Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
स्वगच्छ एवायं चारित्रार्थ किमिति वैयावृत्त्यं न करोति ?, सत्यं, स्वगच्छे न तथाविधा निर्वाहादिसामग्री वैयावृत्त्यादिकरणक्षमा समस्ति ततः परंगच्छोपसम्पदं करोतीति, तथा क्षपणविषयैवं भवति-यथा कश्चित्क्षपणार्थमुपसम्पद्यते, स च क्षपको द्विविधः-इत्वरो यावत्कथिकश्च, यावत्कथिक उत्तरकालेऽनशनकर्ता, इत्वरस्तु द्विविधो-विकृष्टक्षपकोऽविकृष्टक्षपकश्च, तत्राष्टमदशमादिकर्ता विकृष्टक्षपकः, पष्ठान्ततपःकारी तु अविकृष्टक्षपक इत्यादिस्वरूपमावश्यकादिभ्यो विज्ञेयमिति, एषा हुः-स्फुटं चक्रवाले-चक्रवालविषया चक्रवत्प्रतिपदं भ्रमन्ती दशविधा सामाचारी विज्ञेयेति शेषः, तथा अन्या च वक्ष्यमाणा सामाचारी दशविधा ज्ञेया ।। ७६७ ॥ तामेवाह
पडिलेहणा १ पमजण २भिक्खि ३रिया ४ऽऽलोग ५ भुंजणा ६ चेव । पत्तगधुयण ७ वियारा ८
थंडिल ९ आवस्सयाईया १० ॥७६८॥ पूर्वाद्देऽपराहे च वनपात्रादीनां प्रत्युपेक्षणा विधेया १ तथा प्रमार्जना वसतेः पूर्वाहेऽपराहे च कर्तव्या २ तथा कृतकायिकादिव्यापाराः पात्राणि गृहीत्वा आवश्यकीकरणपूर्व वसतेर्निर्गत्याहारादिषु मूर्छामकुर्वन्तः पिण्डग्रहणैषणायां सम्यगुपयुक्ताः साधवो 'भिक्ख'त्ति मिक्षा गृहन्ति ३ तथा मिक्षाग्रहणानन्तरं नैषेधिकीपूर्वे वसतो प्रविश्य 'नमः क्षमाश्रमणेभ्य इत्येवंरूपं वाचिकं नमस्कारमुच्चार्य देशं चक्षुःप्रत्युपेक्षणापुरस्सरं रजोहरणेन प्रमृज्य 'ईरिय'त्ति ईर्यापथिकी प्रतिक्रामन्ति ४ कायोत्सर्गे च मिक्षाभ्रमणभाविनो निर्गमनादारभ्य प्रवेशपर्यन्तान् पुरःकर्मादीनतिचारान् गुरुनिवेदनार्थ चिन्तयन्ति, पारयित्वा च चतुर्विंशतिस्तवं पठन्तीति, तथा च चतुर्विशतिस्तवपाठानन्तरं भावतश्चारित्रपरिणामापन्नाः सन्तो गुरोर्गुरुसम्मतस्य वा ज्येष्ठार्यस्य पुरतो यदोदनादि येन प्रकारेण करोटिकाप्रभृतिभाजनादिना गृहीतं तत्सर्व तथैव प्रवचनोक्तेन विधिना 'आलोय'त्ति आलोचयन्ति निवेदयन्तीत्यर्थः, तदनन्तरं दुरालोचितभक्तपानयोनिमित्तमेषणानेषणयोर्वा निमित्तं कायोत्सर्ग कुर्वन्ति, 'इच्छामि पडिक्कमिडं गोयरचरियाए मिक्खायरियाए जाव तस्स मिच्छामि दुकडं, तस्स उत्तरीकरणेणं जाव वोसिरामित्ति कायोत्सर्ग कुर्वन्ति च, तत्र नमस्कारं 'जइ मे अणुग्गहं कुजा साहू' इत्यादि वा चिन्तयेत् , यदुक्तमोघनियुक्तो-'तहिं दुरालोइयभत्तपाणएसणमणेसणाए उ। अदुस्सासे अहवा अणुग्गहाई व झाइज्जा ॥१॥ दशवकालिके त्वस्मिन् कायोत्सर्गे 'अहो जिणेहिं असावजा' इतिगाथाचिन्तनं भणितं, पारयित्वा च चतुर्विशतिस्तवभणनं, तदनु परिश्रमाद्यपनयनाय मुहूर्तमुपविष्टाः स्वाध्यायं विद्धतीति, तथा निःसागारिके स्थाने रागद्वेषविरहिताः सन्तो नमस्कारं पठित्वा सन्दिशत पारयाम इत्यभिधाय च गुरुणाऽनुज्ञाता ब्रणलेपाथुपमया भुजन्ति-भोजनं कुर्वन्ति, तथा भोजनानन्तरमच्छोदकेन भाजनेषु समयप्रसिद्ध कल्पत्रयं दत्त्वा 'पत्तगधुवण'त्ति पात्रकाणां धावनं कुर्वन्ति, समयपरिभाषया त्रेप्यन्तीत्यर्थः, तद्नु यद्यपि प्रागेवैकाशनक प्रत्याख्यातं 'सागारिकाकारणं गुरुअब्भुट्ठाणेणं आउंटणपसारेणं पारिद्वावणियागारेणं' इत्येषां प्रागगृहीतानामाकाराणां च निरोधनार्थ प्रत्याख्यानं विधेयमिति, तथा 'वियार'त्ति विचारः-संज्ञाव्युत्सर्जनार्थ बहिर्गमनं तं वक्ष्यमाणविधिना कुर्वन्ति, तथा 'थंडिलं ति स्थण्डिलं-परानुपरोधि प्रासुकभूभागलक्षणं तिर्यग् जघन्येन हस्तमात्र प्रतिलेखयन्ति, तच्च सप्तविंशतिविधं, तथाहि-कायिकायोग्यानि वसतेमध्ये षट् स्थण्डिलानि बहिर्भागेऽपि षडेव, मिलितानि च द्वादश, एवमुच्चारयोग्यान्यपि द्वादश, त्रीणि च कालग्रहणयोग्यानीति, तथा पूर्वोक्तविधिना 'आवस्सय'त्ति आवश्यकं-प्रतिक्रमणं कुर्वन्ति, आदिशब्दात्कालग्रहणादिपरिग्रहः, इत्येषा प्रकारान्तरेण दशविधा प्रतिदिनसामाचारी समासतो व्याख्याता, विस्तरतस्तु पञ्चवस्तुकद्वितीयद्वारादवसेयेति १०१ ॥ ७६८ ॥ इदानीं 'निग्गंधत्तं जीवस्स पंच वाराओ भववासे त्ति न्युत्तरशततमं द्वारमाह
उवसमसेणिचउक्कं जायइ जीवस्स आभवं नूणं । ता पुण दो एगभवे खवगस्सेणी पुणो एगा - ॥७६९॥
उपशमश्रेणिचतुष्कं-उपशमश्रेणिचतुष्टयमेव जायते-भवति जीवस्याभवं-संसारे वर्तमानस्य तत् नूनं-निश्चितं, उत्कर्षतो नानाभवेषु वारचतुष्टयमुपशमश्रेणिं प्रतिपद्यत इति भावः, ते पुनरुपशमश्रेण्यौ एकस्मिन् भवे उत्कर्षतो द्वे भवतः, क्षपकश्रेणिः पुनरेकैवैकस्मिन् भवे भवति, ततोऽयमर्थः-उपशान्तमोहे क्षीणमोहे च गुणस्थानके निर्ग्रन्थत्वं भवति, तचोपशमश्रेणिचतुष्टये क्षपकश्रेणौ चैकस्यां कृतायां पञ्चधा भवत्युत्कर्षतः संसारे वसतो जीवस्येति १०२ ॥ ७६९ ।। इदानीं 'साहुविहारसरूवंति व्युत्तरशततमं द्वारमाह
गीयत्यो य विहारो बीओ गीयत्थमीसओ भणिओ। एत्तो तइयविहारो नाणुन्नाओ जिणवरेहिं ॥७७० ॥ दवओ चक्खुसा पेहे, जुगमित्तं तु खेत्तओ। कालओ जाव रीएजा, उवउत्ते य भावओ॥७७१॥ गीतो-विज्ञातः कृत्याकृत्यलक्षणोऽर्थो यैस्ते गीतार्था-बहुश्रुताः साधवः तत्सम्बन्धित्वाद्गीतार्थः चशब्दः समुच्चये भिन्नक्रमश्च विहारोविचरणं प्रथम इति गम्यते, द्वितीयश्च-अन्यो विहारो गीतार्थमिश्राः-समन्विता येऽगीतार्थास्ते गीतार्थमिश्रास्तेषां सत्को गीतार्थमिश्रः स एव गीतार्थमिश्रको भणित:-उक्तो जिनैविधेयतया, पाठान्तरं गीतार्थनिश्रित इति, तत्र गीतार्थस्य निश्रा-आश्रयणं गीतार्थनिश्रा सा सजाता अस्येति गीतार्थनिश्रितः, इत:-आभ्यां द्वाभ्यां विहाराभ्यामन्यस्तृतीय एकानेकागीतार्थसाधुरूपो नानुज्ञातो-नानुमतो विधे
149

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310