Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 360
________________ उत्तराध्ययन 355 सततमप्रमत्तस्य भगवतो योगीन्द्रस्य योगाद्भवति सा ऐर्यापथिकी क्रिया ॥ १३ ॥ तथा भूतंग्रामा जीवसङ्घाताश्चतुर्दश ते चाभी-“एगिदिय सहुमि १ यरा २, सन्नि ३ अर-पणिंदिआ ४ य सबि-ति--चऊ ७ । अपज्जत्ता पजत्ता, भेएणं चउदस १४ ग्गामा ॥१॥" तेषु । तथा परमाश्च ते अधार्मिकाश्च परमाधार्मिकास्तेषु पञ्चदशसु असुरविशेपेपु, यदुक्त-"अंवे १ अंबरिसी २ चेव, सामे ३ सबले ४ त्ति आवरे । रुद्दो ५ वरुद्द ६ काले अ७, महाकालेति ८ आपरे ॥ १॥ असिपत्ते ९ धणू १० कुंभे ११, पालू १२ वेअरणी १३ इय । खरस्सरे १५ महाघोसे १५, एए पण्णरसाहिया ।। २ ॥" तेषु यो भिक्षुर्यतते, यथायोगपरिहाररक्षणज्ञानैः ॥ १२ ॥ मूलम्-गाहासोलसएहि, तहा अस्संजमम्मि य । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले ॥ १३ ॥ व्याख्या-गाथा गाथाभिधानमध्ययनं पोडशं येषां तानि गाथाषोडशकानि सूत्रकृताङ्गप्रथमश्रुतस्कन्धाध्ययनानि तेपु, “समओ १ वेआलिअं २, उवसग्गपरिण ३ थीपरिण्णा य ४ । निरयविभत्ती ५ वीरत्थओ ६ य कुसीलाण परिभामा ७॥१॥ वीरियर धम्म ९ समाही १०. मग्ग ११ समोसरण १२ अहतहं १४ । जमतीतं १५ तह गाथा १६, सोलसमं होइ अज्झयणं ॥ २॥” तथा असंयमे च सप्तदशभेदे पृथिव्यादिविपये, सप्तदशसंख्यात्वं चास्य तद्विपक्षस्य संयमस्य सप्तदशभेदत्वात् , यदाहुः-"पुढयि १ दग २ अणि ३ मारुय ४, वणस्सइ ५ वि ६ ति ७ चउ ८ पणिदि ९ अजीवे १० । पेहु ११ प्पेह १२ पमजण १३, परिवण १४ भणो १५ पई १६ काए १७ ॥१॥" पृथिव्यादीनां संघट्टादिपरिहारेण नवधा संयमः ९, अजीयसंयमस्तु अजीवानां सत्त्वोपमईहेतूनां पुस्तकपञ्चक-तृणपञ्चकादीनामुत्सर्गणाऽग्रहणरूपः, अपवादतस्तु ग्रहणेप्येपां यतनया व्यापारणरूपः ॥ ॥ १० ॥ प्रेक्षासंयमश्चक्षुपा वीक्ष्य यत्कार्यकरणं ॥ ११ ॥ उपेक्षासंयमो द्विधा साधुगृहि विपये नोदनाऽनोदनात्मकः ॥ १२ ॥ प्रमार्जनासंयमः सागारिकसमक्षं पादौ न प्रमार्टि, तदभावे तु प्रमार्जयतीत्यादिकः ॥ १३ ॥ परिष्ठापनासंयमो विधिना दोपदुष्टाहारविणमूत्रादिपरिष्ठापनं कुवेतः॥१४॥ मनःसंयमोऽकुशलस्य मनसो निरोधः कुशलस्य तस्योदीरणम् ॥ १५ ॥ एवं वासंयमोऽपि ॥ १६ ॥ कायसंयमः सति कार्ये उपयोगवता गमनागमनादिकार्य, तदभाये संलीनकरचरणेन भाव्यम् ॥ १७ ॥ यो भिक्षुर्यतते एकत्र तदुक्तानुष्ठानादन्यत्र तु परित्यागात् ॥ १३ ॥ मुलम्--भंमि नायज्झयणेसु, ठाणेसु असमाहिए। जे भिक्खू जयई निचं, से न अच्छइ मंडले ॥ १४ ॥ व्याख्या-ब्रह्मणि ब्रह्मचर्येऽष्टादशप्रकारे, उक्तश्च-"दिव्यौदारिककामानां, कृतानुमतिकारितैः । मनोवाकायत 1, ब्रह्माष्टादशधा मतम् ॥ १॥" तथा ज्ञाताध्ययनेषु उत्क्षिप्तज्ञातादिष्वेकोनविंशतो, यदाहुः-"उक्खित्तगाए १ संघाडे २, अंडे ३ कुम्मे अ १३ सेलए ५। तुंवे ६ अ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा १० इस ॥१॥ दावद्दये ११ उदगनाए १२, मंडुक्के १३ तेअली १४ इय । नंदिफले १५ अवरकंका १६, आइण्णे १७ सुंमु १८ पुंडरीए १९ ॥२॥ ति" तथा स्थानेषु आश्रयेषु कारणेष्यित्यर्थः, कस्सेत्साह-असमाधेः । तत्र समाधिज्ञानादिपु चित्तैकाग्र्यं, न समाधिरसमाधिस्तस्य, तानि च विंशतिस्तथा हि-द्रुतद्रुतचारित्वं, द्रुतचारित्वे हि पतनादिना आत्मानमसमाधौ योजयेत् , जीववधे सत्सन्यानपि, परलोके वात्मनः सत्त्ववधनिर्मितकर्मणा असमाधिः स्यात् । एवमन्येप्वप्यसमाधिस्थानत्वं भावनीयम् ॥ १॥ अप्रमार्जितेऽवस्थानादि ॥२॥ दुष्प्रमार्जितेऽवस्थानादि, अनयोः सर्पादिनाऽऽत्मनोऽसमाधिः ॥ ३ ॥ अतिरिक्तशय्यासनत्वं अतिविस्तीर्णशालादौ अन्यैरधिकरणादिना आत्मपरासमाधिः, एकाधिकपीठाधासेवनेऽपि तथैव ॥ ४ ॥ रत्नाधिकपराभवनम् ॥ ५॥ स्थविरपरिभवनम् ॥ ६ ॥ भूतो. पघातः प्रमादादेकेन्द्रियादिहननम् ॥ ७ ॥ संज्वलनं क्षणे २ रोपः ॥ ८॥ क्रोधनं दीर्घकोपकरणम् ॥९॥ पृष्ठमांसिकं परोक्षे परापवादः ॥ १० ॥ अभीक्ष्णं अवधारिणीभापाया भाषणम् ॥ ११ ॥ नवाधिकरणकरणं, अन्यान्यकलहसन्तानयोजनम् ॥ १२ ॥ उदीरणमुपशान्तकलहानामुदीरणम् ॥ १३ ॥ अकाले खाध्यायकरणं, अनेन हि प्रान्तदेवता असमाधी योजयति ॥ १४ ॥ सचित्तपृथ्वीरजःस्पृष्टपाणिना भिक्षाग्रहणं, एवं सरजःपादेनास्थण्डिलगमने

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424