Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 92
________________ (५२) एष एव च सदन्धमार्गगमनन्यायेन मार्गगमोऽसुमत आदितो भवति, अनागताश्चनं मार्ग लोकपङ्क्तये भवरतये च परःसहस्राः शरदस्तपस्यन्तोऽपि दुःखानामुरो ददाना अपि नाऽगता मार्गम् । अनागताश्चैन ये शमादोन् धारयन्ति, ते तु वातजशोफपुष्टिधारिणः पुष्टा एव परिणामरमणीयलाभशून्या एव । __ अधिकारी चाहत आज्ञाया अत्रैवागतोऽसुमान् भवति । एष एव च धर्म-मार्गयोर्भेदः मार्गों हि चरमावर्ताऽऽरम्भाल्लभ्यो, धर्मस्त्वपापुद्गलावादिति । तथाविधदशाप्राप्तानामेवाऽनगाराणां भगवतां शरण्यत्वमर्हमिति ज्ञापनायादौ 'प्रशान्ते' ति | आगताश्च प्रशान्तवाहितां जीवास्त्यक्त्वा भवाभिनन्दितां मोक्षमेव गम्भीराशयतयाऽभिप्रेयन्ते, न च स्वप्नेऽ येते मुक्त्वाऽपवर्ग अन्यं सम्यक्त्वलक्षणेन संवेगेनाऽङ्कितत्वादभिलपन्ति । किञ्च-विनाऽऽशयस्य गाम्भीर्यमनादिकालीनाया मोहवासनाया मुक्तिः, सर्वकालसिञ्चिताया इन्द्रियार्थप्रसक्तेः पराकरणं, बाह्यार्थसाधनसावधानमात्राऽऽदिकुटुम्बजनस्य निर्मुक्तिरंशतोऽप्यननुभूतस्य मनसोऽप्यतिक्रान्तविषयस्य मोक्षस्य पुरस्कारेण सर्वप्रयत्नेनोद्यमनं, विविधभावनाऽङ्कितदुर्धरमहाव्रतधुराधरणं, जीवितान्तकराणामपि परीषहोपसर्गाणामापाते निरवद्यसंयमसाधनपुरस्सरमात्मनिःश्रेयससाधननिष्णत्वं न कदाचनापि कस्यापि शक्यतापदमापनीपद्येत । अतिपरिचितानामनादिसम्बद्धानामनुपदमनुभवपदवीमागच्छतां पुद्गलसमूहानां परमार्थपरमरिपुताऽध्यवसानेनाऽऽत्मस्वभावभूतसम्यग्दर्शनादिरत्नत्रयीद्वाराऽत्राप्य शाश्वताऽऽ:मीयाऽऽनन्दमयाऽपवर्गप्राप्तिप्रवणता-प्रव्रजनमति–प्रशान्तगम्भीराऽऽशयकार्यमनन्यसाधारणमवसेयं प्रशान्तगम्भीराशया अपि गृहिलिङ्गाऽऽदिसिद्धिश्रवणादप्रतिज्ञातसावद्ययोगा अपि स्युः । अपि च भगवतोऽर्हतः शासनं यद्यपि गुणानुरागमूलं, प्रधानश्च गुणानामेवानुरागस्तत्र परं व्यवहारपथः सलिङ्गाः एव गुणा, न निर्लिङ्गाः । अत एव चोत्पन्नकेवलस्यापि भगवतो भरतस्य न शकेन्द्रेण केवलमहिम्ना समागतेनापि वन्दनं कृतं, किन्तु विज्ञप्तिरेवं कृता यदुत प्रव्रज्यां गृह्णीध्वं, येन करोमि वन्दनमिति । प्रस्तुते शरणाधिकारेऽपि न प्रशान्तगम्भीराशया अपि अप्रतिज्ञातसावद्या योग्याः शरणे इत्याह'सावद्ययोगविरता' इति ! ___ संसारिणो हि जीवाः समस्ता अपि सयोगा एव, केवलमलेश्यावस्थामुपगता एव मुक्तिसौधसोपानस्था अयोगिनः । योगश्च यस्य स सर्वोऽपि प्राणिवर्गों यथायथमवद्यबन्धनबद्धव्यापारः । .. अत एव मिथ्यादर्शनादनन्तरं जैनशासने वन्धधामाऽभिमतमव्रतमिति । . जैने हि दर्शने पापादविरमणे पापक्रियाया अकरणेऽपि सुप्त-मूर्छितक्रियचौराऽभिमाराऽऽदिवत्

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193