Book Title: Jain Penance
Author(s): Champat Rai Jain
Publisher: The Indian Press Allahabad

View full book text
Previous | Next

Page 144
________________ चूलिका १९६ अनाभोगेन चेस्सूरिदोषमाप्नोति कुत्रचित् । अनाभोगेन तच्छेदो वैपरीत्याद्विपर्ययः ॥११॥ बुल्लकानां च शेषाणां लिंगप्रभंशने सति । तस्सकाशे पुनदीक्षा मूलारपाषंडिचेलिनाम् ॥११२॥ कुलीनतुल्लकवेव सदा देयं महाव्रतम् । सल्लेखनोपरुद्वेषु गणेद्रेण गणेच्छुना ॥११॥ साधनां यद्वदुद्दिष्टमेवमार्यागणस्य च । दिनस्थानत्रिकालोनं प्रायश्चित्तं समुच्यते ॥११॥ समाचारसमुद्दिष्टविशेषनंशने पुनः। स्थैर्यास्थैर्यप्रमादेषु दर्पतः सकून्मुहुः ॥११॥ कायोत्सर्ग क्षमा चातिः पंचकं पंचक क्रमात् । षष्ठं पष्ठं ततो मूलं देयं दक्षगणेशिना ॥११॥ सृजलादिप्रमा ज्ञास्वा कुड्यादीनां प्रलेपने । कायोत्सर्गादिमूलान्तमार्याणां प्रविधीयते ॥११॥ वनस्य झालने घाते विशोषस्तनुसर्जनम् । प्रासुकतोयेन पात्रस्य धावने प्रणिगद्यते ॥११॥ वस्त्रयुग्मं सुबीभत्सलिंगप्रच्छादनाय च । आर्याणां संकल्पेन तृतीये मूलमिष्यते ॥११॥ याचितायाचितं वस्त्रं भक्ष्यं च न निषिध्यते । दोषाकीर्णतयाणामप्रासुकविवर्जितम् ॥१२०॥ तरुणी तरुणेनामा शयनं गमनं स्थितिम् । विदधाति ध्रुचं तस्या माणा त्रिंशदुदाहता ॥१२॥ तारुण्यं च पुनः स्त्रीणां पष्टिवर्षाण्यनूदितम् । तावन्तमपि ताः कालं रमणीयाः प्रयत्नतः ॥१२२॥ दर्पण संयुताथार्या विधत्ते दंतधावनम् । रसानां स्यात् परित्यागश्चतुर्मासानसंशयम् ॥१२३॥ अब्रह्मसंयुत्ता तिप्रमपनेयापि देशतः। सा विशुद्धिबंहिता कुलधर्मविनाशिका ॥२॥

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156