Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 176
________________ पञ्चानां व्यवहाराणामन्यतरेणापि व्यवहारेण युक्त एव प्रायश्चित्तप्रदाने गीतार्थों गुरुरधिक्रियते न त्वगीतार्थः, अनेकदोषसम्भवात उक्तं च-'अग्गीओ न वियाणइ सोहिं चरणस्स देइ ऊणऽहियं । तो अप्पाणं आलोयगं च पाडेइ संसारे ॥ १ ॥ इति [अगीतार्थो न विजानीते चरणस्य शोषिं ददात्यूनामधिकां वा । तत आत्मानमालोचकं च पातयति संसारे ॥१॥] १२६॥८५९॥ इदानीं 'पंच अहाजाय'त्ति सप्तविंशत्युत्तरशततमं द्वारमाह पंच अहाजायाई चोलगपट्टो १ तहेव रयहरणं २ । उन्निय ३ खोमिय ४ निस्सेजजुयलयं तह य मुहपोत्ती ५॥८६०॥ चोलपट्टस्तथा रजोहरणं तथा और्णिकक्षौमनिषद्यायुगलकं तथा मुखपोतिका एतानि पञ्च यथाजातानि, यथाजातं-जन्म तच्च श्रमण- . त्वमाश्रित्य द्रष्टव्यं, चोलपट्टादिमात्रोपकरणयुक्त एव हि श्रमणो जायते अतस्तद्योगादेतान्यपि यथाजातान्युच्यन्ते, तत्र चोलपट्टः प्रतीत एव, बाह्याभ्यन्तरनिषद्याद्वयरहितमेकनिषद्यं सदशं रजोहरणं, इह किल सम्प्रति दशिकामिः सह या दण्डिका क्रियते सा सूत्रनीत्या केवलैव भवति न सहदशिका, तस्याश्च निषद्यात्रयं, तत्र या दण्डिकाया उपरि तिर्यग्वेष्टकत्रयप्रमाणपृथुत्वा एकहस्तायामा कम्बलीखण्डरूपा सा आद्या निषद्या, तस्याश्चाने हस्तत्रिभागायामा दशिकाः सम्बद्ध्यन्ते, एषा च निषद्या दशिकाकलिताऽत्र रजोहरणशब्देन गृह्यते उक्तं च-"एगनिसेजं च रयहरण"मिति [एकनिषद्यावञ्च रजोहरणं ॥] द्वितीया त्वेनामेव निषद्यां तिर्यग्बहुभिर्वेष्टकरावेष्टयन्ती किचिदधिकहस्तप्रमाणायामा हस्तप्रमाणमात्रपृथुत्वा वस्त्रमयी निषद्या सा अभ्यन्तरनिषद्या, इयं च क्षौमिकनिषद्यामहणेनेह गृह्यते, तृतीया तु तस्या एवाभ्यन्तरनिषद्यायाः तिर्यग्वेष्टकान् बहून् कुर्वन्ती चतुरङ्गुलाधिकैकहस्तमाना चतुरस्रा कम्बलमयी भवति, सा-चोपवेशनोपकारित्वादधुना पादप्रोन्छनकमिति रूढा, इयं बाह्या निषोत्य मिधीयते, अस्यास्त्विह और्णिकनिषद्यापहणेन प्रहणमिति, तथा मुखपिधानाय पोतं-वस्त्रं मुखपोतं, मुखपोतमेव इस्वं चतुरङ्गुलाधिकवितस्तिमात्रप्रमाणत्वान्मुखपोतिका मुखवत्रिकेत्यर्थः, 'अतिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानीति वचनाच प्रथमतो नपुंसकत्वेऽपि कप्रत्यये समानीते स्त्रीत्वमिति १२७ ॥८६०॥ इदानीं 'निसिजागरणविहि'त्ति अष्टाविंशत्युत्तरशततमं द्वारमाह सत्वेऽवि पढमयामे दोन्नि य वसहाण आइमा जामा । तइओ होइ गुरूणं चउत्थ सवे गुरू सुयइ॥८६१॥ सर्वेऽपि साधवः प्रथमयामे-रात्रेः प्रथम प्रहरं यावत् स्वाध्यायाध्ययनादि कुर्वाणा जापति, द्वौ च आद्यौ यामौ वृषभाणां, वृषभा इव वृषभा-गीतार्थाः साधवस्तेषां, अयमर्थ:-द्वितीये यामे ये सूत्रवन्तः साधवस्ते स्वपन्ति वृषभास्तु जाप्रति, ते च जाग्रतः प्रज्ञापनादिसूत्रार्थ परावर्तयन्ति, तृतीयः प्रहरो भवति गुरूणां, कोऽर्थः ?-प्रहरद्वयानन्तरं वृषभाः स्वपन्ति गुरवस्तूस्थिताः प्रज्ञापनादि गुणयन्ति चतुर्थ प्रहरं यावत् , चतुर्थे च प्रहरे सर्वेऽपि साधवः समुत्थाय वैरात्रिकं कालं गृहीत्वा कालिकश्रुतं परावर्तयन्ति, गुरुः पुनः स्वपिति, अन्यथा प्रातर्निद्राघूर्णमानलोचनास्तदशादेव च भज्यमानपृष्ठका व्याख्यानभव्यजनोपदेशादिकं कर्तु ते सोद्यमाः सन्तो न शकुवन्तीति १२८ ॥ ८६१ ॥ इदानीं 'आलोयणदायगन्नेस'त्येकोनत्रिंशदुत्तरशततमं द्वारमाह सल्लुद्धरणनिमित्तं गीयस्सऽन्नेसणा उ उकोसा । जोयणसयाई सत्त उ वारस वासाइं कायदा ॥८६२॥ 'शल्योदरणनिमित्त आलोचनार्थ 'गीतस्य' गीतार्थस्य गुरोरन्वेषणा तुः पुनरर्थे उत्कृष्टा क्षेत्रतः सप्तैव योजनशतानि यावत्कतव्या कालतस्तु द्वादश वर्षाणि यावदिति, अयमर्थः-संनिहित एव गीतार्थो यदि न लभ्यते तदा योजनशतसप्तप्रमाणक्षेत्रेऽसावुत्कृष्टतो. ऽन्वेषणीयः कालतस्तु द्वादश वर्षाणि यावत्समागच्छन् प्रतीक्षणीय इति, नन्वेतावति क्षेत्रे तदन्वेषणार्थ पर्यटन्नेतावन्तं च कालं तमागच्छन्तं प्रतीक्षमाणः स यदि अन्तरालेऽप्रदत्तालोचनोऽपि म्रियते तदा किमयमाराधको न वेति ?, उच्यते, आलोचनां दातुं सम्यक्परिणतोऽन्तराऽपि म्रियमाणोऽयमाराधक एव, विशुद्धाध्यवसायसम्पन्नत्वात् , उक्तं च-"आलोयणापरिणओ सम्मं संपट्ठिओ गुरुसयासे । जइ अंतरावि कालं करेज आराहओ तहवि ॥१॥" [आलोचनापरिणतः सम्यक् संप्रस्थितो गुरुसकाशे । यद्यन्तराऽपि कालं कुर्यात् तथाप्याराधकः ॥१॥] अथैवमन्वेषणेऽपि सकलोक्तगुणगुरुर्गुरुर्न प्राप्यते तदा संविप्नगीतार्थमात्रस्याप्यालोचना दातव्या, यतः श्रूयते -अपवादतो गीतार्थसंविग्नपाक्षिकसिद्धपुत्रप्रवचनदेवतानामलाभे सिद्धानामप्यालोचना देया, सशल्यमरणस्य संसारकारणत्वात् इति, आह च-"संविग्गे गीयत्ये असई पासत्थमाइसारूवी" [संविग्ने गीतार्थे असति पार्श्वस्थादयः सरूप्यन्ताः इति ] १२९ ॥ ८६२ ।। सम्प्रति 'गुरुपमहाणं कीरइ असुद्धसुद्धहिँ जत्तियं कालं।' इति त्रिंशदुत्तरशततमं द्वारमाह जावजीवं गुरुणो असुद्धसुद्धेहि वावि कायचं । वसहे वारस वासा अट्ठारस भिक्खुणो मासा ॥८६३॥ यावज्जीवमाजन्मापीत्यर्थः गुरो:-आचार्यस्य शुद्धैः-आधाकर्मादिदोषादूषितैरशुद्धोऽपि-आधाकर्मादिदोषयुक्तैर्वाऽपि अशनपानभैषजादिमिः कर्तव्यं प्रतिजागरणमिति शेषः, अयमर्थ:-शुद्धैरशुद्धैश्च ते यावज्जीवमपि प्रविजागरणीयाः साधुश्रावकलोकेन, सर्वस्यापि च ग. 167

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310