Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 281
________________ Shri Mahavir Jain Aradhana Kendra २५२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणी काव्यानुशासने संज्ञा यथा " अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् । वीक्षितेन परिगृह्य पार्वती मूर्धकम्पमयमुत्तरं ददौ ॥” [ कु०सं० स. ८ श्लो. ६] , 2 इङ्गितं यथा"कदा नौ सङ्गमो भावीत्याकीर्णे वक्तुमक्षमम् । अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥" [ 1 काव्यप्रदीपे “स्वरादय' इत्यादिपदादभिनयापदेशौ गृह्येते, अन्ये चोक्तान्तर्भूता:" इत्युक्तम्, तथाप्यपदेश-निर्देशपदयोर्भिन्नार्थतया लोके प्रयोगस्य दर्शनात् पृथगुक्तिः, भवति च सहृदयानां कश्चन भेदप्रतिभासोऽनयोरर्थयोरवश्यमेव ॥ संज्ञामुदाहरति-संज्ञा यथा - अप्यवस्तुनि कथाप्रवृत्तय इति - पार्वती, अवस्तुनि - अनभिमते विषयेऽपि कथाप्रवृत्तये - वार्त्तासञ्चालनाय, प्रश्न- पृच्छायां, तत्परम् - उद्युक्तम्, अनङ्गशासनम् - शिवं, वीक्षितेन-अवलोकनेन, परिगृह्यविज्ञाय मूर्धकम्पमयं - शिरोविधूतनरूपम्, उत्तरं ददौ, मूर्धसंज्ञया तत्पृच्छां निवारयामासेत्यर्थः । पार्वतीहृदयभावजिज्ञासार्थं शिवो ब्रह्मचारिरूपमास्थाय पार्वत्या सह तदीयतपस्यादिकारणपृच्छाप्रसङ्गेन शिवप्राप्तिर्मेऽभिलषितेति विज्ञाय शिवस्य [आत्मन एव ] अवान्छनीयत्वं बहुभिः प्रकारैः प्रतिपाद्य तदुत्तरं यथोचितमधिगत्यापि पुनः किमपि प्रष्टुमुत्सुक इवायमनभिलषितं प्रस्तोष्यतीति तदीयमुखादिचेष्टामवलोक्यैव विज्ञाय शिरोविधूननेन तं निवारितवती पार्वतीत्यभिप्रायः । अत्र संज्ञायाः शिरोविधूननस्य निषेधार्थप्रत्यायकत्वमिति । काव्यप्रकाश-प्रदीपकारादीनां मते चेयमभिनयान्तर्गतैवेति न पृथुगुदाहृता तैः । इङ्गितेनार्थविशेषावबोधो यथा-कदा नौ सङ्गम इति - प्रच्छनकामुकयोर्वर्णनमिदम् । अबला 'कदा नौ सङ्गमो भावी । इति जनाकीर्णे वक्तुमक्षमं कान्तमवगत्य, लीलापद्मं न्यमीलयत्, अनोभयोः सङ्गमसमयजिज्ञासायाः समानत्वेऽपि जनाकीर्णतया कान्तं वक्तुं - प्रतिपादयितुमसमर्थम्, एतेन तस्य गुरुजनसमक्षेऽनौत्यमनतिचातुर्यं च ध्वनितम्, अवगत्य स्वयमेव संकेतकालं, परिकल्प्य तं प्रतीङ्गितेन सूचनाय हस्तस्थितकमलसङ्गोचं कृतवती, तेन च संध्यासङ्केतकाल इत्यवगतं तदीयकान्तेन । यद्यपि कारिकायां- " शब्दार्थ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340