Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 179
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kcbatrth.org गृहिअन्यलिंग सिद्धि CONGREC युक्तिप्रबोधी विक्खाए विभेयं उत्तमत्तेणं ॥ ९२२ ॥ गाहा, व्याख्या-तेषामपि-सोमादीनां भावचरणं तथाविधं-झटित्येवान्तकृत्केवलित्व फलप्रदं द्रव्यचरणपूर्वकमेव-उपस्थापनादिद्रव्यचारित्रपूर्वमेव, अन्त्यभवापेक्षया जन्मान्तरांगीकरणेन विज्ञेयमुत्तमत्वेन हेतुना, उत्त॥१६५॥ मत्वं न यथाकथंचित् पाप्यत इति, एतेन स्याहावेन मोक्षो द्रव्यलिंगापेक्षत्वात् , स्याद् द्रव्यलिंगेन मोक्षो भावलिंगापेक्षत्वात् , स्यादुभयं क्रमार्पितोभयत्वात् ,स्यादवाच्यं युगपदुमयार्पणेन वक्तुमशक्यत्वात् ,स्यात् भावलिंग चावक्तव्यं च स्याद् द्रव्यलिंग चावक्तव्य च स्यादुमयं चावक्तव्यं चेति सप्तभंगी सुकरैव, योऽपि तुषतन्दुलदृष्टान्तः कुत्रापि लिखितः तुषाभावे तन्दुलस्यापुनर्भवः तथा द्रव्यलिंगे सत्येवात्मनोऽपुनर्भव इत्याशयपूर्वकः, तत्रापि नैकान्तः, नालिकेरादौ गजभुक्तकपित्थादौ पुटपाकादिजन्यरसनिष्पत्यादौ बाह्यतत्तत्परिणामाभावेऽपि कार्यसिद्धिदर्शनात्, एतेन भावचारित्रानुपपत्तिनिरस्ता, गृहे बसतोऽपि विरागत्वात् , यदुक्तं भावप्राभृतवृत्ती-“वनेऽपि दोषाः प्रभवन्ति रागिणां, गृहेऽपि पंचेन्द्रियनिग्रहस्तपः । अकुत्सिते वर्त्मनि यः प्रवर्त्तते, विमुक्तरागस्य गृहं तपोवनम् ॥ १॥ अत एव सम्बोधसप्तत्याम् सेयंवरो य आसंबरो य युद्धो य अहव अन्नो वा । समभावभावियप्पा लहेइ सुक्खं न संदेहो ॥१॥ सांख्या अप्याचख्युः- "पंचविंशतितचज्ञो, यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः ॥१॥" नैयायिका अपि द्रव्यकिरणावल्यां गृहस्थमोक्षं प्रपन्नाः, अथ द्रव्यलिंगराहित्यान्न मोक्ष इत्यपि न युक्तं, द्रव्यलिंगराहित्येऽपि भरतचंक्रिणः कैवल्योत्पत्तेः, तच्च तवापि सम्मतं, यदुक्तं द्रव्यसंग्रहवृद्धवृत्ती- 'योऽपि घटिकाद्वयेन मोक्षं गतो भरतचक्री सोऽपि जिनदीक्षा गृहीत्वा विषयकषायनिवृत्तिरूपलक्षणमात्रं व्रतपरिणामं कृत्वा पश्चाद् शुद्धोपयोगरूपरत्नत्रयात्मके निश्चयव्रतामिधाने वीतरागसामायिकसले निर्विकल्पसमाधौ स्थित्वा केवलज्ञानं लब्धवानिति, परं तस्य स्तोककालत्वाल्लोका व्रत %A4% * ॥१६५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234