Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
651
ततः प्राणसमः पुत्रः, प्राणेशस्तु ततोऽधिकः । ध्यात्वेत्यात्मजघातं सा तद्दाक्षिण्यादमन्यत ॥ १४२ ॥ उक्तं च-“नितम्बिन्यः पतिं पुत्रं पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि, दुर्वृत्ताः प्राणसंशये ” ॥ [ योगशास्त्र प्रका. २. श्लो. ८६ ]
१४३ ॥
१४४ ॥
१४५ ॥
१४६ ॥
१५१ ॥
अथ मंत्री धनुर्दीर्घराजमूचे कृताञ्जलिः । यामि तीर्थमहं जीर्णः, पुत्रस्त्वां सेविता मम ॥ धीमाननर्थं मा कार्षीत्पतितोऽयमितो बहिः । इत्यूचे मंत्रिणं दीर्घो दंभकोमलया गिरा ॥ त्वयैव त्वत्प्रभो राज्यं, सनाथं साक्षिणो वयम् । तत्तपस्व तपोऽत्रैव, स्वैरं सुरसरितटे ॥ ततः स्वर्गापगातीरे, सत्रागारे स तस्थिवान् । पुरान्तः पुखार्त्ता च विदन् सर्वां सुतोदिताम् ॥ कन्यका पुष्पचूलस्य, ब्रह्मदत्तकृतेऽर्थिता । चुलनीदीर्घराजाभ्यां जिघांसुभ्यां छलेन तम् ॥ १४७ ॥ सुतं हन्तुं जतुगृहं, चुलनीदीर्घकारितम् । ज्ञात्वा सुरां द्विक्रोशां, धनुश्छन्नामकारयत् ॥ १४८ ॥ तत्सर्व पुष्पचूलस्य, धनुना ज्ञापितं रहः । ततः सोऽपि सुतास्थाने, दासीमप्रेषयद्वराम् ॥ १४९ ॥ जातेऽथ सुतविवाहे, सुतं प्रैषीत्स्नुषान्वितम् । जातुके वासभवने, चुलनी कुलनीलिका ॥ १५० ॥ बालं सुप्तं सुतं सद्यः, परिणीतं स्नुषान्वितम् । अन्त्यदेहापि चुलनी, जिघांसामास धिक् स्मरम् ॥ जाग्रत्येव ब्रह्रादत्ते, मित्रचित्रकथारसैः । जज्वाल चुलनीक्षिप्तो ज्वलनोऽस्मिन् गृहेऽभितः ॥ १५२ ॥ ततोऽधःस्थसुरङ्गयं क्ष्मां, मन्त्रिपुत्रेण दर्शिताम् । लूतापुटवद्भिय, निरगान्मित्रयुक् ततः ॥ १५३॥ धनुना धारितावश्वावारुतावुभावपि । निशि तस्यामयासिष्टां पञ्चाशद्योजर्नी द्रुतम् ॥ १५४ ॥ अतिश्रमाद्धिपन्नौ तौ, तुरङ्गौ पञ्चहायनौ । ततः पद्भ्यां प्रस्थितौ तौ, छन्नं दीर्घचमूभयात् ।। १५५ ।। प्राच्यपुण्यानुभावेन, ब्रह्मदत्तः पदे पदे । पर्यणैषीद्बहुतरा, भूचरी: खेचरीः कनीः ॥ १५६ ॥ क्रमात्स भूरिसंपत्तिः, पितृमित्रैस्त्रिभिर्नृपैः । ससैन्यैः कृतसाहाय्यः, काम्पील्यपुरमभ्यगात् ॥ १५७ ॥ रुद्धेऽभितः पुरे तस्मिन्, दीर्घोऽपि निरगाद्बहिः । तयोः प्रववृते युद्धं रामरावणयोखि ॥ १५८ ॥ अयुध्यतामथ ब्रह्मदत्तदीर्घौ परस्परम् । शस्त्रच्छलेन रोषाग्नि, क्षिपन्तौ चिरसञ्चितम् ॥ १५९ ।। खिन्नस्य ब्रह्मदत्तस्य, दुर्जये बलवत्यरौ । अलञ्चक्रे करं चक्ररत्नं पुण्यमिवाङ्गभृत् ॥ १६० ॥ दत्तायां दीर्घनिद्रायां, तेन दीर्घस्य दृष्यतः । चक्रिन् जयजयेत्यस्मिन्, पुष्पाणि ववृषुः सुराः ।। १६१ ॥ साधयित्वाथ षट्खण्डां, पृथिवी प्रौढशासनः । निदानोपार्जितांश्चक्री, भोगान् भुङ्क्ते स्म गृद्धिभाक् ॥ १६२ ॥ मां प्राप्तराज्यमाकर्ण्य, तूर्णं मित्रापतेरिति । दुर्दशासु सहायं यं, चक्री स्माह द्विजं पुरा ॥ १६३ ॥ स चक्रिणमुपेयाय, दीयमाने च वाञ्छिते । ऐच्छत् पत्नीधिया भोज्यं, प्रतिगेहं सदक्षिणम् ॥ आरभ्य स्वगृहाच्चक्री, ददौ तस्मै तदीहितम् । अन्यदा प्राक्संस्तुतोऽन्यस्तं विप्रः कोऽप्युपागमत् ॥ १६५ ॥ सोऽयाचिष्ट मुदा चक्रिभोज्यं कल्याणनामकम् । नेदं ते जीर्यतीत्युक्ते कृपणोऽसीत्यवक् स तम् ॥ १६६ ॥
१६४ ॥

Page Navigation
1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738