Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 60
________________ (२०) सुकृताऽनुसेवनस्याऽऽदौ दुष्कृत-गर्हाया आवश्यकता, पापधिक्कारवतामेव धर्मसिद्धेः सम्भवात्... सुकृताऽनुसेवनरूपस्य धर्मस्य सिद्धिहेतोरपि दुष्कृतनिन्दारूपस्य पापधिकारस्याऽऽवश्यकता . अनिवार्येति । शरण्येष्वपि चतुर्णामेवान्यूनाऽतिरिक्तानामेव शरणदातृत्वे योग्यता, शरण्यताग्रहणमपि चतुर्णा-. मेवाहदादीनां योग्यं यतो न विहाय चतुर एतान् जगत्यस्ति कोऽपि तथापकारस्त्राता पापेभ्यः, .. साधकश्च निःश्रेयससाधनानां । तथाभव्यत्त्वपरिपाकवांश्च जीवो निःश्रेयसमार्गस्य देशकतया प्रथममर्हतः शरणं प्रपद्यते, .. प्रतिपन्नश्चार्हता. शरणं तदैव निश्चितं मोक्षसाधनसमर्थः स्याद्यदि सनातनपदस्थाः सच्चिदानन्दपूर्णाः शाश्वताः सिद्धा मोक्षमार्गप्रवृत्तिफलरूपाः स्युरिति योग्यमेव द्वितीयं सिद्धानां भगवतां शरणीकरणमिति, लब्धे मार्गे स्थिरेऽवश्यप्राप्तव्ये निश्चिते च साध्ये तत्प्राप्तये यत्न आस्येयो बुद्धिमद्भिः, परं स यत्नो नैकाकिनाऽनादिकालोनप्रमादग्रस्तेन साध्यते, न च निःसाधनो यत्नः कार्यसाधक इति सहायकाः सन्मार्गोपदेशकाः सहायकाश्चावश्यमेष्टव्याः साधव इति तृतीये शरणे साधवः, भगवद्भिः केवलिभिः श्रीअहंदादिभिः प्ररूपितं शासनं धर्मरूपं यत् तदेवाऽपवर्गप्रापणप्रवणोऽध्वेति, तस्याऽप्यसाधारणोपकारकतया तत्त्वतस्त्वपवर्गमार्गरूपतयाऽवश्यं स्वीकरणीयैव शरणतेति योग्यमेवाsन्यूनाऽतिरिक्ततयाऽसाधारणोपकारतया च चतुर्णामेव शरणानां स्वीकार इति । एवं च चतुरन्तपृथ्वीसाधनसमर्थ-चक्रवर्तिचक्ररत्नवच्चतुर्गत्यन्तकारकचतुःशरणचक्रे गृहीते ऋषभकूटभेदवद् दुष्कृतानां तद्गद्विारा भेदन, नवनिधानसाधनवच्च सुकृतानामनुसेवनं च स्वभावसिद्धमेव, तद्वयमन्तरा तात्विकस्य चतुःशरणगमनस्यैवासम्भवात् । एवं च तत्वतः पारम्पर्येण सकलस्य मोक्षमार्गस्य सिद्धिरेतत्रितयेनेत्यतः आहुः प्रकरणकाराः श्रीमदर्हतां भगवतां वाक्यानुवादेन–'अओ कायन्यमिणं 'ति, यत एतावता ग्रन्थेन साधितमिदं यदुत-" चतुःशरणगमन-दुष्कृतनिन्दा-सुकृतानुसेवनैस्तथाभव्यखादेविपाकः, तस्माच्च तथाविधानां पापकर्मणां नाशः, नाशाच्च तथाविधानां पापानां शुद्धधर्मस्य सम्माप्तिः, तस्याश्च शुद्धधर्मसम्पचेरनादिकर्मसंयोगनिवर्तितस्य भवस्य व्युच्छेद इति । . ततो भवविच्छेदाऽनन्तरभाविना सिद्धावस्थेन भवितुकामेन कर्त्तव्यमिदं, सावधारणत्वाञ्च कर्तव्यमेवेदं त्रयमिति । अतः साधितकर्त्तव्यस्याऽस्य विधेः कालं दर्शयितुमाहुः प्रकरणकारा अनुवादयन्तः-'भुजो २ संकिलेसे तिकालमसंकिलेसे' इति, संक्लेशश्चात्र भयानके रोगे दीर्घकालीने आमये कस्मिंश्चिदपि वा मरणदायिनि प्रसङ्गे उपस्थिते या मनसो व्यग्रता, तदुत्थ आत्मपरिणामः, तस्मिंश्च सतिं यदा यदा शक्यं ।

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193