Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
तदेवं ग्रन्येनैतावता सिद्धार्गस्य प्रवर्तकानामर्हतां भगवतामनुष्ठानं मार्गफलरूपस्याऽविप्रणाशित्वाऽऽदिस्वरूपाणां भगवतां सिद्धानां सिद्धस्वभावं चानुमोद्य शुभोदेशेन प्रचुरवित्तव्ययेन स्थापितस्यापि चैत्यस्थापनादेः प्रभावकत्वं यथा सारणादिकर्तृणां महापुरुषाणां प्रयत्नेनैव भवति, तथा स्थापितस्याईता भगवता सिद्धिप्राप्तिफलेन सफलस्यापि मार्गस्य जगदुपकारप्रवणत्वं त्वाचार्यादिभिः सारणादिकर्त्तव्यानां शासने विधानादेवेति तेषां भगवतामसाधारणकार्याणामनुमोदतार्थमथ पुरतो ग्रन्थमाइ
'सव्वेसि आयरियाणं आयार 'मित्यादि ।
ननु भगवताऽर्हतैव तीर्थं प्रवर्तयता दर्शित माचारः सर्वोऽपि शासनस्थापनाऽवसरे चतुर्वर्णश्रीश्रमणसङ्घाय, तत्कथमाचार्याणामाचार ? इति चेत् ?, यद्यपि भगवन्तोऽष्टादशानामज्ञानादीनां दोषाणामन्तकृतस्तत्त्वेन चाऽपवर्गपथहेतुकाऽऽचारवन्त एव, परं केपाश्चिद् व्यवहाराणामभावात् कल्पातीतास्ते उच्यन्ते भगवन्तः, आचार्यादयस्तु शासनप्रवृत्तव्यवहारवन्त एव, एत (अत) एव च ग्रहणाऽऽ-सेवनादिशिक्षाणां स्थविरा एव प्रवर्त्तयितारः जिना अपि च दोक्षयित्वा शिक्षाग्रहणायथ शिष्यान् मेघकुमाऽऽरादीन् स्थविरानेवाऽर्पयामासुः ।
किञ्च-भगवन्तोऽर्हन्तः स्थापयित्वा शासनं निर्वाणपथप्रवृत्ता आचार्येभ्य एव शासनं ददुः, अत एव 'कइयाऽवि जिणवरिंदा' इत्यादि पठ्यते, तत आचार्याऽऽधीन एवाऽऽचारः ।
किञ्च-शासनव्यवहारो हि जीताऽन्तैः पञ्चभिराचारैः, न च जिनानामागमादिव्यवहाराधीनतेति योग्यमुच्यते आचार्याणामाचार इति ।
यद्यप्युपाध्यायाः साधवश्वाचार्यैः समान् एव ज्ञानादिगतानाचारान् पञ्चापि पालयन्ति स्वयं, परास्तेषु प्रवर्तयन्त्युपदिशन्ति च, परं ते सर्वेऽधीना आचार्यस्येति स्वामिन आचार्या एवाऽऽचाराणाम् ।
अत एव चाचार्येण विहीनानां साधूनां चौरपल्लिवाससमन्वं कैश्चिदुपदिश्यते, उच्यते च .. पर्युषणाकल्पादिषु 'आचार्याः प्रत्यपायान् जानन्ति' इति ।
शासनस्य प्रवर्तनमर्थदानं चाऽर्हदनुकारेणाऽऽचार्याणां कृत्यं, परं तन्मात्रप्रवृत्यविरोधार्थ सूत्रदानं तु त एवोपाध्यायद्वारा कुर्वन्ति इत्युपाध्यायानां कार्याणां पृथक्त्वात्तदनुमोदनाथमाह-सव्वेसि उवज्झायाणं मुत्तप्पयाण 'मिति ।
· एवं च शासनस्य प्रवर्तनमर्थदानं चाचार्यकृत्यतया, सूत्रशिक्षण चोपाध्यायकार्यतयाऽनुमोदनेन द्वयमपि शासनरथचक्रस्यानुमोदितम् ।
यद्यपि गणि-प्रवर्तकादयोऽपि अघीयन्ते सूत्राणि, अध्यापयन्ति च स्वनिश्रास्थितान् साधून् , पर नियमनं यनिम्रन्थानां निम्रन्थीनां च दिग्बन्धन भवति, तदिग्बन्धननियमपूर्वकं सूत्रप्रदानं तूपाध्यायानामेव कार्यम् ।

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193