Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
71 भावश्यकहारिभद्रीया हेउसहस्सोवगूढस्स ॥१॥ नरनरयतिरियसुरगणसंसारियसबदुक्खरोगाणं । जिणवयणमेगमोसहमपवग्गसुहक्खयंफलयं ॥२॥" सजीवां वाऽमृतामुपपत्तिक्षमत्वेन सार्थिकामिति भावः, न तु यथा-'तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥१॥' इत्यादिवन्मृतामिति, तथा 'अजिता मिति शेषप्रवचनाज्ञाभिरपराजितामित्यर्थः, उक्तं च-'जीवाइवत्थुचिंतणकोसलगुणेणऽणण्णसरिसेणं । सेसवयणेहिं अजियं जिणिंदवयणं महाविसयं ॥१॥ तथा 'महार्थी'मिति महान्-प्रधानोऽर्थो यस्याः सा तथाविधा तां, तत्र पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वान्नयगर्भत्वाश्च प्रधानां, महत्स्थां वा अत्र महान्त:-सम्यग्दृएयो भव्या एवोच्यन्ते सतश्च महत्सु स्थिता महत्स्था तां च, प्रधानप्राणिस्थितामित्यर्थः, महास्थां वेत्यत्र महा पूजोच्यते तस्यां स्थिता महास्था तां, तथा घोक्तम्-'सबसुरासुरमाणुसजोइसवंतरसुपूर्य जाण । जेणेह गणहराणं छुहंति चुण्णे सुरिंदाधि ॥१॥' तथा 'महानुभावा मिति तत्र महान-प्रधानाप्रभूतो वाऽनुभावः-सामादिलक्षणो यस्याः सा तथा तां, प्राधान्यं चास्याश्चतुर्दशपूर्वविदः सर्वलब्धिसम्पन्नत्वात्, प्रभूतत्वं च
तकार्यकरणाद, उक्तंच-'भू णं चोहसपुखी घडाओ घडसहस्सं करित्तए' इत्यादि.एपमिहलोके, परत्र त जघन्यतोऽपि वैमानिकोपपातः, उतंच-उववाओलंतगंमिचोहसपुवीरस होइउ जहण्णो। उक्कोसो सबढे सिद्धिगमो वा अकम्मस्स॥१॥'
" हेतुसहस्रोपगूढस्य ॥ ॥ नरनारकतिर्यसुरगणसांसारिकसर्वदुःखरोमाणाम् । जिनवचममेकमौषधमपवर्गसुखाक्षतफलदम् ॥ २ ॥ २ जीवाविवस्तुचिन्तनकौशल्यगुणेनानन्यसदृशेन । शेषवचनैरजितं जिनेन्द्रवचन महाविषयम् ॥१॥३ सर्वसुरासुरमनुष्यज्योतिष्कम्यन्तरसुपूजितं ज्ञानम् । येनेह गणधराणा (शीर्ष) क्षिपन्ति चूर्णानि देवेन्द्रा भपि ॥१॥ प्रभुश्चतुर्दशपूर्वी घटात् घटसहवं क. ५ उपपातो कान्तके चतुर्दशपूर्विणां भवति तु जघन्यः । उस्कृष्टः सर्वार्थ सिद्धिगमनं वाऽकर्मणः॥॥ तथा 'महाविषया'मिति महद्विषयत्वं तु सकलद्रव्यादिविषयत्वाद् , उक्त प-देवओ सुयनाणी उवउत्ते सबदनाई जाणईत्यादि कृतं विस्तरेणेति गाथार्थः॥४५॥
झाइजा निरवज जिणाणमाणं जगप्पईवाणं । अणिवणजणदुण्णेयं मयभंगपमाणगमगहणं ॥६॥ व्याख्या-'ध्यायेत्' चिन्तयेदिति सर्वपदक्रिया, 'निरवद्या मिति अवयं-पापमुच्यते निर्गतमवधं यस्याः सा तथा ताम्, अनुतादिद्वात्रिंशद्दोषावद्यरहितत्वात्, क्रियाविशेषणं वा, कथं ध्यायेत् -निरवद्यम्-इहलोकाद्याशंसारहितमित्यर्थः उक्तं च-'नो इहलोगठयाए नो परलोगट्टयाए नो परपरिभवओ अहं नाणी'त्यादिकं निरवचं ध्यायेत्, 'जिनानां' प्राधिरूपितशब्दार्थानाम् 'आज्ञा' वचनलक्षणां कुशलकर्मण्याज्ञाप्यन्तेऽनया प्राणिन इत्याज्ञा तां, किंविशिष्टां ?-जिनानांकेवलालोकेनाशेषसंशयतिमिरनाशनाजगत्मदीपानामिति, आज्ञैव विशेष्यते-'अनिपुणजनदु यां' न निपुणः अनिपुणः अकुशल इत्यर्थः जनः-लोकस्तेन दुर्जेयामिति-दुरवगमां, तथा 'नयभङ्गप्रमाणगमगहनाम्' इत्यत्र नयाश्च भङ्गाश्च प्रमाणानि च गमाश्चेति विग्रहस्तैर्गहना-गहरा तां, तत्र गमादयो नयास्ते नानेकभेदाः, तथा भङ्गाः क्रमस्थानभेदभिन्नाः, तत्र क्रमभङ्गा यथाएको जीव एक एवाजीव इत्यादि, स्थापना ॥ स्थानभङ्गास्तु यथा प्रियधर्मा नामैकः नो दृढधर्मेत्यादि । तथा प्रमीयते ज्ञेयमेभिरिति प्रमाणानि-द्रव्यादीनि, यथा-5 नुयोगद्वारेषु गमाः-चतुर्विंशतिदण्डकादयः, कारणवशतो वा किश्चिद्विसदृशाः सूत्रमार्गा यथा षड्जीवनिका-ss दाविति कृतं विस्तरेणेति गाथार्थः ॥४६॥ ननु ss,
मन्यतः श्रुतज्ञानी उपयुक्तः सर्वव्याणि जानाति. २ नो इहलोकार्थाय नो परलोकार्थाय नो परपरिभावकोऽहं शानी. या एवं विशेषणविशिष्टा सा वोढुमपि न शक्यते मन्दधीभिः, आस्तां तावद्ध्यातुं, ततश्च यदि कथश्चिन्नावबुध्यते तत्र का वार्तेत्यत आह
- तरथ य मइदोब्बळेणं तनिहायरियविरहभो यौवि । णेयगहणतणेण य णाणावरणोदएणं च ॥ ७ ॥ व्याख्या-तत्र' तस्यामाज्ञायां, चशब्दः प्रस्तुतप्रकरणानुकर्षणार्थः, किं ?-जडतया चलत्वेन वा मतिदौर्बल्येन-बुद्धः सम्यगर्थानवधारणेनेत्यर्थः, तथा 'तद्विधाचार्यविरहतोऽपि' तत्र तद्विधः-सम्यगविपरीततत्त्वप्रतिपादनकुशलः आचयतेऽसावित्याचार्यः सूत्रार्थावगमार्थ मुमुक्षुभिरासेव्यत इत्यर्थः तद्विधश्वासावाचार्यश्च २ तद्विरहतः तदभावतश्च, चशब्दः अवोधे द्वितीयकारणसमुच्चयार्थः, अपिशब्दः क्वचिदुभयवस्तूपपत्तिसम्भावनार्थः, तथा 'ज्ञेयगहनत्वेन च तत्र ज्ञायत इति ज्ञेयं-धर्मास्तिकायादि तद्गहनत्वेन-गह्वरत्वेन, चशब्दोऽबोध एव तृतीयकारणसमुच्चयार्थः, तथा 'ज्ञानावरणोदयेन च' तत्र ज्ञानावरणं प्रसिद्धं तदुदयेन तत्काले तद्विपाकेन, चशब्दश्चतुर्थाबोधकारणसमुच्चयार्थः, अत्राह-ननु ज्ञानावरणोदयादेव मतिदौर्बल्यं तथा तबिधाचार्यविरहो ज्ञेयगहनापतिपत्तिश्च, ततश्च तदभिधाने न युक्तममीषामभिधानमिति, न, तत्कार्यस्यैव संक्षेपविस्तरत उपाधिभेदेनाभिधानादिति गाथार्थः ॥ ४७॥ तथा
हेऊदाहरणासंभवे य सइ सुतु जं न बुझेजा । सवण्णुमयमवितहं तहावि तं चितए महमं ॥१८॥ व्याख्या-तत्र हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतु:-कारको व्यञ्जकच, उदाहरणं-चरितकल्पितभेदं, हेतुश्चोदाहरणं च हेतूदाहरणे तयोरसम्भवः, कञ्चन पदार्थ प्रति हेतूदाहरणासम्भवात् , तस्मिंश्च, चशब्दः पञ्चम
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260