Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 610
________________ ntentner: ] न्यायप्रकाशसमलङ्कृते • दीयं दुःखाद्यपहर्तुं प्रभवतीत्येवं विचिन्तनमेकत्व भावना | अनया च निस्सङ्गतां यायात् ॥ एक एवेति । एव शब्देन कदाचिदपि जननमरणानुभवो नेतरसहायो भवतीति सूचितम्, यमलकयोरपि क्रमेणैव निस्सरणान्मरणाच्च । संसारे हि जन्तुरेकक एवोत्पद्यते विपद्यतेऽस्येकक एव, दुःखी सन्नेकक एव कर्मार्जयति फलमपि तस्यैकक एवासेवते, बहुविधैः क्लेशैरर्जितं 5 धनन्तु कलत्र मित्रादिभिस्सम्भूय भुज्यते परन्तु दुःखं स्वकर्मकृतमेकक एव सहते यदर्थमपि जीवः प्रत्यहं भ्रमति क्लिश्यते समालम्बते दैन्यं भ्रश्यति धर्माद् वञ्चयत्यहितान पक्रामति च न्यायात्सोऽपि देहः परभवप्रयाणे पदमेकमपि नानुवर्त्तते; तथा च सर्वेषां स्वार्थैकनिष्ठत्वेन धर्मादृते नापरः कश्चन सहायो दुःखाद्यपहरणे दक्ष इत्येव भावनैकत्वभावनेत्यर्थः । ननु गृहावासकालीन ममतायाः कलत्रादिविषयिण्याः प्रव्रज्याकाले साधुभिस्त्यागः कृतः परन्तु साम्प्रत- 10 कालीनमाचार्यादिविषयं ममत्वं कथं परिहाय्यं भवेदिति चेदुच्यते बाह्यप्रेमणि पूर्व तनूकृते एकत्वभावनादिदाढर्थात् आचार्यादिविषयेऽपि ममत्वानुदयेन पश्चादाहारे उपधौ देहे न सज्जति छिन्नममत्वश्च सर्वेऽपि जीवा असकृदनन्तशो वा सर्वजन्तूनां स्वजनभावेन परजनभावेन च संजाताः, अतः कोऽत्र स्वजः परजनो वा इति भावनया त्रुटितप्रेमबन्धो भवतीति भावः । एवं सति यद्भवति तदाहानयाचेति । निस्सङ्गतामिति, स्वजनसंज्ञकेषु स्वीयत्वेन प्रसिद्धे शरीरे 15 च स्नेहानुरागवैधुर्यमित्यर्थः, यायादिति, प्राप्नुयादित्यर्थः, ततो मोक्षायैव चेष्टत इति भावः ॥ अन्यत्वभावनामाह- वैधम्र्येण शरीरभिन्नतयाऽऽत्मानुचिन्तन मन्यत्वभावना । अनया च देहात्माभिमाननिवृत्तिर्जायेत ॥ वैधर्म्येणेति । यस्माज्जीवः कायमपि व्यपास्य लोकान्तरं यात्यतोऽयं वपुषो भिन्न: 20 सहगमनरूपसाधर्म्याभावात् । तथा सेन्द्रियं शरीरमतीन्द्रियोऽहं, अनित्यं तन्नित्योऽहं, आद्यन्तवच्छरीरमनाद्यनन्तश्चाहं, संसारे भ्रमतो मे बहूनि शरीराणि प्राप्तानि परं स एवाहमन्यस्तेभ्य इत्यादिविरुद्धधर्मैरन्यत्वचिन्तनमन्यत्वभावनेत्यर्थः, तत्फलमाहानया चेति । देहात्माभिमाननिवृत्तिरिति, शरीरमेवात्मेति बुद्धेः शरीरममताया वा विच्छेद इत्यर्थः तथाचैव भावयतस्सर्वस्वनाशेऽपि शोकांशोपि न जायत इति भावः ॥ अशुचिभावनामाह- अशुचिमयः कायोऽशुचिहेतुकोऽशुचिस्यन्दी चेति विचारोऽशुचिमा - बना । एतया च शरीरविषये निर्ममत्वं स्यात् 11 25

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676