Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
622
चतुर्दशपूर्वभृतां, सहस्रं द्विशतोत्तरम् । स्फुरद्वैक्रियलब्धीनां, सहस्राणि दशाभवन् ॥ ५६३ ॥ वादिनां सप्त चत्वारिंशच्छतानि मतान्तरे । द्विचत्वारिंशच्छतानि, तत्त्वं जानाति केवली ॥ ५६४ ॥ सुभूमो गणभृन्मुख्यो, धरणी च प्रवर्तिनी । द्विपृष्ठवासुदेवश्च, नृपश्चरणसेवकः ॥ ५६५ ॥ यक्षः कुमार: श्वेताङ्गः, श्वेतयानश्चतुर्भुजः । मातुलिङ्गबाणशालिसद्दक्षिणकरद्वयः ॥ ५६६ ॥ कोदण्डनकुलाभ्यां च, शोभितो वामहस्तयोः । पिपर्ति श्रीवासुपूज्यजिनसेविसमीहितम् ॥ ५६७ ॥ प्रवराख्या प्रभोदेवी, चण्डाख्या च मतान्तरे । चतुर्भुजा श्यामवर्णा, सत्तुरङ्गमवाहना ॥ ५६८ ॥ दधाति वरदं शक्तिं, भुजयोरपसव्ययोः । दधाति सव्ययोः पुष्पं, गदां चैषा महाशया ॥ ५६९ ॥
___इति श्रीवासुपूज्य: ॥ धातकीखण्डभरते, महापुर्यां नृपोऽभवत् । पद्मसेनाद्वयः सर्वगुप्तर्षेः सोऽग्रहीव्रतम् ॥ ५७० ॥ ततः सुरः सहस्रारेऽष्टादशार्णवजीवितः । भूत्वा पाञ्चालदेशेऽभूत्पुरे काम्पील्यनामनि ॥ ५७१ ॥ श्यामाराज्ञीकुक्षिरत्नं, कृतवर्ममहीपतेः । पुत्रः पवित्रचारित्रविमलो विमलाह्वयः ॥ ५७२ ॥ वैशाखद्धादशी शुक्ला, माघे शुक्ला तृतीयिका । माघे चतुर्थी शुक्ला च, पौषे षष्ठी तथोज्ज्वला ॥ ५७३ ॥ आषाढे सप्तमी कृष्णा, कल्याणकदिना: प्रभोः । आहिर्बुजं चतुर्पु स्याद्धिष्ण्यं पौष्णं च पञ्चमे ॥ ५७४ ॥ मासा अष्टौ दिनान्येकविंशतिर्गरभस्थितिः । राशिींनाह्वयो लक्ष्म, शूकर: कीर्तितः प्रभोः ॥ ५७५ ॥ गर्भस्थेऽस्मिन्मातुरास्तां, मत्यङ्गे विमले इति । अन्तर्बहिश्च विमलतया वा विश्ववर्यया ॥ ५७६ ॥ विमलो नामधेयेनादेयनामा स कीर्तितः । षष्टिचापोन्नत: षष्टिलक्षाब्दायुर्जगद्विभुः ॥ ५७७ ॥ श्रीवासुपूज्यनिर्वाणात्रिंशता सागरोपमैः । षष्टिलक्षशरन्न्यूनर्जन्माभूद्धिमलप्रभोः ॥ ५७८ ॥ तुर्यारकेऽब्धयः शेषाः, षोडश प्रभुजन्मनि । पूर्वोदितैर्वर्षलक्षैस्तत्सहनैश्च साधिकाः ॥ ५७९ ॥ तुर्यारकस्य शेषो यो, जिनजन्मनि वक्ष्यते । इतः प्रभृति स स्वस्वायुषाऽभ्यधिक ऊह्यताम् ॥ ५८० ॥ लक्षा: पञ्चदशाब्दानां, कुमारत्वेऽवसद्धिभुः । लक्षाणि त्रिंशतं राज्ये, लक्षाः पञ्चदश व्रते ॥ ५८१ ॥ तत्र दिमासी छाग्रस्थ्यं, शिबिका च व्रतक्षणे । देवदिन्ना जयो धान्यकटे प्रथमदायकः ॥ ५८२ ॥ जम्बूतरुतले स्वामी, पञ्चमज्ञानमाप स: । निर्दिष्टाः सप्तपञ्चाशद्धिभोर्गणधरोत्तमाः ॥ ५८३ ॥
अयमावश्यकाभिप्रायः, समवायाङ्गे तु षट्पञ्चाशद्गणधरा उक्ता इति ज्ञेयं । अष्टषष्टिः सहस्राणि, साधूनां शीलशालिनाम् । लक्षमेकं च साध्वीनां, शतैः साधिकमष्टभिः ॥ ५८४ ॥ लक्षद्वयं च श्राद्धानां, सहजैरष्टभिर्युतम् । चतुर्लक्षी श्राविकाणां, सहस्रा जिनसंमिताः ॥ ५८५ ॥ शतानि पञ्चपञ्चाशत्केवलज्ञानशालिनाम् । मन:पर्यायचिद्भाजां, तावन्त्येव शतानि च ॥ ५८६ ॥ १ तीर्थंकरवत् गणभृतामायुषो नियमाभावात् अल्पायुष्यादिकारणान्नैको विवक्षितःस्यात् ।

Page Navigation
1 ... 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738