Book Title: Samta Sagar Charitam
Author(s): Hemchandrasuri Acharya
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 72
________________ समतासागरचरितम् विनयादिभिश्च सिंहवत्तं पालयथ, अतो युष्माकं केभ्यश्चिद् भयं नास्ति । महात्मानः मृत्य्वादिभ्यो न बिभ्यति । यस्य समीपे सदैव महात्मानो वसन्ति, प्रतिक्षणं येन नवकारमन्त्रश्रवणं प्राप्यते, यस्यान्तरङ्गदीपो ज्वलन्नस्ति तस्य कस्माद्भयं भवेत् ? युष्माकं समाधिर्निरवधिकाऽस्ति । सर्वेषां मुखादुद्गारा निःसरन्ति- तात ! इदं तु कथं सोढव्यम् ? युष्मत्सन्मुखोपविशन्जन आश्चर्यमुग्धो भवति । सङ्क्षेपेण न केवलं युष्माभिः संयमजीवनमुज्ज्वालितं, किन्त्वस्मत्कुलमप्युज्ज्वालितम्, समस्तः समुदाय उज्ज्वालितः, युष्मान्प्रति साधूनां हृदयस्था भावा अमूल्याः सन्ति । युष्मदाराधकभावयत्किञ्चित्सुवासोऽस्मादृशप्राकृतात्मस्वागच्छेदिति शुभभावनया सह विरमे । सेवकचतुरदासस्य कोटिशो वन्दनाः । (सुरेन्द्रनगरे व्याधिसमये लिखितं पत्रम् ।) फैफैफै १२९ १३० 小 * # + * * * * 小 समतासागरचरितम् परिशिष्ट २ परमपूज्यपंन्यासप्रवरश्रीपद्मविजय गणिवराणामनुमोदनाकृते श्रमणगणस्य सुकृतदानम् । प.पू. आचार्यदेव श्रीमद्विजयप्रेमसूरीश्वराः सपादलक्षस्वाध्यायः । पू. पं. कान्तिविजयगणिवरः- एकलक्षस्वाध्यायः । पू. पं. भद्रङ्करविजयगणिवरः- सपादलक्षस्वाध्यायः । पू. पं. चिन्दानन्दविजयगणिवरः- सपादलक्षस्वाध्यायः । पू. पं. मलयविजयगणिवरः- पञ्चाशत्सहस्रस्वाध्यायः । पू. पं. हेमन्तविजयगणिवरः- द्वौ वर्षो यावत् प्रतिवर्षमष्टमासेषु षड्विकृतित्यागः । पू. पं. रविविजयगणिवरः पञ्चाशत्सहस्रस्वाध्यायः । पू. पं. मानतुङ्गविजयगणिवरः सपरिकरःसपादत्रिलक्षस्वाध्यायः । पू. मुनिराज महाभद्रविजयः-पञ्चविंशतिरुपवासाः, षण्मासान्यावत्प्रभुदर्शने स्मरणम् । * पू. बालमुनिश्रीपुण्यपालविजयः पञ्चवर्षैश्चतुः प्रकरण - भाष्यत्रय - बृहत्सङ्ग्रहण्यभिधान कोष-प्रकरणरत्नसङ्ग्रह भाग १-२-३, प्रवचनसारोद्धारा नुयोद्वार- लोकप्रकाश- मुक्तावली - बृहन्नवतत्त्व-प्रज्ञापनाभगवती - तत्त्वार्थ- धनञ्जयनाममालानामभ्यासः ।

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80