Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 34
________________ सूत्र १-१-२ [प्रमाण तेन सम्यग् योऽर्थनिर्णय इति विशेषणाद्विपर्ययनिरासः । ततोऽतिव्याप्त्यव्याप्त्यसम्भवदोषविकलमिदं प्रमाणसामान्यलक्षणम् ॥२॥ नन्वर्थनिर्णयवत्स्वनिर्णयोऽपि वृद्धैः प्रमाणलक्षणत्वेनोक्तःप्रमाणं स्वपरावभासीति । स्वार्थव्यवसायात्मकं प्रमाणमिति च। न चासावसन् । घटमहं जानामीत्यादौ कर्तृकर्मवज जप्तेरप्यवभासमानत्वात् । न चाप्रत्यक्षोपलम्भस्यार्थदृष्टिः प्रसिद्धयति । न च ज्ञानान्तरात् तदुपलम्भसम्भावनम् । तस्यानुपलब्धस्य प्रस्तुतोपलम्भ प्रत्यक्षीकाराभावात् । उपलम्भान्तरसम्भावने चानवस्था । अर्थो। पलम्भात्तस्योपलम्भेऽन्योन्याश्रयदोषः । एतेनार्थस्य सम्भवो नोपपद्यते न चैतज् ज्ञानं स्यात् इत्यर्थापत्त्यापि तदुपलम्भः प्रत्युक्तः। तस्या अपि ज्ञापकत्वेऽनाज्ञाताया ज्ञापकत्वायोगात् । अर्थापत्त्यन्तरात् तज्ज्ञानेऽनवस्थेतरेतराश्रयदोषापत्तेस्तदवस्थः परिभवः । तस्मादर्थोन्मुखतयेव स्वोन्मुखतयापि ज्ञानस्य प्रतिभासात् स्वनिर्णयात्मकत्वमप्यस्ति । नन्वनुभूतरनुभाव्यत्वे घटादिवदननुभूतित्वप्रसङ्गः । मैवं वोचः । ज्ञातुर्ज्ञातृत्वेनेवाऽनुभूतेरनुभूतित्वेनैवानुभवात् । न चानुभूतेरनुभाव्यत्वं दोषः । अर्थापेक्षयानुभूतित्वात्, स्वापेक्षयाऽनु१ अर्थस्य निर्णयोऽर्थनिर्णयः सम्यक् चासौ अर्थनिर्णयश्च । २ अलक्ष्यवृत्तित्वमतिव्याप्तिः । यथा गोः शृङ्गित्वम् । लक्ष्यभिन्नमलक्ष्यं तत्र लक्षणसत्त्वम् । शृङ्गित्वं लक्ष्यभिन्नमहिण्यादिषु वर्तते । अतस्तदतिव्याप्तम् । ३ लक्ष्यैकदेशावृत्तित्वमव्यातिः । यथा गोः कपिलत्वम् । लक्ष्यस्यैकदेशे लक्षणस्यासत्त्वम् । प्रकृते लक्ष्या गावः । तदेकदेशः शुक्ला गावः । तत्र कपिलत्वस्यासत्त्वादव्याप्तिः । ४ लक्ष्यमात्रावर्तनमसम्भवः । यथा गोरेकशफवत्त्वम् । कस्मिन्नपि लक्ष्ये लक्षणासत्त्वम् । एकशफवत्त्वं न कस्यामपि गवि वर्तते । अतस्तदसम्भवदोषदूषितम् ।) प्रमाणं स्वपराभासि ज्ञानं बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्रयात् ।। श्रीसिद्धसेनदिवाकरप्रणीत न्यायावतार श्लोकः १ ।

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136