Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
लोकस्वरूपम् ] न्यायप्रकाशसमलङ्कृते
: ५७३ : भद्रशालादिभिश्चतुभिर्वनैः परिवृतो मेरुभूधरः काञ्चनमयो वर्तुलाकारो विलसति ॥
मध्य इति । निश्चयतो मध्यभाग इत्यर्थः, तथा च जम्बूद्वीपस्य मध्यभागे भूतलमवगाह्य मेरोस्थितत्वस्योक्त्या वलयस्येव जम्बूद्वीपस्याकृतिर्नास्तीति सूचितम् , तथात्वे हि मध्ये विवरसद्भावप्रसङ्गेन भूतलाभावात् , अवगाहमानत्वोक्ति-विरुध्येतातः कुलालचक्रस्येवायं 5 प्रतरवृत्त इति भावः । वलयभूतानां समुद्रद्वीपादीनां पूर्व सामान्येन द्विगुणविस्तारत्वोक्तेस्तद्विशेषतो विज्ञानाय परिवेष्टितस्यास्य प्रमाण उक्तेऽन्येषां परिमाणं सुवेद्यं भवेदित्याशयेनाह लक्षयोजनपरिमाणस्येति, इतरेषां जम्बूद्वीपानां व्यावर्तनायाह-नाभिरिव भूतलमिति, यथा च नाभिश्शरीरमध्यावस्थिता शरीरिणामवयवभूता तथा मेरुरपि जम्बूद्वीपस्य मध्येऽवस्थित इति भावः । ननु भूतलमवगाह्य किमस्ति इत्यत्राह मेरुभूधर इति, सकलतिर्यग्लोक- 10 मध्यभागस्य मर्यादाकारित्वान्मेरुदेवयोगाद्वा मेरुः, एवंभूतो भूधरो मेरुभूधरः, अयं हि जम्बूद्वीपस्य नाभिरिव कालचक्रस्य भ्रमिदण्ड इव तिर्यग्लोकपङ्कजस्याष्टदिग्दलवतः परागभरपिञ्जरोऽन्तस्स्थो बीजकोश इव पूर्व विदेहेभ्यः प्रत्यक् पश्चिमविदेहतः प्राक् देवकुरुभ्य उदक उत्तरकुरुभ्योऽवागू वर्तत इति भावः । भूतलावगाहनपरिमाणमाह योजनसहस्रेणेति, वसुधान्तर्योजनानां सहस्रेणावगाह्येत्यर्थः, पुनस्तं विशेषयति चत्वारिंशदिति, मेरोरस्य वैडूर्यप्रचुरा 15 चूलिकाऽऽस्ते, सा चोद्मप्रदेशे विष्कम्भायामाभ्यां द्वादशयोजनैमध्येऽष्टाभिरुपरि चतुर्भियोजनैरुच्छ्रायेण चत्वारिंशद्योजनैः परिवृतो वर्तते इति भावः, अधुना मेरोस्समुच्छ्रायमाह नवाधिकेति, अयश्च दृश्योच्छ्रायो बोध्यः, भूमिमवगाह्य स्थितस्यास्यान्तर्विष्कम्भायाममाहाध इति, उपरि यत्र चूलोद्गमस्तत्र विष्कम्भायाममाहोर्ध्वश्चेति, पुनस्तं विशिनष्टि भद्रशालादिभिरिति, आदिना नन्दनसौमनसपाण्डुकानां ग्रहणं तत्र मूले वलयपरिक्षेपिभद्रशालवनं तस्मा- 20 त्पश्चयोजनशतान्यारुह्योपरि प्रथममेखलायां पञ्चयोजनशतप्रमाणविस्तृतं नन्दनं द्वितीयं वनं ततोऽर्धत्रिषष्टिसहस्राण्यारुह्य पञ्चयोजनशतप्रमाणविस्तीर्णमेव द्वितीयमेखलायां सौमनसं नाम तृतीयं वनं ततोऽप्युपरि षट्त्रिंशद्योजनसहस्राण्यारुह्य चतुर्नवत्युत्तरचतुर्योजनशतैर्विस्तीर्ण मेरोशिशरसि तुर्य पाण्डुकं वनमास्त इति भावः, पुनः कीदृश इत्यत्राह काञ्चनमय इति, कनकाचलेऽस्मिन् हि काण्डत्रयं वर्तते कन्दतस्सहस्रयोजनमानं मृत्तिकापाषाणवतशर्करामयं 25 प्रथमं काण्डं, समभूतलात्रिषष्टिसहस्रयोजनोन्मानं रजतजातरूपांकस्फटिकबहुलं द्वितीयं काण्डं, ततष्षट्त्रिंशत्सहस्रयोजनावधि जाम्बूनदबहुलं तृतीयं काण्डं, तथा च काञ्चनप्राचुर्यात्काञ्चनमयोऽयमिति भावः, स कथं विलसतीत्यत्राह वर्तुलाकार इति, काश्चनस्थालनाभिरिव वृत्त इत्यर्थः ॥

Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676