Book Title: Samta Sagar Charitam
Author(s): Hemchandrasuri Acharya
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 69
________________ * समतासागरचरितम् A m ergard-१२३ 4 १२४ marriagem- समतासागरचरितम् । 40 +40+2 प्रमत्तावस्था याऽस्माभिः साक्षादृष्टा साऽन्यत्र द्रष्टुं दुर्लभा तेषां वियोगेन शासनस्य बहु लुप्तम्। किन्तु तैर्जीवनं जितम् । तेषामात्माऽल्पभवमुक्तिगाम्यासीदिति निःशङ्कम् । प्रेरणादायकस्य जीवनसाधकस्य कोटिशो वंदनाः । १७) रतिलाल जीवणलाल, वढवाण । अस्मत्समुदायादेकममूल्यं रत्नं गतम् । जिनशासनस्य कोहीनुरहीरकं लुप्तम् । अधुना तत्सदृशमन्यं महात्मानं जनयित्वैवास्माभिः सन्तोषो मन्तव्यः । पद्मविजयानां समतात्याग-तपश्चर्या-साधुसम्पादनभावनाप्रयत्नादिगुणा अनेकशः स्मर्यन्ते । १८) वोरा रतिलाल डुंगरशी-सुरेन्द्रनगर । अस्माकं कुटुम्बेनाघातोऽनुभूतः । सर्वे सङ्घजना अपि व्यथिताः सन्ति । तेषां ममोपरि प्रभूता उपकाराः सन्ति। युष्माकं समुदायस्य शासनस्य च महती हानिर्जाता । तीव्रवेदनास्वपि सततं सहनशीलता, भयङ्करकेन्सरव्याधा-वपि । मासक्षपणादिकास्तीवास्तपश्चर्याः, आवश्यकक्रियासु सम्पूर्णजागृतिः, संयमयोगेऽप्रमत्तता, गुरुसमर्पितभावः, स्वाध्यायमग्नतेत्यादयस्तेषां गुणा अनेकशः स्मर्यन्ते। तैस्तु समाधिना चारित्राराधनां कृत्वा स्वजीवनं धन्यीकृतम्। किन्तु तेषां । गमनेनास्मादृशाज्ञानिजीवाः शुभप्रेरणाभ्यो वञ्चिताः। १९) चंपकलाल नारणदास-सुरेन्द्रनगर । समुदायादेकं रत्नं गतम् । ततः समुदायस्य महती हानिर्जाता । मादृशप्राकृतजनोपरि तैः प्रभूता उपकाराः कृताः। तैरस्मभ्यं प्रभूतं दत्तम् । दशवर्षान्यावत् केन्सरव्याधौ समाधिं धारयित्वा नूतनकर्मबन्धमकृत्वा पूर्वोपार्जितकर्माण्यस्मिन्नेव भवे क्षपितानि । अस्माभिस्तु साक्षादृष्टं यत्तेषां । सहनशक्तिः समता चानुत्तर आस्ताम् । यदि शासनरागः प्रत्यण्वेकीभूतः स्यात्तर्खेव भयङ्करकेन्सरव्याध्यसह्यवेदनासु समाधिर्धारयितुं शक्या। केन्सरव्याधिनामश्रवणमात्रेण केचिद्वेपन्ते । तदा पद्मविजयास्तु ! केन्सरव्याधौ शांति सहनशीलतां चाधारयन् । जिनशासनं । तेषामात्मनि परिणतं । तेषां प्रबलेच्छाऽऽसीद्यदन्तिमसमये । समाधिमरणं भवेत् । सा तु युष्मत्कृपया पूर्णा ।। २०) कान्तिलाल चुनीलाल कमलशी, हलवद । आदर्शरुपप्रेरणादातृसाधोः स्वर्गमनेन वयमतीव व्यथिताः । स्मः । शारीरिकभयङ्करव्याधावपि तेषां समताऽप्रमत्ताराधनोग्रतपश्चर्या दृष्ट्वा सम्प्रत्यपि पूर्वकालस्य स्मरणं भवति। घोराः शारीरिकापदः समतया सोढ्वा तैरपूर्वा कर्मनिर्जरा साधिता, तथा चानुपमं कल्याणं साधयित्वाऽनेकेषां बोधदायकदृष्टान्तभूता अभवन् । तेषां पवित्रजीवनस्यानमोदनेन । कृतार्थतामनुभवामि । २१) तलकचन्द नानचन्द शाह, दादर, मुम्बापुरी । कालगतोदन्तं प्राप्य वज्राघातस्येव हृदयवेदना जाता। तैरन्तिमसमयं यावच्छोभना समता धृता । तत्त्वानन्दविषयोऽस्ति । तेऽस्मादृशबालजीवानां परमहितैषिण आसन्।। मुर्खा वयं तैर्मानवाः कृताः । अद्यास्माकमाशा अभञ्जन्। •e+ ने

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80