Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 705
________________ 688 १२७ ।। १२८ ॥ १२९ ॥ १३० ॥ भवन्ति वर्गणा यावत्सिद्धान्तांशसंमिताः । अभव्येभ्योऽनन्तगुणास्ता रसांशविशेषिताः ॥ १२० ॥ रसभागांश्च यच्छन्ति, सर्वान्त्यवर्गणाणवः । सर्वाद्यवर्गणाणुभ्यः, किलानन्तगुणाधिकान् ॥ १२१ ॥ राशिश्चासां वर्गणानां, स्पर्द्धकं प्रथमं भवेत् । समूहो हि वर्गणानामिह स्पर्द्धकमुच्यते ॥ १२२ ॥ एकैकेन रसांशेन, वृद्धाश्च परमाणवः । अथैतस्मान्न लभ्यन्ते, प्रथमस्पर्द्धकात्परम् ॥ १२३ ॥ सर्वजीवानन्तगुणै, रसांशैरेव चाधिकाः । संप्राप्यन्तेऽत एवेदं पूर्णं स्पर्द्धकमादिमम् ॥ १२४ ॥ क्रमाद्रसनिरंशांशैर्वृद्धौ हि स्पर्द्धकं भवेत् । स्यादन्यस्पर्द्धकारम्भो, निरंशांशक्रमत्रुटौ ॥ १२५ ॥ आद्यस्पर्द्धकपर्यन्ताणुभ्यो येऽथ रसांशकैः । सर्वजीवानन्तगुणैः, प्रवृद्धाः परमाणवः ॥ १२६ ॥ तेषां च समुदाय: स्यात्, प्रथमा वर्गणा किल । द्वितीयस्य स्पर्द्धकस्य, ततः स्यात्पूर्ववत्क्रमः ।। एकैकेन रसांशेन प्रवृद्धैः परमाणुभिः । आरब्धा वर्गणा यावत्सिद्धानन्तांशसंमिताः ॥ एतासां वर्गणानां च, समुदायो भवेदिह । द्वितीयं स्पर्द्धकं पूर्णीभूतेऽस्मिन् स्पर्द्धके पुनः ॥ एकद्वयाद्यैः रसच्छेदैर्न प्राप्यन्तेऽणवोऽधिकाः । प्राप्यन्ते किं तु ते सर्वजीवानन्तगुणैर्ध्रुवम् ॥ अणूनां प्राग्वदेतेषां समूहो वर्गणाऽऽदिमा । तृतीयस्य स्पर्द्धकस्य, ततः स्यात्पूर्ववत्क्रमः ॥ १३१ ॥ भवन्ति स्पर्द्धकान्येवं, प्रवृद्धानि रसांशकैः । सिद्धानन्ततमभागतुल्यानीति जिना विदुः ॥ १३२ ॥ अनुग्रहाय शिष्याणां, दृष्टान्तोऽत्र निरूप्यते । असद्भावस्थापनया, वर्गणास्पर्द्धकानुगः ॥ १३३ ॥ आद्यस्य स्पर्द्धकस्याद्या, वर्गणा कल्प्यते यथा । रसांशशतसंयुक्तैरारब्धा परमाणुभिः ॥ १३४ ॥ अथैकैकरसच्छेदवृद्धाणूत्थाभिरादितः । दशभिर्वर्गणाभिः स्यात्पूर्णं स्पर्द्धकमादिमम् ॥ १३५ ॥ ततो दशोत्तरशतरसांशैः परमाणुभिः । नाप्यते वर्गणारब्धा, नापि याद्यंशकाधिकैः ।। १३६ ।। किंतु त्रिंशशतरसच्छेदाढ्यैः परमाणुभिः । प्राप्यते वर्गणाऽऽरब्धा, द्वितीये स्पर्द्धकेऽग्रिमा ॥ १३७ ॥ ततः पुनरपि प्राग्वद्रसैकैकलवाधिकैः । परमाणुभिरारब्धा, लभ्यन्ते खलु वर्गणाः ॥ १३८ ॥ क्रमवृद्धौ रसांशानां, समाप्तानां समाप्यते । द्वितीयं स्पर्द्धकमिति, स्युरनन्तान्यमून्यहो ॥ १३९ ॥ रसांशवृद्धैरणुभिरारब्धाश्च यथोत्तरम् । अल्पाणुका वर्गणाः स्युः, स्थापनाऽत्र विलोक्यताम् ॥ १४० ॥ इति प्रतिज्ञातं अनुभागस्वरूपं निर्व्यूढं । एतेषां चानुभागानां, बन्धस्थानान्यसंख्यशः । तेषां निष्पादका येऽध्यवसायास्तेऽप्यसंख्यशः ।। १४१ ।। तथाहि -एकप्रादेशिकी श्रेणीर्या लोकस्य घनाकृतेः । असंख्येयतमे तस्या, भागे येऽभ्रप्रदेशकाः ॥ १४२ ॥ तावन्ति योगस्थानानि, तेभ्योऽसंख्यगुणाधिकाः । तीव्रमन्दादयो भेदा, एकैकप्रकृतेः स्मृताः ॥ १४३ ॥ प्रकृत्योखधिज्ञानदर्शनावरणाख्ययोः । स्युर्लोकानामसंख्यानां, खप्रदेशैर्मिता भिदः ॥ १४४ ॥ भेदा असंख्या एवानुपूर्वीष्वपि चतसृषु । एवं भाव्या भिदोऽसंख्या:, प्रकृतिष्वपरास्वपि ॥ १४५ ॥

Loading...

Page Navigation
1 ... 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738