Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 275
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने "कणति मधुना मत्तश्चेतोहरः प्रिय कोकिलः।"[ ] इति सामर्थ्याद् वसन्ते । ___तन्व्या यत् सुरतान्तकान्तनयनं वक्त्रं रतिव्यत्यये, तत्त्वां पातु चिराय" [ ] इत्यौचित्यात् प्रसादसाम्मुख्ये पालने। ___ "अहो महेश्वरस्यास्य कापि कान्तिः" [ ] इति राजधानीरूपाद् देशाद्राजनि। रिण इति पदेन विशेषणभूतेनान्यार्थबोधस्य नियमनात् । __ सामर्थ्यमुदाहरति-कणति मधुनेति-मत्रानेकार्थकं मधुनेति पदम्। "मधु पुष्पे रसे क्षौद्रे, मद्ये ना तु मधुद्रुमे। वसन्त-दैत्यमिक्षेत्रे स्थाजीवन्त्यां तु योषिति ॥” इति मेदिनीकोशेन तस्यानेकार्थत्वप्रतिपादनात् , तत्र कोकिलमादकतारूपं सामर्थ्य वसन्तावेवेति तेन सामर्थेनेह मधुपदेन वसन्त एवाभिधेय इति निश्चीयते, तदन्यस्य कोकिलमदजनकत्वसामर्थ्याभावात् । औचित्यमुदाहरतितन्व्या यदिति-यत् सुरतान्तसमयस्थितमनोहरनेत्रवत् तन्न्याः-कोमलायाः कामिन्या वक्रं तत् त्वां विपरीतरतिसमये पाविति पद्यांशार्थः, भत्र दयितामुखकर्तृकरक्षणकर्मत्वाक्षिप्तकामार्तसंबोध्यपुरुषस्य त्राणं हि तस्याः साम्मुख्येनैव भवति, न तु मुखमात्रेण, वैमुख्ये तेन ब्राणायोगात् , अत औचित्यात् पातिरिह प्रसादसांमुख्यमूलके पालने वर्तते। कैश्चिदिह वक्रपदस्य मुखपर्यायतया मुखशब्दस्य च " मुखं निःसरणे व प्रारम्भोपाययोरपि।" इति कोशबलेनानेकार्थस्वादिह औचित्यात् साम्मुख्यपरत्वमिति व्याख्यायते, तन युक्तम्-मुखशब्दस्यानेकार्थत्वेऽपि तत्पर्यायस्य वक्रशब्दस्य निश्चित्तैकार्थवाचित्वेन तत्र शक्तिसन्देहाभावात् । तथा च पातेरेवेह धातूनामनेकार्थत्वेनानिश्चितार्थत्वं शङ्कयं तस्यैव चोक्तार्थवाचकत्वरूपेण नियमनमौचितीकार्यमिति ध्येयम् । काव्यप्रकाशादाविह पातु वो दयितामुखमित्यस्योदाहृतत्वेन, तत्र तादृशव्याख्यानस्य कर्तव्यत्वात् । देशस्य शक्तिनियामकत्वमुदाहरति-अहो महेश्वरस्यास्येति-अन्न महेश्वरपदं शिवे विष्णौ महति ऐश्वर्ययुक्ते महैश्वर्ययुक्ते वा पुंसि च प्रयोगात्रानार्थकम् , तत्रास्येति पदस्य इदंप्रकृतिकत्वेन, इदमश्च सन्निकृष्ट प्रयोगात् सन्निकृष्टराजधान्यादि देशस्थस्येति तदर्थः, तथा च राज्ञ एव नगरादिदेशसम्बन्ध-तदभावयोः संभवेन परमात्मनस्तु सर्वगतस्य देशादिसम्बन्धकृतव्यावृत्तेरशक्यत्वेन देश एवात्र परमे For Private And Personal Use Only

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340