Book Title: Naishadh Mahakavyam Uttararddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 888
________________ द्वाविंशः सर्गः। 1585 उक्ति अर्थात् मेरा रचा 'हुमा यह 'नैषधचरित' नामक महाकाव्य यदि अमृत होकर विद्वानोंके चित्त को आनन्दित करती है तो इस मदुक्तिको नीरस लोगों के अधिक अनादरसे क्या (हानि ) है / [जिस प्रकार युवकों के समान कुमारों के अन्तःकरणको आकृष्ट नहीं करने पर भी युवतीका सौन्दर्य दोषयुक्त नहीं माना जाता, उसी प्रकार विद्वानों के चित्तको मानन्दित करनेवाला मेरा यह महाकाव्य नीरस ( मुखं या-असहृदय) लोगोंके अतिशय भनादर करनेपर भी दोषयुक्त नहीं कहा जा सकता] // 1 // कविरर्थान्तरोक्त्या स्वीयामुक्तिं वर्णयतिदिशि दिशि गिरिग्रावाणः स्वां वमन्तु सरस्वती तुलयतु मिथस्तामापातस्फुरवनिडम्बराम् / स परमपरः क्षीरोदन्वान् यदीयमुदीयते मथितुरमृतं खेदच्छेदि प्रमोदनमोदनम् // 2 // दिशीति / गिरिग्रावाणोऽद्रिपाषाणा दिशि दिशि स्वां निजां सरस्वती नदीमन्त. गंतजलप्रस्रवणं वमन्तु मुश्चन्तु / आपातः सामस्स्येन पतनं स्फुरन्प्रकाशमानो ध्वनि डम्बरः शब्दाडम्बरो यस्यां तां च नदी मिथस्तुलयतु मिथोऽन्यनद्या समीकरोतु / अविसर्गान्तपाठे-आपातेन समन्तादूर्ध्वदेशादधःपतनेन प्रकाशमानः शब्दा. उम्बरो यस्यां तामन्यनद्या सद्यं समीकसेतु, जन इत्यर्थः। अथ च-आपाते प्रथ. मारम्भ एव स्फुस्स्प्रपातघोषां तां जनो मिथस्तुलयतु / उभयव्याख्यानेऽपि परिणामे तु न नदी न च तस्या शब्दाडम्बरश्चिरंतन इत्यर्थः। स क्षीरोदन्वान् परं केवलं, अपरः न विद्यते पर उस्कृष्टो यस्मादत्युत्कृष्टः। अथ च-अन्य एव / यतो यस्य पीरोदस्येदं यदीयममृतमेतादृशमुदीयते उत्पद्यते / कीदृशम् ? मथितुर्देवादेः खेदछेदि मथनजनितक्लेशापहम् / तथा-प्रमोदनं नितरामानन्ददायि / तथा-ओदनं भक्तमास्वाद्यं सिद्धान्नरूपम् / अथ च-एवंभूतं परमुस्कृष्टममृतं यदीयमुदीयते स क्षीरोदन्वानपरः परोऽन्यो नास्ति, किंत्वेक एव / अथ च-प्रतिदिशं सर्वदेशेषु गिरि वाण्यां विषये पाषाणतुल्या जडा अन्ये कवयः स्वीयावाणीमुनिरन्तु / आपातेन प्रतिभामात्रेण स्फुरन् ध्वन्याख्यकाव्यविशेषस्याडम्बरो यस्यां,प्रथमारम्भ एव स्फुरन् शब्दाडम्बरोऽनुप्रासो यत्र तां वा, वाणीमन्योन्यं जनः समीकरोतु यस्य कवेरुक्तिरस्येव, अस्य च तस्येव इत्येवं तुलयतु / 'आपातः' इति विसर्जनीयान्तपाठेभापातः प्रतिभासस्तां तुलयस्वित्यर्थः / एवंविधं परं काव्यामृतं यदीयमुत्पद्यते स क्षीरसमुद्रतुल्यः श्रीहर्षकविरपरो(अन्यो) नास्ति, किं रवेक एव / अन्ये कवयः पर्वत. ग्रावतुल्याः, अहं श्रीहर्षस्तु क्षीरसमुद्रतुत्य इत्यर्थः / यथा क्षीरसागरो नीरार्थिनोऽपि तीरमानस्थान्क्षीरेण तर्पयति / लक्ष्मीकौस्तुभामृतादिभिः परमानन्ददायिभिः कृता. यति, (तथा) मदीयकाव्यविचारकस्यैव खेदच्छेदि प्रमोदनं वचनामृतमुस्पद्यते,

Loading...

Page Navigation
1 ... 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922