Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 143
________________ (७) प्राणसङ्ख्यामनुसरन्ति, न दशप्राणवर पञ्चेन्द्रियविनाशेन सममे के न्द्रियादिदशप्राणविनाशनं, किन्तु प्राणसामर्थ्यानुसारेण प्राणविनाशजन्य आश्रवोऽभिमन्यते । प्राणानां सामर्थ्यं चैकेन्द्रियाणामनन्तानामपि यत्स्पर्शनेन्द्रिकायबलादिगतं सामर्थ्यं ततोऽनन्तगुणविशुद्धं क्रमशो द्वीन्द्रियादीनां तत एव च पचेन्द्रियवधादिभिर्नरकायुष आश्रवः । किश्च ऋषिइत्याकारकाणां यन्महावैरत्वं श्रीभगवत्यादिषु 'चेइयदव्वविणासे इसिघाए ' इत्यादिना दुर्लभबोधित्वं च प्रन्येषु यदुक्तं, तत्क्षयोपशमादिजन्यस्य जीवगुणसमुदायरूपभावप्राणस्य सामर्थ्यमपेक्ष्य । एवं च प्राणिप्राणरक्षाविषये ओघनिर्युक्त्यादिशास्त्रेषु प्रतिपादितावुत्सर्गापवादावपि सुखोन्नेयौ भविष्यतः । स्पष्टीभविष्यत्येतस्मादधिकारात् सचित्तानामप्यन्नानां भक्ष्यत्वं मांसादीनामभक्ष्यत्वं च कथमार्यैः कृतमित्यस्य तत्वमिति । अनादिकः क्रमः एष रूढितः स्थूलप्राणवघ विरमणाऽऽदिकोऽणुव्रतादिषु, परमेष विशेषः यदुतद्वाविंशतिमध्यमजिनतीर्थसाधूनां महाविदेहसाधूनां च महात्रतेषु चतुर्थे महाव्रते ' वहिद्धादाणाओ विरमण 'मित्येवं प्रत्याख्यानेन चतुर्महात्रतत्वं भवति, परं श्रावकाणां तु सर्वेष्वपि शासनेषु पंचैवाऽणुव्रतानि । तत एव ज्ञातधर्मकथादिषु श्रीनेमिजिनशासनादिगतानामपि सम्यक्त्वमूलानां द्वादशानां व्रतानामुक्तः स्वीकारः श्राद्धानां सङ्गच्छते इति । यद्यपि चाऽऽगमधुरन्धराः “जो देउवायपक्खंमि हेउओ आगमे य आगमिओ "त्ति धृत्वा प्रतीकं सम्यग्दर्शनादिभि, साध्या मोक्षाचा हेतुवादरुपाः, भव्यत्व - जीवत्वादयश्च साध्या न केनापि इति ते आगमिका इति व्याख्याय आगमिकेष्वर्थेषु युक्तीनामुपन्यासमेव निषेधयन्ति केचित् । केचिच्च 'आण गिज्झो अत्थ आणाए चैव सो कहेयव्वो । दिहंतिम दिहंता सिद्धंतविराहणा इहरे' - स्युक्वा सर्वेषामर्थानामाज्ञाप्राह्यत्वमादौ व्यवस्थापयन्तु पश्चाच्च यत्राऽर्थसाधने दृष्टान्तशब्दोपलक्ष्याण्यनुमानादीनीतराणि मानानि स्युस्तत्र तान्यप्यवश्यं प्रयोक्तव्यान्येव । तथा च श्रद्धानुसारिणां जीवानामनयैवागमोक्तपदार्थानां श्रद्धानेऽपि तर्कानुसारिणामपि सिद्धान्तोक्तानां पदार्थानां श्रद्धानं सुकरं भवतीति व्याख्यानयन्तीति । द्वितीयपक्षमाश्रित्य युक्तिलेशोऽत्र दर्श्यते, अष्टादशसु पापस्थानेषु आश्रवस्थानेऽवतेषु चादावेव पठ्यते प्राणवषः, अतस्तत्सर्व- देशविरतिरुपेषु महात्रता- ऽणुत्रतेषु युक्तमेवादौ तस्य पठनं । किश्व-प्राणानां

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193