Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
तत्त्व न्यायविभाकरे
[ द्वितीयकिरणे
रज्जुप्रमाणतोर्ध्वलोकस्येति भावः । ऊर्ध्वलोकस्याकार माहोर्ध्वकृतेति तिर्यङ्मृदङ्गाकारव्यावर्तनायोवकृतेति विशेषणम् । वादित्रविशेषो मृदङ्गो मध्ये दीर्घस्ततः प्रदेशहान्योपरिष्टादधश्च संक्षिप्तस्तथैवोर्ध्वलोको मध्ये पञ्च रज्जुप्रमाणः ऊर्ध्वाधस्तदून प्रमाण इति भावः । लोकस्यास्योर्ध्वावधिमा हालोकान्तमिति ऊर्ध्वं यावल्लोकसमाप्तीत्यर्थः । ईषत्प्राग्भारोर्ध्वभागे सिद्धक्षेत्रा5 वधिरिति भाव: । क्षेत्रत इति अशुभतर परिणामिनारकयोगाद्धि अधोलोकोऽशुभ परिणामी, शुभाशुभ परिणामि मनुष्य योगात्तिर्यग्लोको मध्यपरिणामी, अतोऽपि तस्य मध्यलोक इति संज्ञा, क्षेत्र प्रचुर मध्यलोकापेक्ष योत्कृष्ट शुभ परिणामिवैमानिकदेवयोगादवाप्तमोक्षाणां सिद्धानां निवासाञ्चायं लोकः क्षेत्रत उत्कृष्टशुभपरिणामी, अथवाऽधोलोकतिर्यग्लोकौ क्षेत्रस्वभावादेवाशुभमिश्रपरिणामिनावूर्ध्वलोकोऽपि स्वस्वाभाव्यादुत्कृष्टशुभ परिणामी, यतो ह्यमुमति10 स्तोका : शुभकर्माणः क्षपितकर्माणो वाऽवाप्नुवन्ति, यथा यथाहि जीवस्य कर्म मल प्रध्वंसस्तथातथा जले तुम्बिकावदूर्ध्वं निर्मलस्थानप्राप्तिः, अत्र हि वर्त्तमानान् जना विशेष - तस्सम्मानयन्तीति भावः ॥
अत्र तर्हि के वासयोग्या इत्यत्राह -
तत्र च कल्पोपपन्नाः कल्पातीताश्च वैमानिका देवा वसन्ति ॥
1
तत्र चेति । उर्ध्वलोके चेत्यर्थः, दीव्यन्तीति देवा देवगतिनामकर्मोदय सहकारेण युत्याद्यर्थावरुद्धत्वाद्देवाः प्रकृष्टपुण्यहेतुक सर्वप्रकारसुखभोगिनः, ते च जिनजन्मदीक्षाकेवलनिर्वाणमहोत्सवादिकं विना तिर्यगूलोकं कदापि नागच्छन्ति, संक्रान्त दिव्य प्रेमत्वाद् विषयप्रसक्तत्वात्, असमाप्तकर्तव्यत्वात्, अनधीनमनुजकार्यत्वात्, नरभवस्याशुभत्वेन तद्गन्धासहिष्णुत्वाच्च । सन्ति देवा जातिस्मरणप्रत्ययितपुरुषेण कथनात्, नानादेशप्रचारिप्रत्यायित20 पुरुषावलोकितकथितविचित्र बृहद्देव कुलादिवस्तुवत् । कस्यापि तपःप्रभृतिगुणयुक्तस्य प्रत्यक्षदर्शनप्रवृत्तेश्च दूरविप्रकृष्ट नगरादिवत् । विद्यामंत्रोपयाचनेभ्यः कार्यसिद्धेः प्रसाद फलानुमितराजादिवदित्यनुमानाद्देवानां सिद्धिः । ते च बहुक्षुत्पिपासा संस्पर्शशून्या अनवरत क्रीडाप्रसक्तमानसाः स्वच्छन्दचारिणो भास्वरशरीराः अस्थिमांसासृक्प्रबन्धरहिताः सर्वाङ्गोपाङ्गसुन्दराः विद्यामंत्राञ्जनादीनन्तरेण प्राकृततपोविशेषापेक्षया जन्मलाभसमनन्तरमेवा25 काशगतिभाज इति विभावनीयम् । तिर्यग्लोकादिनिवासिभ्य एतान् विशिनष्टि वैमानिका इति, यत्र स्थिता विशेषेण परस्परस्य भोगातिशयं मिमते मन्यन्ते वा विज्ञानात्तानि विमानानि, इन्द्रकश्रेणिपुष्पप्रकीर्णकभेदेन त्रिविधानि इन्द्रवन्मध्येऽवस्थितानि इन्द्रकाणि तेषां चतुर्द्दिक्षु आकाशप्रदेशश्रेणिवदवस्थानाच्छ्रेणिविमानानि, प्रकीर्णपुष्पवृदवस्थानात् पुष्प
: ५८० :
15

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676