Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 227
________________ द्विविधा:-मनोज्ञा अमनोज्ञाश्च, मनोज्ञा-एकसामाचारिकाः अमनोज्ञाश्च-विभिन्नसामाचारिकाः, असंविज्ञा अपि द्विविधाः-संविज्ञपाक्षिका असंविज्ञपाक्षिकाच, संविज्ञपाक्षिका-निजानुष्ठाननिन्दिनो यथोक्तसुसाधुसमाचारप्ररूपकाः असंविज्ञपाक्षिका-निर्धर्माणः सुसाधुजुगुप्सकाः, उक्तं च-तत्थावायं दुविहं सपक्खपरपक्खओ य नायव्वं । दुविहं होइ सपक्खे संजय तह संजईणं च ॥ १॥ संविग्गमसंविग्गा संविग्गमणुन्नएयरा चेव । असंविग्गावि दुविहा तप्पक्खियएयरा चेव ॥ २॥” परपक्षापातवदपि स्थण्डिलं द्विविधं-मनुप्यापातवत् तिर्यगापातवञ्च, एकैकमपि त्रिविधं-पुरुषापातवत् ख्यापातवन्नपुंसकापातवञ्च, तत्र मानुषपुरुषापातवत् त्रिविधं-दण्डिकपुरुषापातवत् कौटुम्बिकपुरुषापातवत् प्राकृतपुरुषापातवच्च, दण्डिका-राजकुलानुगताः कौटुम्बिकाः-शेषा महर्द्धिकाः इतरे-प्राकृताः, ते च त्रयोऽपि प्रत्येक द्विविधाः-शौचवादिनोऽशौचवादिनश्च, एवं व्यापातवन्नपुंसकापातवच्च प्रत्येकं प्रथमतो दण्डिकादिभेदतस्त्रिविधं, ततः शौचवाद्यशौचवादिभेदतः पुनरेकै द्विविधमवसेयं, उक्तं च-"परपक्खेऽवि य दुविहं माणुसतेरिच्छगं च नायव्वं । एकेकपि च तिविहं पुरिसित्थिनपुंसकं चेव ॥ १॥ पुरिसावायं तिविहं दण्डियकोडुबिए य पागइए । ते सोयऽसोयवाई एमेव नपुंसइत्थीसु ॥२॥" अथ तिर्यगापातवत् कथ्यते-तत्र तिर्यञ्चो द्विविधाः-दृप्ता अदृप्ताश्च, दृप्ता-दर्पवन्त: अदृप्ताः-शान्ताः, तेऽपि प्रत्येकं त्रिविधा:-जघन्या उत्कृष्टा मध्यमाश्च, जघन्या मूल्यमङ्गीकृत्य एडकादयः उत्कृष्टा हस्त्यादयः मध्यमा महीपादयः, एते किल पुरुषा उक्ताः, एवमेव स्त्रीनपुंसका अपि वक्तव्याः, नवरं ते दृप्ता अदृप्ताश्च प्रत्येक द्विधा विज्ञेयाः, तद्यथा-जुगुप्सिता अजुगुप्सिताश्च, जुगुप्सिता गर्दभ्यादयः इतरेऽजुगुप्सिताः, उक्तं च-"दित्तमदित्ता तिरिया जहन्नउक्कोसमज्झिमा तिविहा । एमेव थीनपुंसा दुगुंछिअदुगुंछिया नवरं ॥ १॥" उक्तमापातवत्स्थण्डिलं, संलोकवत्पुनर्मनुष्येष्वेव द्रष्टव्यं, तेच मनुष्यात्रिविधाः-तद्यथा-पुरुषाः स्त्रियो नपुंसकाश्च, एकैके प्रत्येकं त्रिविधा: एमेव पुहुत्तओ नवरं ॥ ६ ॥ अंगुलपुहुत्त रसणं फरिसं तु सरीरवित्थडं भणियं । बारसहिं जोयणेहिं सोयं परिगिण्हए सई ॥७॥ एवं गिण्हइ चक्खू जोयणलक्खाओं साइरेगाओ। गंधं रसं च फासं जोयणनवगाउ सेसाणि ॥८॥ अंगुलअसंखभागा मुणंति विसयं जहन्नओ मोत्तुं। चक्तं पुण जाणइ अंगुलसंखिवभागाओ॥९॥ इन्दनादिन्द्रः-आत्मा सर्वद्रव्योपलब्धिरूपपरमैश्वर्ययोगात् तस्य लिङ्ग-चिह्नमविनाभावि इन्द्रियं, तद् द्विधा-द्रव्येन्द्रियं भावेन्द्रियं च, तत्र द्रव्येन्द्रियं द्विधा-निर्वृत्तिरूपमुपकरणरूपं च, निवृत्तिर्नाम प्रतिविशिष्टसंस्थानविशेषः, साइपि द्विधा-बाह्या आभ्यन्तरा च, तत्र बाह्या कर्णकर्पटिकादिरूपा, सा च विचित्रा न प्रतिनियतरूपतया व्यपदेष्टुं शक्यते, तथाहि-मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्वतो भाविनी भ्रुवां चोपरितने श्रवणबन्धापेक्षया समे वाजिनो नेत्रयोरुपरि तीक्ष्णे चाप्रभागे इत्यादिजातिभेदान्नानाविधा, आभ्यन्तरा तु निर्वृत्तिः सर्वेषामपि जन्तूनां समाना, तामेव चाधिकृत्य प्रस्तुतसूत्रोक्तं संस्थानमवसेयं, केवलं स्पर्शनेन्द्रियनिर्वृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तत्त्वार्थमूलटीकायां तथाऽभिधानात्, उपकरणं-खड्गस्थानीयाया बाह्यनिवृत्तेर्या खड्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिकाऽभ्यन्तरा निवृत्तिः तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमन्तर्निवृत्तेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात् , कथञ्चिद्भेदश्च सत्यामपि तस्यामन्तर्निवृत्ती द्रव्यादिनोपकरणस्य विघातसम्भवात् , तथाहि-सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामन्तनिर्वृत्तावतिकठोरतरघनगर्जितादिना शक्त्युपघाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधा-लब्धिरुपयोगश्च, तत्र लब्धिःश्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणकर्मक्षयोपशमः, उपयोगः-स्वस्खविषये लब्धिरूपेन्द्रियानुसारेणात्मनो व्यापारप्रणिधानमिति, तच्च पञ्चधा-श्रोत्रादिभेदात्, तत्र श्रोत्रमाभ्यन्तरी निर्वृत्तिमधिकृत्य कदम्बपुष्पाकारं मांसगोलकरूपं चक्षुः किश्चित्समुन्नतमध्यपरिमण्डलाकारमसूराख्यधान्यविशेषसदृशं घ्राणमतिमुक्तककुसुमदलचन्द्रकवत् किञ्चिद् वृत्ताकारमध्यविततं प्रदीर्घत्र्यनसंस्थितं कर्णाटकायुधं क्षुरप्रस्तत्परिसंस्थितं-तदाकारं रसनेन्द्रियमिति ॥ ५॥ तथा 'नाणे'त्यादि, स्पर्शनेन्द्रियं पुनर्नानाकार-अनेकसंस्थानसंस्थितं, शरीरस्यासङ्ख्येयभेदत्वात् , तथा बाहल्यतः सर्वाण्यपीन्द्रियाण्यङ्गुलस्यासयेयो भागः। ननु यदि स्पर्शनेन्द्रियस्याप्यकुलास यभागो बाहल्यं ततः कथं खगाद्यमिघाते अन्तः शरीरस्य वेदनानुभवः ?, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात् , त्वगिन्द्रियस्य हि विषयः शीतादयः स्पर्शाः, यथा चक्षुषो रूपं, न च खड्गाद्यमिघाते अन्तः शरीरस्य शीतादिस्पर्शने वेदनमस्तीति, किन्तु केवलं दुःखवेदनं, तच्चात्मा सकलेनापि शरीरेणानुभवति, न केवलेन त्वगिन्द्रियेण, ज्वरादिवेदनावत् , ततो न कश्चिदोषः, अथ शीतलपानकादिपाने अन्तः शीतस्पर्शवेदनाऽप्यनुभूयते, ततः कथं सा घटते ?, उच्यते, इह त्वगिन्द्रियं सर्वत्रापि प्रदेशपर्यन्तवति विद्यते, तथा पूर्वसूरिमिर्व्याख्यानात् , तथा च प्रज्ञापनामूलटीका-"सर्वप्रदेशपर्यन्तवर्तित्वात्त्वचोऽभ्यन्तरतोऽपि शुषिरस्योपरि त्वगस्त्येवे"ति, ततोऽभ्यन्तरतोऽपि शुषिरस्योपरि त्वगिन्द्रियस्य भावादुपपद्यते अन्तरपि शीतस्पर्शवेदनानुभवः, तथा एवमेव-अङ्गुलासङ्ख्येयभागप्रमाणान्येव पृथुत्वतो-विस्तरतोऽपीन्द्रियाणि भवन्ति ॥ ६॥ नवरं रसनस्पर्शनयोर्विशेषः, तमेवाह-'अंगले'त्यादि गाथापूर्वाध, अङ्गलपृथक्त्वविस्तारं रसनेन्द्रियं, स्पर्शनं पुनः शरीरविस्तृतं भणितं, यस्य जीवस्य यावन्मानं शरीरं स्पर्शनमपि तस्य विस्तरतस्तावत्प्रमाणमित्यर्थः ।। अथेन्द्रियविषयमानमाह-बारेत्यादि साधो गाथा, द्वादशभ्यो योजनेभ्य आगतं घनगर्जितादिशब्दमुत्कृष्टतो गृहाति श्रोत्रं, न परतः, परत आगताः खलु ते शब्दपुद्गलास्तथास्वाभाव्यान्मन्दपरिणामास्तथोपजायन्ते येन स्वविषयं श्रोत्रविज्ञानं नोत्पादयितुमीशाः,श्रोत्रेन्द्रियस्य च तथाविध 218

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310