Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
द्रष्टव्यं, प्रथमां-रत्नप्रभाख्यां पृथिवीं यावत्, रत्नप्रभायाः पृथिव्याः सर्वाधस्तनं भागं यावदुत्कृष्टतोऽवधिना पश्यतः, सनत्कुमारमाहेन्द्राविन्द्रौ द्वितीयां - शर्कराप्रभां पृथिवीं यावत्, शर्कराप्रभायाः पृथिव्या अधस्तनं सर्वान्तिमं चरमं भागं यावदित्यर्थः, एवमुत्तरत्रापि भावनीयं ब्रह्मलोकलान्तको तृतीयां - वालुकाप्रभां यावत्, शुक्रसहस्रारौ चतुर्थी पद्मप्रभां यावत्, तथा आनतप्राणतकल्पयर्देवाः- इन्द्रतत्सामानिकादयः पञ्चमीं पृथिवीं-धूमप्रभां यावदवधिना पश्यन्ति, आरणाच्युतदेवा अपि तामेव पञ्चमीं पृथ्वीं यावत्, तथा आनतप्राणतदेवेभ्य आरणाच्युतदेवास्तामेव विशुद्धतरां बहुपर्यायां च तत्राप्यानतदेवेभ्यः प्राणतदेवाः आरणदेवेभ्यश्चाच्युतदेवाः सविशेषां पश्यन्ति, उत्तरोत्तरदेवानां विमलविमलतरावधिज्ञानसद्भावात् एवं प्रागुत्तरत्र च सर्वत्र भावनीयं, तथा अघस्तनमध्यमत्रैवेयकाः 'आधेये आधारोपचारात्' तन्निवासिनो देवाः षष्ठीं तमः प्रभां पृथिवीं यावत्पश्यन्ति, उपरितनमैवेयकवासिनो देवाः सप्तमीं पृथिवीं यावत्, अनुत्तरविमानवासिनस्तु देवाः सम्भिन्नां परिपूर्णां लोकनाड - लोकमध्यवर्तिनीं त्रसनाडीमधस्तादवधिना पश्यन्ति, उक्तं च तत्त्वार्थभाष्ये – “अनुत्तरविमानवासिनस्तु कृत्स्नां लोकनालि पश्यन्ती”ति, अन्ये तु स्वविमानध्वजादूर्द्धमदर्शनात् किश्विदूनां लोकनाडीं पश्यन्तीत्याहुः, तदेवमधस्तादवधिविषयभूतं क्षेत्रमुक्तं ॥ ६१ ॥ ६२ ॥ ६३ ॥ सम्प्रति तदेव तिर्यगूर्द्ध चाह - 'एरसि' मित्यादि, एतेषां - शक्रेशानादिदेवानां तिर्यक् - तिरश्रीनमवधिविषयं क्षेत्रमसङ्ख्येया द्वीपाः सागराश्र, असङ्ख्यावान् द्वीपानसङ्ख्यातांश्च समुद्रानवधिना तिर्यक्पश्यन्तीत्यर्थः, केवलमेतदेव द्वीपसमुद्रासयेयकं 'उवरिमया' इति उपर्युपरिवर्तिकल्पवासिनो देवा बहुकत्तरं, उपलक्षणमेतत् बहुकतमं च तिर्यगवधिना पश्यन्ति, उपर्युपरिदेवलोकनिवासिनां विशुद्धविशुद्धतरावधिज्ञानसद्भावात्, ऊर्द्ध पुनः सर्वेऽपि शक्रादयो देवाः स्वकल्पस्तूपादीन् – स्वस्वविमान चूलाध्वजादिकं यावत्पश्यन्ति न परतः, तथा भवस्वाभाव्यात्, जघन्यतः पुनरमी सर्वेऽपिं सौधर्मादयो ऽनुत्तरविमानवासिपर्यन्ता अङ्गुलासङ्ख्येयभागमात्रं क्षेत्रं पश्यन्ति, तथा चावश्यक चूर्णिः -- " वेमाणिया सोहम्माओं आरम्भ जाव सव्वहसि - गा देवा ताव जहन्त्रेण अंगुलस्स असंखेज्जइभागं ओहिणा जाणंति पासंति,” नन्वङ्गुलासत्येयभागमात्रक्षेत्रप्रमितोऽवधिः सर्व जघन्यो भवति, सर्वजघन्यश्चावधिस्तिर्यग्मनुष्येष्वेव न शेषेषु, यदुक्तं – 'उक्कोसो मणुपसु मणुस्सतेरिच्छएसु य जहन्नो । इति [ उत्कृष्टो मनुष्येषु मनुष्यतिर्यक्षु च जघन्यः ] तत्कथमिह वैमानिकानां सर्वजघन्य उक्तः ?, उच्यते, सौधर्मादिदेवानां पारभविकोऽप्युपपातकालेऽवघिः सम्भवति, स च सर्वजघन्योऽपि कदाचिदवाप्यते, उपपातानन्तरं तु देवभवप्रत्ययजः, ततो न कदाचिद्दशेषः, यदाह जिनभद्रगणिक्षमाश्रमणः — “वेमाणियाणमंगुलभागमसंखं जहन्नओ होइ । उववाओ परभविओ तब्भवजो होइ तो पच्छा ॥ १ ॥ [ वैमानि - कानामङ्गुलासंख्यभागो जघन्यतो भवति । औपपातिकः ( उपपाते) पारभविकः तद्भवजो भवति तत् पश्चात् ॥ १ ॥ ] पारभविकत्वाचायं सूत्रकृता नोक्त इति ॥ ६४ ॥ उक्तं वैमानिकानामधस्तिर्यगूर्द्ध चावधिक्षेत्रं, अथ सामान्यतः शेषदेवानामाह - 'संखेज्जेत्यादि, देवानां—भवनपतिव्यन्तरज्योतिष्काणामर्धसागरोपमप्रमाणे किश्विदूनायुषि सति संख्येयान्येव योजनानि अवधिपरिच्छेद्यक्षेत्रं, ततः परं संपूर्णार्धसागरोपमादिके आयुषि सति पुनः असत्येयानि योजनानि, केवलमायुर्वृद्ध्या योजनासङ्ख्यातकस्यापि वृद्धिर्वाच्या, जघन्यं तु पुनरवधिक्षेत्रं पञ्चविंशतिर्योजनानि तानि च येषां सर्वजघन्यं - दशवर्षसहस्रप्रमाणं आयुस्तेषामेव भवनपतिव्यन्तराणां द्रष्टव्यानि न शेषाणां, आह च भाष्यकृत् - "पणवीसजोयणाई दसवाससहस्सिया ठिई जेसि' मिति [ पञ्चविंशतिर्योजनानि दशवर्षसाहस्रिका स्थितिर्येषां ] ज्योतिष्काः पुनरसङ्ख्येयस्थितिकत्वाज्जघन्यतोऽपि सङ्ख्येययोजनप्रमितान् सङ्ख्येयान् द्वीपसमुद्रानवधिज्ञामतः पश्यन्ति, उत्कर्षतोऽपि तानेव, केवलमधिकतरान् उक्तं च प्रज्ञापनायाम् – “जोइसिया णं भंते! केवइयं खेत्तं ओहिणा जाणंति पासंति ?, 'गोयमा ! जहन्नेवि संखेज्जे दीवसमुद्दे उक्कोसेणवि संखेज्जे दीवसमुद्दे” इति ॥ ६५ ॥ अथ नारकतिर्यङ्नरामराणां मध्ये कस्य कस्यां दिशि प्रभूतोऽवधिरिति प्रतिपादयन्नाह – 'भवणे 'त्यादि, भवनपतीनां व्यन्तराणां चावधिरूर्द्ध बहुकः - प्रभूतः, शेषासु च दिक्षु स्वल्पविषय एवावधिः, एवमग्रेऽपि भावनीयं, शेषाणां तु वैमानिकदेवानां पुनरधः प्रभूतोऽवधिः ज्योतिष्कनारकाणां तिर्यक्प्रभूतः, तथा तिर्यग्मनुष्याणां सम्बंध्यवधिरौदारिकावधिरुच्यते अयं तु चित्रो - नानाप्रकारः, केषाञ्चिदूर्द्ध बहुः अन्येषां त्वधः परेषां तु तिर्यक् केषाञ्चित् तुल्य इति भावः १९८ ॥ ६६ ॥ सम्प्रति 'उप्पत्तीए विरहो'त्ति नवनवत्यधिशततमं द्वारमाह
भवणवणजोइसोहंमीसाण चउवीसई मुहुत्ता उ । उक्कोस विरहकालो सर्व्वसु जहन्नओ समओ
॥ ६७ ॥ नव दिण वीस मुहुत्ता बारस दस चेव दिण मुहुत्ता उ । बावीसा अद्धं चिय पणयाल असीइ दिवससयं ॥ ६८ ॥ संखिज्ज मास आणयपाणय तह आरणचुए वासा । संखेज्जा विनेया विजेतुं अओ वोच्छं ॥ ६९ ॥ हिडिमे वाससयाई मज्झिम सहसाई उबरिमे लक्खा । संखिज्जा विन्नेया जहसंखेणं तु तीसुंपि ॥ ७० ॥ पलिया असंखभागा उक्कोसो होइ विरहकालो उ । विजयासु निद्दिट्ठो सधेसु जहन्नओ समओ ॥ ७१ ॥
'भवणे'त्यादिगाथाचतुष्कं, इह भवनपत्यादिषु देवाः प्रायः सततमुत्पद्यन्ते कदाचिदेव त्वन्तरं तच्च सामान्येन चतुर्विधेष्वपि समुदितेषु देवेषु द्वादश मुहूर्ताः, तदनन्तरमवश्यमन्यतमस्मिन् कश्चिद्देव उत्पद्यते एव, उक्तं च - "गन्भयतिरिनरसुरनारयाण विरहो मुहुत्त बारसग” [ गर्भजतिर्यङ्नरसुरनारकाणां विरहो मुहूर्त्तानां द्वादशकं ] मिति, विशेषतस्तु भवनवासिषु व्यन्तरेषु ज्योतिष्केषु सौधर्मे
226

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310