Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 142
________________ Shri Mahavir Jain Aradhana Kendra युक्तिप्रबोधे ॥१२८॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मयमव्रतशीलविहीनास्तेऽपि जीववधादिकं वीक्षमाणा न वल्भन्ते, तर्हि जिनो हिंस्यमानान् जन्मिनो मांसानि च पुरीषाद्यशुचिद्रव्याण्यध्यक्षीकुर्वन् विशुद्धव्रतभृत् कथं वल्भेत ?, निर्दयत्वप्रसंगात्, तेभ्योऽपि हीनबलवत्त्वप्रसंगाच्च, लोकेऽपि केचिज्जटिलादयो योगमाहात्म्यविशेषेणा कवलाहारवन्तः श्रूयन्ते, तहिं कथं भगवतो योगीन्द्रशिरोमणेस्तत्त्वं स्यात् ?, प्रतीयते चापि भूताविष्टस्य पुंसः कस्यचित्तद्बलेनौदारिकशरीरिणोऽप्यकवलाहारित्वं क्वचित्, तर्हि अनन्तबलवतो भगवतस्तथात्वे किं चित्र १, आहारसंज्ञा हि रतिकर्म्मपूर्विका, तस्याश्च लोभे ऽन्तर्भावः, तदुक्तं गोमहसारे- 'माया लोहे रहपुव्वाहारो कोहमाणमम्मि भयं । वेदे मेहुणसण्णा लोहम्मि परिग्गहे सण्णा ॥ १ ॥' तथा मायालो भयोरभावेनैव भगवति कबलाहाराभावः, ननु केवली कबलाहारवान्, असद्वेद्योदयवच्चे सति गर्भनिर्गतत्वात्, औदारिकशरीरित्वे सति तादृक्त्वाद्वा अस्मदादिवदिति चेत्, न आये यद्यसद्वेद्योदयात्कवलाहारः स्यात् तर्हि क्षुत्क्षीणशक्तेरनन्तबलं न स्यादिति प्रतिकूलस्तक विशेषणवैयर्थ्यं चानुकूलतर्काभावाद्, अकिंचित्करत्वं च द्वितीये विशेषणासिद्धिः-शुद्धस्फटिकसंकाशं, तेजोमूर्त्तिमयं वपुः । जायते क्षीणमोहस्य, सप्त धातुविवर्जितम् ॥१॥ इति परमौदारिकदेहांगीकारात्, न चौदारिकत्यागाद्भवान्तरप्रसंगः, तारुण्याद्यवस्थावत् आम्रफलादौ नीलपीतादिरूपवच्च सर्वथा मेदात्, अथ सयोगिगुणस्थानपर्यन्तं जीवा आहारकमार्गणायामागमे प्रसिद्धाः तत्कथं केवलिनोऽनाहारकत्वमिति चेत्, न, नोकमहारेण तदुपपत्तेः, तदुक्तम्- 'णोकम्मकम्माहारो कवलाहारो य लेवमाहारो । उज्जुमणोषि य कमसो आहारो छव्विहो भणिओ ॥ १ ॥ णोकम्मं तित्थयरे कम्मं णरए य माणसो अमरे । कवलाहारो णरपसु उज्जो पक्खी य इगि लेवो ॥ २ ॥ इति, सूक्ष्माः सुरसाः सुगन्धा अन्यमनुजासम्भविनः कवलाहारं विनापि किंचिदूनपूर्वकोटिपर्यंतं शरीरस्थितिहेतवः सप्तधातुरहितपरमौदारिक For Private and Personal Use Only कब लाहारसिद्धिः | ॥१२८॥

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234