशः कृतः । पंन्याससत्यविजयेन पुनः क्रियोद्धारकरणेन संवेगिमुनीनां परम्परोत्थापिता।
दुर्दैवेनैतत्तपागच्छे गतकतिचिद्वर्षेभ्य आराधना-तिथि
निमित्तं विवादाः सञ्जाताः । पर्वतिथेः क्षयवृद्धी न करणीये इति परम्परावशाभाद्रपदशुक्लपञ्चमीक्षयवृद्ध्योरागतयोः केचिद्भाद्रपदशुक्लतृतीयाक्षयवृद्धी कृत्वा भाद्रपदशुक्लचतुर्थ्याः पूर्वदिने पश्चादिने वा संवत्सरिपर्वाराधितवन्तः, अन्ये तु: शुक्लचतुर्थ्यां संवत्सरिपाराधितवन्तः। वि.सं.२०१३ वर्षेऽपीयमेव परिस्थितिः सञ्जाता। सङघमते चण्डांशुचण्डु-* तीथिदर्पणे भाद्रपदशुक्लपञ्चम्याः क्षयोऽभवत्ततः संवत्सरिपर्वणो भेदो जातः । श्रीसद्यो द्वैधिभावं गतः। द्वयोर्दिनयोः संवत्सरिपर्वण आराधना जाता । पूज्यप्रेमसूरीश्वराः सङ्घभेदेनातीव व्यथिता आसन् । पर्वतिथेः क्षयो वृद्धिर्वा न करणीयेति वि. सं. १९९२ वर्षादागतां परम्परामेकपक्षीरीत्या भक्त्वा पर्वतिथेः क्षयवृद्धिकरणं प्रारब्धम्। ततः श्रीसङ्घ चतुर्दश्यादितिथीनामपि भेद आगतः। इदं पूज्यानामनिष्टमासीत्। तत्रापि तद्वर्षे संवत्सरीपर्व पृथग्जातम् । द्वितीयवर्षे (वि.सं.२०१४ वर्षे) ऽपि सैव परिस्थितिरागमिष्यतीति तैख़तम्। पर्युषणाराधना तु शान्तिपूर्वक सम्पन्ना । तत्पश्चात्पूज्यप्रेमसूरीश्वरैः सङ्घक्यार्थमनेकशः प्रयत्नाः कृताः। अन्याचार्यैरग्रगण्यसुश्रावकैश्च सह ते मुहुर्मुहुरमिलन् । तत्फलस्वरूपेण सर्वानाचार्यान्विज्ञप्य चातुर्मासानन्तरं योग्यसमये मुनिसम्मीलनं निर्णीतम् । सङ्घनायकश्राद्धवर्यलालभाइपुत्रकस्तुरभाइश्राद्धेनैतत्कार्यमाणन्दजीकल्याणजीपेढीट्रस्टिश्रीलालभाइपुत्रकेशवलालश्राद्धायार्पितम्। सर्वत्र विज्ञप्तयः कृताः। आचार्यैरपि स्वीया विहारा राजनगरं प्रति प्रारब्धाः ।
Page #32
--------------------------------------------------------------------------
________________
में समतासागरचरितम् -goraamaagnore- ४९
f५०
%e0
%antra - समतासागरचरितम् ।
वि.सं.२०१४ वर्षे वैशाखशुक्लतृतीयायां मुनिसम्मीलनं प्रारब्धम् ।
इतः पूज्यपद्मविजयानां चातुर्मासमपि सुखपूर्वकं समाप्तम् । तैराराधनार्थं चतुर्दशोपवासाः कृताः। चातुर्माससमाप्त्यनन्तरमावृतकेन्सरव्याधिः पुनः स्वीयं प्रभावं दर्शितवान् । सकृतैर्वमनमपि कृतम् । मुम्बापुर्या हरिभाइडोक्टर : आहूतः । सः कथितवान् 'वामभागे नूतना ग्रन्थिदृश्यते ।। अतो विहृत्य मुम्बापुरीगमनमत्यावश्यकमस्ति ।' दिनकरडोक्टरेण गलकनिष्णातेन च बालगेडोक्टरेणापि सैव सूचना । दत्ता । पूज्यपद्मविजया गुरुदेवेभ्यः पृथग्भवनं नैच्छन् ।। पूज्यप्रेमसूरीश्वरा अपि स्वीयैतन्महासमर्पितप्रशिष्यपृथग्प्रेषणं नैच्छन् । किन्त्वितो राजनगरे साधुसम्मीलनं निश्चितम्।। विविधग्रामनगरेभ्य आचार्या आगच्छन्त आसन् । शासन-: सङ्घप्रश्ना विचारणीया अभवन् । एतत्परिस्थितौ पूज्यप्रेमसूरीश्वरा राजनगराद्विहारं कर्तुं नाशक्नुवन् । अन्ततो गत्वान्योपायमपश्यद्भिस्तैः द्वादशमुनिभिः सह पूज्यपद्मविजया मुम्बापुरीं प्रति गमनायाऽऽदिष्टाः । तेषां शारीरिकीमवस्था विलोक्य तैस्ते डोलीमध्य उपविश्य गमनायादिष्टाः । इदमत्रावधेयं यदियत्कालपर्यंतं केन्सरव्याधौ सत्यपि पूज्य-1 पद्मविजयाः पादविहारमेवाकुर्वन्। वि.सं.२०१४ वर्षानन्तरमेवाऽनन्योपायतया गुर्वाज्ञया च तै?लेरुपयोगः कृतः। द्वे प्रयोजन आस्ताम्- १) तेषां शारीरिकस्थितिस्तदा पादविहारं कर्तुमननुकूलाऽऽसीत्, २) उपचारार्थं झटिति मुम्बापुर्या
गमनमत्यावश्यकमासीत् । उभयसन्ध्ययोरुग्रविहारं कुर्वन्तस्ते द्वाविंशतिदिनैर्मुनिभिः सह राजनगरात्मुम्बापुरीं प्राप्ताः । दादरसङ्घो वैयावृत्त्यकृत उद्यत एवाऽऽसीत् । तथा च तान् प्रत्यक्षत । श्रीसङ्घन तेषां भव्य स्वागतं कृतम् । पूज्यपद्मविजयानां दर्शनेन दादरसङ्घः प्रमोदनिर्भरोऽभवत् । तथा तेषां रोग्यवस्थां विलोक्य सर्वे व्यथापूर्णा अभवन् । तत्र टाटारुग्णालये तेषां चिकित्सा कारिता। एतद्वितीयग्रन्थिविनाशकृते किरणग्रहणं प्रारब्धम् । किरणैः ग्रन्थिविलीना, अन्याश्च पीडा उपशान्ताः किन्तु तीव्रा मस्तकवेदना । प्रादुरभवत् । शरीरे दाहः सञ्जातः । भुक्तान्नं सर्वं वमनेन । निरगच्छत् । रात्रावपि तीव्रमस्तकपीडया ते स्वप्तुमपि नाशक्नुवन् । सम्पूर्णा रात्र्यस्तैर्जागरुकैरेव व्यतीताः । वैद्यैः प्रभूताश्चिकित्साः कारिताः, किन्तु तेषां स्वास्थ्यं चारु नाभवत् । मुनयः सेवावैयावृत्त्ययोस्तल्लीनाः जाताः। श्रावका अपि स्ववाणिज्यं गौणीकृत्य पूज्यपद्मविजयानां सेवायामेकाग्रतावन्तः सञ्जाताः । परन्तु सर्व उपाया निष्फला अभवन् । ततश्च केन्सरव्याधिर्वर्धमानोऽभवत् ।
इतश्च राजनगरे साधुसम्मीलनं प्रारब्धम् । सुदूरादाचार्यभगवन्त आगच्छन्त आसन् । वैशाखशुक्लतृतीयादिने प्रकाशविद्यालये स्नात्रमहोत्सवपूर्वकं चतुर्विधसङ्घोपस्थितौ सम्मीलनं प्रारब्धम् । साधवोऽमीलन् । अनेकशी मिलनेऽपि प्रश्नानां समाधानं न जातम् । ततोऽन्ततो गत्वा श्रीसङ्घस्य दुर्दैवेन सम्मीलनमऽभ्रश्यत। कोऽपि निर्णयो
--
---
Page #33
--------------------------------------------------------------------------
________________
* समतासागरचरितम् -
akatrapathrit-
५१
"
५२
generation- समतासागरचरितम् ।
नाऽगतो ज्वलत्प्रश्नाः समाधानरहिता एव स्थिताः । वि.सं. २०१४ वर्ष आगमिष्यतः संवत्सरीभेदस्य मुख्यः प्रश्नोऽपि तथैव (प्रश्नरुपेणैव) स्थितः । उभौ पक्षौ स्वस्वपक्षप्रचारं कर्तुं लग्नौ। श्रीसयोऽतीवोदासीनोऽभवत् । सर्वे चिन्तातुरा आसन्। सर्वेषामेकैव भावनाऽऽसीद्यत्कथमपि सबैक्यं सम्पादनीयम्। संवत्सरीभेदेन पर्युषणपर्वाष्टदिनानामपि भेदो भवति । इदं केन प्रकारेण सोढव्यम् । एकस्मिन्नेव गृहैकस्मिन्नेव च कुटुम्बे द्वयोर्भिन्नयोर्दिनयोः पर्युषणस्याऽऽराधना भविष्यति, कुटुम्बेषु श्रावकेषु च परस्परं सङ्घर्षा भविष्यन्ति । अत्यन्तं व्यथिताः । रतलामस्य केचन युवानः सबैक्यार्थमुपवासान्प्रारब्ध-: वन्तः । वातावरणमपि कलुषितं सञ्जातम् । कतिचिदिनपश्चाधुवान उपवासान्त्याजयित्वा पारणं कारिताः । चातुर्मासं प्रारब्धम् । उभौ पक्षौ स्वस्वमतसत्यत्वसमर्थनाय पत्रिकावर्तमानपत्र-प्रवचनादीनुपयुक्तवन्तः । श्रीसङ्घस्य वातावरणमधिकं कलुषितमभवत्। श्रीसङ्घाग्रेसरा एतत्कृतेऽतीव चिन्ताशीला आसन्किन्तु ते कमप्युपायं न प्राप्नुवन् । तदानीं केनचित्सूचितं "चण्डांशुचण्डुपञ्चाङ्गस्थभाद्रपदशुक्लपञ्चमीक्षयो वर्तमानसंक्लेशनिमित्तमस्ति । जन्मभूमिपञ्चाङ्गे तु : भाद्रपदशुक्लपञ्चमीक्षयो न दर्शितः । यदि जन्मभूमिपञ्चाङ्ग स्वीक्रियते तदाऽस्मिन्वर्षे संवत्सरीपर्वभेदनिवारणं कर्तुं शक्यते।" एतत्कृते प्रयत्नाः प्रारब्धाः । श्रीसङ्घप्रधानश्रावका उभयपक्षाचार्यैः सह मीलिताः । प्रभूतप्रयत्नानन्तरं सर्व आचार्याः सम्मता अभवन् । संवत्सरीपर्वणः कतिचि
दिनपूर्व राजनगरसङ्घमेकत्रीकृत्य सङ्घाग्रणिश्राद्धवर्यलालभाइपुत्रकस्तुरभाइश्राद्धेन तपागच्छीयसर्वाचार्यसम्मत्या 'अतः प्रभृति जन्मभूमिपञ्चाङ्गः स्वीकरणीयः न तु चण्डांशुचण्डुपञ्चाङ्ग' इति घोषणा कृता । तेन तद्वर्षे संवत्सरीपर्वाराधनैकस्मिन्नेव दिनेऽभवत्ततः सर्वे हर्षपूर्णाः सञ्जाताः । किन्तु यदि जन्मभूमिपञ्चाङ्गेऽपि भाद्रपदशुक्लपञ्चमीक्षयवृद्धी : आगमिष्यतस्तदा किं भविष्यति ? एतत्प्रश्ननिर्णयं भविष्यत्कालाय समर्प्य वि. सं. २०१४ वर्ष एकस्मिन्नेव दिने । संवत्सरीपर्वण आराधनाकरणस्यानन्दं सर्वेऽनुभूतवन्तः ।।
इतः पूज्यप्रेमसूरीश्वराः श्रीसङ्घस्य महत्त्वपूर्ण प्रश्ने । निमग्ना आसन्। इतश्च दादरस्थस्वप्रशिष्याचारुस्वास्थ्योदन्तेन ते सदैव चिन्तिता आसन्। चातुर्मासानन्तरं मुम्बापुरीगमनस्य विचारं तेऽकुर्वन्। किन्तु मुम्बापुर्यां सर्वप्रकारोपचारैरपि पूज्यपद्मविजयैः स्वास्थ्यं न लब्धम् । तेन तैरेव पूज्येभ्यः संदेशः प्रहितो यत् 'युष्माभिर्मुम्बापुरी प्रति नागन्तव्यम् । यदि भवतामाज्ञा स्यात्तर्हि वयमेव तत्रागमिष्यामः।' पूज्यैरपि राजनगरं प्रति विहरणाय तेभ्य आज्ञा दत्ता ।
इतश्चातुर्मासानन्तरं राजस्थाननिवासिवनाजीपुत्रचेलाजीपरिवारेण स्वजन्मभूमिचलवाडनगरात्सिद्धगिरेः पदयात्रासङ्घस्यायोजनकरणभावना पूज्यानामग्रे प्रदर्शिता। तेषां पिता : सङ्घायोजनाभिग्रहं गृहीतवान्, किन्तु पूर्णीकर्तुं नाशक्नोत्, तत्पूर्वमेव सः स्वर्गलोकातिथिर्बभूव । पुत्रैः पित्रे वचनं दत्तं
Page #34
--------------------------------------------------------------------------
________________
समतासागरचरितम् -
0
0
-
५३
+ ५४
mmsrammar- समतासागरचरितम् ।
यत्- 'युष्माकमभिग्रहं वयं पूरयिष्यामः ।' तैः पूज्यानां सो निश्राप्रदानार्थं विज्ञप्तिः कृता । पूज्यपादाः परिवारेण सह राजस्थान प्राप्ताः । चलवाडनगरात्सङ्घो प्रस्थितवान्। अनेकग्रामेषु जिनशासनं प्रभावयन्श्रीसङ्घो विपुलसंख्यकश्राद्धैः सह शखेश्वरं प्राप्तवान् । इतः पूज्यपद्मविजया अपि मुम्बापुर्या डोल्या विहृत्य द्वाभ्यां दिनाभ्यां पूर्वमेव शखेश्वरं प्राप्ताः । श्रीसङ्घ आगतः । समुनयः पद्मविजयाः पूज्यानां दर्शनेन प्रमोदरोमाञ्चकचकिताङ्गा अभवन्। पूज्यैरपि स्वमहत्साधकप्रशिष्यस्य रोगोपद्रवेऽपि समतासाधनां दृष्ट्वा प्रसन्नताऽनुभूता। पद्मविजया अपि पूज्यानां निश्रयैव सङ्घ-! ऽग्रेऽगच्छन् । ग्रामानुग्रामं स्वागतं स्वीकुर्वजिनशासनं प्रभावयन्षड्रीपालकः सङ्घः सुरेन्द्रनगरं प्राप्नोत् ।
सुरेन्द्रनगरसङ्घ आराधनायां शासनकार्येषु चातीव जागरुक आसीत् । द्वाभ्यां वर्षाभ्यां पूर्वमेव श्रीसङ्घन द्वयोमहात्मनोर्वर्धमानतपसः शततमौलीपारणं समहोत्सवं पूज्यपादनिश्रायां कारितम् । श्रीसङ्घन पूज्यपादानां ससङ्घानां सपरिवाराणां च भव्य स्वागतं कृतम् । यात्रिकानां भक्तिरपि कृता । द्वे दिने विश्रामं कारिताः । सुरेन्द्रनगरस्थडोक्टरैः पद्मविजयानां चिकित्सा कृता । विस्तृतकेन्सरस्य गृहीतकिरणधर्मणश्च भयङ्करां पीडां तु तेऽन्वभवन् । तेषां स्वास्थ्यमतीवाचार्वासीत् । शरीरेऽशाताऽपि प्रभूताऽवर्त्तत । किन्तूभयगुरुदेवानां पवित्रछायया ते सदैव प्रसन्ना अभवन् । तथापि सुरेन्द्रनगरसङ्घः पूज्यपद्मविजयाना पीडां द्रष्टुं
नाशक्नोत् । तेन पद्मविजयानां सुरेन्द्रनगरे स्थिरता कारणाय पूज्यपादानामपि च सिद्धगिरिं गत्वा झटिति प्रत्यागमनाय श्रीसङ्घ आग्रहपूर्णां विज्ञप्तिं कृतवान्। ततः पूज्यैः पञ्चदशमुनिभिः सह पद्मविजयाः सुरेन्द्रनगरे स्थिरतां कारिताः । पंन्यासकान्तिविजय-पंन्यासभद्रङ्करविजयभानुविजयादिविशालपरिवारेण सह पूज्याः श्रीसङ्घसमेताः । सिद्धगिरि प्रति प्रस्थिताः ।
__ सुरेन्द्रनगरे साधनायज्ञः ।
सुरेन्द्रनगरे पूज्यपद्मविजयाः पञ्चदशमुनिभिः सह : स्थिताः । गुणानन्दविजयादिभ्यस्ते बृहत्कल्पस्य वाचनां तिस्रो घण्टा दत्तवन्तः । शारीरिकां पीडामवगणय्य ते नित्यमेकां घण्टां मधुरकण्ठेन प्रवचनं दत्तवन्तः । सर्वेषां मुनीनां सारणादिभिस्ते योगक्षेमं कृतवन्तः । केन्सरपीडां तु! ते सोढवन्त एव । मस्तकपीडा काशनं किरणघर्मदाहो वमनमित्यादिकासु पीडास्वपि ते स्वपरोपकारकार्यमकुर्वन्। न केवलमेतत्तदानीं तु भोजनं भाषणं चापि ते कृच्छ्रेणैवाऽकुर्वन् । चन्द्रिकामपि ते जलेन सहैव गिलितवन्तः । एतेषु । सत्स्वपि स्वपरोपकारकप्रवृत्तिं त इषदपि नारुन्धन्।
गुर्वाज्ञापालनस्यैकोऽनुपमः प्रसङ्गः ।
सिद्धगिरिं प्रति विहरणात्पूर्वं भानुविजयैः पद्मविजयानां एकेन वैद्येन चिकित्सा कारिता, पद्मविजयाश्च तैः कथिताः । यत्तस्य वैद्यस्यौषधं ग्रहीतव्यम् । पद्मविजयैरपि गुर्वाज्ञा 'तहत्ति' कृत्वा स्वीकृता । औषधं गृहीतम् । भानुविजयास्तु श्रीसङ्घन
Page #35
--------------------------------------------------------------------------
________________
* समतासागरचरितम्
aftegort- ५५
f५६
amirporayan- समतासागरचरितम् ।
सह सिद्धगिरिं प्रति प्रस्थिताः। इतः कतिचिदिनानि यावद्वैद्यस्यौषधेनेषत्सुचारुता सञ्जाता । किन्तु ततः पश्चादौषधं विपरिणतम् । काशनवमनमस्तकपीडादिष्वसह्या वृद्धिः सञ्जाता । पीडा अवर्धन्त । किन्तु पद्मविजयास्तु गुरुवचनानि भगवत्वचनानि मत्वौषधं नात्यजन्। श्रावकैरप्यौषधं त्यक्तुमाग्रहपूर्वकं विज्ञप्तिः कृता, किन्तु ते कथङ्कारं गुरु-* वचनमुल्लङ्घयेयुः । अन्ततो गत्वौषधविपरीतप्रभावेण तेषां : शरीरे पीडावृद्धिं दृष्ट्वा व्यथिताः सुरेन्द्रनगरश्राद्धा दूरभाषेण भावनगर उभयगुरुदेवानां परमार्थ ज्ञापितवन्तः वैद्यौषधत्यजनस्य डोक्टरौषधग्रहणस्य चाज्ञां याचितवन्तः। पूज्यै-* रप्याज्ञा दत्ता, तत एव पद्मविजयैवैद्यौषधं त्यक्तं, डोक्टरौषधं । च प्रारब्धम्। ईदृश्यासीत्तेषां गुर्वाज्ञापालनदृढता ।
युद्धभूमौ युध्यन्तो भटा द्विषत्सु प्रहरत्स्वपि सेनापत्याज्ञां नावगणयन्ति, तथैव पद्मविजयैरपि स्वसमस्तजीवने कदापि गुरुवचनानि नावगणितानि । गुरुवचनपालनं, गुरुबहुमानं गुरुविनयश्च तेषां जीवनमन्त्रमासीत् । तैः साधुभ्यो दत्तानां प्रेरणानां वाचनानां चैतदेव सारमासीत् । तेषां प्रत्येकरोम्णि प्रत्येकात्मप्रदेशे वा गुरुतत्त्वस्य नादोऽगुञ्जत्।।
पद्मविजयानामस्वास्थ्येन चिन्तिताः पूज्याः सपरिवारा भावनगरात्सुरेन्द्रनगरं प्रति विहृताः । स्तोकैरेव दिनैस्ते सुरेन्द्रनगरं प्राप्ताः । पद्मविजयान्दृष्ट्वा ते चिन्तामुक्ताः सञ्जाताः । समुदायहितभूती चिन्तयद्भिः पूज्यैः स्वविद्वच्छिष्यप्रशिष्यगणिभ्यः पंन्यासपदार्पणस्य निर्णयः कृतः ।।
तत्कृते वैशाखशुक्लैकादशीदिनं निश्चितम् । अन्यैर्नवभिगणिभिः सह पद्मविजया अपि पूज्यैः पंन्यासपद आरोहिताः। श्रीसङ्घनाऽपि पंन्यासपदार्पणप्रसङ्गे शांतिस्नात्रादिभिः सहाष्टाह्निकामहोत्सव आयोजितः। सुरेन्द्रनगरसङ्घस्यात्याग्रहेण पूज्यैस्तत्र चातुर्मासं निश्चितम् । पन्न्यासपदार्पणप्रसङ्ग समाप्य परिवारेण सह पूज्या हलवदनगरं प्रति विहृताः। पूज्यपद्मविज्याः पूज्यभानुविजयाश्च वढवाणनगरे स्थिताः । केन्सरव्याधिर्वर्धमान आसीत् । घर्मापि तीव्रमासीत्। तद्दाहेऽपि तैराराधनैकनिष्ठमनोभिरष्टमतपः कृतः । सुखशातापूर्वकं तपः पूर्णमभवत् । पारणमपि सञ्जातम् । किन्त्वन्यदा रात्रौ पनस्तीव्रा मस्तकपीडाऽऽविरभवत् । तां पीडां दृष्ट्वा द्रष्टाऽपि भयभीतोऽभवत् । किन्तु पद्मविजया अतीव सहनशीला आसन् । ते लेशमात्रमप्यार्त्तध्यानं नाऽकुर्वन्, केवलमरिहन्तस्मरणमेवाऽकुर्वन् । द्वितीयदिने प्रभाते ईषत्स्वास्थ्यं सञ्जातम् । एकदा मस्तकवेदनाप्रशमनकृते कस्यचिवैद्यस्य सूचनया नासिकयौषधं गृहीतम् । तत्तु विपरिणतम् । ततो मस्तके पीडावृद्धिरभवत्। सर्वे चिन्तातुराः सञ्जाताः। किन्तु पद्मविजयास्तु मेरुरिव धीरा आसन्। तैरेक एव निश्चयः कृतः- कर्मभिः सह युद्धकरणम् । ते कर्मराजानं कथितवन्तः'त्वया सर्वशक्त्या प्रेरणीयं, अहं देवगुरुकृपासन्नाहं बिभर्मि, अहं समतां समाधिं च न लोपिष्यामि ।' प्रत्युत यथा यथा पीडावृद्धिरभवत्तथा तथा पद्मविजयानां समताधीरतावृद्धिरप्यभवत् । पूज्यैरित्थमनेकसनिमित्तकानिमित्तकासाता
Page #36
--------------------------------------------------------------------------
________________
समतासागरचरितम्
वेदनीयकर्माणि सोढ्वा प्रभूताऽशुभकर्मनिर्जरा कृता । तेषां समतां दृष्ट्वा तत्रस्थपंन्यासहंससागरगणिनोऽप्यतीव चकिताः सञ्जाताः । तैरप्यन्तःकरणपूर्वकमनुमोदना कृता । वढवाणसङ्घोऽपि तेषां सेवायां वपुषा मनसा वित्तेन चालगत् । श्रीसङ्घोऽतीव पुण्यशाल्यासीद्यत्तादृशमहापुरुषसेवावसरं लब्धवान् । श्रीसङ्घेन सम्पूर्णोल्लासेन सर्वशक्त्या च सेवां कृत्वा सोऽवसरः सफलीकृतः।
५७
सुरेन्द्रनगरमध्ये साधनामयं चातुर्मासम् । शुभमुहूर्ते पूज्यप्रेमसूरीश्वराणां सुरेन्द्रनगरे चातुर्मासप्रवेशः सञ्जातः । श्रीसङ्घे सर्वे सोल्लासाः सञ्जाताः । पूज्यैः सह तदा मंगलविजयमेरुविजयपंन्यासकान्ति
विजयपंन्यासमलयविजयपंन्यासभानुविजयपंन्यासपद्मविजयादिचतुष्पञ्चाशन्मुनय आसन् । तान्दृष्ट्वा सर्वे हर्ष - भरेणानृत्यन्यथा मेघं दृष्ट्वा मयुरो नृत्यति । सुरेन्द्रनगरे विविधसमुदायवर्त्तिप्रभूतसाधुसध्व्यो विराजमाना आसन् । श्रीसङ्घोऽपि पूज्यानां सेवायां दत्तावधान आसीत् । श्राद्धवर्यनारणदासपुत्रचम्पकलाल श्राद्धेन श्राद्धवर्यमाणेकलालपुत्रधारशीभाइ श्राद्धेन च चातुर्मासे सर्वसाधुसाध्वीवैयावृत्त्यलाभः श्रीसङ्घ विज्ञप्य गृहीतः । प्रतिदिनं प्रवचनधाराऽवर्षत् । श्रावकसङ्घः सोल्लासं चातुर्मासाराधनायां युक्तवान् ।
इतः पूज्यनिश्रायां मुनीनामपि साधनायज्ञः प्रारब्धः। मुनयः स्वाध्याय-संयम- तपो वैयावृत्त्यादियोगेषु स्वीयं वीर्य
*** समतासागरचरितम्
प्रयुञ्जन्ति । पञ्चमारकेऽपि श्रीसङ्घः चतुर्थारकगुरुकुलवासदर्शनं लब्धवान् । श्रीसङ्घेन बालवृद्धग्लानतपस्विज्ञान्यादिमुनीनां दर्शनेन स्वीयं जन्म सफलीकृतम् । स्वाध्यायः पूज्यानामतीव प्रिय आसीत् । तेन सर्वे मुनयः संयमेन सह स्वाध्यायेऽपि तल्लीनाः सञ्जाताः । युवान इव वृद्धा अपि प्रातःकालात्प्रभृत्येव पठनपाठनेष्वलगन् । लघुविद्यापीठ इव तदभासत । कतिचित्साधवः पूज्येभ्यः छेदसूत्राणां वाचनामगृह्णन्। कतिचित्साधवः पंन्यासभानुविजयेभ्यः न्याय सिद्धान्तमुक्तावलीमपठन् । कतिचिन्मुनयः कर्मग्रन्थकर्मप्रकृत्यादि पदार्थानामभ्यासमकुर्वन् । कतिचिद्यतयः पंन्यासकान्तिविजयेभ्यः सटीकतत्त्वार्थसूत्रं सटीकपन्नवणासूत्रं चापठन् । केचन व्रतिनः आचाराङ्गाद्यागमानपठन् । केचित्संयमिनः नूतनकर्मसाहित्य सृजन, केचनाल्पपर्यायचारित्रिणः संस्कृतप्राकृतभाषाभ्यासं प्रकरणाभ्यासं चाकुर्वन् । ज्ञानयज्ञ एव तदा प्रारब्धः ।
५८
ज्ञानेन सह तपआराधनाऽपि शोभना प्रारब्धा । बहवो मुनयो वर्धमानतपस ओलेराचामाम्लान्यकुर्वन् । केचन व्रतिनो विंशतिस्थानकोपवासानकुर्वन् । केचिद्यतयोऽन्यानि तपांस्यकुर्वन् । कतिचित्साधव उत्तराध्ययनाचाराङ्गादियोगोद्वहनमकुर्वन् । केचन संयमिनः द्विपञ्चाशदाचामाम्लसम्पादनीयं महानिशीथागाढयोगोद्वहनमकुर्वन् ।
केचिन्मुनयः समुदायस्य बालवृद्धग्लानमुनीनां च वैयावृत्त्ये युक्तवन्तः ।
Page #37
--------------------------------------------------------------------------
________________
समतासागरचरितम्
५९
शास्त्रवर्णितचतुर्थारकगुरुकुलवासदर्शनं पञ्चमारके
सञ्जातम् ।
इतः पंन्यासपद्मविजया अपि स्वीयसाधनामग्ना आसन् । सुरेन्द्रनगरचातुर्मासे ते कर्मशत्रुभिर्वीरतयाऽयुध्यन् । केन्सरविविधपीडामध्येऽपि दिनकाले ते स्वयमागमानपठन् । पठनेन सह जापध्यानसाधनयाऽपि ते कर्मनिर्जरां साधतिवन्तः । तदा तेषां वागरुध्यत तेषां वचनानि कोऽपि श्रोतुं नाशक्नोत् । तथापि बालमुनीन्प्रेरणावचनानि लिखित्वाऽऽराधनायां सोत्साहानकरोत् । न केवलमेतत्प्रतिदिनं प्रभाते ते तान्संस्कृतश्लोकान्कंठस्थान्नकारयन् । दशश्लोककंठस्थीकरणानन्तरमेव नमस्कारसहितप्रत्यख्यानं पारयितव्यमिति तैर्बालमुनयः संदिष्टा आसन् । बालमुनिभिरपि स्वेच्छया तेषां सूचनं स्वीकृतम् । इत्थं पद्मविजयाः शोभनां साधनां कुर्वन्त आसन् ।
इतः प्रतिदिनं तेषां व्याधिरवर्धत । सर्व उपचारा निष्फला अभवन्। तेषामन्ननलिका सङ्कुचिताऽभवत् । केन्सरव्याधिः प्रासरत् । मस्तकपीडा - वमन - काशन-दक्षिणाङ्गाकर्षणादिकाः पीडास्ते समतयाऽसहन् । दक्षिणनासिकया श्वासोच्छ्वासा कृच्छ्रेणैवाऽकुर्वन् । दक्षिणकर्णेन ते सुष्ठु श्रोतुं नाशक्नुवन् । तेषां शरीरस्य दक्षिणविभागः पेरेलीसीसरोगेण ग्रस्तोऽभवत् । ततस्ते चन्द्रिकामपि गिलितुं नाशक्नुवन् । केवलं द्रवपदार्थानेव ते भोक्तुं शक्तिमन्त आसन् । ईदृक्स्थितावपि तेषां साधना हीयमाना नाऽभवत्किन्तु वर्धमानै
* समतासागरचरितम् वाऽऽसीत् । पीडासहनेन सह ते नित्यक्रियाः स्वपरहितप्रवृत्तीश्च पूर्वमिवैवाऽकुर्वन् । एतैर्महायोगिपुरुषैस्तदाऽऽध्यात्मिकोपकारकरणभावना भाविता । ईदृगासीत्तेषां माहात्म्यम् । कश्चित्सामान्यमनुष्य ईद्दक्स्थितावधिकाधिकानपवादान्सेवेत,
६०
तदैतैर्महापुरुषैरधिकाधिकमुत्सर्गमार्गारोहणमनोरथाः कृताः । पर्युषणपर्वाऽगतम् । व्याधिपीडया प्रथमसप्तदिनानि तैर्नमस्कारसहित प्रत्याख्यानमेव कृतम् । संवत्सरिदिन उपवासकरणभावना तैः पूज्यानामग्रे प्रदर्शिता । पूज्या अपि ज्ञातवन्तो यदुपवास एव वास्तविकमौषधमासीत् । ततस्तैरपि तेभ्य उपवासप्रत्याख्यानं दत्तम् । तद्दिन उपवासकरणेऽपि पद्मविजयैः स्वस्थतापूर्वकं कल्पसूत्रं (बारसासूत्रं ) श्रुतं प्रतिक्रमणं च कृतम् । श्रीसङ्घेनापि तद्दिने सोत्साहमाराधना कृता ।
भाद्रपद शुक्लपञ्चमीप्रभाते सर्वे पारणकरणकारणोद्यता आसन् । मुनिष्वपि अष्टदशाधिकोपवासतपस्विनः पारणोद्यता आसन् । परन्त्वितः किं सञ्जातम्, पद्मविजयैः पूज्या विज्ञप्ताः 'ह्य उपवासः सुखशातापूर्वकं जातः । मम स्वास्थ्यमपि समीचिनमस्ति । यदि भवतामिच्छा स्यात्तदाऽद्याप्युपवासप्रत्याख्यानं ददतु ।' पूज्यैरपि एतद्विनीतविनेयान्तरभावना समर्थिता । न केवलं तद्दिने एव तैरुपवासः प्रत्याख्यातः किन्तु तदनन्तरमपि प्रतिदिनं त उपवासमेव प्रत्याख्यातवन्तः । अष्टोपवासनन्तरं तु तेषां मस्तकपीडाऽपि तिरोभूता । इदं तु जिनशासनमाहात्म्यं यत्तद्दर्शितोपवासादिसाधना बाह्यान्तरोभयरीत्या लाभकारिण्यो भवन्ति । किन्त्वनाद्य
Page #38
--------------------------------------------------------------------------
________________
समतासागरचरितम् -
-famorya- ६१
६२
-00-
00-
00- समतासागरचरितम् ।
ज्ञानताकुसंस्कारनिमग्ना जीवा इदं कथं जानीयुः ? फलस्वरूपेण सम्पूर्ण विश्वमधिकाधिकं दुःखग यामवतरति ।। पद्मविजयैरुपवासैः विंशतिस्थानकाराधना प्रारब्धा । उपवासैः सह ते क्षमाश्रमणादिकाः क्रिया अप्यकुर्वन् । अनन्तपञ्चपरमेष्ठिपटं सन्मुखं संस्थाप्य समवसरणविराजमानार्हत्परमात्मानमेकाग्रचित्तेनाऽध्यायन् । पञ्चपरमेष्ठिनोऽष्टप्रातिहार्यसहिता अप्यध्यायन् । प्रतिदिनं मध्याह्ने द्विघण्टा यावदित्थं ते जापं ध्यानं चाकुर्वन् । स्वस्थतायां सत्यां मुनिभ्यः । स्वाध्यायसंयमप्रेरणा अपि दत्तवन्तः, श्रावकांश्चापि तत्त्वामृतं । पायितवन्तः । इदं सर्वं ते लिखित्वैवाऽकृर्वन्यतस्तदा ते भाषितुमसमर्था आसन्।
उपवासवृद्ध्या सह तेषां पीडाहानिरभवत् । उपवासकरणेन तैः शारीरिकस्वस्थता मानसिकप्रसन्नता च लब्धा । तेषामाध्यात्मिकानन्दस्य वृद्धिरप्यभवत् । ततस्तैरुपवासवृद्धिः कृता । प्रतिदिनेमेकैकोपवासप्रत्याख्यानं तेऽकुर्वन् । जनैरनुमितं यत्तेऽष्टोपवासनान्तरं पारणं करिष्यन्ति । किन्तु तेषामनुमितिर्वितथाऽभवत् । पद्मविजयैरुपवासा वर्धिताः । सर्वश्रेषः प्रवादः प्रसृतो यत्पद्मविजयैरनशनं स्वीकृतम् । इयं वार्ता मुम्बापुरीं प्राप्नोत् । भक्तजनैः पूज्यप्रेमसूरीश्वराणामुपरि पत्रवर्षा कृता 'पद्मविजयानामुपवासपारणं कारयत' ।
उपवासदिने पद्मविजयानां मनोऽवस्थां प्रकटयत्तैः स्वहस्तेन श्रावकेभ्यो लिखितमधोदर्शितं पत्रमतीव मननीयमस्ति ।
___ सुश्रावकेभ्यो धर्मलाभः। उपवासाः स्वस्थतया भवन्ति । अद्यैकविंशतितमोपवासोऽस्ति । अर्हत्पदसाधना समाप्ता, सिद्धपदसाधना प्रारब्धा। रोगनिवारणकृत उपवासोपचारः सफलोऽभवत् । तत्फलानि तु चिरादेव दृश्यन्ते । अधुना मम पारणार्थमाग्रह मा कुरुतेति प्रार्थये । अधुना ममोल्लासः शक्तिः स्वास्थ्यं च शोभनानि । सन्ति । अत एवोपवासवर्धनस्य मम भावनाऽस्ति।
यूयं सर्वे धर्मप्रेमिबुद्धिशालिमहानुभावाः स्थ । युष्माकं हृदयमनुमोदनीयेन धर्मादरेण पूर्णमस्ति । गतकतिचिवर्षपरिचयेन यूयं सर्वे मां प्रति भक्तिभावं धारयथ । ततो भक्तिभावेन मम पारणार्थं युष्माभिः कृता विज्ञप्तियौग्यैव । तथापि पत्रलिखितवस्तुतत्त्वमपि मनस्यवधारणीयम् ।।
एतत्पुस्तकपाठकानपि प्रार्थये- 'ईषद्विचिन्तयन्तां भवन्तः। यदाऽन्ननलिकया द्रवमपि कृच्छ्रेणैव पातुमशक्नुवंस्ते, यदा ते भषितुमप्यसमर्था अभवन्, यदा मस्तके तीव्रा : पीडाऽभवत्, यदा काशनवमनाक्ष्याकर्षणाद्यसह्यपीडा अभवंस्तदाऽपि सामान्यजनदुर्लभसमाधिसमताधर्मध्यानानां ते स्वामिन आसन, सामान्यजनसुलभरौद्रध्यानस्यावकाशमपि ते न दत्तवन्तः । अतीवोपशमेन ते पीडाः सोढवन्तः, उपवासादितपांसि कृतवन्तः, पठन-जाप-ध्यानादिक्रिया अप्युपयोगपूर्वकं कृतवन्तः, अन्यमुमुक्षूनप्याराधनायां यथायोग्य प्रेरितवन्तः। इदं सर्वं ते कथं कर्तुमशक्नुवन्? किं विशिष्टं बलं तेषां समीपे आसीत् यस्य प्रभावेण इयत्पीडामध्येऽपि
+
+ 4
4
-10
Page #39
--------------------------------------------------------------------------
________________
समतासागरचरितम् -
00-
00-
00-
६३
*
६४
+000-
00-
00- समतासागरचरितम् ।
तादृग्साधनां कर्तुमशक्नुवन् ? तेषां जीवनं धन्यम् ! तेषां पितरौ धन्यौ ! तेषां गुरुदेवप्रगुरुदेवौ धन्यौ !
घोरोपसर्गः चतुर्विशत्युपवासानन्तरं प्रेमसूरीश्वरैः सूचितं यत्पारणकरणमावश्यकमासीत्। ततो विनीतसेवकैः द्रवेण पारणं कृतम् । पारणानन्तरं तृतीयदिने शरीरे तीव्रो दाहः प्रादुरभवत्। प्रभूतोपचारकरणेऽपि सो नोपाशाम्यत्। सम्पूर्णा रात्रीं ते नास्वपन्, किन्तु नवकारजापे ते तन्मया अभवन् । प्रत्यूषसि चतुर्वादने दाहोऽशाम्यत्, तेनाल्पं कालं ते निद्रामलभन्त । किन्तु तदाऽन्यैव पीडा प्रादुरभवत् । अन्ननलिका शनैः सङ्कुचिताऽभवत् । सप्तमदिने तु सा सम्पूर्णतया सङ्कुचिताऽभवत् । अन्ननलिकया ते जलबिन्दुमात्रमपि गिलितुं : नाशक्नुवन् । भोजनमपि रुद्धम् । द्वितीयदिने प्रभाते वान्तिरभवत् । तत्र विकृतं रुधिरं निरगच्छत् । तेषामस्वास्थ्य वर्धमानमभवत् । डोक्टरबुचः आकारितः । तेन चिकित्सा कृता । कथितं च तेन- 'एतेऽल्पसमयातिथयः सन्ति ।' ततश्च तेन तेषां जीवनाशा त्यक्ता। तेषां शरीरे तीव्र धर्माऽऽसीत्। ततस्तेषामासनमपवरकाबहिःखण्ड आनीतम्। एकतः सौराष्ट्रभूमावश्विनमासस्य तीव्रतरस्ताप आसीत् शरीरे च गृहीतकिरणधर्माऽऽसीदन्यतश्चान्ननलिका रुद्धा । यदा जलबिन्दुमात्रमपि ते ग्रहितुं नाशक्नुवंस्तदा भोजनस्य तु का वार्ता ? तीव्रधर्मणि यदि मुहूर्तमपि जलं न मिलितं तदाऽस्माकं का दशा भवेत्? तदा तु नवतिमुहूर्त्तानन्तरमपि तै व
भुक्तं न वा पीतम्। क्षत्तृषे तु प्रचण्ड उदिते । यद्यपि क्षुधा तु सोढुं शक्यते किन्त्वाश्विनतीव्रधर्मणि तृषा तु कथं सोढुं शक्या? नूनमयं जीवो वृथाऽभिमानं करोति । कर्मबन्धकारणसावद्यकर्मभ्यो विरतो न भवति, तेष्वेव मग्नो भवति। किन्तु स इदं न जानाति यत्तत्कर्मोदयसमय ईदृविषमस्थितेरुत्पत्तौ तस्य काऽवस्था भविष्यति ? सः कथं तद्विपाकान्सहिष्यति । 'हसता सता बद्धानि कर्माणि रुदताऽपि त्यक्तुं न शक्यन्ते।' तैर्महापुरुषैरस्मिञ्जन्मनि विशिष्टकर्मबन्धनिमित्तमेकमपि कार्य नासेवितम्। यैः सम्पूर्ण जीवनं । गुरुसमर्पितभावेन कर्मनिर्जराकार्याण्येव कृतानि तेषां जीवनेऽपि यदि तादृशी पीडा पूर्वकर्मोदयेनाऽऽगता तर्हि ये सतत-- मशुभभावकार्येषु रक्ताः सन्ति तेषां तु का वार्ता ? इदं तु . तेषां साक्षादृष्टप्रसङ्गलिखनं क्रियते। उभौ गुरुदेवौ व्यथितावभवताम्। प्रेमसूरीश्वराः स्वयं जलपूर्णतूलं तेषां जिह्वाऽग्रेऽस्थापयन् किन्त्विदं किं जातम् ? दशपञ्चदशजलबिन्दुपानानन्तरं तीवं काशनं प्रारब्धम् । उदरमध्ये बिन्दुशः प्राप्तं जलमेकवारेण बहिर्निरगच्छत्। इत्थं त्रिचतुःकृत्वः सञ्जातम् । ततः स उपायोऽपि निष्फलोऽभवत् । कोऽपि किञ्चिदपि न चेतयति। ईदगवस्थायामपि पद्मविजयाः प्रशान्ता आसन् । तैः स्वीयमन्तिमसमयं ज्ञातम् । आराधनार्थं तेषां हृदयमुत्कण्ठितं जातम् । प्रेमसूरीश्वरा अपि गीतार्था आसन्। तैरपि चिन्तितं यत् पद्मविजयानन्तिमाराधना कारणीया ।। पूज्यप्रेमसूरीश्वरमंगलविजयमेरुविजयपंन्यासकान्तिविजय
Page #40
--------------------------------------------------------------------------
________________
4
६६
0+ka+tor0
- समतासागरचरितम् ।।
समतासागरचरितम् -00- rajapanie- ६५ पंन्यासमलयविजयपंन्यासभानुविजयवागङसमुदायवर्तिकलापूर्णविजयादित्रिपञ्चाशन्मुनयो ग्लानपद्मविजयानां समिप उपविष्टाः। श्रावक श्राविकासङ्घोऽपि तत्र सम्मिलितः।
आराधनाया यज्ञः ।। चतुर्विधसङ्घोपस्थितावाराधनाया मङ्गलकार्यक्रमः प्रारब्धः । इदं तु जिनशासनम् । अत्र त्वाराधनया मृत्युरपि महोत्सवस्वरुपो भवति । सर्वप्रथमं क्षमापनाया आराधनां मृत्युशय्याविराजमानपद्मविजयाः कृतवन्तः। तेषां श्वासोच्छासास्तीव्रगत्याऽचलन् । तेषां वक्षसि कफो भृतः। तैति'अधुनाऽहं स्तोकसमयातिथिरस्मि'। किन्तु तेषां हृदये। जिनशासनं परिणतमासीत्। जीवनपर्यंतं ते गुरुसमर्पितभावस्य साधना कृताऽऽसीत् । तैर्गुरुजना अद्भूतरीत्या सेविता आसन्, अनेकेभ्यः श्रुतदानं कृतम्, गुरुकृपामृतपानं कृतम्, संसारस्वरुपं ज्ञातम् । ते केन्सरभयङ्करव्याधावप्यनेकशोऽष्टमचतुर्दशोपवासचतुर्विशत्युपवासादिघोरतपसाऽऽत्मानं तापितवन्तः । तैः कर्मकुटिलनीतितिा । तैर्जिनशासनं जिनवचनं चात्मनि परिणामितम् । तैधृतिसमतासमाधिभावाश्चिराभ्यासेन सहजा इव कृताः । कर्मशत्रुसमक्षं व्यूहं विरच्याशाताप्रचण्डप्रहारसमयेऽपि मोहनीयं प्रहृत्य निर्बलीकृतं तैः । इत्थं तैः कर्मसेना भग्ना । तैरशातायाः सहचरं मोहनीयं जितम्। ततः एकाकिन्यशाता कियचिरं साधकं पीडयेत् ? साधकैतिं यत्- 'मोहनीयसाहाय्येनैवाशाता बलवत्यासीत्, मोहनीयसाहाय्यं विना सा चिरं प्रहर्तु
न शक्नोति।' अत एव तैर्जीवनपर्यन्तमन्तिमकाले च : मोहनीयत्रोटनस्यैवैकं महत्त्वपूर्णकार्य कृतम् । तत्कृते च ते । घोरोग्ररोगावस्थायामपि सततं जागरुका आसन् । तैः स्वजीवने । मोहनीयनिर्बलीकरणोपायाः जिनभक्तिगुरुविनयस्वाध्यायसमितिगुप्तिपालनतपोजापध्यानपरार्थादयोऽप्रमत्ततया साधिताः। तत एव ते मोहनीयभञ्जने सफला अभवन्। ततस्ते निश्चिन्ता । आसन्। ते केभ्योऽपि न भीतवन्तः । ते त्वशातामुपकारिणी मतवन्तः। यथा पक्वस्फोटाद्विकृतपूयनिर्गमनेन शान्तिर्जायते । तथाऽयं साधकोऽपि ज्ञातवान्यत- यथा यथा समतयाऽशाता सहिष्यते तथा तथाऽधिकाधिकमात्मगुणानुभवो भविष्यति । ।
ततस्तैरन्तिमाराधना प्रारब्धा । त्रिपञ्चाशत्साधवः समीपे उपविष्टा आसन् । एकतः पूज्यप्रेमसूरीश्वरा आसन्नन्यतश्च पूज्यभानुविजया आसन्। अग्रे पंन्यासकान्तिविजयमंगलविजयमेरुविजयपंन्यासमलयविजयबालमुनिस्वगुरुबन्धुस्वशिष्यप्रशिष्यादिविशालमुनिसमुदाय आसीत्। वातावरणमतीव गम्भीरं सञ्जातम् । पद्मविजयैः स्वशीर्ष प्रेमसूरीश्वराणामके न्यस्तम् । कम्पमानाभ्यां हस्ताभ्यामञ्जली कृत्वा गद्गद्स्वरेण तैरुदितं- 'भवद्भिः संसारदावानलादहिर्निष्कासितः, सुखकृत्संयमभवने प्रवेशः कारितः, श्रुतज्ञानदानेनोचैःपदवीं प्रापितः । परमोपकारिणां भवतां मया स्वजीवने प्रभूतोऽविनयो मनोवाक्कायैश्चापराधाः कृताः, तत्कृते । भवन्त उदारचेतसा क्षमन्ताम् ।' स्खलिचतवचनैः प्रेमसूरीश्वरा अपि द्रविताः । अश्रुभिः प्रशिष्यमस्तकमभिषिच्य
Page #41
--------------------------------------------------------------------------
________________
में समतासागरचरितम् +0mentagon-६७
६८
dreams
समतासागरचरितम्
तैः क्षमा प्रदत्ता । ततः पद्मविजयैः स्वगुरुदेवपूज्यपंन्यासभानुविजयानां सन्मुखमञ्जलीं कृत्वा प्रकाशितं'भवद्भिरनन्तोपकारा वर्षिताः । अहं तु प्रत्युपकारासमर्थोऽस्मि । कथमहमनृणीभविष्यामि ? अविनयापराधानां क्षमा याचे ।' पंन्यासभानुविजयैरप्यश्रुपूर्णाक्षिभ्यां वात्सल्यपूर्णहस्तस्तेषां मस्तके संस्थाप्य क्षमा प्रदत्ता । तेषामक्षिभ्यामप्यश्रूण्यपतन् । वातावरणमतिशयेन गम्भीरं सञ्जातम्। तत्रोपस्थितसर्वेषामक्षिभ्योऽश्रूण्यपतन्। समस्तचतुर्विधसङ्घाक्षीण्यश्रुपूर्णानि सञ्जातानि । सर्वेऽतिविस्मयेन तदन्तिमाराधनां दृष्टवन्तः । केनाऽपि कल्पितुं न शक्यते यत्-: 'स्तोकक्षणानन्तरमेकद्विमुहूर्त्तानन्तरं वा ये स्वर्गातिथ्यं धारयिष्यन्ति ते सकलां वेदनां विस्मृत्येत्थं स्वस्थतया मृत्युनाऽयुध्यन् ।' तथापि तत्तु सर्वेषां प्रत्यक्षमासीत् । शासनस्यैतामद्भूतविधिं प्रति सर्वे नतमस्तकाः सञ्जाताः ।
साधकात्मन एतत्साधनां प्रति सर्वेषां हृदयान्यनुमोदनापूर्णानि सञ्जातानि । ततस्ते प्रत्येकमुनिवराग्रेऽङ्गुली प्रदाञ्जलिं कृत्वा क्षमापनामकुर्वन् । त्रिपञ्चाशन्मुनिभिः सह क्षमापनाया अनुपमः प्रसङ्गो घटितः। ततस्तैः साध्वीभिः श्रावकश्राविकासङ्घन च सह क्षमापना कृता । ततस्तैर-1 न्यमुनिभिरन्यस्थानस्थमुनिभ्यः क्षमापनापत्राणि लेखितानि ।
तदा पूज्यप्रेमसूरीश्वरैरनुमोदनानिमित्तं तेभ्यः सपादलक्षस्वाध्यायसुकृतदानं घोषितम् । अन्यैर्मुनिभिरपि विशिष्टसुकृतदानानि घोषितानि । सुरेन्द्रनगरसङ्घसेक्रेटरी
बापालालश्राद्धेनाऽपि जिनभक्तिमहोत्सवपद्मविजयशेषौल्याचामाम्लकारणे घोषिते । इत्थं क्षमापनासुकृतानुमोदनयोराराधने जाते ।
ततः पद्मविजयानां हृदये पञ्चमहाव्रतोचरणस्य भावना प्रादुर्भता । झटित्या भगवत्प्रतिमाऽऽनायिता तत्समक्षं च पंन्यासकान्तिविजयैनमस्कारमन्त्रादिमङ्गलं कृत्वा नन्दि-* चैत्यवन्दने कारयित्वा पञ्चमहाव्रतालापकास्तान्नुचारिताः ।। इत्थमाराधनायज्ञः प्रारब्धः ।
इतः पंन्यासभानुविजयाः चिन्तितवन्तः, "भावोपचाराः क्रियमाणाः सन्ति । किन्त्वस्माभिर्द्रव्योपचारा अपि प्रयोक्तव्या एव । अत्रत्यडोक्टरैः तेषां प्रगुणीभवनं निषिद्धं, किन्तु केनचिन्निष्णातडोक्टरेण चिकित्सां कारयित्वा तस्योपचाराः कर्त्तव्या अस्माभिः ।' तैः सङ्घश्राद्धा इदं ज्ञापिताः । श्राद्धैस्तूर्ण राजकोटनगरे पटणीचिमनलालश्राद्धेन सह दूरभाषेण सम्भाषणं कृतं यत्- 'कश्चिन्निष्णातडोक्टरोऽत्रानेतव्यः' । इतः पद्मविजयानां समीपे नमस्कारमन्त्रजापध्वनिः प्रारब्धः । सर्वेषां हृदयानि चिन्तातुराणि सञ्जातानि। तदा चतुःवादने चिमनलालश्राद्धः डोक्टरदस्तूरेण सह राजकोटनगरादागतः ।। डोक्टरदस्तूरेण झटित्या पद्मविजयानां चिकित्सा कृता । यन्त्रद्वाराऽन्नलिकाया आन्तरविभागश्चिकित्सतः। द्वित्रिकृत्वः सुष्ठ चिकित्सितम्। तत इदं ज्ञातं तैर्यत्- 'अन्ननलिकायां छिद्रं सञ्जातम्। ततो यत्किञ्चित्खाद्यते वा पीयते वा तत्सर्वं प्राणापाननलिकायां प्रविशति । परिणामतः काशनानि
Page #42
--------------------------------------------------------------------------
________________
में समतासागरचरितम् -goraamaagnore-- ६९
* ७०
amkarandargam- समतासागरचरितम् ।
जायन्ते सर्वं च बहिर्निर्गच्छति । केन्सरव्याधिरपि प्रसृत: आसीत् ।' इदं सर्वं तैः पूज्यानां ज्ञापितम् । पूज्यैरनुयुक्तं'अधुना किं क्रियताम् ?।'
डोक्टरेण जल्पितं- 'केन्सरस्य कोप्युपायो नास्ति । किन्तु रोगी यत्क्षुत्तृड्भ्यां पीड्यते तत्क्षुत्तृषोः प्रतिकारः कर्तुं । शक्यते । यद्युदरे शस्त्रक्रियया नलिका प्रक्षिप्यते तर्हि तया * द्रवपदार्थाः दातुं शक्ष्यन्ते । ततः क्षुत्तृट्पीडे प्रतिकृते भविष्यतः ।
उभयगुरुदेवैर्नलिकाक्षेपणार्थं डोक्टरायानुज्ञा दत्ता ।। तूर्णमुपाश्रय एव शस्त्रक्रियायाः सामग्य एकीकृताः ।। सुरेन्द्रनगरडोक्टरा अपि डोक्टरदस्तूरसाहाय्यार्थमागताः। शस्त्राण्युष्णीकृतानि, द्वे पट्टे एकोपर्यन्यत्संस्थाप्य तदुपरि पद्मविजयाः स्वापिताः । मध्ये निरंगी विस्तृता । सुरेन्द्रनगरडोक्टरसाहाय्येन डोक्टरदस्तूरेणोदरं विदार्य नलिका योजिता। ततः विदारितविभागस्तैः स्यूतः । कार्य समाप्तम् । तदा सूर्यास्तो न सञ्जातः । ततो डोक्टरेण क्षीरमानाय्य नलिकया द्रवपदार्थः कथं दातव्य इति दर्शितम् । द्रवदानानन्तरं नलिका कथं स्थगनीया तदपि तेन दर्शितम् ।
डोक्टरेण कथितं- शस्त्रक्रिया सफलीभूता । पद्मविजयाः जीविष्यन्ति । डोक्टरोद्गारांस्ते सर्वे सहर्ष स्वीकृतवन्तः । डोक्टरश्वकारपानार्थं गतः । प्रत्यागत्य गमनसमये पुनः चिकित्सा कृता । डोक्टरेभ्यः कतिचित्सूचनानि दत्तानि।। डोक्टरा राजकोट प्रतिगतः ।
___इत्थं मृत्योरेकप्रहारो निष्फलीकृतः । शस्त्रक्रियासमयदत्ताचेतनौषधप्रभावे हीयमाने तेषां शरीरे भयङ्करी पीडा सञ्जाता । परन्तु तत्क्षणे एव तैः प्रतिक्रमणं स्मृतम् । __मुनिभिस्ते प्रतिक्रमणं कारिताः । तादृक्स्थितावपि : प्रतिक्रमणजागृतिरतीव प्रबलाऽऽसीत् यत् प्रतिक्रमणकारकमुनिस्खलनां ते सम्मार्जितवन्तः । यद्यपि मृत्युप्रहारो निष्फलीकृतस्तथापि रात्रिस्तैरतीव वेदनायां व्यतीता ।। प्रत्युषसि प्रतिक्रमणप्रतिलेखनादिक्रियाः कृत्वा परमात्मचैत्यवन्दनं कृतम् । नमस्कारसहितप्रत्याख्यानसमय आगते नलिकया द्रवपदार्थो दत्तः । द्वित्रिनिर्जलोपवासपारणं जातम्। क्षुत्तृड्वेदना प्रशान्ता किन्तु व्याधिवेदनोच्छ्वासकफमस्तकपीडानेवाकर्षणाद्यनेकपीडास्तु प्राग्वदेवापीडयन् । डोक्टरेणैव कथितं यत्ताः पीडाः सोढव्या एव यतः केन्सरस्योपायो नास्ति। पूज्या अप्यत्यन्तसमतयैतत्वेदना असहन्त ।।
योग्यसमये शस्त्रक्रियाकरणेनैको मृत्युप्रहारो वञ्चितः । किन्तु केन्सरपीडा तु प्राग्वदेवाऽपीडयत् । उच्छ्वासकफविविधवेदनाः शरीरविविधभागानपीडयन्। एतान्कर्मप्रहारान्पूज्याः समाधिसन्नाहेन सुष्ठ सोढवन्तः। सम्पूर्ण दिनं रात्रिश्च भव्याराधनायां व्यतीते। पूज्यास्तु स्वीयां कृपां सततं तत्सुविनीतप्रशिष्योपरि वर्षितवन्तः । ते स्वयमासनादुत्थायानेकशो दिने ग्लानपद्मविजयासनसमीपे न्यषीदन् । शास्त्रसारभूतशोभनसंक्षिप्तवाक्यानि श्रावयित्वा तेषां समाधि दृढामकुर्वन् । पंन्यासकान्तिविजयाः प्रतिदिनमेकघण्टां पंच
Page #43
--------------------------------------------------------------------------
________________
समतासागरचरितम्
७१
सूत्रं संस्कृतप्राकृतविविधस्तोत्राणि चाश्रावयन् । पंन्यासभानुविजयाः स्वमधुरकण्ठेन खंधकर्ण्यवन्तिसुकुमालादीनां वैराग्यरसपूर्णाः स्वाध्यायाः श्रावितवन्तः । तात्त्विकप्रेरणा अपि ते दत्तवन्तः । अन्ये मुनिवरा अपि मुहुर्मुहुर्भावपूर्णस्तवनस्वाध्यायादिकं श्रावयित्वाऽनुपमां शान्तिमार्पयन् । प्रभुभक्तस्तेषामात्मा स्तोत्रस्तवनस्वाध्यायादिकं श्रुत्वाऽधिकाधिकं प्रसन्नोऽभवत् । समवसरणस्थितपरमात्मप्रतिकृतिं दृष्ट्वा ते भावजिनध्यानेऽपि तल्लीना अभवन् । रात्रौ नीरवा शान्तिरासीत्तथापि वेदनाभ्यस्ते स्वप्तुं नाशक्नुवन् । तदा ते हस्ते जापमालां गृहित्वा नमस्कारमन्त्रशंखेश्वरपार्श्वनाथमन्त्रादिविविधमन्त्रजापमकुर्वन् । किञ्च 'अरिहंतसिद्ध आयरियउवज्झायसाहू' इति षोडशाक्षरं मन्त्रं ते सततमजपन् । यथा यथा रोगबलमवर्धत तथा तथा तेषामात्मचिन्तनसंयमपरिणतिस्वाध्यायमग्नतापरमेष्ठिध्यानलीनता अवर्धन्त । अतूलात्मबलमहद्गुरुकृपाभ्यां तै रोगाः सोढाः संयमपरिणतिसहनशीलताविद्युत्वमत्कृत्या च सर्व आश्चर्यचकिताः कृताः । अपूर्वसमतासमाधिसहनशीलताभिस्तेषां भव्यो यशोदेहः सृष्टः। मुम्बापुर्या डोक्टरहरिर्द्विरागतः । सोऽप्याश्चर्यचकितः सञ्जातः केन्सरे समग्रशरीरव्याप्ते व्यक्तिर्जीवेदिति तु तस्य डोक्टरविज्ञाने नूत्नोऽनुभव आसीत् । दिपालिकादिनेषु पुनरपि व्याधिना प्रहारः कृतः । डोक्टरैरुपचारा निषिद्धाः । सर्वे चिन्तातुराः सञ्जाताः किन्तु प्रबलायुष्यकर्मणा ते जीविताः ।
* समतासागरचरितम्
चातुर्मासं समाप्तम् । तथापि तेषां ग्लानावस्थां विचिन्त्य पूज्यास्तत्राधिकं स्थिताः ।
७२
सुरेन्द्रनगरे एकादशमासस्थिरतायामैतिहासिकाराधनानां सर्जनं जातम् । न केवलं श्वेताम्बरमूर्त्तिपूजकसङ्घः किन्तु स्थानकवासिसङ्घोऽपि तेषां मेरुसमधीरतामप्रमत्ततां क्रियाजागृतिं मुनिकृतसेवां पूज्यकृतचिन्तां च दृष्ट्वा बहुमानेनाऽनमत्। सुरेन्द्रनगरसङ्घेन सम्पूर्णभक्तिभावेन वैयावृत्त्यं कृतम् । श्रीसङ्घेन सततं डोक्टराकारणौषधानयनपथ्यनिष्पादनादिभी रोगतीव्रप्रहारे चाहर्निशमुपस्थितेन भूत्वाऽतीवोच्चैः पुण्यमुपार्जितम्। सुरेन्द्रनगरनिवासिडुंगरशीपुत्ररतिलाल श्राद्धपरिवारेण दशमासान्यावत्सततं वर्धमानपरिणामेन वैयावृत्त्यं कृत्वाऽनन्यसदृशो भक्तिभावः प्रदर्शितः ।
भव्याराधनेतिहासं सृष्ट्वा, न केवलं प्रवचनैः किन्तु सर्वोत्तमगुरुकुलवासं दर्शयित्वा सहस्रेषु हृदयेषु जिनशासनबीजमारोप्य पूज्या सपरिवाराः सुरेन्द्रनगराद्विहृताः । तेषां गमनसमये श्रीसङ्घनेत्राणि बाष्पार्द्राणि सञ्जातानि । पिण्डवाडां प्रति ।
सुरेन्द्रनगरचातुर्मासे तत्पश्चादृतुबद्धकाले च पिण्डवाडासङ्घो जीर्णोद्धृतमहावीरस्वामिजिनप्रासादप्रतिष्ठार्थं पूज्यानां पिण्डवाडामागमनाय द्वित्रिकृत्वो विज्ञप्तिं कृतवान् । पिण्डवाडा तु पूज्यानां जन्मभूमिरासीत्। पिण्डवाडानिवासिश्राद्धवर्यभगवानजीश्राविकाकंकुबाईसुपुत्रप्रेमचन्द एव पूज्यपा
Page #44
--------------------------------------------------------------------------
________________
* समतासागरचरितम्
aftegort- ७३
f ७४
generation- समतासागरचरितम् ।
दाचार्यदेवश्रीमद्विजयप्रेमसूरीश्वराः। संयमकठोरसाधनां कृत्वा : स्वात्मशुद्धिं प्राप्योत्तमसंयमिसार्धद्विशतसाधुपरिवारं सृष्ट्वा : श्रीसङ्घाग्रगण्यपदविराजमानान्पूज्यपादप्रेमसूरीश्व-रान्प्रति पिण्डवाडासङ्घोऽतीव बहुमानादरपूर्ण आसीत् । ते पूज्यान्पिण्डवाडानगरस्य गौरवं मतवन्तः। ततस्तेषां हस्तेनैव प्रतिष्ठाकारणाय ते कृतनिश्चया आसन् । तत्कृते च विशालपरिवारेण सह पिण्डवाडानगरे पादावधारणाय ते! पूज्यान्विज्ञपितवन्तः । पद्मविजयानामेकैव भावनाऽऽसीत्अन्तिमक्षणं यावद्गुरुनिश्रायामेव वर्तितव्यम् । तेषां निश्रा न । त्यक्तव्या । ततः पूज्यैः सहैव पद्मविजया अपि सुरेन्द्र-१ नगरादमदावादं प्रति विहृताः । राजनगरे डोक्टरचिकित्सार्थं ते स्वगुरुदेवैः सह स्थिताः, पूज्याश्चान्यैः साधुभिः सह । लिंबोदरानिवासिमानचंदपुत्रबाबुभाईश्राद्धप्रव्रज्यानिमित्तं लिम्बोदरां प्रति गताः । पूज्यनिश्रायां दीक्षामहोत्सवो भव्यतया सम्पन्नः। नूतनदीक्षितमुनिविनयचन्द्रविजयश्च पूज्यनररत्नविजयानां शिष्यो जातः ।
पूज्यभानुविजयै राजनगरचातुर्मासे ललितविस्तराग्रन्थोपरि वाचनाः प्रदत्ता आसन् । तेषामवतरणं कृत्वा मुद्रापितम् । तच 'परमतेज'रुपेण प्रकाशितम् । राजनगरे 'परमतेज भाग-१' ग्रन्थस्य शोभायात्राऽऽयोजिता । प्रकाशविद्यालयपटांगणे च जामनगरनिवासिदोशीकालीदासपुत्रा-: मृतलालश्राद्धहस्तेन ग्रन्थरत्नस्य विमोचनं जातम् । ।
राजनगरे डोक्टरदेसाइना पूज्यानां चिकित्सा कृता
पीडशमनार्थं कतिचित्सूचनानि कृतानि । पूज्यानां सहनशीलतां वीरतां च दृष्ट्वा डोक्टरोऽपि प्रभावितः ।
पद्मविजयाः स्वगुरुदेवैः सह विहृत्य महेसाणानगरे पूज्यपादप्रेमसूरीश्वराणां मीलिताः । चैत्रमासघर्मदिनेष्वपि पूज्यैः। सह तारङ्गाकुम्भारियाब्वादितीर्थस्पर्शनां कुर्वन्तस्ते पिण्डवाडां प्राप्ताः । तत्र चाञ्जनशलाकाप्रतिष्ठामहोत्सवोऽत्यंतोल्लासपूर्वकं प्रारब्धः । श्रीसोऽपारोत्साहोऽवर्त्तत । पूज्यैः सह शिष्यप्रशिष्यादिविशालसमुदाय आसीत् । शताधिकमुनिवरा : एकत्र सम्मीलिताः । पूज्ययशोदेवसूरयोऽप्यागता । प्रभृताः । पन्न्यासा आसन् । मुनयस्तु ततोऽप्यधिका आसन् ।। साध्व्योऽपि विशालसङ्ख्यायामासन् । तत्र पद्मविजयास्तपःकरणभावनां कृतवन्तः । तीव्रधर्मणि केन्सररोगिभिस्तैश्चतुर्दशोपवासाः कृताः। तदापि तेषामन्ननलिका तु : पिहिताऽऽसीत्, केवलं नालिकाद्वारेण द्रवपोषणमेव लब्धवन्तः। तदानीं शिवगञ्ज-सङ्घः पूज्यानां चातुर्मासाथ विज्ञप्ति कृतवान् । पूज्यैः सम्मतिर्दर्शिता । ततः वि.सं.२०१६ वर्षस्थचातुर्मासः शिवगञ्ज निर्णीतम्।
चमत्कृतिः । पिण्डवाडानगर एका चमत्कृतिर्घटिता । पिण्डवाडासो श्राविकासु कश्चिदिव्योपसर्गः प्रवर्त्तमान आसीत्। डाकिन्यस्तासां शरीरे प्राविशन् । ततस्ताः केशान्विरलीकृत्येतस्ततोऽभ्राम्यन् । पिण्डवाडासोऽनेकगृहेष्वेष उपद्रव आसीत् । सस्त्वनेकोपायैरपि न निवृत्तः । किन्तु पिण्ड
Page #45
--------------------------------------------------------------------------
________________
समतासागरचरितम् -
-
motor- ७५०
4
७६
0-
00-
00- समतासागरचरितम् ।
वाडानगरे पूज्यानां प्रवेशेन सह स उपद्रवो नष्टः । सर्वगृहेषु शान्तिर्जाता। उपद्रवस्य सम्पूर्ण निवारणं जातम्।
प्रतिष्ठानन्तरं पूज्याः प्रेमसूरीश्वराः विशालपरिवारेण सह राणकपुरादिपञ्चतीर्थवन्दनार्थं गताः । पद्मविजयाः कतिचिदिनानि पिण्डवाडामध्ये स्थित्वा सिरोहीनगरं प्राप्ताः। तत्र भव्यजिनमन्दिरदर्शनेन सर्वेषां हृदयान्युल्लसितानि । पूज्याः पञ्चतीर्थयात्रां कृत्वा शिवगञ्ज प्रति विहृताः। शिवगञ्ज पूज्यैः सह पद्मविजयैश्चातुर्मासप्रवेशः कृतः ।
प्रतिदिनं तेषां स्वास्थ्यमचारुतरमभवत्। किन्तु प्रब-। लायुःकर्मणा केन्सरव्याधौ प्रसृतेऽपि ते जीवन्त आसन् । मुखे पेरेलीसीसरोगचिह्नान्यवर्धन्त । यदा वमनेन सह काशनमभवत्तदा द्रष्टुरपि त्रासदायकं दृश्यमाविरभवत् । दक्षिणनेत्रं । शनैः शनैः निमीलितं, कर्णयोश्च बधिरत्वमवर्धत। मस्तके सततं वेदनाऽभवत् । ईदृग्स्थितावपि तेषां समाधिः सहनशीलता चाद्भूतेऽभवताम् । यथा यथा रोगोपद्रववृद्धिर्भवति तथा तथा तेषां समाधिवृद्धिरप्यभवत् । तैः कर्मसैन्ये कर्मराजं प्रति घोषितं- "भवता सम्पूर्णशक्त्या यथेच्छं प्रहाराः क्रियतां । मत्सकाशे तु गुरुकृपया समाधिसन्नाहमस्ति । ततस्तव प्रहारैर्ममेषदपि क्षतिर्न भविष्यति। प्रत्युताग्निसुवर्णन्यायेन ममात्मविशुद्धिर्वत्य॑त्येव । हानिस्तु त्वत्पक्ष एव । मदात्मगृहादधुना भवता निर्गन्तव्यमेव ।"
शिवगञ्ज खीमचन्दजीडोक्टरः सदैव पद्मविजयानां सेवायां तत्पर आसीत् । तीव्रवेदनायां सः पीडाशम
नोपायानदर्शयत् । योग्यपरिचर्यादर्शनेन तेन पुण्यानुबन्धिपुण्यमुपार्जितम् ।
एतावद्व्याधिपीडायामपि शिवगञ्जचातुर्मासमध्ये दिनकाले पद्मविजयाः प्रज्ञापनासूत्रमपठन्रात्रौ च जापध्यानयोलीना अभवन् । दिवससमये लिखित्वा बालमुनीन् प्रेरयन्।
इत्थं तेषां दिनान्याराधनायां व्यतीतानि । पंन्यासभानुविजयानां प्रवचनादिभिः सङ्घमध्ये जागृतिरागता । मुनिगणोऽपि सुरेन्द्रनगरवदत्र ज्ञानध्यानस्वाध्यायादिलीनोऽभवत् । पं.भानुविजया मुनिभ्यो वाचनां दत्तवन्तः । पूज्या : अपि यतिभ्य आगमवाचनामयच्छन् । वातावरणमाराधनामयं । सञ्जातम् । इत्थं दिनेषु गच्छत्सु पर्युषणपर्वाऽऽगतम् ।
सुरेन्द्रनगरे तैश्चतुर्विशत्युपवासाः कृताः, पिण्डवाडानगरे चतुर्दशोपवासाः कृताः, तथापि ते तृप्ता नाभवन् । तेषां तपःचिकीर्षाऽधिकाधिकमवर्धत । पर्युषणपर्वप्रथमदिनादेवोभयगुरुदेवाज्ञया तैरुपवासाः प्रारब्धाः । प्रतिदिनमेकैकोपवासप्रत्याख्यानेन तेऽग्रेऽचलन्। संवत्सरिदिने तैरष्टम उपवासः कृतः । तदा प्रवचनसदसि गुरुदेवमुखात् कल्पसूत्रं (बारसासूत्र) तेऽशृण्वन् । सन्ध्यायां प्रतिक्रमणमपि तैरप्रमादभावेन कृतम् । भाद्रपदशुक्लपञ्चम्युदिता । सर्वे विकल्पितवन्तो यत्- 'अद्य पद्मविजया अष्टोपवासपारणं करिष्यन्ति ।' किन्तु प्रबलमनःशक्तिस्वामिभिस्तैः सर्वेषां विकल्पा वितथीकृताः। भाद्रपदशुक्लपञ्चमीदिने तैर्नवम उपवासः प्रत्याख्यातः। मरुभूमिस्तूष्णभूमिः। तत्रापि भाद्र
49
Page #46
--------------------------------------------------------------------------
________________
समतासागरचरितम् -00-0
0
- ७७
4 ७८
0
0
00- समतासागरचरितम् ।
पदाश्विनदिनानि त्वतीवोष्णानि सन्ति । तादृशतीव्रधर्मण्यपि : तेषामुपवासवृद्धिरेवाभवत् । प्रतिदिनमेकैकमुपवासं ते प्रत्याख्यातवन्तः ।
शास्त्रपठितचतुर्थारकमुनिदृष्टान्तास्तदा प्रत्यक्षीभूताः। तत्कालसर्वभयङ्करव्याधिना केन्सरेण ते पीडिता आसन्, ! सोऽपि न प्रारम्भदशायां किन्तु समग्रशरीरे प्रसृत आसीत्। मस्तकवेदना तु तीव्राऽऽसीत्, वागपि रुद्धाऽऽसीत्, भोजन-: पानेऽपि ते कर्तुं नाशक्नुवन्, केवलमुदरयोजितनलिकया । द्रवपदार्थान्नगृह्णन् । ईदृगवस्थायामपि तेषामुपवासवृद्धिरेवाऽभवत् । उपवासदिनेऽपि सम्पूर्ण दिनं यावत् त आगमानपठन्, मुनिभ्यो लिखित्वा प्रेरणां दत्तवन्तः, गृहस्थानपि तथैव प्रेरणामकुर्वन्, बहिमिश्रावकांश्च पत्रैरबोधयन् । त एतत्सर्वं कर्तुं कथं शक्ता अभवन् ? किं तेषां मनोऽयोनिर्मितमासीत् ? किमपि न ज्ञायते । तदोपवासादिनेष्वपि तेषां मनःस्थितिं प्रकटयत् तैः स्वहस्तलिखितमधोदर्शितपत्रं नेत्रातिथीक्रियताम् ।
पञ्चविंशतितमोपवासे तैलिखितं पत्रम्
"पूज्यकृपयाऽद्य मया पञ्चविंशतितमोपवासः प्रत्याख्यातः । अहं सुखशातायां वर्ते । शारीरिकस्वस्थताऽपि शोभनाऽस्ति । अग्र उपवासवर्धनस्य मम भावनाऽस्ति । तपसा द्वौ प्रत्यक्षलाभावनुभूतौ मया-मस्तकपीडाऽतीवाल्पाऽभवत् मुखाच्च जलपानं शक्यमभवत् । नूनं तपः-। प्रभावोऽचिन्त्यः ।"
अग्र उपवासवर्धनेन तैर्मासक्षपणं पूर्णीकृतम् । ततो गुर्वाज्ञया पारणं कृतम् ।
मासक्षपणपारणद्वितीयदिने लिखितं पत्रम्
"पूज्यकृपया ह्यो मासक्षपणपारणं सुखशातापूर्वक जातम् । पारणानन्तरं स्वास्थ्यं सुचार्वस्ति । मस्तकपीडाऽल्पा सञ्जाताऽस्ति । यद्यपि सा सम्पूर्णतया न नष्टा किन्तु सह्याऽस्ति । अन्ननलिकया द्रवपदार्थान्ग्रहीतुं शक्नोमि। एताभ्यां : लाभाभ्यामूर्ध्वमाभ्यन्तरिकः कर्मनिर्जरालाभस्तु जात एव ।"
तेषां चिन्तां कुर्वतः श्रावकस्योपरि लिखितं प्रत्युत्तरपत्रम्
"जगति न केवलं वयमेवाशातया पीडिताः स्म, किन्त्वनेकेऽशातोदयपीडिताः सन्ति । अस्मत्पीडाया अधिकां । पीडामनुभवन्तो जीवाश्चराचरे विद्यमानाः सन्ति। भाग्यशालिन् ! दृष्टिं विस्तीणां कुरु । अनेके जीवा अस्मदधिकं पीडिताः सन्ति, ततस्ते वराका दुर्ध्यानेनाऽशातां सहन्ते। फलतः नूत्नान्यशुभकर्माणि बध्नन्ति । तदाऽस्माकमशाता तु तेभ्योऽल्पाऽस्ति । सद्गुरुसमागम-साहाय्य-कृपा-विवेकदृष्टि-रत्नत्रयीसाधनादिकानुकुलसामग्यं लब्धम् । यदीदृगवस्थायामनन्तोपकारिगुरुदेवा नामीलिष्यंस्तदाऽयमात्मा स्वस्वरुपं विस्मृत्य भवमभ्रमिष्यत् । यद्यप्यशाताऽऽगता तथापि शुभसंयोगे साऽऽगता । उदिताशातामन्यथाकर्तुं वयमसमर्थाः स्म किन्तु सकामनिर्जरया सह सहनशीलतागुणो विकसितव्य इत्येतदवसरेऽस्माकं कर्त्तव्यमस्ति ।"
--
-
Page #47
--------------------------------------------------------------------------
________________
f८०
%e0
%antra - समतासागरचरितम् ।
, समतासागरचरितम् meaning ७९
पारणानन्तरं स्तोकदिनानि तु तेषां स्वास्थ्यं सुचार्वभवत् । किन्तु तत्पश्चादेको नव उपद्रवः सञ्जातः । नलिकाया : आकर्षणं प्रबलमभवत् । मुम्बापूर्या हरिभाइडोक्टर आहूतः। तेन मुखगतपेरेलीसीसरोगस्यौषधं सूचितम्। किन्तु नलिकायाआकर्षणं तु प्रवर्त्तमानमेवाभवत् । डोक्टराभिप्रायेण नूतननलिका योजनं निश्चितम् । सिरोहीनगरात्शस्त्रक्रियानिष्णातो. डोक्टर आहूतः । उदरछिद्रं समकुचत्, ततस्तस्य विस्तारार्थ पृथुलशलाकास्तच्छिद्रे प्रवेशिताः। तदा तेषां शरीरमत्यन्तमशक्तमासीत्, पीडा त्वसह्याऽऽसीत्। तदृश्यं तु द्रष्टुरपि । त्रासजनकमासीत् । स्तोकदिनानि तु नूतननलिका कार्य : कृतवती, किन्त्वन्यदा रात्रौ नलिकायोजनप्रदेशे तीव्रा वेदना जाता। बद्धपट्टे शिथीलीकृते तु नलिका बहिर्निर्गता । परिणामतोऽन्नपाने रुद्धे। कर्मपरवशजीवस्येयं कीदृशी शोचनीयदशा। सिरोहीनगरात्सर्जनडोक्टर आकारितः। सायंकाले डोक्टर आगतः । यदा नूतननलिका योजिता तदा
सूर्योऽस्तं जिममिषुरासीत्। ततः केवलं पानीयपानमेव - कर्तुमशक्नुवंस्ते ।
शिवगञ्ज चातुर्मासं समाप्य प्रेमसूरीश्वराः मृगशीर्षकृष्णदशम्यां विहृताः। सीलदरग्रामे रानाजीमोटाजीश्रावकाभ्यामुपधानतपः कारितम् । भव्यात्मनां शतैरुधानतप ऊढः। उपधानतपसि च पूज्यानां प्रेरणयानेकाराधकैरष्टोपवासादिका * विशेषतपश्चर्याः कृताः । किञ्च तेषां प्रेरणया निविमध्येऽ
प्याराधकाः परिमितान्येव द्रव्याण्यभुञ्जन् । तथा विविधाभिग्रहैराराधकाः स्वजीवनं पवित्रं कृतवन्तः ।
तत्रापि तेषां समाधिसाधना प्रवर्त्तमानैवाऽऽसीत् । स्वास्थ्येऽचारुण्यपि शास्त्रपठनेन संवेगरसवृद्धिं ते प्रतिदिनमकुर्वन् । अन्यदा पुनरपि रुजा प्रहारः कृतः । यथा - समुद्रमध्ये काष्ठफलकं योऽवलम्बते सो न निमज्जति, तथैव भयङ्कररोगप्रहारेष्वपि यो देवगुरुशरणमाश्रयति सोऽसमाधौ न निमज्जति । पद्मविजयैरपि देवगुरुशरण
मवलम्ब्य लेशमात्रार्तध्यानेन विना प्रहाराः सोढाः ।। म सीलदरउपधानतपःपूर्णाहूत्यनन्तरं पूज्याः सपरिवाराः पालनपूरं प्राप्ताः । पंन्यासभानुविजयानां वैराग्यनिर्भरप्रवचन-- स्तत्रस्थलोकाः प्रभाविताः । चैत्रमासौल्याराधनाऽपि तत्रैव जाता। वीरप्रभोर्जन्मकल्याणकदिने भव्यो महोत्सवः कृतः । तदा शालासु सत्रसमाप्तिर्जाता । ततो विद्यार्थिकृते भानुविजयानां तत्त्वज्ञानवाचनाः प्रारब्धाः । अष्टापदपूजाऽऽपि तैरर्थविवेचनेन सह सुष्टु कारिता । पद्मविजयाः प्रतिदिनं: भानुविजयानां प्रवचनान्यतीव बहुमानपूर्वकमशृण्वन् । व्याख्यानश्रवणे ते तल्लीनीभूय स्वात्मानं भावितवन्तः । मुहुर्मुहुस्ते आत्मनिरीक्षणं कृतवन्तो यत्- 'मयि के दोषाः सन्ति ? के च गुणा न सन्ति ?' प्रभुभक्तिं दृष्ट्वा ते हर्षभरेण पुलकिता अभवन् ।
पालनपूरे पूज्या द्विमासौ स्थिताः । तदा तीव्र घर्माऽऽसीत् । तथापि पद्मविजयास्तु तपोरागरञ्जिता आसन्।
-
-
Page #48
--------------------------------------------------------------------------
________________
में समतासागरचरितम् -Matarafamitractor-
८१
८२
earriersark- समतासागरचरितम् ।
--449
ततस्तैश्चतुरुपवासाष्टमषष्ठोपवासप्रकीर्णकतपश्चर्याः कृताः ।। इत्थं तैरष्टादशोपवासाः कृताः । तेन सह गुरुदेवसूचनया , तैर्नेमिचन्द्रसूरिकृतमहावीरचरियं पठितमनुप्रेक्षितच । अयं ग्रन्थोऽनेकोपदेशैः पूर्णोऽस्ति, संवेगवैराग्यवृद्धितत्परोऽस्ति । एनं पठद्भिस्तैरनेकशोभनप्रसङ्गोपदेशाः स्वपुस्तके लिखिताः। तांश्च ते मुहुर्मुहुरपठन्ननुप्रैक्षन्ताभावयंश्च । तत्प्रभावेणातुलवेदनास्वद्भूतसमाधिं तेऽनुभूतवन्तः। स्वास्थ्यानुकूलतया पालनपूरे त उपाश्रयाग्रस्थनगरप्रेष्ठिविशालहर्योपरिभूमिकायां स्थिताः । नगरश्रेष्ठ्यपीदृगविषमपरिस्थितावपि तेषामद्भूतसमाधिसहनशीलतां ज्ञानादिसाधनामष्टमादितपःसाधनां विलोक्याऽऽश्चर्यचकितो जातः । स्वजीवनेऽदृष्टपूर्वं तेन तदानीं - विलोकितम् ।
पालनपूरात्पूज्याः विशालपरिवारेण सह डीसानगरं प्रति विहृताः । डीसासङ्घन पूज्यानां सोल्लासं स्वागतं कृतम्। प्रवचनश्रेणयः प्रारब्धाः । जनोत्साहवर्धनात् श्रीशंखेश्वरपार्श्वनाथप्रभोरष्टमतपः समूहमध्य आयोजितम् । स्नात्रजापध्यानपार्श्वप्रभुजीवनचरित्रप्रवचनादिभिरद्भूताराधनाऽभवत् । पूज्याः सपरिवारा डीसानगरे स्तोकदिनानि स्थित्वा नूतनडीसानगरं प्राप्ताः । पूज्यानां जीवनं पूर्वमहामुनिसदृशमासीत्। तदृष्ट्वा श्रीसङ्घनाऽऽश्चर्यमनुभूतम् । पूज्यपन्न्यासभानुविजयप्रवचनैस्तत्रापि जनाः सुष्ठवाकृष्टाः। तदानीमेको मुनिग्लानो जातः । ततः पूज्यास्तत्राधिकं स्थिताः। पद्मविजयास्वा
स्थ्यमुनिग्लान्यादि कारणाड्डिसासङ्घन पूज्याः सपरि-: वाराश्चातुर्मासार्थ विज्ञप्ताः । तैरतीवाग्रहः कृतः । किन्तु पिण्डवाडानगरे चातुर्मासं निश्चितं, ततो ज्येष्ठमासे पूज्याः पिण्डवाडा प्रति विहृताः। अध्वनि वृष्ट्याधुपद्रवेषु भवत्स्वपि पूज्याः सपरिवाराः पिण्डवाडां प्राप्ताः ।
चरमं चातुर्मासम् । पूज्यैर्विशालपरिवारेण सह पिण्डवाडानगरे प्रवेशः कृतः।। तदा पूज्ययशोदेवसूरयः पंन्यासभद्रङ्करविजयाः पंन्यासमलयविजयाः पंन्यासत्रिलोचनविजयाः पंन्यासभानुविजयाः । पंन्यासपद्मविजयाश्च तैः सहैवाऽऽसन् ।
पिण्डवाडाप्रवेशानन्तरमेव दीर्घतपश्चर्यामनोरथेन सह । तैरुपवासाः प्रारब्धाः । तेषां हृदय एकैव भावनाऽऽसीत्'कर्मराजेनान्तिमं युद्धं कृत्वा संहननाभावाशक्यनिर्मूलनाशः सः प्रहारैर्जीर्णः कर्त्तव्यः । तत्कृते च सर्व बलं । प्रयोक्तव्यम् । तेषां दर्शनं पूर्वर्षीन् स्मारितवत् । पुष्ट्यभावकृशतायां तेऽधिकं प्रहरणमनोरथानकुर्वन् । मनुष्य इक्षुदण्डं यन्त्रे प्रवेशयति, यन्त्रं चलति, रसो निर्गच्छति, शुष्कत्वक् बहिरागच्छति । किन्तु मनुष्य एतावन्मात्रेण न संतुष्यति । सः शुष्कत्वचं कचवरे न प्रक्षिपति । किन्तु पुनस्तां यन्त्रे प्रवेशयति, रसं च निष्कासयति । पुनस्तृतीयकृत्वोऽपि सस्तथैव करोति । सः शुष्कत्वचं सम्पूर्णतया नीरसीकृत्यैव कचवरे क्षिपति, न तु तदर्वाग् । पद्मविजयाः
Page #49
--------------------------------------------------------------------------
________________
समतासागरचरितम्
अपि ज्ञातवन्तो यत् 'इदं शरीरमन्ततो गत्वा त्यक्तव्यमेव । ततस्तदर्वाग्तच्छरीरेणाधिकाधिकं संयमतपः रसो मया निष्काशितव्यः । सम्पूर्णतया नीरसीकृत्यैव मया शरीरं त्यक्तव्यम् ।' ततः केन्सररोगेऽपि मासक्षपणचतुर्विंशत्युपवासचतुर्दशोपवासाष्टमोपवासादितपश्चर्यया तैः शरीरात्तपःरसो निष्काशितः। अप्रमत्ततया जागृतिपूर्वकं निर्दोषसंयमसाधनया चारित्ररसः निष्काशितः । अनेकमुहूर्त्तान्यावत् समवसरणस्थप्रभुध्यानेनैकस्मिन्नेव चासन उपविश्य प्रणिधानपूर्वक नमस्कारमन्त्रादिजापेन तेषां सम्यक्त्वं क्षायिकसम्यक्त्वसामिप्यं प्राप्नोत् । किन्तु तथापि तेऽसन्तुष्टा एवाऽऽसन् । तदापि ते शरीरादधिकाधिकं रत्नत्रयीरसं निष्काशितुमवाच्छन् । ते ज्ञातवन्तो यत् स्तोककालानन्तरमयं कायोऽग्नौ हविष्यते, तदा तस्मिन्यत्किञ्चिच्छेषं भविष्यति तत्सर्वं भस्मसाद्भविष्यति । अग्निदह्यमानगृहं दृष्ट्वा गृहस्वामी सारभूतवस्तून्यधिकाधिकानि गृहीत्वा निर्गच्छति । तथाऽयं साधकोऽपि तपसा वशारुधिरे विशोष्यऽधिकाधिकां कर्मनिर्जरां कर्तुं तत्परोऽस्ति । तेषां शरीरमतीव कृशमासीत् । स्वयमुत्थाननिषीदनेऽपि ते कर्तुं नाशक्नुवन् । अन्यसाहाय्येनैव ते ते कृतवन्तः । ईदृगवस्थायामपि दीर्घतपश्चर्यया काय प्रह तेऽभ्यलषन् । ते महापुरुषा धन्या आसन् । एतत्पुस्तकलेखनपठनसमये नेत्राणि सार्द्राणि कृत्वैव वयं तेषामनुमोदनां कर्तुं समर्थाः स्म, अन्येन केनापि प्रकारेण तेषामनुमोदनाऽस्मत्कर्त्तव्यागोचराऽस्ति । तेषां साधना धन्यानगारसाधनां
८३
***** समतासागरचरितम् स्मारितवती । तेषां दर्शनेन वीरस्वमुखप्रशंसितधन्यानगारः स्मृतिपथमागच्छत् ।
“કાયા તે કીધી કોયલો, બળ્યો બાવળ હો જાણે દીસે ધાર કે, વેલીથી નીલુ તુંબડુ, તોડીને હો તડકે ધર્યું જેમ $, આંખો બે ઉંડી તગતગે, તારા થાણી હો પરે દીસે તાસ કે, હોઠ બે સુકા અતિ ઘણા, જીભ સુકી હો પાનડુ પલાસ કે; જુજઈ દીસે આંગુલી, કોણી બે હો નિસર્યા તિહા હાડ કે, જંઘા બે સુકી કાગની દીસે, જાણે હો કે જીરણ તાડ કે, આંગુલી પગની હાથની, દીસે સૂકી હો જિમ મગની શિંગ કે, ગાંઠા ગણાએ જુજુઆ, તપસી માંહી હો ઘોરી એહ લિંગ કે, ગોચરી વાટે ખડખડે, હીંડતા હો જેહના દીસે हा है, ઉંટના પગલા સારિખા દોઈ, આસન હો બેઠા થઈ ખાડ કે, પીંડી બે સુકી પગતણી, થઈ જાણે હો ધમણ સારિખી ચામ કે, ચાલે તે જીવતણે બળે, પણ કાયાથી હો જેહને નથી હામ કે, પરિહરિ માયા કાયાની, શોષવાને હો રુધિર ને માંસ કે, અનુત્તરોવવાઈય સૂત્રમાં કરી, વીરે હો ૠષિની પ્રશંસ હો”
पद्मविजया अपि दशवर्षान्यावत्केन्सरपीडां सोढवन्तः । व्याधावपि तैर्मासक्षपणचतुर्विंशत्युपवासचतुर्दशोपवासाष्टमादिघोरतपश्चर्योत्कटसंयम- रात्रिजाप - कायोत्सर्गध्यानसाधनाः कृताः । ताभिश्च तेषां शरीरमप्युपरिवर्णितधन्यर्षिदेहसादृश्यमभिः । तेषां कायो दग्धाङ्गारसन्निभो जातः, मस्तकं शुष्कतुम्बतुल्यमभवत् । तेषां नयनेऽन्तोऽवातरताम्। तेषामोष्ठौ गृहीतकिरणघर्मणाऽत्यन्तं शुष्कौ सञ्जातौ । तेषां जिह्वाऽपि पलाशपर्णसाम्यमदधात्। अङ्गुल्योऽपि शुष्का भिन्नाश्चाऽभवन् । द्वे हस्तकोणके बहिर्निर्गच्छदस्थिप्रदर्शनमकुरुताम् । जङ्घेऽपि तालवृक्षवत्शुष्के कृशे चाऽभवताम् ।
हस्तपादाङ्गुल्यः शिम्बा इवाऽभवन् । शरीरे सर्वत्र
८४
Page #50
--------------------------------------------------------------------------
________________
, समतासागरचरितम् -00-0 00- ८५ ग्रन्थयः प्रादुरभवन् । चलतोत्तिष्ठता निषीदताऽस्थीन्यक्षुभ्नन्। पादपिण्डिकेऽपि शुष्केऽभवताम् । शरीरे लेशमात्रमपि सामर्थ्य शेषं नासीत् । आत्मबलेनैव त उत्थाननिषीदनान्यकुर्वन्, न तु देहबलेन । ईदृग्स्थितावपि दीर्घतपश्चर्याभिलाषस्तैः कृतः । इदं कथं शक्यमभवत् । इदं मनोबलं कुत आविरभवत् ? शरीरे तु रक्तबिन्दवोऽपि नाऽऽसन् ।। तहीयदतिकृशशरीर इयदुगमनोबलं कुत आगतम् न किमपि ! ज्ञायते। अहो ! ज्ञातं मया रहस्यम् । तेषां मनोवाग्देहाः । स्वतन्त्राः नाऽऽसन् । तैस्ते तु गुरुचरणयोः समर्पिताः ।। ततो गुरुकृपावृष्टिः सततं तेष्वभवत् । ईदृग्भयङ्करस्थितावपि तैः प्रदर्शितो गुरुसमर्पितभावः पञ्चमारकपर्यन्तं यावद्भव्यजीवानामालम्बनभूतं भविष्यति । नूनमधुना ज्ञातं मया यद्- गुरुसमर्पितभावद्वारा तैरियबलं लब्धम् । ते धन्या आसन् । तेषां समर्पितभावोऽप्यद्वितीय आसीत् । तेषां जीवनमपि धन्यमासीत् । कृतं प्रसङ्गेन ।
पिण्डवाडाप्रवेशानन्तरमेव तैर्दीर्घतपश्चर्याभिलाषेणोपवासाः प्रारब्धाः । तेषां भावनात्युत्तमाऽऽसीत्, कदाचित्तेऽनशनमपि कर्तुमैच्छन् । किन्तु गुरुदेवाः सावधाना आसन्। ततस्ते तेभ्यः प्रतिदिनं एकैकोपवासप्रत्याख्यानं दत्तवन्तस्तेऽपि प्रमोदभरेण गुरुदेवेच्छां स्व्यकुर्वन् । न केवलं तदैव किन्तु स्वीजवने कदापि तैर्गुरुदेवेच्छा नाऽवगणिता। प्रथमोपवासः सुखशातापूर्वकं पूर्णोऽभवत् । तेन द्वितीयदिनेऽपि तैरुपवासः प्रत्याख्यातः । किन्तु तदानीं मस्तके शूलमुद
+ ८६ 0000-- समतासागरचरितम् ।
भवत्, वेदनाऽसह्या जाता, मस्तकं पुस्फुटिषुरिवाऽभवत् । सम्पूर्णा रात्री पीडायां व्यतीता । तथापि ते मनस्यहन्नामैवाऽरटन्। अर्हत्स्मरणमर्हज्जापं चाकुर्वन् । क्षणमात्रमपि ते नाऽस्वपन् । सम्पूर्णा रात्री तीव्रवेदनायामतिक्रान्ता । ततः समयज्ञैर्गुरुदेवैस्तृतीयदिने ते पारणं कारिताः । तैरपि तेषामिच्छामानन्देन स्वीकृत्य पारणं कृतम् ।
पूज्यपादसिद्धान्तमहोदधिः शताधिकसाधुजीवनशिल्पिसर्वाधिकसंख्यश्रमणसार्थाधिपत्याचार्यभगवत्श्रीमद्विजयप्रेमसूरीश्वराणां पिण्डवाडा जन्मभूमिरासीत्ततः पिण्डवाडासङ्घः स्वं गौरवशालिनं मतवान् । पूज्यानां चातुर्मासकारणस्य तस्य संकल्पः पूर्णोऽभवत्ततः सोऽतीवोल्लासवानासीत् । पंन्यासभानुविजयानां वैराग्यरसभृतप्रवचनैः श्रीसङ्घोऽतीव भावितः। तेषां प्रवचनानां सारं तु तपस्त्यागावास्ताम् । पुण्यशालिभिर्होटलत्यागः कृतः। जिनपूजा-रात्रीभोजनत्याग-नमस्कारसहितप्रत्याख्यान-ब्रह्मचर्यपालन-सचित्तत्याग-नवलक्षनमस्कारजापादिविविधाभिग्रहास्तैगृहीताः। अनुष्ठानान्यपि सुष्ठु सम्पन्नानि । प्रकटप्रभावशालि-श्रीशवेश्वरपार्थनाथप्रभ्वष्टमतपोऽपि प्रभूतजनैरनुष्ठितः। जाप-भक्तिभ्यां वातावरणं सुवासितं जातम् । युवभिः वर्धमानतपः प्रारब्धम् । इतः प्रेमसूरीश्वरनिश्रायां साधवोऽपि स्वाध्याय-तपो-जापवैयावृत्त्यादिसाधनाः सुष्ठ कृतवन्तः। श्रावक-श्राविकाभिः गुरुकुलवासदर्शनं लब्धम् । बाल-वृद्ध-ग्लान-तपस्वि-प्रभावकज्ञान्यादिविविधवैशिष्ट्यशालिसाधुदर्शनं श्रीसङ्घस्य दर्शनशुद्धौ निमित्तीभूतम् ।
Page #51
--------------------------------------------------------------------------
________________
में समतासागरचरितम् +0mentarger- ८७
4 ८८
gork
- समतासागरचरितम्
पद्मविजयानामप्याराधनायां वेगो वर्धमान आसीत् ।। व्युपवासानन्तरं गुरुदेवेच्छया तैः पारणं कृतम् । दिनानि व्यतीतानि। रोगाभिद्रवणं वर्धमानमासीत्। यथा यथा व्याधिरवर्धत तथा तथा तेषां समाधिरप्यवर्धत । प्रेमसूरीश्वरा अपि तेषां समाध्यर्थ दत्तावधाना आसन् । पूज्ययशोदेवसूरिपन्न्यासभद्रङ्करविजयपन्न्यासभानुविजयादयो मुहुर्मुहुः समाधिजनकश्लोकानश्रावयन्प्रेरणां चाकुर्वन् । सर्वे मुनयोऽपि सेवायां तत्परा आसन् । पिण्डवाडासङ्घोऽपि तेषां शुश्रूषायां जागरुक आसीत् । तैराराधनायज्ञः प्रारब्धः।
मुम्बापुर्या हरिभाइडोक्टर आहूतः । तेन कथितं यत् : पद्मविजयानां फिप्फिसबहिर्भागे स्फोटोऽस्ति। तस्य निवारणार्थं तेनोपचारा अपि दर्शिताः। उपचारैः स्तोकैर्दिनैः पीडाहानिर्जाता। किन्तु कर्मविलसितं विचित्रमस्ति। उदरयोजितनलिकायाः समीपवर्तिप्रदेशाद्रवपदार्था अस्नुवन् । ततोऽशक्तिर्वृद्धा । मुम्बापुर्याः पुनो हरिभाइडोक्टर आगतः । तेन कथितं यत्- 'उपरिवर्त्तिछिद्रं विशालं जातमस्ति । ततो सीवनं कर्त्तव्यम् ।' सिरोहीनगराच्छस्त्रक्रियानिष्णातडोक्टरेणाऽऽगत्य स्यूतम् । किन्तु कोऽपि लाभो न जातः । क्षुधातृषे त्वतीवापीडयताम् । शरीरशक्तिस्त्वत्यंत हीना जाता।। आषाढकृष्णचतुर्दश्यमावास्यादिने तीव्रवेदनायां व्यतीते ।। वक्षसि पार्श्वयोश्च शूलमुत्थितम् । ततः ते स्वप्तुमुपवेष्टुं वा । कृच्छ्रेणाशक्नुवन्। काशनं तु प्रभूतवर्षेः प्रवर्त्तमानमासीत् । तदपि वृद्धम् । काशनसमये वक्षसि शस्त्रप्रहारस्येव वेदना
ऽभवत्। सर्वे चिन्तातुरा आसन्। तौ द्वावशुभदिवसौ व्यतीतौ । त ईषत्स्वस्था जाताः । एतत्स्थितौ ते तु सदैव जागरुका आसन् । कर्मविपाकचिन्तनाहदादिशरणस्वीकारजापगुरुबहुमानादिभिस्ते स्वात्मानं सदैव समाधावेवाऽस्थापयन् । एतादृशभयङ्करशारीरिकपरिस्थितावपि तेषामा- राधनां दृष्ट्वा सर्वे विस्मयस्मेरलोचना अभवन् । कस्याञ्चिदपि वेदनायां ते दीनवचनानि नोदचारयन्, सदैव तेषां मुखे प्रसन्नतैवाऽदृश्यत । ते सदैव चित्तं प्रभुध्यान एवाऽस्थापयन्। इदं सर्वं द्रष्टुर्विस्मयकार्यभवत् ।
श्रावणकृष्णप्रतिपदि प्रभाते हस्तपादाकर्षणं जातम् । मुखं श्यामं सञ्जातम् । वैद्यडोक्टरैस्तेषां जीवनाशा त्यक्ता। किन्त्वेकेन वैद्येन हिरण्यगर्भप्रयोगः दर्शितः । तेन स्फूर्तिरागता । पद्मविजयैः सर्वैः सह पुनः क्षमायाचना कृता । महाव्रतोचारणं कृतम् । प्रेमसूरीश्वरैः प्रेरणा कृता- 'आराधनायामेव चित्तं स्थिरीकर्त्तव्यम् । ईषदप्यार्तध्यानं न कर्त्तव्यम्। श्रीनमस्कारमहामन्त्रध्यान आत्मा तल्लीनः कर्त्तव्यः। स एव तात्त्विकोपचारोऽस्ति, बाह्योपचारास्तु निमित्तमात्रमेव सन्ति।'
पूज्यपन्न्यासभद्रङ्करविजयगणिकृतप्रेरणा
'मृत्युसमये शरीरे पीडा वर्धते । तदा समर्थं मनोऽपि शास्त्रस्वाध्यायं कर्तुं न शक्नोति। तदा संवेगजनकैकपद एव मनः स्थिरीकर्तव्यम् । इत्थमेकपदमेकवाक्यं वा चिन्तयतो यस्य प्राणा निर्गच्छन्ति सोऽप्याराधको जायते। स चोत्कर्षण तृतीयभवे सिध्यति । मुहुर्मुहर्मनसि चिन्तनीयमहं साधुरस्मि,
Page #52
--------------------------------------------------------------------------
________________
समतासागरचरितम् Agrammarward-८९०
९०
tartanka
- समतासागरचरितम् ।
मया न भेतव्यं । ममात्मैव ममालम्बनम् । ममात्मैव ज्ञानदर्शनचारित्रात्मकोऽस्ति । ममात्मा शश्वदस्ति । सः ज्ञानदर्शनचारित्रसहितोऽस्ति । बाह्यवस्तूनि कर्मसंयोगेन लभ्यन्ते। तानि त्रिविधं त्रिविधेन व्युत्सृजामि । ममात्मानन्तवीर्यवानस्ति। सो सिद्धसाधर्मिकोऽस्ति, सिद्धात्मकोऽस्ति । अयमात्मैव परमतत्त्वं, आत्मैव परमज्ञानं । सर्वकर्मपाशविमुक्तामूर्तातीन्द्रियात्मानमात्मन्यात्मना द्रष्टुं प्रयतितव्यम् । तत आत्मन्येवानन्दमय-शुद्धचिदात्मक-अविनश्वरज्योतिर्मयात्मस्वरुपदर्शनं भविष्यति ।
पद्मविजया अपि गुरुजनदत्तप्रेरणामृतमानन्दोल्लासपूर्वकमपिबन्। ते स्वयं समाध्यर्थं प्रयत्नशीला अभवन् ।
पन्न्यासभानुविजया अपि नमस्कारमन्त्र-चत्तारिशरणंखामेमि सव्वजीवे इत्यादिसमाधिप्रेरकश्लोकान्श्रावयित्वा तान्समाधौ स्थिर्यकुर्वन् । पूज्ययशोदेवसूरिपन्न्यासत्रिलोचनविजयादयोऽपि पुनः पुनो योग्यानि सूचनानि कृतवन्तः ।। संवेगवर्धकनूतनवाक्यान्यश्रावयन् ।
पद्मविजयानां सांसारिकमातृभ्रातृभगिनीमातुलादिविशालकुटुम्बमपि वन्दनार्थमागतम् । सर्वतोऽनेकभव्यात्मानस्तेषां सुखशाताप्रच्छनार्थमागताः । तेऽपि हस्तेन सर्वेभ्योधर्मलाभाशिषं दत्तवन्तः। मुखोपरि स्मितं कृत्वा प्रसन्नतां: दर्शितवन्तः । सर्वे तेषामाराधनां दृष्ट्वा भूरि भूर्यनुमोदना-1 मकुर्वन् ।
दिवसा व्यतीताः । उदरस्थछिद्रावस्रवणेन पुष्टिस्तु रुदैव । अशक्तिवृध्दा । हस्तपादाः शीतला जाताः।।
स्वयमुत्थाननिषीदनेऽपि ते कर्तुं नाशक्नुवन् । तृषा तु बाढमपीड्यत्। किन्तु जलबिन्दुरप्युदरे न प्राविशत्। न केवलमेतत्, पोषणाभावेन ज्ञानतन्तवो निर्बला जाताः। ततस्तेषां स्मरणशक्तिरपि हीनाऽभवत् । ते नमस्कारार्हदादिशरणश्रवणार्थमत्युत्का आसन् । रात्रावपि ते स्वप्तुं नाशक्नुवन्।
ततो रात्रावपि श्रोतुमैच्छन् । गुरुजनमुनयस्तेषामिच्छा । अपूरयन् । भयङ्करव्याधौ क्षुत्तृड्वेदना शारीरिकमानसिक-: निर्बलता चासीत् । तथापि पापभीरवस्तेऽहंदादिपदान्येव । श्रोतुमभ्यलषन् । श्रावयितुरनन्यमनस्कतया तेऽशृण्वन् ।। दशदिवसान्यावत्तु निखिलोपाश्रयो नमस्कारमङ्गलध्वनिनाऽगुञ्जत् । तेषां स्वान्तिमाराधनार्थमनुकूलसंयोगाः समीपे योजिताः । तेषामेकैवान्तिमेच्छाऽऽसीद्यत्- 'गुरुदेवाके मस्तकं विमुच्य तेषां मुखकमलान्नमस्कारमन्त्रं शृण्वता मया परलोकं प्रयातव्यम् ।' आदशवर्षात् प्रारब्धरोगपीडाः कदाचिदतीव तीव्रा अभवंस्तदा तेऽशङ्कन्ताऽन्तिमसमये कथमहं समाधि लप्स्ये । इमां च शङ्का गुरुदेवसमक्ष तेऽनेकशः प्रकाशितवन्तः । गुरुदेवा अपि वात्सल्यपूर्णहृदयेन तानाश्वासितवन्तः- 'समाधिर्न शकनीया । त्वमवश्यं समाधि : लप्स्यसे। यदि त्वं समाधिं न लप्स्यसे तीन्यः कः समाधि लप्स्यते ? यो यावज्जीवं समर्पितभावं धारयति तस्यावश्यं समाधिः सुलभा भवति ।' गुरुजनाश्वसनेन तेऽतीव स्वस्था अभवन् सोत्साहं चाराधनायां न्यमज्जन् ।
श्रावणकृष्णदशमीरात्रौ मानसिकनिर्बलता वृद्धा । ते
Page #53
--------------------------------------------------------------------------
________________
समतासागरचरितम्
दिनं रात्रीं वाऽपि न ज्ञातवन्तः । किन्तु प्रतिदिनाभ्यासात्तेषां मुखात्शब्दा निसृताः- 'प्रतिक्रमणसमयो जातो न वा ? प्रतिलेखनं करणीयं न वा ? मया लोचः कारयितव्यः । मया जापः कर्त्तव्यः । एते शब्दास्तेषामान्तरपरिणतिमसूचयन् । तेषां मनसि सदेदृग्मनोरथा अभवन् । आर्त्तध्यानस्य तु लेशमात्रमप्यवकाशं ते न दत्तवन्तः ।
श्रावणकृष्णैकादशीकालदिनमुदितम् । सृष्टयैतद्दिनं कलङ्कितं कर्तुं निश्चयः कृतः । अतीवनिर्बलताप्रभूतदिनास्वापाभ्यां पद्मविजयाः प्रभाते मूर्च्छिता आसन् । सर्वैश्चिन्तितं यत्ते सुप्ताः सन्ति । किन्तु गुरुदेवाः सावधाना आसन् । ततस्तैः कथितं- 'पद्मविजय ! किं त्वं स्वपिषि ? पश्य, अधुना सूर्य उदितोऽस्ति । नमस्कारमन्त्रं किं त्वं श्रोष्यसि ? किं त्वं जापं करिष्यसि ?' कर्मभयङ्कराक्रमणेन प्रभूतवर्षान्यावत्पीडाभिस्ते दमिताः, मनोऽपि निर्बलीकृतम् । किन्तु वीतरागशासनाराधनार्थं तेषां भावना प्रबलाऽऽसीत् । समाधिमरणार्थं तैः प्रभूतवर्षान्यावद्यत्नः कृतः । केन्सरव्याधावप्यनेकविधोपचारानुकूलतायुक्तमुम्बापुरीराजनगरादिनगरापरित्यज्य ते केवलं गुरुसान्निध्याय महत्त्वं दत्त्वा यत्र सामान्यडोक्टरोऽपि कृच्छ्रेणामीलत्तत्र लघुग्रामेषु गुरुभिः सहैवाऽवसन् । विषमपरिस्थितावपि ते कदाचिदपि गुरुभिः पृथग्विहरणाय नाभ्यलषन् । गुरुदेववचनैस्ते झटित्या चेतनावन्तः सञ्जाताः । 'अरिहन्त' पदस्य जापस्तैः प्रारब्धः । मुनिभिस्तेभ्यः श्रावणं प्रारब्धम् एकादशवादने तेऽधिकम
९१
*****- समतासागरचरितम्
स्वस्था जाताः। पूज्ययशोदेवसूरि - पन्न्यासभद्रङ्करविजयपन्न्यासत्रिलोचनविजय- पन्न्यासभानुविजयादिसर्वश्रमणा उपस्थिताः। साध्व्योऽप्यागताः । श्रावक श्राविका अपि समागच्छन् । चतुर्विधसङ्घेन तालबद्धरीत्या नमस्कारस्य लयः प्रारब्धः। 'नमो अरिहंताणं' इतिपदस्य तालबद्धध्वनिरगुञ्जत् ।
पद्मविजयास्तु पंन्यासभानुविजयानां सांसारिकावस्थायां लघुबन्धवो दीक्षानन्तरं च प्रथमशिष्या आसन् । तेन पन्न्यासभानुविजयाः पद्मविजयानामुपरि स्निग्धा आसन्। तथापि ते मनः प्रबलीकृत्य तेभ्यः समाधिप्रेरणा दत्तवन्तः । भानुविजयास्तानन्तिमाराधनामकारयन् । पद्मविजया अपि तीव्रपीडासु सत्स्वप्येकाग्रचित्तेन नमस्कारमन्त्रश्रवणमेवाऽकुर्वन् । सार्धैकवादने तेषामस्वास्थ्यमचारुतरं जातम् । गुरुदेवैः पृष्टम् - "पद्मविजय ! किं शृणोषि ?" तैर्मस्तकं धूनयित्वौमिति ज्ञापितम् । तूर्णं गुरुदेवैरन्तिमाराधना प्रारब्धा- 'खामेमि सव्वजीवे...' सर्वे जीवाः क्षमिताः । 'केवलमर्हन्नेव ध्यातव्यः । ' 'नमो अरिहंताणं' पदस्य ध्वनिरगुञ्जत् । तेषां श्वासोच्छ्रासा अपि तीव्रवेगेनाऽचलन् । चतुर्विधसङ्घमुखात् 'नमो अरिहंताणं' पदस्य ध्वनिं शृण्वन् संयमपूतसमाधिमग्नः तेषामात्मा पार्थिवदेहं विमुच्योर्ध्वलोकवासी जातः । ते पिण्डवाडाधरायां चिरनिद्रायामस्वपन् । सर्वान्खिन्नीकृत्य ते गताः । अन्तिमक्षणं यावत्पूर्णसमाधिं धृत्वैतैर्महापुण्यात्मभिर्मृत्युर्जितः । नूनं समाधिमृत्युरेव मृत्युविजयोऽस्ति । कथितं च शास्त्रकृद्भिः 'ये पण्डितमरणेन म्रियन्ते ते जन्ममरणपरंपरां विध्वस्योत्कर्षेण
९२
Page #54
--------------------------------------------------------------------------
________________
में समतासागरचरितम्
-
-
९३
तृतीयभवे मुक्तिं प्राप्नुवन्ति' संयमजीवनोगसाधनया पण्डितमरणसाधनया च तैः संसारः परिमितः कृतः ।
वि.सं.१९६९ वर्ष आषाढशुक्लनवम्यामारब्धा जीवनयात्राऽष्टचत्वारिंशद्वर्षानन्तरं वि.सं.२०१७ वर्षे श्रावणकृष्णैकादश्यां समाप्ता । वि.सं.१९९१ वर्षे पौषशुक्लद्वादश्यां प्रारब्धा संयमयात्राऽपि षड्विंशतिवर्षानन्तरं वि.सं.२०१७ श्रावणकृष्णैकादश्यामपरता।
ते त्वधिकसाधनाकरणायान्यत्र गताः । किन्त्वनेकसाधका आधारविहीना जाताः । गुरुजनास्तु सहायाश्रितरहिता जाताः । सोऽप्यपूर्वा हानिरभवत् । अत ! एव प्रेमसूरीश्वराणां मुखकमलात्तदोद्गारा निःसृताः- 'मे दक्षिणहस्तो नष्टः ।'
पद्मविजयानां स्वर्गमनोदन्तं तूर्णं नगरे प्रासरत् । तेषां देहदर्शनार्थं जैनजैनेतरे विशालसङ्ख्यायामुपाश्रयमागताः। आपणाः पिहिताः । स्तोककालेन सम्पूर्ण नगरमुदासीनमभवत् । सर्वे निरुत्साहा जाताः । तेषां देहदर्शनेन सर्वे तेषां संयमजीवनानुमोदनामकुर्वन् । प्रेमसूरीश्वरादिभिस्तदेहो व्युत्सृज्य श्रीसङ्घस्य समर्पितः । श्रीसङ्घनाऽपि स्नानविलेपनवस्त्रादिभिः सो विभूषितः । महार्हवस्त्रविभूषिता कलशसहिता शिबिकाssनायिता । तत्र तद्देहः स्थापितः । अन्तिमलाभग्रहणार्थं जनोत्साहोऽपरिमित आसीत् । स्वर्गमनानन्तरं पद्मविजयदेहमुखकमलं तेजसाऽदीप्यत । ते ध्यानमग्ना इवाऽदृश्यन्त ।
बाष्पार्द्रनेत्रैस्तेषां देहः पञ्चवादने 'जय जय नन्दा जय'
९४ ringtoney - समतासागरचरितम् । जय भद्दा' इतिघोषणापूर्वकं विभूषितशिबिकायां स्थापितः । कुंकुम-धूप-पुष्पादिभिर्वातावरणमदीप्यत । गगनभेदितूर्यनादैः स्मशानयात्रा प्रारब्धा । अष्टादशापि वर्णाः स्मशानयात्रायां । सम्मीलिता । अद्भूतमपूर्वञ्च दृश्यमाविरभवत् ।
स्मशानयात्रा त्रिमुहूर्त्तान्यावत्सम्पूर्णनगरेऽभ्रमत् । ततो ऽग्निसंस्कारस्थल आगच्छत् । तत्स्थलं तु मनरूपजीपुत्राचलदासजीश्रेष्ठिनोपायनीकृतम् । सर्वैर्नगरजनै व्याञ्जलिर्दत्ता। स्तोककालेन श्रीखण्डकाष्ठराशिरभवत् । विपुला चितिः सज्जिता । उत्सर्पिणीपूर्वकं भाटियाबाबुलालश्राद्धेन दुःखितहृदयेनाऽग्निसंस्कारः कृतः । अग्निसंस्कारे जात एवैका । चमत्कारिघटना घटिता । पद्मविजयानां दक्षिणाक्षि पेरेलीसीसरोगेणाद्वादशमासैः पिहितमासीत् । अग्निसंस्कारे जाते तेषामुभेऽक्षिणी क्षणमात्रमुद्घटिते । तेषां मुखे हास्यमभवत्। इमां चमत्कृतिं द्रष्टुं जनाः प्रभूतसङ्ख्यायामागच्छन्।
सप्तसहस्रजना अन्तिमविधावागताः । सर्व उदासीनहृदयेन प्रतिगताः ।
एको महानाध्यात्मिकसूर्योऽस्तङ्गतः ।
शासनस्य महार्हरत्नं नष्टम् । श्रीसङ्घादेकोऽतिमहान्-साधक-सर्वविरतिधरस्तिरोऽभवत् । जनमुखारविन्दाद्वचनानि प्रकटितानि ।
गुरुदेवा धन्या आसन् ! गुरुदेवा महामुनीश्वरा आसन् ! गुरुदेवा लोकोत्तरमहापुरुषा आसन् !
-
+
Page #55
--------------------------------------------------------------------------
________________
समतासागरचरितम् -00-
00-
00-
९५
4 ९६
earlierror- समतासागरचरितम्
परिशिष्टः १
हृदयोद्गाराः अनेकमहापुरुषसाधुसाध्वीनां हृदये पद्मविजयान्प्रति कीदृग्भाव आसीत्ततेषामुद्गारैयिते । किश्चैतेषूद्गारेषु पद्मविजयानां विशिष्टगुणसाधनादर्शनमपि जायते । (१) पूज्यपादसिद्धान्तमहोदध्याचार्यदेवश्रीमद्विजयप्रेमसूरीश्वराः
'अद्य कैश्चित्शोकः प्रकटितः कैश्चिच हर्षः प्रदर्शितः। एकस्य सुसाधोर्वियोगो जातः । सः स्वयं निर्मलं संयम । प्रपाल्यान्यांस्तत्पालने साहाय्यमकरोत्। तेषां वियोगेन मन उद्विजते, किन्तु तत्कृतस्वाराधनाया आनन्दस्तु अधिकोऽस्ति । संसारे जन्ममरणानि न नूतनानि । सांसारिकप्रवृत्तयः पापाय भवन्ति, मुनिमार्गप्रवृत्तयस्तु मुक्तिसाधिकाः भवन्ति । पद्मविजया अत्युत्तमं जीवनमजीवन्। अस्मत्समुदायेऽनेके साधवः सन्ति, ते गुणवन्तः सन्ति, आज्ञापालकाः सन्ति । तथापि पद्मविजया अधिकं स्मृतिपथ आगच्छन्ति यतस्ते सुविशुद्धसंयममपालयन्नतुल्यसमर्पितभावं चाधारयन् । अन्यच ते रोगविषमस्थितावप्याराधनामकुर्वन् । रोगदशायां ते मासक्षपण-चतुर्विशत्युपवासादिकास्तपश्चर्या अकुर्वन् । तत्रापि दिनकाले स्वाध्यायजापादिकं रात्रौ च जापमकुर्वन् । ते मां कथितवन्तः यद्युष्मत् निस्सीमकृपयाऽऽराधनाया आनन्दो वर्तते । लेशमात्रमपि दुःखं मम हृदये नास्ति । ईदृगरोगदशायामपि ते सद्विचारानेवाऽकुर्वन्।
आर्तध्यानस्य त्ववकाशमेव न दत्तवन्तः। तादृशा विरला एव सन्ति । तत्पश्चात्पूज्यैर्गुरुधर्माः प्रज्ञापिताः ।
- गुणानुवादसदसि ।। २) पंन्यासहेमन्तविजयगणिवराः(पश्चात् आ.हीरसूरीश्वराः)
वि.सं.१९९१ वर्षे पोषशुक्लद्वादश्यां ते प्रव्रजिता ह्यश्च कालगताः । तेषां सम्पूर्णजीवने हृदयस्थैकैव भावनाऽऽसीद्यत्संयमं सुष्ठ पालयित्वाऽन्यान्संयमे साहाय्यं कर्त्तव्यम्।। श्रद्धाविषये तु तेऽतीव दृढा आसन् । शास्त्रपठनपाठनेषु ते प्रयत्नवन्त आसन् । व्याधिदशायामपि तपः स्वाध्यायं चाकुर्वन् । बाह्यतपसा सहागमपठनमेतादृशरोगावस्थायां दुष्करमस्ति । एतादृशः सुयोगः पुनर्भाग्योदयेनैव जायते। 'आज्ञापालनं तेषां मुख्यो गुण आसीत् । जिनाज्ञापालने जिनाज्ञार्पितचित्तगुरुदेवाज्ञापालने च ते सदैव तत्परा आसन्। मम तैः समं बाह्यपरिचयोऽल्प आसीत्, किन्त्वान्तरिकपरिचयः प्रभूत आसीत् । तेषां जीवनस्येदमेव सारमासीद्यत्गुर्वाज्ञां प्रधानां कृत्वा संयम स्वयं पालनीयमन्यैश्च पालनीयं, ज्ञानमपि संयमपुष्टयर्थं पठितव्यम् । पद्मविजया गच्छचिन्तायां कर्तव्यायां प्रेमसूरीश्वराणां सहायभूता आसन् । तत पूज्या निश्चिन्ता आसन् । तेषां स्वर्गगमनेन समुदाय एतत्तेजस्वितारकं लुप्तम् । समुदाये प्रभूताः भाग्यशालिनः सन्ति किन्तु यो गच्छति तस्य स्थानं नान्यः कोऽपि ग्रहीतुं शक्नोति । अभिलषामि यत्- प्रेमसूरीश्वरनिश्रायां पुष्पितफलितं
Page #56
--------------------------------------------------------------------------
________________
समतासागरचरितम् **
सम्यग्दर्शनज्ञानचारित्रोपवनं सदैव विकसद् भूयात् ।
गुणानुवादसदसि । ३) पन्न्यासभानुविजयाः - (पश्चात् आ. भुवनभानुसूरीश्वराः) आबाल्यादावां सहैवाऽऽस्ताम् । आवामेकमातापितृपुत्रौ । तथापि पद्मविजयानां वैराग्यभावो मत्तोऽधिक आसीत् । अहं तु विद्यालये पठित्वा संसारे प्रगतिकरणमनोरथान्सेवितवान् । तदापि तेषां वैराग्यभावना प्रबलाऽऽसीत् । पश्चात्तु ममाऽपि गुरुदेवसंयोगो जातः, ततो वैराग्यभावो दृढोऽभवत् । आवाभ्यां सहैव चारित्रमङ्गीकृतम् । एकस्मिन्नेव दिने सहैवावां दीक्षितौ, तथापि पद्मविजयैर्यावज्जीवमद्वितीयः समर्पितभावः पूज्यान्प्रति दर्शितः । तत्प्रभावेणैव भयङ्करव्याधावपि तेषां समाधिः सुलभा जाता। साऽप्यनन्याऽऽसीत् । ते 'लोगस्स'सूत्रस्य जापं प्रभूतमकुर्वन् । लोगस्ससूत्रे परमात्मनः 'समाहिवरमुत्तमं प्रार्थ्यते । सा समाधिस्तैः स्वजीवने साक्षात्प्राप्ता । तथा च स्वीयं जीवनं धन्यं कृतम् ।
- गुणानुवादसदसि ।
-
-
९७
४) श्राद्धवर्यपुखराजः
ह्यः स्मशानयात्रानिर्गमनानन्तरं देववन्दनं कृत्वा पूज्यप्रेमसूरीश्वरैर्मुनिभ्यः संक्षिप्ता किन्तु बोधदायिका हितशिक्षा प्रदत्ता । तदुद्गाराऽस्माञ्ज्ञापयन्ति यत्तेऽतीव महान्त उत्तमाश्चासन् । ते निःस्पृहसत्तमा आसन् । तैः स्वाराधनया प्रेमसूरीश्वराणां मनो जितम् । प्रेमसूरीश्वरवचनामृतपानेनेत्थं भासते यदद्य पिण्डवाडानगरं द्विगुणं तीर्थधाम जातम् ।
***** समतासागरचरितम्
अध्यात्मजगति दीप्यमानं तत्तारकमस्तमितम् । तेषामग्निसंस्कारानन्तरमेका चमत्कृतिर्घटिता। पेरेलिसिसरोगेण तेषामेकं नेत्रमावर्षात्पिहितमासीत् । अग्निसंस्कारानन्तरं तु द्वेऽप्यक्षियुद्घटिते । स्तोकक्षणानन्तरञ्च पुनर्मीलिते। सर्वैरेषा नेत्रचमत्कृतिर्दृष्टा ।
गुणानुवादसदसि ।
५) पूज्याचार्यभुवनतिलकसूरीश्वराः
यौवनप्रवेश एव ते त्यागपूजका जाताः । यौवनं तु संकल्पविकल्पयुक्तमस्ति । तथापि तैस्तस्मिन्नुत्तमभावनापरिणामसंयमतपस्तूर्याणि वादितानि । तेषां परिचये सकृदप्यागतो मनुष्यस्तेषां गुणसुगन्धं कदापि विस्मर्तुं न शक्नोति । रोगरिपौ प्रहरति सत्यपि तेऽप्रमत्ता आसन्, आत्मचिन्तनलीना •आसन् । तेषां शरीरं तु तेषां सहायो नाभवत्तथाप्यात्मसामर्थ्येन ते स्वसाधनामग्ना आसन् । त आत्मशुद्ध्यर्थमेवोत्कण्ठिता आसन् । ते सततं स्वाध्यायरताः स्वानुष्ठानक्रियोपयोगपराः, सहवर्त्तिसाधुसंयमशिखरयात्राकारणोत्तममनोरथवन्तः, जैनदर्शनैदम्पर्यज्ञानप्राप्तिप्रयत्नवन्तश्चासन् । जिनालये प्रभुदर्शनसमये मूर्त्तिमत्तीर्थंकरमीलनोत्थानन्दस्तेषां मुखपङ्कजेऽदृश्यत । ते जिनप्रासादे भक्तिरसनिर्भरस्तवनानि किन्नररागेण यदाऽगायंस्तदा तेषां तन्मयतैकाकारतागुञ्जनभावनाः मूर्त्ति - मत्योऽभवन् । वि.सं.२०१५ वर्षेऽहं सुरतनगरे हरिपुरोपनगर आसम् । ते मुम्बापुर्या रोगचिकित्सां कारयित्वा राजनगरं प्रतिगच्छन्त आसन् । तदा वन्दनार्थं त आगता एकमहोरात्रं
९८
Page #57
--------------------------------------------------------------------------
________________
, समतासागरचरितम्
meimerikant ९९
4 १०० +gankrapatoreray+00- समतासागरचरितम्
*
-
चास्माभिः सहाऽवसन् । रोगिणस्तु प्रभूता दृष्टाः । किन्तु । पद्मविजयास्तु रोगपीडितत्वेऽपि रोगसहनकातरा नासन् । ते लेशमात्रमप्यार्त्तध्यानं नाकुर्वन् । सम्पूर्ण दिनं यावन्मया सहोपविश्य शासनहितात्मचिन्तन-प्रवर्त्तमानशासन-परिस्थिति-शास्त्रज्ञानविज्ञान-वार्तालापमकुर्वन् । मया चिन्तितंकीदृक्सामर्थ्यवानयं मुनिः कीदृश्यस्तस्य शोभना भावनाः ! * आयतिहितस्य कीदृशमादर्शदर्शनम् ! प्रवचनसमये मया ते: विज्ञप्ता यद्यूयं प्रकाशयत । तदा शरीरेण ते निर्बला आसन्। मनसा च निरीहा आसन् । तथापि लाक्षणिकशैल्याऽल्पं किन्तु तर्कपूर्णमभाषन् । अद्यावधि तद्वचनान्यहं स्मरामि। तेषां वचनानि दृढानि किन्तु रोगरहितानि, शास्त्रीयदृष्टांतयुक्तानि किन्तु सरसानि, सूक्ष्मतत्त्वयुक्तानि किन्तु सुज्ञेयान्यासन्। इदं मया तेषामल्पसमयप्रवचनेऽनुभूतम्। सत्यस्वीकारसरलता, भयङ्करव्याधावपि नमस्कारमन्त्रजापः, बाह्याभ्यन्तरतपःकरणेच्छा, प्रतिक्षणं संयमशुद्धिचिन्ता, सहवर्तिमुनियोगक्षेमकरणं, गुरुदेवाज्ञापालनैकबद्धलक्ष्यता, विनयधर्मोपासना, प्रतिकूलसंयोगेऽपि प्रसन्नमुखाकृतिः, गाम्भीर्य, प्रशान्तता, अन्यसद्गुणग्रहणौदार्य- इति तेषां गुणास्तेषां परिचयेन मयाऽनुभूताः । अत्र लेशमात्राऽप्यतिशयोक्तिर्नास्ति, किन्तु यथानुभूतमेव मया लिखितम् ।
तेषां धर्मप्रवृत्त्या प्रशांतप्रकृत्या च विश्वविश्वमाकृष्ट, उपासकगणश्च जैनधर्मरसपानं कारितः । भूरि भूर्यनुमोदना महामुनीनां महाधर्मसुकृतस्य !!!
६) पण्डितमरणम् ।
- पन्न्यासभद्रङ्करविजगणिवराः, पिण्डवाडा ।
जिनशासने त्रिविधमरणं प्रकीर्तितम् । तद्यथा- बालमरणं बालपण्डितमरणं पण्डितमरणञ्च । प्रथमं मिथ्यादृष्टेः, द्वितीयं सम्यग्दृष्टिदेशविरतयोस्तृतीयं सर्वविरतस्य। बालमरणमकाममरणमज्ञानमरणं जन्ममरणानुबन्धकृन्मरणं कथ्यते। अनेन मरणेन जीवोऽनेकशो मृतपूर्वस्तथापि किश्चित्कल्याणं न जातम् । यदा जीवः सज्ञानदर्शनो म्रियते तदा तस्याऽविरतस्य देशविरतस्य वा मरणं बालपण्डितमरणं कथ्यते। सर्वविरतस्य तु मरणं पण्डितमरणं कथ्यते । प्राप्तजिनशासनसर्वसम्यग्दृष्टिजीवानामयं परममनोरथोऽस्ति यत्पण्डितमरणेन मर्त्तव्यम् । कस्यचिदेव भाग्यशालिनः सः मनोरथः सफलीभवति । पण्डितमरणानुभवस्त्वतिदुर्लभोऽस्ति । किन्तु पण्डितमरणदर्शनमप्यतिदुर्लभमस्ति । सो दुर्लभो योग इदानीं । प्रेमसूरीश्वरनिश्रायां चातुर्मासस्थितैः श्रमणैर्लब्धः । तेष्वेकोऽहमप्यासम् ।
पद्मविजयाः शास्त्रोक्तपण्डितमरणसर्वसंयोगान्लब्धवन्तः । अनेकवस्तेऽसाध्यकेन्सरव्याधिना पीडिता आसन्। तथाप्यान्तरप्रसन्नतामधारयन् । तदरहस्यजिज्ञासा सर्वाराधकात्मनामस्ति ।
यौवनमध्याह्ने ते प्रव्रजिताः । गुरुनिश्रायां दीर्घकालं । यावत्शास्त्राध्ययनं तैः कृतम् । अकस्मात्ते व्याधिना प्रहृताः। तथापि भयङ्करव्याधौ त आर्तध्यानं नाकुर्वन् किन्तु धर्म
Page #58
--------------------------------------------------------------------------
________________
में समतासागरचरितम् +0mentarger- १०१
4 १०२ %ari
krama- समतासागरचरितम्
ध्यानमेवाऽध्यायन् । इदं त्वाश्चर्यम् । ते विद्यावन्तो विनयवन्तः संयमिनः शीलवन्तः गुरुनिश्रावन्तः शिष्यपरिवारवन्तो वक्तारो लेखकाः पठनपाठनशक्तिमन्तः, कोकिलकण्ठाः सहनशीलास्तपःशक्तिमन्तः सर्वप्रेमवन्त आसन् । अकस्माक्रूरकर्मणा तैः सह विग्रहः कृतः । केन्सरमहाव्याधिना सर्वाऽनुकूलता प्रतिकूलतास्वरुपा जाता। तेन तेषां स्वपरहितकारकाः काश्चिच्छक्तयो रुद्धाः। सर्वप्रथम भाषाशक्ती रुद्धा । तथाप्यात्महितसाधनाध्यात्मिकशक्तिमन्तस्त आसन्। ततः कर्मराजः पराभूतः। तेऽभ्यन्तरसाधनायां न्यमज्जन् ।। यथा यथा व्याधिरवर्धत तथा तथा ते ध्यानानुप्रेक्षाजाप-: स्वाध्यायादिकमवर्धयन्। फलतस्तेषामन्तिमसमय आराधनामयः सञ्जातः । तेषां सर्वे संयोगाः सानुकूला जाताः । अहर्निशं पञ्चपरमेष्ठिदर्शनं, पञ्चपरमेष्ठिस्मरणं, चतुःशरणस्वीकारो, दुष्कृतगर्हणं, सुकृतानुमोदनं, सर्वकल्याणभावना, महाव्रतोचारणं, क्षमापना, ऽऽलोचना, 'चउशरण-आउरपचक्खाण' श्रवणं, पुण्यप्रकाशस्तवनश्रवणं- इति तेषां साधनांशाः । तेषामेकैव हृदयभावनाऽऽसीत्-समाधिमरणेन मर्त्तव्यम् । तथैव च जातम् । श्रावणकृष्णैकादशीतिथौ : मंगलवासरे मध्याह्नसमये प्रेमसूरीश्वरान्यमुनिमण्डलोपस्थितौ स्वगुरुदेवमुखात् 'खामेमि...' 'नमो अरिहंताणं' इत्यादिध्वनि शृण्वन्तस्ते देहमत्यजन् । देहत्यागानन्तरमपि तेषां मुखमुद्रायाः प्रसन्नता पूर्ववदेवाऽऽसीत् । ततस्तज्जीवेन देहस्त्यक्तो न वेति संशयसमाधानमपि स्तोककालानन्तरमेवाजायत ।
तेषां मरणं यैर्दृष्टं तेषां मनसि तादृशमरणेन मरणस्य मनोरथाः प्रादुरभवन् । तेषां दर्शनार्थमागच्छतां भव्यात्मनां हृदये जैनमुनिगुरुकुलवासं प्रत्यपूर्वा श्रद्धाऽऽविरभवत्। अपूर्वो मरणविधिर्भव्यो गुरुकुलवासो ग्लानवैयावृत्त्यनिमित्तं मुनीनां : तत्परता प्रेमसूरीश्वराणां वत्सलता सांसारिकज्येष्ठभ्रातृसंयमपक्षगुरुभानुविजयानां स्नेहरागमुल्लङ्घ्याराधनाकारणैकभावना एतानि वस्तून्युत्तरोत्तरप्रकर्षवन्त्याऽऽसन् । जीवन्वा म्रियन्वा नीरोगी वा रोगी वा पुण्यशाली पुरुषोऽनेकधर्मार्थिनामाराधनाऽऽलम्बनीभवतीति पद्मविजयानां जीवने प्रत्यक्षेण दृष्टम्।। तेषां परमोत्तमाराधनाबीजं तु विनय आसीत् । गुरुचरणयोजीवनसर्वस्वसमर्पणं तेषां सर्वसिद्धीनां बीजमासीत् । उत्तमजातिकुलोत्पत्त्युत्तमगुरुसेवास्वाध्यायोपयोग-निर्विकारयौवनप्रभुभक्ति-संवेग-निर्वेद-भवभय-चतुर्गतिदुःखनिर्वेदादयः पुण्यानुबन्धिपुण्योदयेन प्राप्यन्ते । तान्प्राप्य पद्मविजयैरपूर्वमात्मकार्य स्वयं साधितमन्यैश्च साधितम् । तेषां भूरि भूर्यनुमोदनां करोमि । तेषामाराधनामयं जीवनमायतावनेकेभ्यः प्रेरणां दास्यति इति तु निर्विवादम् । तेषां संयमविशुद्धिचिन्तामुमुक्ष्वाराधनायोजनकुशलताभ्यां प्रेमसूरीश्वराः स्वयं मुग्धा आसन् । तेषामात्मा शान्तिं प्राप्नोत्वित्यभ्यर्थये। ७) गुरुभक्तिस्तत्स्वादुफलानि च ।
- पंन्यासभद्रडकरविजयाः (पश्चात्
आ.भद्रकरसूीरश्वराः, सिद्धिसूरिसमुदायवर्तिनः) । सर्वास्तिकदर्शनेष्वात्मशुद्ध्यर्थं देवोपासनया तुल्यं
-
-
-
Page #59
--------------------------------------------------------------------------
________________
* समतासागरचरितम्
aftegort- १०३
+ १०४
namkarankargam- समतासागरचरितम् ।
ततोऽपि वाधिकं महत्त्वं गुरुभक्तेर्दर्शितम् । देवगुरू परम-: तत्त्वे । तयोरुपासनां विना तात्त्विकधर्मोदयो न भवति ।
जिनशासने नमस्कारमन्त्रं पापप्रणाशकं सर्वमङ्गलेषु च। प्रथमं मङ्गलं कीर्त्तितम् । तस्य कारणमपीदमेव यत्तेन पञ्चपरमेष्ठ्यात्मकदेवगुरू नमस्क्रियेते । अर्थात् देवगुरुसेवा सर्वपापानि प्रणाश्य सर्वकल्याणानि साधयति । मनुष्यो जायते जीवति म्रियते च । किन्तु देवगुरुभक्तिद्वारेणाऽन्यजीवमार्गदर्शकजीवनजीवितारो विरलाः सन्ति । तेषामेव ! जीवनं स्वपरोपासकं भवति, चिरं तेषां स्मरणवन्दनादिभिरन्ये । जीवा आराधका भवन्ति ।
अतीतकाले तु एतादृशादर्शजीवनजीवितारोऽनन्ता । महात्मानो भूतपूर्वाः । सम्प्रत्यपि यथाशक्यं शोभनं जीवनं । जीवितुं शक्यमित्यवाप्तगुरुभक्तिप्रशस्तफलाः पद्मविजया अदर्शयन् । तेषां जीवनं साधकस्य बोधप्रदमासीत्साधनायाञ्च प्रेरणादाय्यासीत् ।
वि.सं.१९६९ वर्षे राजनगरे कालुशीपोलमध्ये 'भगत' अपरनामप्रसिद्धश्राद्धवर्यमनसुखरामपुत्रचीमनलालश्राद्धगृहे ते जाताः। तेषां माता भूरीबाइश्राविकाऽऽसीत्। तेषां नाम तु : पोपटलाल आसीत् । श्राद्धवर्यचीमनलालस्य त्रयो पुत्रा एका । च पुत्री यौवनेऽपि भोगांस्त्यक्त्वा दीक्षिताः । ततो ज्ञायते यत्तेषां परिवारे धार्मिकसंस्कारकुलाचारधर्माचारपालनानि : वैशिष्ट्ययुक्तान्यासन् ।
पोपटलालेन धार्मिकशिक्षणेन सह व्यावहारिकशिक्षण
मपि प्रभूतं प्राप्तम् । ते सप्तमकक्षोत्तीर्णा आसन् । आङ्ग्लभाषायाञ्च तैर्मेट्रिकपरीक्षोत्तीर्णा । तथापि यज्ज्ञानं साम्प्रतीनपुद्गलाकृष्टनिःसत्त्वमनुष्यैर्मलिनीक्रियते तज्ज्ञानं तैस्त्यागवैराग्यभावनाभिभूषितम् ।।
कुलाचारधर्माचारव्यावहारिकज्ञानादात्मकल्याणप्रेरणा प्राप्य ते द्वाविंशतिवर्षयौवनवयसि वि.सं.१९९१ वर्षे पोषमासे स्वज्येष्ठभ्रात्रा कान्तिलालेन सह सिद्धान्तमहोदधिप्रेमसूरीश्वरवरदहस्तेन प्रव्रज्यां प्राप्य मुनिभानुविजयानां शिष्या । मुनिपद्मविजया जाताः । साधुवेषस्वीकरणमन्यत्साधुताप्रकटनमन्यत् । तेषामुद्देशः साधुताप्रकटनार्थमासीत् । ते ! सदैव जीवनशुद्धिमकाङ्क्षन् । यौवनमध्याह्ने जीवनशुद्धिभावनाविर्भावः पवित्रपुण्योदयं द्योतयति । पुण्योदयं विना पवित्रं मनो दुर्लभम्, मनःपावित्र्यं विना जीवनशुद्धिपरमपावनभावनाप्रादुर्भावो दुर्लभः । ___साधुजीवनं तु विषमपथप्रवासः । सामान्यतया मुनिजीवने कष्टा न सन्ति, यत आर्यदेशे साधवः सदैवोचैःस्थानस्थायिनः सन्ति । ततः सर्वत्र ते स्वागतसत्कारौ प्राप्नुवन्त्यनुकूलाहारजलवस्त्रपात्रवासादिकं चावश्यकतातोऽधिकं साम्प्रतीनभक्तवर्गः प्रयच्छति ।
किन्तु जीवनशुद्धिध्येय इदं कष्टरुपम् । त्यागवैराग्याभ्यां जीवनं विशुद्धं चिकीर्षुस्तु तदुपद्रवरुपं मन्यते । यतोऽनादिवासनाप्रभावेण तज्जीवमुत्पथे नयति । इतोऽ नुकूलजीवनसामग्रीयथेच्छप्राप्तिरितश्च तत्प्रलोभनान्मनो निरोद्धव्यम् ।
Page #60
--------------------------------------------------------------------------
________________
समतासागरचरितम्
१०५
द्वयोर्युद्धं जायते, एकतः सा सामग्री मन आकर्षत्यन्यतश्च मनःनियन्त्रणायाऽऽत्मना प्रबलः पुरुषार्थः कर्त्तव्यो भवति । अस्मिन्युद्धे विजेतुं दुःशक्यम् । ततो मुनि-जीवन इदं महत्कष्टरूपं वर्त्तते ।
यस्य मनो निर्मलं, यस्य मनसि जीवनशुद्धिध्येयं प्रकटितं येन तत्कष्टविजयावश्यकगुरुकृपामाहात्म्यं ज्ञातं स एव विरल आत्मा गुरुकृपाबलेन सत्त्वं प्रकटय्य स्वकीयसाधनायां सफलीभवति ।
गृहिपर्याये मातृपित्रादिगुरुजनाज्ञानुसारेण जीवनं दुःशक्यम् । ततोऽपि दुःशक्यतरं साधुजीवने गुर्वाज्ञापालनम् । मानविजेता सत्त्वशाली साधुरेव बाह्यप्रलोभनानि परित्यज्य दासीभूय गुरुचरणयोर्जीवितुं शक्नोति ।
कश्चित्पुण्यहीनः सत्त्वहीनश्च गुरुसेवां वृणुयात् गुरुपुण्योदयेन च स्वजीवननिर्वाहं कुर्यात् । किन्तु पद्मविजयानां जीवने तु तथा नासीत् । गृहिपर्यायेऽपि ते समृद्धा आसन् । संयमजीवनेऽपि त्यागवैराग्यपुण्यबलेन स्वातन्त्र्येण विहर्तुं समर्था आसन् । किन्तु केवलं जीवनं जीवितुं ते नाकाङ्क्षन् । आत्मशुद्धिं तत्कृते च गुरुकृपां सम्पादयितुं तेषां ध्येयमासीत् ।
तत आप्रव्रज्यायास्ते गुरुसेवारता अभवन् । तत्प्रभावेण ज्ञानक्रियोभयसाधनां ते कर्तुमशक्नुवन् । गुरुभक्तिबहुमानौ सम्यग्ज्ञानप्राप्तौ तेषां सहायीभूतौ । अर्जितज्ञानञ्च च तान्गुरुसेवाविनयवैयावृत्त्यादिक्रियासु निमग्नानकरोत् ।
* समतासागरचरितम्
विनयभक्तिबहुमानैर्ज्ञानप्राप्तौ ते रता आसन् । तैरेकेनैव वर्षेण षट्सहस्रश्लोकप्रमितं सिद्धहेमशब्दानुशासनं सलघुवृत्तिकं कण्ठस्थीकृतम् । ततस्तैस्तस्याष्टादशसहस्रश्लोकप्रमिता बृहद्वृत्तिः पठिता । ततः संस्कृतकाव्य-कोष - साहित्यन्यायदर्शन-प्रकरणग्रन्थानामभ्यासस्तैः कृतः । इत्थं मौलिकतत्त्वज्ञानं भाषाज्ञानं च प्राप्य तत्त्वमहासागरागमग्रन्थाः परिशीलितास्तैः । तथा च तैः पञ्चचत्वारिंशदागमाभ्यासः कृतः । निशीथव्यवहारादिसंयमोपयोगिमहाग्रन्थपदार्थानां पुस्तिकाऽपि तैर्लिखिता ।
अनेन ज्ञानप्रकाशेन तैरात्मस्वरुपं ज्ञातम् । स्वरुपशुद्धात्मनि वर्त्तमानेन कर्मकचवरेण तेऽदूयन्त । कर्मकृतात्मविचित्रदशां ते सोढुं नाशक्नुवन् । भोगपिपासुकर्मविवशजीवेन भयङ्करभवे भ्रमता सोढानि दुःखानि ते शास्त्रचक्षुषाऽपश्यन्। तद्विनाशार्थं त उदतिष्ठन् । भोगबुभुक्षानाशनार्थं ते तप आश्रितवन्तः । दिनमध्ये सकृदेव निरीहभावेन शरीरं पोषयित्वा ते तेन प्रभूतं कार्यं कृतवन्तः ।
स्वाध्यायतत्परता, गुरुजनबालवृद्धतपस्विग्लानमुनिसेवारुचि, सर्वेभ्यः सन्मानदानं सर्वेषां संयमसाधनायां यथायोग्यं सहायीभवनमित्यादीनि कर्त्तव्यानि तेषां प्राणभूतानि जातानि । अन्यसाधुपाठनं, संयमशिक्षाप्रदानं संयमस्थिरीकरणं, संयमविकासकारणं इत्यादिकं तु तेभ्योऽतीवाऽरोचत, ततो गुरुदेवास्तत्कर्त्तव्यभरनिर्मुक्ताः प्रसन्नाश्चाभवन् ।
फलतः शताधिकसाधुनेतृगुरुदेवानामत्यधिका कृपा
१०६
Page #61
--------------------------------------------------------------------------
________________
समतासागरचरितम्
तेषामुपर्यवर्षत् । इदं तु तेषां योग्यताया फलमासीत् । योग्यसत्कारकरणं गुरुदेवकर्त्तव्यमस्ति । समदृष्टिरित्थं सिध्यति । गुरुकृपा तु कल्पलताऽस्ति तस्याः स्वादुफलानां रसास्वादं भोक्तैव जानाति, वर्णनेन तज्ज्ञापयितुं न शक्यम् । तेषां योग्यतां दृष्ट्वा गुरुदेवैः वि.सं. २०१२ वर्षे तेभ्यो गणिपदं दत्तं वि.सं. २०१५ वर्षे च पन्न्यासपदं दत्तम् । इत्थं त एकमुच्चैः पदमारोहिताः ।
ततस्ते पदस्था उत्तमपञ्चदशशिष्यप्रशिष्यादीनां गुरवो जाताः । तथापि तेषां सेवाभावना नाऽहीयत किन्तूत्तरोतरमवर्धत ।
१०७
विनयवैयावृत्त्यस्वाध्यायध्यानाद्यभ्यन्तरतपोभिः सह ते बाह्यतपोऽर्थमपि प्रभूतमुद्यममकुर्वन् । ततो नित्यैकाशनैः सह ते वर्धमानतपस एकोनचत्वारिंशदोलीः कृतवन्तः ।
गुजरातमहाराष्ट्रमुम्बापुरीमरुभूमिसौराष्ट्रादिविविधप्रदेशेषु विहरणेऽपि तेषामियं साधनाऽविरताऽऽसीत् । परिषहाः सोढव्या इति तेषां ध्येयमासीत् । ततः प्रतिकूलतासु प्रसन्नताऽनुकूलतासु चानादरस्तेषां प्रत्येकप्रवृत्तावदृश्यत । प्राकृतजना अनुकूलतां मार्गयन्ति । तदैते महापुरुषास्तु ता अनादृत्य
प्रसन्ना अभवन् ।
इत्थं स्वस्थशरीरेण बाह्याभ्यन्तरतपः कृत्वा तैः प्रभूतः कर्मकचवरोऽपास्तः । तथापि जन्मान्तरकृताशातावेदनीयोदयेन वि.सं. २००७ वर्षात्प्रभृति ते केन्सरमहाव्याधिना पीडिता आसन् ।
समता सागरचरितम्
प्राकृतजनो रोगेण पराभूयते, साधनां च त्यजति । पद्मविजयानां जीवने तु विपरितं सञ्जातम् । रोगेऽपि तेषां साधना गुरुसेवा चाविरताऽऽसीत् । रोगेण ते न पराभूताः । किन्तु गुरुकृपाबलप्रकटितसत्त्वमवलम्ब्य रोग्यवस्थायां तेऽधिकं जागरुका आसन् । राजनगरसुरेन्द्रनगरपिण्डवाडाशिवगञ्जचातुर्मासेषु तैश्चतुर्दशचतुर्विंशतिदशत्रिंशदुपवासोग्रतपश्चर्याः कृताः । ततः सर्व आश्चर्यचकिता जाताः । सर्वैश्च तेषामनुमोदनाप्रशंसाः कृताः । तेषामुग्रसाधनया सहस्राणि हृदयान्यनमन् । अद्य तान्स्मृत्वा प्रसन्नतामनुभवन्ति ।
इत्थं गुरुकृपाबलप्रकटितविविधगुणैरात्मानं ते व्यभूषयन् स्वपरकल्याणमकुर्वन् । वि.सं. २०१७ वर्षे श्रावणकृष्णैकादश्यां योगलभ्यापूर्वसमाधिसमतापूर्वकं कालगताः ।
अन्तिमसमये पञ्चाशत्साधवस्तेषां सेवायां प्रसन्नचित्तेनाऽहर्निशमुद्यता आसन् । सततं नमस्कारमहामन्त्र - जापध्यानश्रवणानि प्रावर्त्तन्त । अन्तिमाराधनाकारणतत्पराः प्रभूता गुरुवर्या उपस्थिता आसन् । गुरुजनसूचनाप्रेरणानां प्रसन्नचित्तेन पानं तेऽकुर्वन् । तदानीमिदं सर्वं वैशिष्ट्ययुक्तमासीत् । तद्द्रष्टुः मरणभयमनाशयत्तादृशपण्डिमरणाभिलाषमप्यकारयत् । तद्भक्त्यंशप्राप्त्युद्देशेन तत्संयमजीवनविनयकरणोद्देशेन वा साधुभिर्घोषितं स्वाध्यायतपआदिकं श्रावकैश्च कृतं पुण्यदानादिकं विशिष्टमासीत् । सर्वेषां हृदयान्येकध्वनिनाकथयन् यत्तादृशशिष्यगुरुयोगस्तादृशसाधना चानेकभवसाधनाबललभ्यैव ।
१०८
Page #62
--------------------------------------------------------------------------
________________
में समतासागरचरितम्
samagran-१०९०
+ ११०
amkarandargam- समतासागरचरितम् ।
तेषां स्वर्गगमनेन सर्वत्र विरहव्यथा प्रासरत् । सुदूरवर्तिप्रदेशेष्वपि तदुदन्तं वायुगत्या प्राप्तम् । ततः सर्वे तेषां विरहेण स्तब्धा अभवन् ।
ततस्तेषां भव्यस्मशानयात्रायोजनेन पिण्डवाडासङ्घन: प्रभूतो लाभो गृहीतः। पिण्डवाडानगर अन्यत्र चानेकेषु स्थलेषु तेषां संयमानुमोदनानिमित्तं सहस्राणि रुपकाणि व्ययित्वा जिनभक्तिमहोत्सवा जाताः । इदं सर्वं तेषां संयमसाधनाया जनप्रियत्वस्य च फलभूतमासीत् ।।
इत्थं तैयौवनवयसि बाह्यान्तरसाधनया जीवनविशुद्धिः सम्पादिता । तेषां जीवनसाधनाऽन्यजीवानां प्रेरणादात्री भूया-: द्भव्यजीवाश्च तेषां दृष्टान्तमवलम्ब्य स्वपरकल्याण-साधनोद्यता भूयासुरिति शुभाभिलाषा । ८) मुनिराजश्रीहेमचन्द्रविजयाः (पश्चात् आ.हेमचन्द्रसूरयः)
पूज्यगुरुदेवा महतीं शोभनां चाराधनां कृतवन्तः । तत्र पूर्वभवाराधना तु हेतुभूताऽसीदेव, किन्तूभयगुरुदेवौ प्रति तैर्धतः समर्पितभाव एव मुख्य कारणमित्यहं मन्ये। समर्पितभावः दुर्लभः । सस्तु सर्वगुणमूलभूतं वर्त्तते । पूज्यगुरुदेवानां प्रत्येकमात्मप्रदेशमनेन गुणेन व्याप्नोत् । तमवलम्ब्य स्वजीवने तैर्महती साधना स्वयं कृताऽनेकैः कारिता पूर्वर्षि-1 वचानेकेषामालम्बनीभूतं जीवनं जीवित्वा ते परलोकं प्राप्ताः।
तेषां संस्मरणानि वयं यावज्जीवं विस्मर्तुं न शक्ष्यामः । तेषां इच्छानुसारेण जीवनाय प्रयतितव्यं । इदमेव वस्तुतः । तेषां श्रद्धाञ्जलिः ।
९) कोटिशोऽभिनन्दनानि-पंन्यासकनकविजयगणिवराः, अजारनगरे
पन्न्यासपद्मविजयाः शोभनोत्कृष्टाद्वितीयाराधनाप्रभावनाः विस्तीर्य निजसाधनां कृत्वाऽस्मत्सुदूरं गताः ।। किन्तु तेषां जीवनसुगन्धोऽद्यापि विद्यमानोऽस्ति । गुणदेहेन तेऽस्माकं स्मृतिपथे चिरजीविनः सन्ति। विनश्वरदेहेन । त्वस्मन्मध्याद्गताः।
आबाल्यात्तेषूत्तमताऽऽसीत् । पूर्वजन्मकृतोत्कृष्टाराधनायोगेन ते जिनशासनत्यागवैराग्ये प्रत्याकृष्टा आसन् । तथा करुणासिन्धुवात्सल्यमूर्ति-पूज्यप्रेमसूरीश्वराणां चरणसेवा तैः प्राप्ता । ततः प्रभृति तेषां जीवनोद्याने गुणपुष्पाणि विकसितानि । तैः प्रभूतवर्षान् यावत् परमकारुणिकपरमाराध्यपूज्यप्रेमसूरीश्वराणां श्रद्धाबहुमानसमर्पणभावैरुपासना कृता। सा नूनमद्वितीया । तेषु संयमस्वाध्यायरुचिस्वाश्रयवृत्तीनां । सङ्गम आसीत् । जीवनेऽल्पोऽप्यसंयमः प्रमादेन न प्रविशेदिति ते सदैवाप्रमत्ता आसन् । निश्रावर्तिसहवर्तिसाधुसंयमरक्षणार्थं ते सदैवोद्यता आसन्। तेष्वाराधकभावो जीवनासीत् । तेषां हृदये रत्नचिन्तामणीतुल्यजिनशासनं प्रति लोकोत्तरा श्रद्धाऽऽसीत् । मया तेषां स्वाध्यायप्रेम साक्षादृष्टम् । तदतीव प्रबलमासीत् । स्वरे रुद्धेऽपि, व्याध्यशक्तशरीरे सत्यपि तेऽनेकमुहर्त्तान्यावत्शास्त्रपठनपाठनमननचिन्तनान्यकुर्वन् ।
ते सिद्धान्तप्रियतया सत्यपालने सत्यप्रचारे च दृढा
Page #63
--------------------------------------------------------------------------
________________
समतासागरचरितम्
आसन् । तेषां दृढत्वं रागद्वेषनिमित्तं नाभवत् । तत एव ते सिद्धान्तनिष्ठा आत्मार्थिनश्चासन् । आत्मकल्याणसाधनाकृते तेषामान्तरजागृतिरतीव प्रबलाऽऽसीत् । ततः शारीरिकव्याधिप्रसङ्गेऽपि ते कदापि संयमं न लोपितवन्तः ।
१११
गुरुजनविनयस्य बालग्लानवैयावृत्त्यस्याश्रितवात्सल्यस्य च तेषां जीवनेऽद्भूतसमागमोऽजायत । ते जीवनसाधनां सुष्ठ्वसाधयन् । तैः स्वजीवनं धन्यीकृत्य मृत्युं पराजि - त्यात्मामरत्वोदाहरणं संसारवत्र्त्त्यात्मार्थिजीवानां समक्षं स्थापितम् । तेषां जीवनमेव प्रेरणारुपमासीत् । आत्मार्थिजीवाँस्तेषां जीवनं समदिशद्यत् अप्रमत्ता भूयास्त । ते समाधिमन्तः शान्तिमन्तश्चासन् । ते बाह्योपाधिभ्यो निरपेक्षा आसन् । जीवनपर्यन्तं ते साधनामार्गनिष्ठावन्त आसन् । इदं त्वादर्शभूतम् । जीवनान्तिमक्षणं यावदसाध्योग्रप्रबलतमव्याधिपीडासु सत्स्वपि तेषामात्मा स्वयंभ्वात्मस्वभावेऽरमत सदैव च प्रसन्नोऽभवत् । शारीरिकव्याधिषु सत्स्वपि तैः प्रसन्नताशान्तिसमाधिचित्तस्वास्थ्यानि धृतानि । इदं त्वतीव दुष्करम् । प्रेमसूरीश्वरान्प्रत्यद्भूतश्रद्धापूर्वसमर्पणवृत्तिं तेऽधारयन्। तैः प्रेमसूरीश्वरचरणयोः स्वीयं सर्वस्वं समर्पितम्। ततस्ते लघुचारित्रपर्यायेऽपि प्रभूतं प्राप्नुवन् । साम्प्रतीनमनुष्यदुष्करा विषमा उत्तमाराधनास्तेषां जीवन आसन् । तेषां जीवने जागृति- समाधि - स्थिरता - सात्त्विकता आसन् । तद्बीजं तु तेषां हृदये वर्तमाना प्रेमसूरीश्वरान्प्रत्यप्रतिमश्रद्धैव ।
* समतासागरचरितम्
जीवनान्तिमक्षणं यावद्यां समाधिं तेऽधारयन् साऽऽराधकात्मयाचनायोग्या प्रतिभवनिदानयोग्या चासीत् । अन्तिमक्षणं यावदाराधना-भक्ति- वैयावृत्त्यादिकं यत्ते प्राप्नुवंस्त द्राज्ञामपि दुर्लभमस्ति । तन्मूलं तु परमकारुणिकपरमगुरुदेवकरुणैव ।
११२
ते जीवनमसाधयन् । ते यत्रापि भविष्यन्ति तत्र तेषामात्मा स्वीयोज्ज्वलाराधनाप्रभावेण सद्गतिं प्राप्य शाश्वतसुखभोक्ता भविष्यतीति तु निःशंकम् । अस्माभिस्तु तेषामाराधकभावानुपमसमाधिसंयमसाधनाजागृतिभ्यः श्रद्धाञ्जलिर्दातव्या । तद्द्वारेण च तेषां जीवनादाराधनाप्रेरणां प्राप्य जीवनं जीवितुं शिक्षितव्यम् । धन्या जीवनसाधना ! आत्मार्थिसंयमिमुनीश्वरात्मसमाधये कोटिशोऽभिनन्दनानि !
१०) साधुरत्नं - पंन्यासकान्तिविजयगणिवरः,
( वर्धमानतपोनिधयः) पत्तननगरे
युष्माभिः पंन्यासपद्मविजयगणिवराय दत्तानि प्रेरणाप्रोत्साहनान्यनुमोदनीयान्यनुकरणीयानि च सन्ति । भयङ्करवेदनास्वपि तैः सततं समता धृता । अन्तिमक्षणे च राधावेधं साधयित्वा समाधिमरणं लब्धम् । तस्य भूरि भूर्यनुमोदनाः । 'ईदृक्समाधिमरणं प्राप्नुयाम्' इति शासनदेवः प्रार्थनीयः । प्रेमसूरीश्वरैर्युष्माभिश्च (पन्न्यासभानुविजयैः) तेऽद्वितीयामाराधनां कारिताः । सा समुदाये आदर्शरूपाऽस्ति । तदाराधनायाः साक्षाद्द्रष्टा नूनं भाग्यशाल्यस्ति । तैः कृता समुदायसेवाऽविस्मरणीया भविष्यति। समुदाये तत्स्थानग्रहणसमर्थोऽन्यः
Page #64
--------------------------------------------------------------------------
________________
११)
में समतासागरचरितम् +000-
- ११३ कोऽपि नास्ति । तेषां हृदये युष्मान्प्रत्यद्वितीयभक्तिभावाज्ञाधीनताविनयबहुमानादिकमासीत् । साधुभ्यः संयमशिक्षादानस्य तेषां पद्धतिरनन्यतुल्यानुकरणीयानुमोदनीया चासीत् । भयङ्करव्याधावपि सहनशीलतासमताराधनापूर्वजागृतिभिस्तैर्युष्माकं निःस्पृहशिरोमणीनामपि मनो जितम् । सेवकचित्ते स्वामिवासस्तु घटते, किन्तु स्वामिचित्ते सेवकस्थानं तु सेवकविशिष्ट सेवाफलमेव । तस्यादर्शदृष्टान्तभूताः पद्मविजया आसन् । तदपि तेषामनेकवैशिष्ट्येषु मुख्यं । वैशिष्ट्यमस्ति।
प्रेमसूरीश्वराणां हृदये प्राप्तस्थानौ द्वावेव मुनिवरावास्तामेको रक्षितविजयो मुनिरन्यश्च पंन्यासपद्मविजयगणिवरः । तेषां गुणानामुल्लेखः सङ्क्षपेणेत्थं कर्तुं शक्यम्-. १) उत्तमसमर्पणभावस्तेषां सर्वश्रेष्ठगुण आसीत् । २) केन्सरव्याधौ मस्तकपीडायां च समता । ३) रोगेऽपि त्रयोदशचतुर्दशचतुर्विंशतित्रिंशदुपवासादिका ।
विविधास्तपश्चर्याः । तपश्चर्यासु च जापध्याने ।। पक्षपातरहितं मुनीनामुपरि वात्सल्यम् । मुनिस्थिरीकरणकला । गुरुजनान्प्रति पूज्यभावः । प्रवर्तकपदवीं विनाऽपि प्रवर्तकवत्समुदायगच्छ
चिन्ताकरणम् । ७) आगमच्छेदसूत्राणामगाधं ज्ञानम् ।
* ११४ niroension- समतासागरचरितम् । ३८) तपःप्रेमापि तेषामिदृगासीद्यत् केन्सरव्याधेः पूर्वं ते "
वधर्मानतपसः ओल्याराधनामप्यकुर्वन् ।
अनन्यसदृशं ब्रह्मचर्यम् । १०) प्रेमसूरीश्वरनिश्रायामेव सम्पूर्णजीवनं जीवितुं हार्दि-1
काभिलाषा, ग्लान्यादिनिमित्तमपि तेभ्यः पृथग्भवनस्यानिच्छा । दादरचातुर्मासे तन्निश्रावर्ति साधवोऽल्पमप्यपराधं लिखित्वाऽदर्शयन्, प्रायश्चित्तं च गृहीत्वा स्वात्मानं निर्मलमकुर्वन् । सुरेन्द्रनगरे रोगस्य भयङ्करप्रहारे । प्रेमसूरीश्वराज्ञया पुनर्महाव्रतारोपणकारणलाभो मया । लब्धः । ऋषभदास जैन, मद्रास ।
एकतः कोटिधनस्वामिनो लक्षमानवनेतारोऽनेकमानवमहामन्त्रिणो विशालसाम्राज्यशास्तारो मस्तके दन्ते । कर्णे वा जातयाऽल्पवेदनया कुर्कुरवत् भयभीता जायन्ते । तदान्यतः प्राप्तर्द्धिसिद्धिसंपदः पटलग्नरेणुवत्परित्यज्य महात्मानः प्राणान्तकृत्वेदनास्वपि हसन्तः शांतरसे निमजन्तस्तत्त्वचिन्तनमननपरिशीलननिदिध्यासनेषु मग्नाश्च दृश्यन्ते। अहो ! यदा मृत्युनटवदगे नृत्यन्नस्थात्, व्याधयो गणिकावन्न्युञ्छनानि गृह्णन्त्यः स्युस्तदाऽयं महर्षिनिर्भयकेशरीवात्मज्ञानधर्मध्यानवनप्रदेशे गर्जन्नासीत् । तेषां दर्शनमपि जीवेभ्य आनन्दं प्रयच्छति । तेषां दर्शनेन ये विवेकज्ञानबोधाः स्युस्ते कस्मिंश्चिद्विद्यालयेऽपि दुष्प्रापाः। ईदृग्महापुरुषदर्शनेनैवास्माकं
४)
Page #65
--------------------------------------------------------------------------
________________
* समतासागरचरितम्
aftegort- ११५
4 ११६
orkatra- समतासागरचरितम् ।
निर्बलता दूरीभवत्यलौकिकाराधनाकरणबलं प्रकटीभवति ।। एतत्समर्थनार्थ साक्षादृष्टमेकं प्रसङ्गं वर्णयामि ।
द्विवर्षाभ्यां पूर्व पंन्यासपद्मविजयाः स्वगुरुदेवैः सहास्मत्जन्मभूमौ शिवगञ्जनगरे चातुर्मासं स्थिताः । तदा केन्सरव्याधिना नववर्षैस्ते पीडिता आसन् । तेषां सेवायामहं मुहुर्मुहुर्गत्यागत्यकरवम् । तदा मया तेषु या साधनास्फुर्तिदृष्टा तस्या अंशमात्रमपि नीरोगिमनुष्येषु न दृश्यते । तादृशवेदनादशायां प्रभूता विदूषा राज्याधिकारिणश्च पीडया । पशुवत्कम्पमाना दृष्टास्तदाऽयं महात्मा तु सदैवाध्यात्मज्ञानोत्तमग्रन्थाध्ययने तल्लीना भूत्वा तत्त्वगवेषणात्मानुसंधानेषु । निमग्नो दृष्टः । ते स्वस्थमनुष्यवदुत्साहोल्लासपूर्वकं वार्तालापमकुर्वन् ।
तत्त्वगर्भितगम्भीरज्ञानगोष्ठ्यमूल्यावसरो मयाऽपि लब्धः । समतासुगन्धः समाधेश्च माधुर्य तेषां मुखारविन्देऽभासत। तेषां हृदयसागरे ज्ञान-ध्यान-तपः-जाप-त्याग-वैराग्य-तरङ्गा उदच्छलन् ।
अवसर आगते ते पञ्चदशपञ्चविंशतित्रिंशदुपवासानकुर्वन् । दीर्घतपश्चर्यापारणदिनेऽपि तेऽस्माकमिव रसलोलूपा नासन, किन्त्वधिकतपःकरणभावनावन्त आसन्निति ज्ञापकस्पष्टभावास्तेषां मुखारविन्देऽदृश्यन्त । अस्माकमत्याग्रहेण । यदा पारणमकुर्वस्तदाऽपि पारणे मुद्गजलं दुग्धोत्कालिकं वा नलिकयाऽगृह्णन् । यतः केन्सरव्याधेर्मुखेन ते किमप्यशितुं नाशक्नुवन् । नलिकया द्रवपदार्थ गृहीत्वा ते प्रज्ञापना
भगवतीसूत्रादिरहस्यपूर्णागमसूत्रस्वाध्याये न्यमज्जन् । पठन्तः । पठन्तो यदा ते शारीरिकास्वस्थतामन्वभवस्तदा शास्त्राणि विमुच्य जापमालां गृहीत्वोपांशुजापेन मानसजापेन वा परमेष्ठिध्याने तल्लीना अभवन्। वैखरीजापं ते कर्तुं नाशक्नुवन्यतश्चिरात्तेषां वाक्शक्तिस्थानं पीडाया धाम जातम् । ते वागुपयोगं कदाचिदेवाऽनन्यगत्यैवाऽकुर्वन् । ते स्वीयमनो-* भावान् लिखित्वाऽदर्शयन् । व्याधिपीडां विस्मृत्य त एकाग्रचेतसाऽलिखन् । तेषां लेखनकौशलं समभावश्च तल्लिखितपत्राणां पठनेनैव ज्ञायते । वयं तु तत्पठनेन विस्मयस्मेरा अभवाम।। तेषां सहनशीलतां धीरतां च दृष्ट्वा सनत्कुमारमहर्षिः स्मृतिपथमागच्छत् ।
तेषामात्मन्यनन्तशक्तिस्रोतोऽवहत्। सूर्यतेजसि ताराण्डलतेजस्तिरोभवति तथा तेषां समताज्योतिषि वेदना तिरोऽभवत् । यथा नद्युत्तरणसमयेऽवतीर्णप्रथमपुरुषः पृष्ठवर्तीनामालम्बनीभवति तथाऽस्मिन्युगेऽयं महात्माऽऽत्मविद्यासाधकेभ्यो महदालम्बनरुपः सञ्जातः । आध्यात्मिकविद्यारहस्यज्ञापकं तेषां जीवनं विज्ञानयुगे नूनं प्रत्यक्षदृष्टान्तरुपमस्ति । भूतकालीनदृष्टान्तेष्वविश्वसतां मोहनिद्रामस्य महात्मनः प्रत्यक्षप्रमाणभूतं चरित्रं नाशयिष्यति। आत्मविकासात्युपयोग्येतचरित्रं दत्तावधानतया पठितव्यमिति पाठकवर्गमभ्यर्थये । अत्र लिखितानि वस्तूनि मया साक्षादनुभूतानि । तस्य साक्षिभूतामेनां प्रस्तावनां प्रस्तवीमि । सर्वे जीवनविकासार्थं प्रोत्साहनमवाप्नुयुः पौद्गलिकसुख
Page #66
--------------------------------------------------------------------------
________________
समतासागरचरितम् -
M
anager:- ११७
4 ११८
grammar- समतासागरचरितम् ।
पापपाशान्मुच्येयुरात्माचिन्त्यशक्तिं श्रद्दध्यरात्मस्वातन्त्र्यसुखमवाप्नुयुरिति शुभाभिलाषापूर्वकं द्वौ शब्दौ लिखित्वा विरमे । सुज्ञेषु किं बहुना ? -पुण्यभूमिः पुण्डतीर्थम्, धर्मानुरागी 'ऋषभ', ऋषभदास जैन, १२) वन्दनीयविभूतिःशतावधानी पण्डितवर्यशाहटोकरशीपुत्रधीरजलालः । *
सिद्धान्तमहोदधिप्रेमसूरीश्वरपरिचयो गतदशवर्षेभ्यो मम: जातः । तेषां साधुजनोचितसरलताप्रसन्नताशासनसेवापूर्वाभिलाषान्दृष्ट्वाऽहं मुग्धोऽभवम् । तेषां स्वाध्यायप्रेमाद्वितीयमासीत्तपोनिष्ठाऽनन्यसदृश्यासीत् । यदा कदाचिदप्यहं ! तेषां दर्शनार्थमगच्छम् तदा तेषां समीपे विशालं मुनिसमुदायमपश्यम्। तदृश्यं जैनश्रमणविद्यापीठमिवाभासत ।। तत्कुलपतिपदविराजमानाः प्रेमसूरीश्वराः सम्यग्ज्ञानक्रिययोरपूर्वमुद्योतमकुर्वन् ।
क्रमशस्तेषां समीपवर्तिमुनीनां परिचयो जातः । तैरप्यहमतीव प्रभावितः । गुरुदेवकृपा तेष्वविरतमवर्षत् । ते च उत्तमशिक्षापालनमकुर्वन् । मुनिषु पन्न्यासभानुविजयगणिवराणां विशेषः परिचयो जातः। तैश्च साधुताया एकमद्वितीयमविस्मरणीयं चिह्न मद्हृदयेऽङ्कितम् ।
अनेन समुदायेन सह मम परिचयोऽवर्धत । ततोऽहं पन्न्यासपद्मविजयगणिवराणां परिचय आगतः । तदा मया चिन्तितं यदयं समुदायोऽनेकश्रमणरत्नैः भृतोऽस्ति, इदं च । तेषु विरलं रत्नमस्ति ।
ते प्रांशव आसन् । तेषां शरीरं प्रमाणोपेतमासीत् । तेषां वर्णः श्याम आसीत् । ते मधुरकण्ठमबिभः । तेषां मुखमुद्रा प्रशान्ता गम्भीरा चाऽऽसीत्, किन्त्वनेकशस्तेषां मुखकमले मधुरं हास्यमभवत् ।
तेषामात्मा वैराग्यरागेण रक्त आसीत् । मया तेऽनेकशोऽनेकदृष्टिभिर्निभालिताः, किन्तु कदापि तेषु न्यूनतां : नापश्यम् । यत्र वैराग्यमुत्कटमस्ति तत्रोत्तमसंयमपालनमप्यस्ति इति तु निर्विवादमेव ।
मयेदमनुभूतं यज्जीवः प्रथमं वैराग्येण वासितः स्यात् । किन्तु शनैः शनैर्लोकषणापवनस्पर्शनेन तस्य वैराग्यं हीयते। विहितक्रियाकरणेऽपि तस्याध्यात्मिकभावः यशः-कीर्तिप्राप्तेरस्ति, अतः क्रियासु तस्य हृदयं तन्मयं न भवति । तस्य । हृदयेन सह सम्बन्धोऽतीव हीयते । फलतस्तस्य साधना तेजःरहिता भवति सश्च भोगपिपासुरितरमनुष्यसादृश्यं बिभर्ति।
लौकैषणापवनः पन्न्यासपद्मविजयान्नास्पृशत् । अत्र विधाने लेशमात्राऽप्यतिशयोक्तिर्नास्ति । तेऽनेकशो मामकथयन्यत् "सम्प्रति बाह्यभावप्रलोभनान्यतीव वृद्धानि । यदि वयं सावधाना न भवामस्तर्हि प्रसिद्धिपिशाचोऽस्मासु प्रविशति । किन्तु तत्र स्वहितं लुप्यते । जनास्तु स्तोककालं प्रशंसेयुः किन्तु तेनाऽत्मनः को लाभः ?''
जैनधर्मसिद्धान्तेषु तेषां दृढा श्रद्धाऽऽसीत् । 'तमेव सच्चं । निस्संकं जं जिणेहिं पवेइयं इदं सूत्रं तैरात्मसात्कृतम् ।। तेषां तत्त्वरमणताऽप्युत्तमाऽऽसीत् । सूत्रसिद्धान्तांस्ते सततं
Page #67
--------------------------------------------------------------------------
________________
में समतासागरचरितम्
-
- ११९
+ १२०
amkarandargam- समतासागरचरितम् ।
परिशीलितवन्तः । इत्थं तेषामात्मविहारः सदोत्तमभावनास्वभवत् ।
'अहमात्मा देहभिन्न' इति मुखेन भाष्यते तर्कैश्च साध्यते, किन्तु जीवने तस्यानुभवो दुर्लभोऽस्ति । लघुशल्येन विद्धेऽपि शरीर आर्तध्यानं भवति, पीडामुक्त्युपायाश्च प्रयुज्यन्तेऽस्माभिः। किन्तु पद्मविजया आत्मानं ज्ञातवन्तो बहुशश्वात्मस्वरूप एव लीना अभवन् । अत एव ते भयङ्करकेन्सरव्याधौ चिरं पीडाः सोढवन्तः, विविधव्याधिषु प्रहरत्स्वपि लेशमात्रमपि नोदविजन् । तेऽकथयन्- 'व्याधिः कर्मजन्योऽस्ति, कर्मोदयेन स आगच्छति स्वीयं फलं दर्शयित्वा । गच्छति । तत्र किमर्थं शोकः संतापश्च ? अस्माभिस्त्वात्मा रक्षितव्यः । तस्य ज्ञानदर्शनादिगुणाः शाश्वताः सन्ति, चोरयितुं । न शक्यन्ते ।
ईदृगनेकगुणस्वामिनस्ते प्रेमसूरीश्वराणां पंन्यासभानुविजयानां सकलसङ्घस्य मादृशानेकेषां च हृदये बहुमानपूर्ण स्थानं प्राप्नुवन् ।
तेषां कालधर्मोदन्तं प्राप्य वज्राघातोऽनुभूतः । तेषां । प्रशान्तता-सहनशीलता-संयमैकनिष्ठता अद्भूता आसन्। तेषां स्मरणे जाते मम मस्तकं सहसा तचरणयोर्नमति ।। सम्प्रति तेऽस्माकं मध्ये न सन्ति किन्तु तेषां चारित्रमधुरसुवासश्चिरस्थायी भविष्यति । ते महान्तं बोधमयच्छन्। दीर्घव्याधौ त आत्मबलमस्फोरयन्शान्तिं चाधारयन् । इदं हृदयस्य प्रत्येकतन्तौ वीतरागवाण्या रञ्जिते सत्येव सम्भवति।
अहं मन्ये यत्तैर्जितं मृत्युना च पराजितम् । स्वा-: प्रतिमोज्ज्वलचारित्रेण तेऽमरा अभवन् ।
अद्यापि तं वन्दनीयविभूतिं मुहुर्मुहुर्वन्दित्वाऽहं कृतार्थमात्मानं मन्ये । शासनदेवतां च प्रार्थये यज्जैनश्रमणसङ्घ: ईदृशविशेषरत्नैरुज्ज्वलो कर्तव्यो येन जिनशासनं दिगन्तेषु - प्रसरेत्सर्वे प्राणिनश्च जिनशासनतात्त्विकरहस्यं प्राप्नुयुः। १३) गुरुभक्ताः पंन्यासपद्मविजयाः - ___ कडियाकेशवलालपुत्रचीमनलालः
श्रावणकृष्णैकादशीदिने पिण्डवाडासङ्घस्य तारः । मिलितः- पन्न्यासपद्मविजयाः समाधिना कालगताः । तदुदन्तेन सकृत्तु हृदयमरोदित्, किन्तु 'समाधिना' इति पदमहं चिन्तितवान् ।
पन्न्यासपद्मविजयैः सह ममाऽतीव परिचय आसीत्। ते प्रभूतवर्षान्यावत्केन्सरव्याध्यसह्यवेदनां समतयाऽसहन्त ।। तीव्राशाताया ते कस्या आराधनाया बलेन समाधिं धृतवन्तः? अस्य प्रश्नस्योत्तरं प्राप्तुं मया तेषां जीवने दृष्टिपातः कृतः, तथा च ज्ञातं मया- 'तैर्जिनेन्द्रशासनस्य प्रामाणिकतया सेवा कृता, गुरुजनानां सत्यहृदयेन त्रिविधा भक्तिः कृता । ते : प्रेमसूरीश्वरमुखनिःसृतवचनानामक्षरशः पालनमकुर्वन्, स्वकीयानुकूलताप्रतिकूलते नागणयन् । गुरुजनाज्ञां ते शिरसा स्वीकृतवन्तः। ते स्वमतप्रसिद्धिं भक्ताञ्जनप्रशंसां च कदाचिदपि नापेक्षितवन्तः । तत ईदृग्महापुरुषानामन्तिमसमये सम्पूर्णजीवने च कथं समाधिर्न स्यात् ? तैर्गुरुजनाः स्व
Page #68
--------------------------------------------------------------------------
________________
समतासागरचरितम् Prerakatrikramator- १२१
4 १२२
mirmiri
- समतासागरचरितम् ।
परिचयागतानेकात्मानश्च संतोषिताः, ततोऽस्मिञ्जीवने भाविजन्मसु च ते कथं समाधिं न प्राप्नुयुः?
ते स्वेच्छया कदाचिदपि न विहृतवन्तो नाप्यौषधं कारितवन्तः । शुश्रुषा-तपः-स्वाध्यायादिष्वपि ते स्वेच्छां स्वाभिप्रायं वा प्राधान्यं न दत्तवन्तः । तेषां चिरपरिचयेन मयाऽनुभूतं यत्ते न केवलं प्रेमसूरीश्वराणामाज्ञां पालितवन्तः किन्तु तेषामिच्छानुसारेण जीवितवन्तः । पूज्यपादानां हृदयभावनां ज्ञातुं तदनुसारेण च वर्तितुं ते सदाऽभ्यलषन्।
तेषां साधुजीवनमुत्तमत्याग-तप-औदार्य-मैत्री-प्रवचनमातृपालनादिगुणसुगन्धेन सुवासितमासीत् । तदुपरि च ते । प्रेमसूरीश्वरान्प्रति भक्तिमन्तः समर्पिताश्चाऽऽसन् । तेषामनेन गुणकोषेण रञ्जितैः प्रेमसूरीश्वरैस्तेषामात्मन्यपरिमिता उपकाराः वर्षिताः । लघुवृद्धसर्वमुनयः पद्मविजयान्प्रति स्नेहवन्तो भक्तिमन्त आदरवन्तश्चाऽऽसन्, अतस्तेषां स्वर्गगमनेन सर्वे व्यथिताः सन्ति । किन्तु यद् भाव्यं तद्भवत्येव । प्रेमसूरीश्वरहृदये तैरद्वितीय स्थान प्राप्तम्। पन्न्यासपद्म
विजयेभ्योऽनन्तशो वन्दनाः । * १४) हरिभाई डोक्टरः ।
अन्तिमक्षणेऽहं न प्राप्नवं ततः क्षमा याचे । अहं तान्विस्मर्तुं न शक्नोमि न शक्ष्यामि । वयं तु मनुष्याः। अस्माकमपि मर्यादाः सन्ति । केन्सरमहाव्याधावपि तै राटिर्न कृता (याऽन्यैः केन्सररोगिभिः क्रियते) । ततो वयं चिन्तामुक्ताः कृताः । तेषां विरहेण सहाऽहमिदं विज्ञपयामि यद्यदाकदाचिदपि ममऽऽवश्यकता भवेत्तदा भयं विनाऽहमा
कारणीयः । अन्तिमश्वासं यावदहं युष्माकं सेवायामुपस्थितोऽस्मि। युष्माकं सेवयाहमानन्दपूर्णो भविष्यामि । युष्माकं सेवा मम गौरवप्रदा भविष्यति । पन्न्यासपद्मविजयाः प्रेम-* सहितां शान्तिं प्राप्यासुः ।
- डो.हरिलाल ए. शाह, कोट, मुम्बापुरी। १५) श्री जैन श्वे.मू.तप.संघ (सुरेन्द्रनगर)
सकलसङ्घन धर्मबुद्ध्या तीव्र आघातोऽनुभूतः ।। समतावारिधीनां, संयममूर्तीनां, भव्याराधकानां पद्मविजयानां जीवनसाधना सुरेन्द्रनगरसङ्घनैकं वर्ष यावत्सततं निभालिता। ततस्तेषां, वियोगोदन्तेन सर्वे व्यथिताः सन्ति। असाध्यव्याधिदुःखपूर्णदिनेषु तेषां तपोज्ञानाराधनाऽपूर्वाऽऽसीत् । तस्य साक्षीभूतः सुरेन्द्रनगरसङ्घोऽस्ति । अत्र : तैः कृताया अन्तिमाराधनाया हृदयङ्गमप्रसङ्गं सर्वे । सङ्घसभ्याः कदापि न विस्मरिष्यन्ति । अप्रमत्तात्मभ्यस्तेभ्योऽस्मच्छ्रीसङ्घस्य कोटिशो वन्दनाः... - श्री जैनश्वेताम्बरमूर्तिपूजकतपागच्छसङ्घः
- सुरेन्द्रनगरम्। मन्त्रिणः - बापालाल मनसुखलाल शाह, मनसुखलाल चुनीलाल महेता, उमेदचन्द बेचरदास शाह १६) बापालाल मनसुखलाल - सुरेन्द्रनगर
रोगोदयेऽपि पद्मविजयानामनुपमा समतां तपोज्ञानोत्कटाराधनां च यदा स्मरामि तदा मस्तकं तच्चरणयोनमति । अत्र ते एकं वर्ष यावस्थिताः । तदा तेषाम
Page #69
--------------------------------------------------------------------------
________________
* समतासागरचरितम् A
m ergard-१२३
4 १२४
marriagem- समतासागरचरितम् ।
40
+40+2
प्रमत्तावस्था याऽस्माभिः साक्षादृष्टा साऽन्यत्र द्रष्टुं दुर्लभा तेषां वियोगेन शासनस्य बहु लुप्तम्। किन्तु तैर्जीवनं जितम् । तेषामात्माऽल्पभवमुक्तिगाम्यासीदिति निःशङ्कम् । प्रेरणादायकस्य जीवनसाधकस्य कोटिशो वंदनाः । १७) रतिलाल जीवणलाल, वढवाण ।
अस्मत्समुदायादेकममूल्यं रत्नं गतम् । जिनशासनस्य कोहीनुरहीरकं लुप्तम् । अधुना तत्सदृशमन्यं महात्मानं जनयित्वैवास्माभिः सन्तोषो मन्तव्यः । पद्मविजयानां समतात्याग-तपश्चर्या-साधुसम्पादनभावनाप्रयत्नादिगुणा अनेकशः स्मर्यन्ते । १८) वोरा रतिलाल डुंगरशी-सुरेन्द्रनगर ।
अस्माकं कुटुम्बेनाघातोऽनुभूतः । सर्वे सङ्घजना अपि व्यथिताः सन्ति । तेषां ममोपरि प्रभूता उपकाराः सन्ति। युष्माकं समुदायस्य शासनस्य च महती हानिर्जाता । तीव्रवेदनास्वपि सततं सहनशीलता, भयङ्करकेन्सरव्याधा-वपि । मासक्षपणादिकास्तीवास्तपश्चर्याः, आवश्यकक्रियासु सम्पूर्णजागृतिः, संयमयोगेऽप्रमत्तता, गुरुसमर्पितभावः, स्वाध्यायमग्नतेत्यादयस्तेषां गुणा अनेकशः स्मर्यन्ते। तैस्तु समाधिना चारित्राराधनां कृत्वा स्वजीवनं धन्यीकृतम्। किन्तु तेषां । गमनेनास्मादृशाज्ञानिजीवाः शुभप्रेरणाभ्यो वञ्चिताः। १९) चंपकलाल नारणदास-सुरेन्द्रनगर ।
समुदायादेकं रत्नं गतम् । ततः समुदायस्य महती हानिर्जाता । मादृशप्राकृतजनोपरि तैः प्रभूता उपकाराः
कृताः। तैरस्मभ्यं प्रभूतं दत्तम् । दशवर्षान्यावत् केन्सरव्याधौ समाधिं धारयित्वा नूतनकर्मबन्धमकृत्वा पूर्वोपार्जितकर्माण्यस्मिन्नेव भवे क्षपितानि । अस्माभिस्तु साक्षादृष्टं यत्तेषां । सहनशक्तिः समता चानुत्तर आस्ताम् ।
यदि शासनरागः प्रत्यण्वेकीभूतः स्यात्तर्खेव भयङ्करकेन्सरव्याध्यसह्यवेदनासु समाधिर्धारयितुं शक्या। केन्सरव्याधिनामश्रवणमात्रेण केचिद्वेपन्ते । तदा पद्मविजयास्तु ! केन्सरव्याधौ शांति सहनशीलतां चाधारयन् । जिनशासनं । तेषामात्मनि परिणतं । तेषां प्रबलेच्छाऽऽसीद्यदन्तिमसमये । समाधिमरणं भवेत् । सा तु युष्मत्कृपया पूर्णा ।। २०) कान्तिलाल चुनीलाल कमलशी, हलवद ।
आदर्शरुपप्रेरणादातृसाधोः स्वर्गमनेन वयमतीव व्यथिताः । स्मः । शारीरिकभयङ्करव्याधावपि तेषां समताऽप्रमत्ताराधनोग्रतपश्चर्या दृष्ट्वा सम्प्रत्यपि पूर्वकालस्य स्मरणं भवति। घोराः शारीरिकापदः समतया सोढ्वा तैरपूर्वा कर्मनिर्जरा साधिता, तथा चानुपमं कल्याणं साधयित्वाऽनेकेषां बोधदायकदृष्टान्तभूता अभवन् । तेषां पवित्रजीवनस्यानमोदनेन । कृतार्थतामनुभवामि । २१) तलकचन्द नानचन्द शाह, दादर, मुम्बापुरी ।
कालगतोदन्तं प्राप्य वज्राघातस्येव हृदयवेदना जाता। तैरन्तिमसमयं यावच्छोभना समता धृता । तत्त्वानन्दविषयोऽस्ति । तेऽस्मादृशबालजीवानां परमहितैषिण आसन्।। मुर्खा वयं तैर्मानवाः कृताः । अद्यास्माकमाशा अभञ्जन्।
•e+
ने
Page #70
--------------------------------------------------------------------------
________________
* समतासागरचरितम् +80salmurder-१२५
+ १२६
amkarandargam- समतासागरचरितम् ।
परमोपकारिणो गुरुदेवा गताः । तत्त्वस्माकं दौर्भाग्यस्य फलम्। २२) बाबुलाल भगवानजी, दादर-मुम्बापुरी
अस्मादृशप्राकृतजनेषु तेषां निःसीमोपकारोऽस्ति । पठन आत्मजागृतिसम्पादने च तैरस्माकमुपरि प्रभूता उपकाराः कृताः । ममोपरि तु तैरुपकाराणामविरतवृष्टिः कृता । सम्प्रति तल्लिखितपत्राणि दृष्ट्वा ममात्मा रोदिति- ईदृशानि । पत्राणि लिखित्वाऽधुना मां को जागरयिष्यति ?' तैस्त्वखण्डसमाधिधृता । विपुलां कर्मनिर्जरां सम्पाद्य योगीव ते निरगच्छन् । देववन्दनान्तरमत्र विराजमानैः पूज्यपन्न्यासभद्ङ्करविजयस्तेषां प्रभूतो गुणानुवादः कृतः ।। २३) जयसुखलाल चुनीलाल शाह, दादर -मुम्बापुरी ।
अस्मत्कुटुम्बेन दादरसङ्घन च तीव्र आघातोऽनुभूतः। श्रीसङ्घपुण्योदयेन तैश्चत्वारश्चातुर्मासा अत्र कृता अनेकजीवाश्च प्रतिबोधिताः । मादृशाज्ञानिजीवा उपदेशेन धार्मिकाः कृताः । तन्निश्रायां मया वर्धमानतपसो मूलं बद्धं तदुपदेशेन च बृहत्सिद्धचक्रपूजनं कारितम् । वयं त्वेतत्सर्वानभिज्ञाः आसन्किन्तु तदुपदेशेन ज्ञानप्रकाश आत्मनि प्रादुर्भूतः । सोऽपि तेषामेव प्रभावः। अनया रीत्या तु तैरनेके प्रतिबोधिताः ।
तेषु दूरे स्थितेष्वपि पत्रलिखनद्वारेण तेऽस्मान्प्रेरितवन्तः । तेषामनन्ता उपकारा अस्मासु सन्ति । प्रभूतवर्षंस्ते भयङ्करव्याधिनाऽपीडयन्त । किन्तु प्रेमसूरीश्वराणां कृपामयनिश्रायां तैरचिन्त्या सहनशक्तिः प्राप्ता । प्रभूता
ऽऽराधनास्तैः कृताः । तेषां गमनं सर्वेषामसह्यमस्ति ।। २४) शान्तिलाल पानाचन्द, दादर
पन्न्यासपद्मविजया गताः, जगति विद्युदपतत्। तैर्दादरसङ्घोपरि कृता उपकारा अवर्णनीयाः सन्ति ।। दादरसो तैश्चत्वारि चातुर्मासानि कृतानि । भयङ्करव्याधावपि वेदनामवगणय्य तैरस्माकमुपरि कृतानुपकारांस्तु वय-* मेव विद्मः। तैरुपकारिभिः कज्जलश्यामाज्ञानान्धकाराद्वयं परमतेजस्यानीताः । यदि तादृशनिग्रन्थोपकारिणो नामीलिष्य स्तदाऽस्माकं का दशाऽभविष्यत् ? अस्माकं जीवननौर्भवसमुद्रे न्यमझ्यत् । लघुवयस्येव ते परलोकं गताः । यदि ते स्तोकवर्षानधिकमजीविष्यंस्तदाऽस्मादृशदीनजनान्दुस्तरभवसमुद्रादतारयिष्यन्, किन्त्वस्माकं दुर्दैवयोगात्तेषां वियोगो जातः ।
भयङ्करव्याधिमपि ते तिलमात्रमप्यार्तध्यानमकृत्वाऽसहन्त । नूनं तैः कर्मारिः पराजितः । यद्यपि कर्मणा ते प्रहृतास्तथापि तैः सत्त्वेन सः पराभूतः । यदि तेषां स्थानेऽन्यः कश्चिदभविष्यत्तदा सो विषं जग्ध्वाऽऽत्महत्यामकरिष्यत् । किन्त्वेते तु जिनशासनाराधका आसन् ! आत्म-कर्मशरीराणां ज्ञातारो महाज्ञानिन आसन्।
युष्मत्सदृशमहोपकारिनिश्रावर्तिनः समर्पितस्यऽऽत्मनो निस्तारे न कापि शङ्काऽस्ति । २५) मणिलाल रतनचन्द, अमदावाद |
पन्न्यासपद्मविजयास्तु प्रेमसूरीश्वराणां दक्षिणहस्तरुपा
Page #71
--------------------------------------------------------------------------
________________
4 १२८
%e0
%antra
- समतासागरचरितम् ।
..)
में समतासागरचरितम् -
- १२७ आसन् । प्रेमसूरीश्वराणां पत्रव्यवहारं तेऽतीव कुशलतयाऽकुर्वन्, ततस्ते युष्मान् (पं.भानुविजयान्) निश्चिन्तानकुर्वन्। तथा च यूयं शासनकार्यकरणार्थं प्रभूतं समयं लब्धवन्तः । किञ्च सकलसमुदायस्य सारणावारणादिकरणे ज्ञानध्यानाचारविचारप्रेरणे च तेऽतीव कुशलाः आसन् । व्याधावपि ते सर्व कार्य सुष्टु सम्पादितवन्तः । ममोत्कर्षार्थमात्मविकासाथ च पुनः पुनोऽन्तःकरणेन प्रेरयन् । मम परिचये मया ते : कदाचिदपि क्रोधयुक्तवचनानि भाषन्तो न दृष्टाः । मया ते । सदैवोपशमभावे स्नान्तो दृष्टाः । तेषां सौम्यदर्शनेन शीतल-: वाण्या साधनाबलेन च यः कोऽपि तेषामन्तिकमागच्छत्सो विनाऽयासेन धर्म प्राप्नोत् । ते युष्माकमादर्शशिष्यरत्नभूता आसन् । निर्दयकृतान्तेन कोहीनूरहीरकं प्रसह्य गृहीतम् ।। त आत्मकल्याणं साधयित्वा तस्य सुगन्धं समुदाये जैनशासने च व्यस्तारयन् । सर्वेभ्यो भूरि भूरि सुकृतानुमोदनावसरं प्रायच्छन् । यावजीवं ते साधनामग्ना आसन् । २६) कुमारपाल छोटालाल शाह, मुम्बापुरी -
(मुनीश्रीविश्वधनविजयः)
दुःखदोदन्तश्रवणेन भयङ्करमाघातमन्वभवम्। पूज्याः! किमिदं कालपिशाचेनाविचार्य कृतं यदस्माकं जीवनसारथिरित्थमकाले कवलीकृतः। दौर्भाग्येणाऽन्तसमयेऽहं तान्नापश्यम्। यदि तेषामिषत्सुचारुस्वास्थ्योदन्तमहं नालप्स्ये तर्हि यथाकथञ्चिदपि तत्र प्राप्स्यम्। अस्मन्मध्यान्न केवलमेका पंन्यासप्रवरा गताः किन्तु परमहितेच्छुतात्त्विकनेतृपूजनीय
महापुरुषा गताः । अद्य तेन कालरक्षसाऽस्मत्सकाशादेकममूल्यं रत्नं बलादाक्षिप्तम् । यदि तेऽजीविष्यस्तदाऽनेकसाधकजीवजीवनं प्राज्वालयिष्यन्, मादृशहीनजनमपि मूकभावेन तेऽवश्यमतारयिष्यन्ननेकात्मनः सुपथमनेष्यन्, किन्तु : ह ! हा ! विधिना स्वविकल्पितमेव कृतम् ।
शासनदेवः पुण्यदेहत्यकृमहात्मभ्यः परमां शान्तिमर्पयतु। २७) चतुरदास- (पद्मविजयानां संसारीलघुबन्धुः)
परमोपकारीणां पूज्यपंन्यासपद्मविजयानां सेवायां
सेवकचतुरदासस्य कोटिशो वन्दनाः। युष्माकं स्वास्थ्योदन्तं बहुशः प्राप्यते । कृपालूनां युष्माकं समतागम्भीरतेऽतीवानुमोदनीये । यूयं चारित्रं स्वीकृत्य तत्परिपूर्णतया पालयथ, तदृष्ट्वाऽस्मिन्काल आश्चर्य प्रतिभाति। परमोपकार्याचार्यभगवत्कृपान्तरङ्गममताभ्यां युष्मत्कृपालूनामुपरि चमत्कृतिः कृता। तेषां महापुरुषाणां युष्माभिः कृतोत्तमोत्तमा सेवा सफलीभूता । भयङ्करव्याध्युपसर्गे प्रच्छन्नसाहाय्यं कः करोति? गुरुसेवाया एवेदं प्रत्यक्षफलं नान्यत्किञ्चित् । युष्माकमयं प्रसङ्गोऽनेकेभ्य आत्मभ्यः प्रेरणां ददाति। युष्मत्कृपालूनां तान्प्रति भक्तिसमर्पणभावाववर्णनीयौ । तल्लिखतो मम हृदयं भियते । 'कृतं कदापि निष्फलं न भवति' इति न्यायेनैतेषु । संयोगेष्वस्मिन्नेव च भवे युष्मासु सर्वमेवोदीर्णमिति निर्णीयते। युष्माभिः प्रथमत एव शुभकर्त्तव्यानि कृतानि । अतोऽद्य यूयं । निर्भयाः स्थ । तस्या निर्भयतायाः सुवासः सर्वत्र प्रसरन्नस्ति।
युष्माभिः सिंहवचारित्रमार्गः स्वीकृतो गुरुवैयावृत्त्य
Page #72
--------------------------------------------------------------------------
________________
समतासागरचरितम्
विनयादिभिश्च सिंहवत्तं पालयथ, अतो युष्माकं केभ्यश्चिद् भयं नास्ति । महात्मानः मृत्य्वादिभ्यो न बिभ्यति । यस्य समीपे सदैव महात्मानो वसन्ति, प्रतिक्षणं येन नवकारमन्त्रश्रवणं प्राप्यते, यस्यान्तरङ्गदीपो ज्वलन्नस्ति तस्य कस्माद्भयं भवेत् ? युष्माकं समाधिर्निरवधिकाऽस्ति । सर्वेषां मुखादुद्गारा निःसरन्ति- तात ! इदं तु कथं सोढव्यम् ? युष्मत्सन्मुखोपविशन्जन आश्चर्यमुग्धो भवति । सङ्क्षेपेण न केवलं युष्माभिः संयमजीवनमुज्ज्वालितं, किन्त्वस्मत्कुलमप्युज्ज्वालितम्, समस्तः समुदाय उज्ज्वालितः, युष्मान्प्रति साधूनां हृदयस्था भावा अमूल्याः सन्ति । युष्मदाराधकभावयत्किञ्चित्सुवासोऽस्मादृशप्राकृतात्मस्वागच्छेदिति शुभभावनया सह विरमे ।
सेवकचतुरदासस्य कोटिशो वन्दनाः । (सुरेन्द्रनगरे
व्याधिसमये लिखितं पत्रम् ।)
फैफैफै
१२९
१३०
小
*
#
+
*
*
*
*
小
समतासागरचरितम्
परिशिष्ट २ परमपूज्यपंन्यासप्रवरश्रीपद्मविजय
गणिवराणामनुमोदनाकृते
श्रमणगणस्य सुकृतदानम् ।
प.पू. आचार्यदेव श्रीमद्विजयप्रेमसूरीश्वराः
सपादलक्षस्वाध्यायः ।
पू. पं. कान्तिविजयगणिवरः- एकलक्षस्वाध्यायः ।
पू. पं. भद्रङ्करविजयगणिवरः- सपादलक्षस्वाध्यायः ।
पू. पं. चिन्दानन्दविजयगणिवरः- सपादलक्षस्वाध्यायः ।
पू. पं. मलयविजयगणिवरः- पञ्चाशत्सहस्रस्वाध्यायः ।
पू. पं. हेमन्तविजयगणिवरः- द्वौ वर्षो यावत्
प्रतिवर्षमष्टमासेषु षड्विकृतित्यागः ।
पू. पं. रविविजयगणिवरः पञ्चाशत्सहस्रस्वाध्यायः ।
पू. पं. मानतुङ्गविजयगणिवरः सपरिकरःसपादत्रिलक्षस्वाध्यायः ।
पू. मुनिराज महाभद्रविजयः-पञ्चविंशतिरुपवासाः, षण्मासान्यावत्प्रभुदर्शने स्मरणम् ।
* पू. बालमुनिश्रीपुण्यपालविजयः
पञ्चवर्षैश्चतुः प्रकरण - भाष्यत्रय - बृहत्सङ्ग्रहण्यभिधान
कोष-प्रकरणरत्नसङ्ग्रह भाग १-२-३, प्रवचनसारोद्धारा
नुयोद्वार- लोकप्रकाश- मुक्तावली - बृहन्नवतत्त्व-प्रज्ञापनाभगवती - तत्त्वार्थ- धनञ्जयनाममालानामभ्यासः ।
Page #73
--------------------------------------------------------------------------
________________
* १३२
-
-
- समतासागरचरितम् ।
समतासागरचरितम् -4000- 00 00- १३१ । __उपर्युक्तग्रन्थेभ्यः केषांचित्पठनं, केषांचित्कण्ठस्थीकरणं : केषाञ्चिचोपस्थितीकरणम् । अनेकमुनिभिः कथितागमग्रन्थानां सामान्येन सकृन्निर्देशः कृतः ।
* अन्यमुनिगणसुकृतदानम् * स्वाध्यायः : ६७ लक्षाणि । उपवासाः :५९०। आचामाम्लानि : ८६६ । एकाशनानि : १३०३। निर्विकृतानि : २५५ ।
अष्टमानि : ३७। ४५ आगम-हारिभद्रीयग्रन्थ-दशवैकालिक-योगशास्त्र-- कर्मसाहित्य-षड्छेदग्रन्थ-ज्ञानसार-गुरुतत्त्वविनिश्चयवासुपूज्यचरित्र-दशपर्व-प्रशमरति-योगबिन्दु-धन्यचरित्रप्रकरण-धर्मसङ्ग्रहादिनाथचरित्राध्यात्मसार-शान्तसुधारसादिग्रन्थानामभ्यासः । * १लक्षनमस्काराणां विधियुक्तो जापः । * पञ्चवर्षान्यावत्प्रतिवर्ष दशसहस्रश्लोकमानटीकारचनम् । * यावजीवं मुखवस्त्रिकोपयोगः । * १०१ नमस्कारावलिजापः। * प्रतिवर्ष पञ्चमासेषु षड्विकृतित्यागः । * निरन्तरदशोपवासाः। * द्वौ वर्षों यावत्षड्मासेषु फलादित्यागः । * अष्टाविंशतिवर्षयुवमुनिना नवचत्वारिंशद्वर्षवयसि
वर्धमानतपसः शतौलीकरणम् । (पूज्यानां वयः ४९ वर्षा
आसीत) * एकान्तरितानि पञ्चशताचामाम्लानि । * षड्मासान्यावन्मिष्टान्नत्यागः। * सहस्रश्लोककण्ठस्थीकरणम् ।
* साध्वीगणस्य सुकृतदानम् * स्वाध्यायः
: २४ लक्षाणि । उपवासाः
: २८९। आचामाम्लानि : १०८७। एकाशनानि
: ८०५ । द्यशनानि
: ८०३ । षष्ठानि यात्राः
: २३४ । अरिहन्तपदजापः : ५ लक्षाणि । शर्खेश्वरपार्श्वनाथ जापः : ५१,०००। नमस्कारजापः
६ लक्षाणि। नूतनगाथाकण्ठस्थीकरणम् : २,०००। मौनधारणम्
२,००० घण्टाः । वर्षीतपः षण्मासीतपः * श्रावक श्राविकासङ्घस्य सुकृतदानम् * उपवासाः
:: ३११ । आचामाम्लानि : ३,८४०।
Page #74
--------------------------------------------------------------------------
________________
में समतासागरचरितम् -go-famerator- १३३
4 १३४
kapoorrigat- समतासागरचरितम्
एकाशनानि
: २,०८८ । सामायिकानि
:९,०००। नमस्कारावलिजापः :१७,६४०। पौषधकरणम्
: १४३। द्व्यशनानि : १० वर्षान्यावत् माणेकलालः ।
१० वर्षान्यावत् जयंतिलालः । यात्राः अरिहन्तपदजापः : २१,००० नूतनगाथाकण्ठस्थीकरणम् : १,४०० मौनधरणम्
: ८०० घण्टाः । साधर्मिकवात्सल्यानि : १५ (जेमनानि) शर्खेश्वरपार्श्वनाथ जापः : १२,५००। चतुर्मासीतपः
सप्तक्षेत्रेषु धनदानम् : रुपकाणां सहस्राणि । मी नारायणदासपुत्रचम्पकलालेन सुरेन्द्रनगरसङ्घ ४००
आचामाम्लानि कारितानि । * स्व. प.पू. पं पद्मविजयानां शिष्ट ४० तः १०० ओल्याचा
माम्लानां सुरेन्द्रनगरसङ्घन करणं कारणञ्च । ** पिण्डवाडानिवासीभाटीया चुनीलालो नवपदसामुहिकौली
कारयिष्यति वर्षं यावाच्चोष्णजलेन सङ्घभक्तिं करिष्यति।
एतदुपरि प्रभूतं सुकृतदानं जातं, किन्तु तन्न केनापि लिखितम् ।
परिशिष्ट-३ अत्र तेषां प्रियतमाः केचिच्छ्लोकाः प्रस्तूयन्ते ।। पूज्यमित्रानन्दविजया अकथयन्यदहं श्रीसूत्रकृताङ्गस्येमं श्लोकं ताननेकशः श्रावितवान् । दुःखं दुष्कृतसंङ्क्षयाय महतां क्षान्तेः पदं वैरिणः कायस्याशुचिका विरागपदवी संवेगहेतुर्जरा ।। सर्वत्यागमहोत्वसाय मरणं जातिः सुहृत्प्रीतये, सम्पद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः ।।
महात्मनां दुःखं तत्पूर्वाशुभकर्मोच्छेदाय भवति, शत्रवः क्षमापात्रं भवन्ति, कायाशुचिता वैराग्यकारिणी भवति, वार्धक्यं संवेगजनकं भवति, मृत्युः सर्वत्यागमहोत्सवो भवति, जन्म सज्जनप्रितिकरो भवति । इत्थं दुःखशत्वादिभिर्भूतमिदं जगन्महात्मनां पापक्षयक्षमादिसंपत्तिभृतं भवति । ततस्तत्र तेषां विपत्तिस्थानं किम् ? १) अपत्थियं चिय जहा एई दुहं तह सुहं पि जिवाणं ।
ता मुत्तुं सम्मोहं धम्मेचिय कुणह पडिबंघं ।। २) लहुकम्मो चरमतणू, अणंतवीरिओ सुरिंदपणओवि ।
सव्वोवायविहिन्नु तियलोयगुरु महावीरो || ३) गोआलमाईअहिं अहमेहिं उईरिओ महाघोरे ।
जइ सहइ तहा सम्म उवसग्गपरीसहे सव्वे || ४) अम्हारिसा कहं पुण न सहति विसोहिअव्वघणकम्मा ।
इअ भावंतो सम्म उवसग्गपरीसहे सहसु ॥
Page #75
--------------------------------------------------------------------------
________________
में समतासागरचरितम् -40-yantarctor- १३५
4 १३६ gankraparkripart- समतासागरचरितम्
५) सामण्णमणुचरंतस्स कसाया जस्स उक्कडा हुंति ।
मन्नामि उच्छुपुप्फ व निप्फलं तस्स सामन्नं ॥ *६) इक्कं पंडियमरणं छिंदई जाई सयाई बहुआई ।
इक्कं वि बालमरणं कुणइ अणंताई दुःक्खाई ।। ७) धीरेण वि मरियव्वं काउरिसेण वि अवस्स मरियव्वं ।।
ता निच्छियंमि मरणे वरं खु धीरत्तणे मरिउं ।। १) दुःखवत् सुखमपि अतर्कितमागच्छति, अतो मूढतां
त्यक्त्वा धर्मे एव मतिं कुरुध्वम् ।। २) ३) ४) 'लघुकर्मी चरमशरीर्यनन्तवीर्यशाली देवेन्द्रनतः
सर्वोपायविधिज्ञस्त्रिलोकगुरुः श्रीमहावीरोऽपि यदि गोशालकाद्यधमजनकृतमहाघोरोपसर्गपरिषहान् प्रसन्नतया विसोढवाँस्त स्माभिरवश्यसोढव्यानि कर्कशकर्माणि कथं सहर्ष न सोढव्यानि' इति भावयन्नुपसर्गपरिषहान्सहस्व
समतया। ५) श्रामण्यं पालयतो यस्य कषाया उत्कटा भवन्ति तस्य
श्रामण्यमिक्षुपष्पमिव निष्फलं भवतीत्यहं मन्ये । ६) एकं पण्डितमरणमनेकशतजन्मोच्छेदं करोति, एकं ।
बालमरणमनन्तानि दुःखानि जनयति । ७) धीरेणापि मर्त्तव्यं, कातरेणापि मर्तव्यं, ततो यदि मरणं
निश्चितमस्ति तर्हि धीरमरणमेव सर्वश्रेष्ठम् ।
समाधिसाधकानि प्रेरणापत्राणि दीर्घकालीनवेदनायुक्तव्याधौ पद्मविजया अगाधशास्त्रबोधान्तरजागृतिप्रतापेनाखण्डा समाधिं धृतवन्तः । तेऽनेकशोगुरुदेवान्प्रेरणावचनाप्रदानायाभ्यार्थयन् । पूज्यगुरुदेवा अप्यनेकशः प्रेरणाः प्रोत्साहनं समाधिदायकहितशिक्षाश्चार्पितवन्तः। तान्यत्र प्रदर्श्यन्ते । तत्पूर्व गुरुदेवैस्तेषामुपरि लिखितेभ्यः पत्रेभ्यः प्रेरणावचनामृतान्यत्र प्रस्तूयन्ते । १) अमदावाद, का.शु.१२/१
विनयादिगुणोपेतमुनिश्रीपद्मविजयं प्रत्यनुवन्दनादि । विश्रामेण सह समाधिकृतेऽपि विशेषेण यतितव्यम् । कर्मोदयं सोदवा तद्भारमल्पीकर्त्तव्यम् । अतो महर्षय इव कर्मवेदनमुत्सवरुपं मन्तव्यम् । शुभाध्यवसायपरिणतिरुच्चैर्धर्तव्या ।। यूयं सर्वविरतिं प्राप्ताः। अतश्चेतनाचेतनमहाविवेकस्याध्यात्मचिन्तनागाधाभ्यासस्य चानुकुल्यं प्राप्तम् । यदि पुद्गलं स्वीयं कार्यं करोति तस्माभिः स्वीयं कार्य कथं विस्मर्त्तव्यम्? २) अमदावाद, का.शु.३
आन्तराशुभपरिणतिसंयमनं, अर्हद्गुरुदेवाचिन्त्यप्रभावं प्रति प्रबला श्रद्धा, उत्पादव्ययध्रौव्यमहासत्ताया विश्वविश्वे साम्राज्यं, महापुरुषैाधिषु घोरोपसर्गपरिषहेषु च धृतं भेदज्ञानं त्यक्तं देहाध्यासं इत्यादिचिन्तनेषु चित्तमेकाग्रं कर्त्तव्यम् ।
शरीरममत्वाद्वयाधिदशायां मनस्तत्रैव भ्रमति। तत्प्रतिकृत्यर्थं प्राथमिकाभ्यासरूपेण श्रीनमस्कारमन्त्राक्षरेषु मनः स्थिरीकर्तव्यम्, नमस्कारमन्त्रैकैकाक्षरस्य पृथ'पृथग्दर्शनं
29
Page #76
--------------------------------------------------------------------------
________________
में समतासागरचरितम्
-
- १३७
4 १३८
orkatarkar
समतासागरचरितम् ।
NA
कर्त्तव्यम्। विविधा वैराग्यभावनाः पुनः पुनर्भावयितव्याः ।। ३) अमदावाद, कालुशीपोल, भा.व.३
स्वास्थ्यस्याचारुता ज्ञाता । मा विह्वला भवत । वनवासिनरवदस्माभिरपि कर्मबन्धनबद्धैरिदमवधार्य यदत्र तु विषमतैव स्यात्, समता तु कुतः ? ४) अमदावाद, अषाढ कृष्ण ७
युष्माकमस्वास्थ्योदन्तं ज्ञात्वा चिन्ता जायते । मा कुविकल्पान्कुरुत । बद्धकर्मफलानुभवनेऽप्रमत्तात्मनः कुतः कुविकल्पाः ? श्रीअर्हदेवानां शासनं प्राप्तं तत्महा-पुण्योदयं । मत्वाऽऽरोग्यहानि तुच्छां गणयध्वम् । साधकस्य परीक्षाप्रसङ्गा आत्मसुवर्णशुद्धिकारकाग्नितापसमानाः सन्ति। त उत्तरणीयाः । तत्त्वदृष्टिदीप्तिरवश्यं वय॑ति । आगामि-दिव्यदर्शनभागे । 'धीरतायै बोधः' विषयो मननपूर्वकं पठनीयः।
महापुरुषाः रोग विना भयङ्करोपसर्गानसहन्त । अस्माभिस्तु स्वकृतकर्मजन्यरोगाः सोढव्याः । तेषां सहर्ष सहनस्य सत्त्वं धर्त्तव्यम् । आत्मनो निर्विकारं निरासङ्गं नीरोगं स्वरुपं भावनीयम् । चित्तस्वास्थ्यसदृशमन्यदारोग्यं जगति न विद्यते। यदि तद्विद्यते तर्हि शरीररोगस्य तु का गणना ? तत्त्वभावनासु मग्नैर्भूत्वौषधोपचाराः कर्त्तव्याः ।। ५) अमदावाद, कालुशीपोल, मा.शु.३
आध्यात्मिकोपायेषु विशेषेण लक्षितव्यम् । यूयं प्राज्ञाः । स्थ । अधिकं किं लेखनीयम् भवेत् ? किन्तु देवाधिदेवं
प्रति विकसन्समर्पणभाव एतत्स्थितावतीवोपयोगी भविष्यति।
आन्तरपरिणतिरतीवोचैः सम्पादनीया यत् 'सर्व' समीचिन-1 महत्प्रभावेणैव सिध्यति । अतो निरन्तरं प्रभुसमीपे प्रार्थना कर्तव्या- 'भो नाथ ! तव कृपया सर्वं समीचिनं भविष्यति'इति मम श्रद्धा प्रतिदिनं वर्धमाना भवतु ।' ६) अमदावाद, श्रावण कृ.११
पत्राणि मीलितानि । निद्रा नागच्छतीति ज्ञातम् । तदुपचारार्थं च स्वपनसमये धारणां हृदये स्थिरीकृत्य 'ॐ ह्रीं अर्ह श्री शंखेश्वरपार्श्वनाथाय नमः' इति मन्त्रस्य जापः कर्त्तव्यः । हृदये जिनबिम्बं द्रष्टव्यम् ।
अन्यविकल्पान्निरुध्य कर्मविपाक-अर्हदुपसर्गभवितव्यता-आत्मनैश्चयिकस्वरूपादि-सूक्ष्मचिन्तनं कर्त्तव्यम्। ‘एगो मे सासओ अप्पा' इति वृत्तं परिभावनीयम् । एतत्संयोगेषु सत्त्वमतीव विकसितव्यम् । भूतपूर्वा भूयमाना चाराधना नैव निष्फलीभवति । शेषा चाराधना नात्रैव पूर्णीभविष्यति किन्त्वनेकजीवनसाधनाभिः पूर्णीभविष्यति ।
प्रणिधानप्रवृत्तिविघ्नजयसिद्धिविनियोगसङ्कलनाया श्चिन्तनेन विषमसमस्यासमाधानमाराधनारहस्यं च ज्ञानगोचरी भविष्यति । उपर्युक्तानां पञ्चशुभाशयानां विचारणायै योगविंशिकाप्रथमश्लोकटीकोपयोगपूर्वकं विलोकनीया ।। ७) भावनगर, फाल्गुन कृ.९
युष्मत्स्वास्थ्याचारुताज्ञानेन चिन्ता जायते । इतस्तूर्णं विहृत्य तत्रागमनाय मनसि निर्धारः कृतोऽस्ति ।। योग्या उपचारा प्रवर्त्तितव्याः, अयं तु विपाकविचय
Page #77
--------------------------------------------------------------------------
________________
में समतासागरचरितम् +000-
- १३९
4 १४०
e0
%antra
- समतासागरचरितम् ।
धर्मध्यानस्यावसर आगतः । अत्र कर्मनिर्जराऽर्जनीया ।। संसारे जन्म त्वाधिव्याध्युपाधिकेन्द्रस्थानम् । तथापि तेनैव जन्मना प्रसङ्गोचितधर्मध्यान-शुभभावना-तत्त्वचिन्तनोदासीनपरिणामेषु यदि रमणता साध्येत तदा तदेव जन्म सुलब्धं भवति । इदानीं त्वद्यपर्यंतकृतसाधनादेवगुरुपर्युपास्तिपरिणामदर्शनावसर आगतोऽस्ति । ततस्तत्र मा मूढा भवत। ८) अमदावाद, श्रावण कृ.६
निद्राऽनागमोपद्रवो ज्ञातः । तत्प्रतिकारार्थं दैवसिकप्रतिक्रमणं प्रागेव कर्त्तव्यम् । मनसि न केचिचिन्ताविचारा । आनेतव्याः । प्रशान्तचित्तेन दृष्टिसन्मुखमनन्तसमवसरणादि-: कमालम्बनीकृत्य केवलं जापमाला गणयितव्या । तत्र यदि निद्रा आगच्छति तदा झटिति स्वप्तव्यम् । निद्रागमपूर्व तीर्थयात्राभावनाऽपि प्रयोक्तव्या । यतिदिनचर्यायामयं विधिरपि दर्शितः । सिद्धगिरौ तलहट्टिकाया उपर्यारोहणं, प्रतिस्थलस्पर्शनं, त्रिप्रदक्षिणाकरणमित्यादिकं भावनीयम् । ९) अमदावाद, का.शु.१३
युष्माकं स्थितिस्तीवाशातोदयपूर्णाऽस्ति । किन्तु खम्भातनगरे हस्तपाकपीडावसरे युष्माभिरखण्डा समाधिभृता, तत इदानीमपि समाधिधरण उत्साहो मन्दो न कर्त्तव्यः।। युष्माभिस्तु प्रभूतं पठितम् । दृष्टिसन्मुखं नरकादिदुःखानि द्रष्टव्यानि । वीरप्रभ्वादिमहापुरूषैः सोढानामुपसर्गाणामसाता हीनतरा नाऽसीत् । एतत्सर्वं मनसि धारयित्वा पूर्वभवक्षतिपरिमार्जनरुपाशाताकर्मोदये का बिभीषिका ?
१०) समाधिदायकं प्रेरणामृतम्
'सावधाना भवत । जीवनपर्यन्तं संयमसाधना कृतातत्त्वभ्यासः कृतः । अधुना परीक्षाऽवसर आगतः । तत्र सुसमाधिर्धारणीया । वेदना तीव्रतराऽस्ति । परन्तु : तद्वियोगचिन्तार्तध्यानाभ्यां तन्नाशो न भविष्यति, प्रत्युत नूतनकर्मबन्ध एव स्यात् । आरोग्यनियमपालने सत्यपि * पीडागमो निकाचितकर्मोदयं सूचयति । सस्तु पीडां दत्त्वा पलायते, आत्मनस्तावान्कर्मकचवरं दूरीकरोति, एतस्याऽऽनन्दोऽनुभवनीयः ।
'भो पद्मविजयाः ! युष्माभिस्तु जीवने प्रभूतं सोढम्, : प्रसन्नतया सोढम्, सहने यूयं निष्णाताः सञ्जाताः ।। कर्मप्रहारान्प्रति वक्षःपृष्ठौ सारवन्तौ कृत्वा कर्ममहाराजं कथयत यत्- 'यथेच्छमागन्तव्यं त्वयाऽहं सहनार्थमेवोपविष्टोऽस्मि, त्वं तु ममेषदपि हानि सम्पादयितुमसमर्थः । यतो मत्सकाशे धर्मश्रद्धाचारित्र-देवगुरुकृपा वर्मरुपाः सन्ति।
इदमपि विचिन्तनीयं यदेतानि कर्माण्यस्माभिर्बद्धानि । बन्धसमये यदि शूरवीरता प्रदर्शिता तर्हि तद्विपाकसहने किमर्थं कातरता ? यघृणं कृतं तर्हि तन्निष्क्रयार्थ सावधानेन भवितव्यम्। वस्तुतस्तु वयं पीडां तिरस्कुर्मः, किन्तु तत्कर्मोपार्जनसमयेऽस्मदात्मा यासु मलिनविचारवाणीप्रवृत्तिषु पतितस्ता न जुगुप्सामहे। एतादृगवसरे विचिन्तनीयं त्विदं यत्- 'अहो! ? पूर्व पापकरणवेलायामहं कीदृगधमो निर्लज्जो निर्दयश्चाभवम् ?? देवगुरुधर्मान्विस्मृतवान्, धिग् ! मां पापात्मानम् ।
Page #78
--------------------------------------------------------------------------
________________
में समतासागरचरितम् -Matarafamitractor- १४१
* १४२
generation- समतासागरचरितम् ।
आरोग्यं वा रोगो वाऽनुकूलता वा प्रतिकूलता वा, सर्वे संयोगाः सन्ति । ते तु न शश्वत्स्थास्यन्ति । स्थितौ पूर्णायां तु ते विनक्ष्यन्ति । ततो विचाल आत्मा मोहमूढो न कर्तव्यः ।
इदमवधेयं यचेतो लेशमात्रमपि न मलिनीकर्त्तव्यम्। तेन न कोऽपि लाभः । कर्म वक्रमस्ति । तत्तादृशानि निमित्तान्युत्थापयति येनास्माकं चेतो मलिनीभवेत्, वयं साधनायाश्चलचित्ता भवेमः, किन्तु जैनशासनप्राप्त्यनन्तरं वयं कर्म मोहं च ज्ञातुं शक्ताः स्मः । अधुना तु मनो न । विकल्पजालपाशे पातनीयम् । उक्तञ्च याकिनीमहत्तरा-2 सुन्वाचार्यहरिभद्रसूरिभिर्यत्-चित्तरत्नमसक्लिष्टमान्तर धनमुच्यते । तत्तु पुण्येन वयं प्राप्ताः । कोटिधनार्पणेन । षट्खण्डसाम्राज्यदानेनाऽपि तन्न प्राप्तुं शक्यम् । तेन निर्मलेन : चित्तरत्नेन क्षपकश्रेणीकेवलज्ञानपर्यन्तानन्तसमृद्धिः प्राप्यते । कस्याञ्चिदप्यापत्तावपमाने विडम्बनायां वा नरो नश्वरं धनं गोपायति, तीस्माभिस्त्विदं महाधनं कस्मान्नावनीयम् ? निर्धारयितव्यम् यत्- किमपि भवतु, कीदृश्यपि पीडाऽऽगच्छतु, 'मया मन्मनो न पङ्किलं कर्त्तव्यम्', ततश्चित्तं शुभालम्बनेषु । योजनीयम्, येन पीडायां न मनउपयोगो गच्छति । ।
'भो पद्मविजयाः ! सावधाना भवत । महावीरप्रभुः स्मर्त्तव्यः । तेन कीदृक् कीयच सोढम् ? वयं तु तत्सन्तानवर्तिनः स्मः । अस्माभिस्तु ते नाथत्वेन स्वीकृताः ।। ततोऽस्माभिर्निर्भीकैः पीडाः सौढव्याः । जगद्गुरुणा सोढाः
सङ्गमोपसर्गपीडाः कुत्रेयं च पीडा कुत्र ? सहर्षसहनपरम्परा तु प्राचीनकालात्पूर्वपुरूषैः प्रवर्त्तमानाऽस्ति । वयं तु तस्या अनुयायिन इदं तु न विस्मर्तव्यम् । कीदृश्यामप्यापत्तौ । 'कीयन्मात्रेय' इति सिहनादं कृत्वा स्थातव्यम् ।
अयमात्मा सुवर्णस्वरुपः, तस्य शुद्धिं कर्तुमिच्छथ न वा ? यदि तच्छुद्धिमिच्छथ तर्हि सः प्रतिकूलताभ्राष्ट्र तापनीयः । अतीव तापः सोढव्यः । अस्मत्पूर्वपुरुषैरिदमेव कृतम् । जानामि यद्युष्माभिः प्रभूतं सोढम् । युष्मद्वेदनां दृष्ट्वाऽस्माकं हृदयं कम्पते । संवेगवैराग्यनानाविचारणा मनसि प्रवर्तनीया येन शान्तिसमाधिसत्त्वकर्मनिर्जरावेगा वर्धेरन् ।।
संवेगवैराग्यपुष्टिकारिण्यः विचारणाः। ईदृग्वेदनावेलायामेवाऽऽत्महाटकस्य शुद्धिः सम्पादनीया । स्कन्दकगजसुकुमालादिमहामुनिभिरेतादृगवसर एव कर्माणि निर्दलयित्वाऽऽत्मा सर्वथा शुद्धः कृतः ।। एतत्सहनं तु कीयन्मात्रम् ? नरकनिगोदेष्वतोऽनन्तगुणं सोढम् । अधुनाऽपि तत्र प्रतिक्षणं जीवा विना विक्षेपं यातनाः सहन्ते । तथापि तेनाऽऽत्मशुद्धिर्न भवति। अत्र त्वात्मशुद्धेर्महान्लाभोऽस्ति ।।
महानुभाव ! गणना कस्य कर्त्तव्या ? मनसि किमाऽऽनेतव्यम् ? दुर्लभं वा सुलभं वा ? कष्टापत्तिप्रतिकूलतादयस्तु जीवने पुष्कलप्रमाणेनाऽऽगच्छन्ति यथा किटिकावल्मिकेषु पिपिलिकाः सन्ति । इदं तु सर्वं सुलभं ।
Page #79
--------------------------------------------------------------------------
________________
में समतासागरचरितम् +0mentarger- १४३
* १४४ %arikramtarkaya- समतासागरचरितम्
-44001-
:
दुर्लभं त्विदं-त्रिभुवनगुर्वर्हत्परमात्मप्राप्तिः, तल्लोकोत्तर-: शासनाप्तिः, परमकृपाल्वाचार्यभगवत्सान्निध्यं, तत्सकाशाल्लब्धे चारित्रज्ञाने, सुसंयमिमुनिरत्नसहवासः ।
इदं तु प्रत्येकं दुर्लभं । अस्माभिस्तु सर्वाणि लब्धानि। मनसि तस्याऽऽनन्दो धर्तव्यः । चेतसि पौनःपुन्येन तदनुमोदना कर्त्तव्या । तस्यैव गणना करणीया ।
पुण्यपुरुष ! वेदना तु किमर्थं बहु स्मर्त्तव्या ? यदा यदा चित्तं वेदनासूपयोगवज्जायेत तदा तदाऽतिदुर्लभवस्तुनि प्रति चित्तं नेतव्यम् । अधिकं तु किमेतन्मुनिमण्डलमेव । पश्य । विशालसङ्ख्यायां बालवृद्धाऽऽनेकमहात्मनामनुपमं: दर्शनं प्राप्यते । 'साधूनां दर्शनं पुण्यम् ।'
एते संयोगा अतीव चिन्तनीयाः । वेदना विस्मरिष्यते।।
एकदा पन्न्यासपद्मविजया खेदमकुर्वन्यत्- 'अहं तपः कर्तुं न शक्नोमि' तदा पूज्यपादगुरुदेवैः कथितम्पद्मविजयाः ! यूयं खेदं कुरूथ यत् 'पर्वतिथावप्यहं तपः न करोमि ? अहमाराधनया रहितस्तिष्ठामि ।' युष्माभिरेतत्प्रतिविचारणा कर्त्तव्या- "जिनशासन आराधना कर्मनिर्जरार्थ कीर्तिता । अस्याः कर्मनिर्जराया उद्देशेन तपः कुर्वता यत्किंचित्सह्यते तत्सकामनिर्जरां कारयति । अर्थाद्यो । योगः सकामनिर्जरां कारयति साऽऽराधना ।
यूयमेतान्रोगपीडोपद्रवान्प्रसन्नतया सहथ तत्किमर्थम्? कर्मनिर्जरार्थमेव । युष्मदृष्टिः कर्मनिर्जरायामस्ति । ततो यूयमेकप्रकारामाराधनामेव कुर्वन्तः स्थ । उपवासाऽऽ
चामाम्लानि यथाऽऽराधना, तथा कष्टापत्तिरोगवेदनादिकं : प्रसन्नतया सहनं कर्मक्षयानन्दाऽनुभवश्चाप्येका महत्याराधनैव।
स्कन्दकमुनिझांझरियामुन्यादिभिः समतया वेदना । सोढा, तथा च कैवल्यं लब्धम् । ततो युष्माभिस्तु दिपा-: लिका मन्तव्या-अस्मिन्नवसरे सहने ममाऽऽराधनैव ।
कर्म तु सहनकरणयोग्यसंयोगानुत्थापयति, कर्मक्षयोद्देशं । तु जिनशासनं यच्छति । ततो जिनशासनस्य शासनदातुश्वार्हत्प्रभोरुपकारो मन्तव्यः। परिषहसहनाराधनायां रतिरनुभवनीया ।
किञ्च, जीवनलोभो मरणभयो वा न धर्त्तव्यः ।। अस्माभिस्त्वाऽऽराधनाया एव लक्ष्यं धर्त्तव्यम् । यदि जीवनलोभः क्रियते तौषधान्यप्रतिसेवाः प्रति हृदयमाकृष्टं भविष्यति । तस्य काऽऽवश्यकता ? चित्तं रत्नत्रयीषु पञ्चपरमेष्ठिषु चैव लीनं कर्तव्यमिति ध्येयम् । अनेन शोभनं शुभानुबन्धवच्च पुण्यं भन्त्स्य ते येन भवान्तरे महत्युन्नतिः प्राप्स्यते।
तथा मृत्युभयोऽपि किमर्थं धर्त्तव्यः ? मृत्यु कथयत'त्वया यथेष्टमागन्तव्यमहमुद्यत उपविष्टोऽस्मि, यतः शक्यमसाध्नवम् सम्प्रति आत्मा त्रिभुवनतारकाईदादिशरणं गतोऽस्ति।'
एतयोर्द्वयोरपि परिशिष्टयोर्लेखनं पद्मसुवासात्साभा-1 रमुद्धृतम् ।
Page #80
--------------------------------------------------------------------------
________________ में समतासागरचरितम् -goragarikaawari- 145 4 146 kapoorrigat- समतासागरचरितम् अथ प्रशस्तिः / नमोऽस्त्वाद्यजिनेन्द्राय, नमो प्रथमसाधवे / नमोऽस्त्वाद्यनरेन्द्राय, ऋषभस्वामिने नमः / / 1 / / नमोऽस्तु शान्तिनाथाय, लोकप्रद्योतकारिणे / मन्दरसमसत्त्वाय, केवलज्ञानधारिणे / / 2 / / नमोऽस्तु लोकनाथाय, सर्वज्ञसर्वदर्शिने / नमो लोकप्रदीपाय, श्रीनेमिस्वामिने नमः / / 3 / / नमोस्तु पार्श्वनाथाय, कर्मरिपुविदारिणे / भगवते जिनेन्द्राय, मोहान्धकारभास्वते / / 4 / / श्रीमद्वीरजिनेशाय, नमोऽस्त्वभयदायिने / नमो पुरुषसिंहाय, नमो शरणदायिने ||5|| श्रीप्रेममुनिनाथाय नमो प्रशांतमूर्तये / दानमुनिपशिष्याय सिद्धान्तपारगामिने / / 6 / / नमो तच्छिष्यरत्नाय, दक्षाय देशनाविधौ / तपोगुणप्रधानाय, सूरिभुवनभानवे / / 7 / / तत्क्रमपद्मभृङ्गाय, पंन्यासप्रवराय च / गुरुप्रसादपात्राय, श्रीपद्माय नमो नमः / / 8 / / नमोऽस्तु गुरुभक्ताय, शास्त्ररहस्यवेदिने / वर्तमानगणेशाय, जयघोषमुनीन्द्राय / / 9 / / मुनिप्रधानसङ्घाय, दुर्गतिदुःखनाशिने / नमोऽस्तु जिनवन्द्याय, सुगतिसुखदायिने / / 10 / / जिनधर्म नमस्यामि, यो धारयति देहिनः / दुर्गतिपततो नित्यं, स्थापयति च सद्गतौ / / 11 / / भवोदधिपतज्जन्तोः पोतनिभं तु तारणे / शासनमर्हतां स्तौमि, सर्वक्लेशविनाशकम्।।१२।।। भवाटवीभ्रमत्प्राणिनिर्वाणपूरलम्भने / सार्थवाहसमं वन्दे, जिनप्रवचनं सदा / / 13 / / शल्यकर्तनदक्षं श्रीजिनतीर्थ नमामि च / सिद्धिमार्ग सदा सर्वदुःखप्रक्षीणपद्धतिम् / / 14 / / अल्पज्ञेन मया देवगुरुधर्मप्रभावतः / चरित्रमिति शब्दस्थीकृतं हेमेन्दुसूरिणा / / 15 / / एतद्विरचनेनाप्तं सुपुण्यं मयका तु यत् / तेन क्लेशविमुक्ताः भवन्तु निखिलजन्तवः / / 16 / / समाप्तमिदं समतासागरचरितम् (पन्न्यासश्रीपद्मविजयचरितम्)। 5555