Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 243
________________ चर्मरत्नं छत्रस्याधस्ताञ्चक्रवर्तिहस्तस्पर्शप्रभाव संजातद्वादशयोजनायामविस्तारं प्रातरुप्तापराह्न संपन्नोपभोग्यशाल्यादिसम्पत्तिकरं १० मणिरत्नं वैडूर्यमयं त्र्यत्रं षडंशं यथाक्रममूर्द्धाधः स्थितयोश्छत्रचर्मरत्नयोरपान्तराले छत्र तुम्बे न्यस्तं सद् द्वादशयोजनविस्तारिणः समस्तस्यापि चक्रवर्तिकटकस्य निरुपमप्रकाशकारि तमिस्रगुहायां खण्डप्रपातगुहायां च प्रविशतश्चक्रवर्तिनो हस्तिरत्नदक्षिणशिरसि निबद्धं च द्वादश योज -- नानि यावत्पूर्वापरपुरतोरूपासु तिसृषु दिक्षु निबिडतममपि तमः स्तोममपहरति यस्य च हस्ते शिरसि वा बद्ध्यते तस्य दिव्यतिर्यग्मनुष्यकृतसमस्तोपद्रवसमस्तरोगापहारं करोति, एतच्च मूर्त्यन्यत्र वाऽङ्गे व्यवस्थाप्य संग्रामे प्रविष्टः सन् शस्त्रैरवध्यो भवति सर्वभयविमुक्तश्वोपजायते, अन्यच्च - तस्मिन् मणिरत्ने सदा मणिबन्धादौ व्यवस्थितेऽवस्थितयौवनोऽवस्थितकेशनखश्चोपजायते पुमान् ११ काकिणीरत्नमष्टसौवर्णिकं समचतुरस्रसंस्थानसंस्थितं विषापहारसमर्थ यत्र चन्द्रप्रभा सूर्यप्रभा वह्निदीप्तिर्वा न तमःस्तोममपहर्तुमलं भवति तत्र तमिस्रगुहायामतिनिबिडतिमिरतिरस्करणदक्षं, यस्य दिव्यप्रभावकलिततया द्वादश योजनानि यावत्तमिस्र विसरविनाशिका गभस्तयो विवर्धन्ते, यच्च सर्वकालं चक्रवर्ती निजस्कन्धावारे रात्रौ स्थापयति, तद्धि दिवसालोकभूतं प्रकाशं रजन्यामादधाति यस्य च प्रभावेण चक्रवर्ती द्वितीयमर्धभरतममिजेतुं सकलसैन्यसमेतस्तमिस्रगुहायां प्रविशति, तथा च तत्र प्रविष्टः सन् स पूर्वभित्तितटे पश्चिममिचितटे च प्रत्येकं योजनान्तरितानि पञ्चधनुःशतायामविष्कम्भान्युभयपार्श्वयोर्योजनोद्योतकराणि चक्रनेमिसंस्थानानि चन्द्रमण्डलप्रतिनिभानि वृत्तहिरण्यरेखारूपाणि गोमूत्रिकान्यानेनैकस्यां भित्तौ पञ्चविंशतिरपरस्यां तु चतुर्विंशतिरित्ये कोनप भ्वाशतं मण्डलान्यालिखन् व्रजति, तानि च मण्डलानि यावश्चक्रवर्ती चक्रवर्तिपदं परिपालयति तावदवतिष्ठन्ते, गुहाऽपि तथैवोद्घाटिता तिष्ठति, उपरते तु चक्रिणि तत्सर्वमुपरमते १२ खड्गरत्नं - संग्रामभूमावप्रतिहतशक्तिः १३ दण्डरनं रत्नमयपश्चलताकं वज्रसारमयं सर्वशत्रुसैन्यविनाशकारकं, चक्रवर्तिनः स्कन्धावारे विषमोन्नतविभागेषु समत्वकारि शान्तिकरं चक्रवर्तिनो हितेप्सितमनोरथपूरकं दिव्यमप्रतिहतं प्रयत्नविशेषतश्च व्यापार्यमाणं योजनसहस्रमप्यधः प्रविशति १४ । एतानि चतुर्दश रत्नानि प्रत्येकं यक्षसहस्राधिष्ठितानि भवन्ति तथैतानि सेनापत्यादीनि सप्त प न्द्रियाणि चक्रादीनि सप्त एकेन्द्रियाणि पृथिवीपरिणामरूपाणि प्रत्येकं जम्बूद्वीपे जघन्यपदेऽष्टाविंशतिरेककालं प्राप्यन्ते, जघन्यतोSपि चक्रवर्तिचतुष्टयसद्भावात्, उत्कृष्टतस्तु दशोत्तरद्विशतसङ्ख्यानि, चक्रवर्तिनो ह्येककालं त्रिंशद्भवन्ति, यथा अष्टाविंशतिर्विदेहे एकैको भरतेरखतयोः, सप्तानां च त्रिंशता गुणने द्वे शते दशोत्तरे भवत इति ॥ १४ ॥ अथ रत्नप्रस्तावाद्वासुदेवस्यापि रत्नान्याह – 'चक्क ' मित्यादि, 'चक्रखङ्गधनुर्मणयः प्रतीताः माला सदैव चाम्लाना देवार्पिता गदा-कौमोदकी नाम प्रहरणविशेषः शङ्खः - पाश्वजन्यो द्वादशयोजनविस्तारिध्वानः, एतानि सप्त रत्नानि सर्वेषामपि वासुदेवानां भवन्ति ॥ १५ ॥ अथ सप्तानामप्येकेन्द्रियरत्नानां प्रमाणमाह - 'चक्क ' मित्यादि गाथाद्वयं, चक्रं छत्रं दण्डमित्येतानि त्रीण्यपि रत्नानि व्यामप्रमाणानि, व्यामो नाम प्रसारितोभयबाहोः पुंसस्तिर्यग्हस्तद्वयाङ्गुलयोरन्तरालं, चर्मरत्नं द्विहस्तदैर्घ्य, द्वात्रिंशदङ्गुलदीर्घोऽसि:-खड्गरत्नं, तथा दैर्घ्यमधिकृत्य मणिः पुनञ्चतुरङ्गुलप्रमाणः, तस्य – दैर्घ्यस्यार्ध द्वे अङ्गुले इत्यर्थः विस्तीर्णो–विस्तृतः, तथा चतुरङ्गुलप्रमाणा सुवर्णवरकाकिनी - जात्यसुवर्णमयी काकिनीनाम रत्नं ज्ञेया, एतानि सप्ताकेन्द्रियरत्नानि सर्वचक्रवर्तिनामात्माङ्गलेन ज्ञेयानि शेषाणि तु सप्त पञ्चेन्द्रियरत्नानि तत्तत्कालीनपुरुषोचितमानानीति २१२ ॥ १६ ॥ ॥ १७ ॥ सम्प्रति ‘नव निहिओ'ति त्रयोदशोत्तरद्विशततमं द्वारमाह नेसप्पे १ पंडयए २ पिंगलए ३ सबरयण ४ महपउमे ५ । काले य ६ महाकाले ७ माणवग ८ महानिही संखे ॥ १८ ॥ नेसप्पंमि निवेसा गामागरनगरपट्टणाणं च । दोणमुहमडंबाणं खंधाराणं गाणं च ॥ १९ ॥ गणियस्स य गीयाणं माणुम्माणस्स जं पमाणं च । धन्नस्स य बीयाणं उपत्ती पंडुए भणिया ॥ २० ॥ सङ्घा आहरणविही पुरिसाणं जा य जा य महिलाणं । आसाण य हत्थीण य पिंगलगनिहिम्मि सा भणिया ॥ २१ ॥ रयणाई सवरयणे चउदस पवराई चक्कवट्टीणं । उप्पज्जंति एगिंदियाई पंचिंदियाई च ॥ २२ ॥ वत्थाण य उत्पत्ती निष्फसी चेव सङ्घभतीणं । रंगाण य घाऊण य सङ्घा एसा महापउमे ॥ २३ ॥ काले कालन्नाणं भव पुराणं च तिसुवि वंसेसु । सिप्पसयं कम्माणि य तिन्नि पयाए हियकराई ॥ २४ ॥ लोहस्स य उप्पत्ती होइ महाकाल आगराणं च । रूप्पस्स सुवण्णस्स य मणिमोत्तियसिलपवालाणं ॥ २५ ॥ जोहाण य उक्ती आवरणाणं च पहरणाणं च । सङ्घा य जुद्धनीई माणवगे दंडनीई य ॥ २६ ॥ नट्टविही नावही वस्स चविहस्स निष्पत्ती । संखे महानिहिम्मि उ तुडियंगाणं च सवेसिं ॥ २७॥ चक्कपट्ठाणा अडस्सेहा य नव य विक्खंभे । बारस दीहा मंजूस संठिया जण्हवीऍ मुहे ॥ २८ ॥ deforमणिकवाडा कणयमया विविहरयणपडिपुन्ना । ससिसूरचक्कलक्खण अणुसमवयणोववतीया ॥ २९ ॥ पलिओवमट्टिईया निहिसरिनामा य तत्थ खलु देवा । जेसिं ते आवासा अक्जा आहिवच्चाय ॥ ३० ॥ एए ते नव निहिणो पभूयधणरयणसंचयसमिद्धा । जे वसमुवगच्छंति सधेसिं चक्कवहीणं ॥ ३१ ॥ 234

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310