Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 324
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० २५। २९५ अत्र 'प्र' इत्युपसर्ग इङ्गुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयं ध्वनति । अनेकस्य निपातस्योपसर्गस्य चैकत्र पदे यः प्रयोगः सोऽपि रसव्यक्त्यर्थः। यथा __"अहो बतासि स्पृहणीयवीर्यः" ॥८८॥ [कु०सं०३. श्लो-२०] भोगस्तपोवनस्येति, सूत:-कथमिव, राजा-किं न पश्यति भवान् , इह हि, इत्युपक्रम्य पद्यमिदमुवाच, अयं च श्लोकस्य द्वितीयः पादः, पूर्णश्लोकश्वायम् "नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः, प्रस्निग्धाः क्वचिदिगुदीफलभिदः सूच्यन्त एवोपलाः । विश्वासोपगमादभिन्नगतयः शब्द सहन्ते मृगा, स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दलेखाङ्किताः ॥” इति । अयमर्थः-शुकाः-कीराः, गर्भ-अन्तर्येषां तानि कोटराणि-तरुविवराणि, तेषां मुखेभ्यः-अग्रभागेभ्यः, भ्रष्टा:-पतिताः, नीवारा:- तृणधान्यानि, यतः सन्तीति शेषः, तथा इङ्गुदीफलभिदः तापसतरुफलचूर्णकाः, अत एव प्रकर्षण स्निग्धाः-चिक्कणाः, उपलाः-प्रस्तराः, क्वचित् सूच्यन्ते प्रकाश्यन्त एव, किञ्च विश्वासस्य-नात्र कश्चन हनिष्यतीति विनम्भस्य, उपगमात्-उदयात्-अभिन्नाअस्खलिता गतिर्येषां ते, मृगाः हरिणाः, शब्दं रथध्वनि, सहन्ते, न तु ततः पलायन्ते, च पुनः, वल्कलानां-कषायीकृततरुत्वचा, शिखाभ्यः-अग्रभागेभ्यः, निष्यन्दः-जलखावः, तेन या लेखाः-रेखास्ताभिः; अङ्किताः-चिह्निताः; तोयाघारपथाः जलाशयमार्गाश्च, यतः सन्त्यतोऽयमाश्रयाभोगः स्पष्ट इति । अत्र स्वभावोक्ति-समुच्चयावलकारौ । कोऽत्र किं व्यञ्जयतीत्याह-अत्र प्र इत्युपसर्ग इति-इङ्गुदीफलानां सरसत्वमिति प्रशब्द उपलानामतिस्निग्धतां बोधयन्निजदीफलानां सरसतातिशयं परम्परया शान्तरससमन्वितत्वविशिष्टसौन्दर्यातिशयं चाश्रमस्य ध्वनतीति भावः॥ प्रत्येकं निपातस्योपसर्गस्य च व्यञ्जकत्वमुदाहृत्य एकत्रानेकनिपातानामुपसर्गाणां च व्यञ्जकत्वमुदाहर्तुं भूमिकामारचति-अनेकस्य निपातस्य चोपसर्गस्येति-एकत्र पदेऽनेकस्य निपातस्य तथानेकस्य चोपसर्गस्य च सन्निपातोऽपि रसव्यक्त्यर्थो भवति यथा अहो बतासीति-कुमारसंभवे तृतीये सर्गे इन्द्रस्य वाक्यस्य पद्यस्यांशोऽयम् , पूर्णश्लोकश्वेत्थम् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340