Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
(११) १ प्रमाणमीमांसाग्रन्थधृतविषयः २ न्यायसूत्रप्रमाणमीमांसयोंवैलक्षण्यम् ३ श्रीहेमचन्द्राचार्यचरितम् ४ श्रीहेमचन्द्राचार्यरचितग्रन्थानां नामानि । इति चतुष्टयं यथामति सविस्तरं निरूपितम् । श्रीहेमचन्द्राचा. र्याणां वंशवृक्षो यद्यपि महतायासेन साधनानि समुच्चित्य संसाधितस्तथापि केषांचिदाचार्यमहाभागानां संसूचनया न मुद्रापितः । अन्तिममरुन्तुदं कृत्यं निवेदयामो यत् मुद्रापितग्रन्थे संभूता अशुद्धयः । तत्र कारणं मानुषतासुलभमज्ञानमिति तु नातिरोहितम् । तथापि काचिदासीत्त्वरा। तथाहि-अस्माभिरारब्धमात्रे मुद्रापणे श्रुतिपथमागतं यत् 'जैनश्वेताम्बरपरिषदोऽधिवेशनम्' पक्षाभ्यन्तर एव मोहमय्यां भवितेति तदासीन्मनसि यदेकसमयावच्छेदेन सर्वेभ्यो नानादिग्देशागतेभ्यःपण्डितेभ्यो जैनग्रन्थप्रसारबद्धादरेभ्यो महाशयेभ्यश्च दर्शनीयं मुद्रितप्रमाणमीमांसापुस्तकं भवतु च परिचयः कार्यद्वारा 'आर्हतमतप्रभाकरस्य ' इति निश्चित्य प्रत्यहं षोडशपत्राणि मुद्राफ्तिानि । तेन मुद्राप्यमाणपत्रावलोकनानवसरादशुद्धयः प्रतिपृष्ठं पदमकार्षुः । संतुष्यते चेतो निवेदयितुं पुस्तकमेतन्मुद्रापितं दृष्ट्वा बहुभिः प्रज्ञैर्महाशयश्चै सभ्यैः प्रोत्साहितोऽहं आहेतमतप्रभाकरकर्मणि । ततः सभाया निवर्त्य शुध्द्यशुद्धिपत्रं निर्मितं तदप्यन्ते परिशष्टरूपेण मुद्रापितम् । तदनुसारं संपाद्य पुस्तकशुद्धिं पठेयुः पाठकश्रेष्ठा इति विज्ञापयामः ।
प्रमोदावहं स्वकर्तव्यं निवेद्यते यदन्तरा समापयितुं न पारयामि प्रास्ताविकं तदेतन्मान्यानां पं. व्याकरणाचार्यवेदान्तवागीशपाठकोपाह्वश्रीधरशास्त्रिणामनुग्रहभरनिर्देशो नाम । महाभागैः सहृदयैरेभिः कार्यकालव्ययमविगणय्य शास्त्रीयग्रन्थबद्धादरेणोपकृतोऽहं सर्वथा प्रकाशनेऽस्य ग्रन्थस्य । यदि न स्यात् साहाय्यमेतेषां तर्हि प्रकाशनकार्यं विशदार्थकारिटिप्पनीयुतं प्रास्ताविकं च सर्वाङ्गीणं नैव मया प्रकाशयितुं शक्यतेति निर्दिशन्नहमल्पांशेनापि आत्मानमत्युक्तिभाजनं करोमि । किंच 'दत्तराम रंगनाथ उपासक' (कार्याधिपो जैन प्रिंटिंग वर्क्स) एतेषां महाशयानामनुग्रहभरोद्वहनं स्वकर्तव्यं मन्ये यदल्पीयसा कालेन स्वीयकार्यकर्तृभिः सहैतैः सोदायासभरानहोरात्रं संपादितं मुद्रणं पुस्तकस्यास्य । यदि न स्यादीदृशं साहाय्यं तर्हि पुस्तकमिदं जैनश्वेताम्बराधिवेशनसमये नोपस्थितं भवेत् । अतः परं सर्वान् विदुषो विज्ञापयामि यदत्र समुपलभ्यमानास्टीर्विज्ञाप्यानुग्राह्योऽयं जन इति संप्रार्थकःसांवत्सरीकपर्व वीरसंवत् २४५२ ।
विद्वद्वशंवदः, पुण्यपत्तनम् .
मोतीलाल लाधाजी

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136