Book Title: Jain Penance
Author(s): Champat Rai Jain
Publisher: The Indian Press Allahabad
View full book text
________________
१५८
प्रायश्चित्त-समुच्चय. चतुर्विधं कदाहारं तैलाम्लादि न वल्भते । श्रालोचना तनूस्सर्ग उपवासेोऽस्य दंडनम् ॥६॥ वैयावृत्यानुमादेऽपि तद्भव्यस्थापनादिके । पध्यस्यानयने सम्यक् सप्ताहादुपसंस्थितिः ॥९॥ स्वच्छन्दशयनाहारः प्रमाद्यन् करणे व्रते। द्वयोरप्यविशुद्धिवाद्वारणीयस्त्रिरात्रतः ॥६॥ भूरिमृजलत शौचं यो वा साधुः समाचरेत् । सोपस्थापनोपवासोऽस्य बस्तिवादिकेष्वपि ॥१०॥ चंडालसंकरे स्पृष्टे पृष्टे देहेऽपि मासिकम् ।। तदेव द्विगुणं मुक्के सोपस्थान निगद्यते ॥१०॥ असतं वाथ संतं वा छायाघातमवाप्नुयात् । यत्र देशे स मोकन्यः प्रायश्चित्तं भवेदपि ॥१०२॥ दोषानालोचितान पापो य. साधुः संप्रकाशयेत् । मासिकं तस्य दातव्यं निश्चयोइंडदण्डनम् ॥१०॥ स्वकं गच्छं विनिर्मुच्य परं गच्छमुपाददत् । अर्धनासौ समाछेद्य प्रव्रज्याया विशंसयम् ॥१०॥ यः परेषां समादचे शिष्यं सम्यक्प्रतिष्ठितम् । मासिकं तस्य दातव्यं मार्गमूढस्य दण्डनम् ॥१०॥ ब्राह्मणाः क्षत्रिया. वैश्या योग्याः सर्वज्ञदीक्षणे । कुलहीने न दीक्षाऽस्ति जिनेन्द्रोहिटशासने ॥१०॥ न्यक्कुलानामचेलैकदीक्षादायी दिगम्बर । जिनाज्ञाकोपनोऽनन्तसंसारः समुदाहृतः ॥१०७॥ दीक्षां नीचकुलं जानन् गौरवाच्छिप्यमोहतः। यो ददात्यथ गृह्णाति धर्मोद्दाहो द्वयोरपि ।।१०।। अजानाने न दोषोऽस्ति ज्ञाते सति विवर्जयेत् । प्राचार्योऽपि स मोकव्य. साधुवगैरतोऽन्यथा ॥10॥ शिष्ये तस्मिन् परित्यक्के देयो मासोऽस्य दण्डनम् । चांडालाभोज्यकारूणां दीक्षणे द्विगुणं च तत् ॥११॥

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156