Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
लोकस्वरूपम् ]
म्यायप्रकाशसमलङ्कृते
: ५७९ :
दयस्तु विमानोपपन्ना अपगतचारा नो गतिरतयो नवगतियुक्ताश्च तात्स्ध्यात्तद्व्यपदेश इति म्यादिति भावः । तत्र मानुषोत्तर पर्वताद्बहिर्वर्त्तिनां चन्द्रसूर्याणां तेजांस्यवस्थितानि भवन्ति तेजसा नात्युष्णास्सूर्याः सर्वदैवानतिशीततेजसः चन्द्रास्सर्वदाभिजिता नक्षत्रेण सूर्याश्च पु युक्ता भवन्ति तत्र जम्बूद्वीपे द्वौ चन्द्रौ द्वौ सूर्यौ चत्वारो लवणोदे द्वादश धातकीखण्डे द्वाचत्वारिंशत्कालोदे द्वासप्ततिरभ्यन्तरपुष्करार्धे सर्वसंख्यया चन्द्रसूर्याणां प्रत्येकं द्वात्रिंशं 5 शतं भाव्यम् । नक्षत्र परिमाणन्तु मनुष्यलोके अष्टाविंशतिसंख्यां द्वात्रिंशेन शतेन गुणयित्वा भाव्यम् ||
एषां ज्योतिष्काणां गतिविशेषप्रतिपत्त्यर्थं वक्ति
एवममी ज्योतिर्गणा एकविंशत्युत्तरैकादशशतयोजनदूरतो मेरुं परिभ्रमन्ति ॥
एवमिति । पुनश्चेत्यर्थः, ज्योतिर्गणा इति, ज्योतिष्मद्विमानसमूहा इत्यर्थः, किं कुर्वन्तीत्यत्राह परिभ्रमन्तीति, प्रादक्षिण्येन परितो भ्रमन्तीत्यर्थः, कं परितो भ्रमन्तीत्यत्रा मेरुमिति मेरुभूधरमित्यर्थः, किं विप्रकृष्टास्सन्निकृष्टा वेत्यत्राहैकविंशत्युत्तरेति, ननु चेतनानां गतिलों के कारणवती दृष्टा, न च विमानस्थानां ज्योतिष्काणां गमने कारणमस्त्यत एतदयुक्तमितिचेन्न तेषां कर्मवैचित्र्येण गतिरतित्वात् इति भावः ॥
अथोर्ध्वलोकं निरूपयितुमुपक्रमते
ततश्चोर्द्ध किञ्चिदून सतरज्जुप्रमाण ऊर्ध्वकृतमृदङ्गाकृतिरालोकान्तमूर्ध्वलोकः क्षेत्रत उत्कृष्टशुभपरिणामोपेतः ॥
ततश्चेति । रुचकोर्ध्वं नवयोजनशतानि परिहृत्य तत ऊर्ध्वलोकस्यारंभात्किञ्चिन्यून सप्त
१ जम्बूद्वीपे एक: सूर्यो मेरोर्दक्षिणभागे चारं चरन् वर्त्तते, एक उत्तरभागे, एकश्चन्द्रमा मेरो: पूर्वभागे, एकोऽपरभागे ॥ २. अनेन चारेण मनुष्याणां सुखदुःखविधयो भवन्ति, मनुष्याणां कर्माणि सदा द्विविधानि, शुभवेद्यान्यशुभवेद्यानि चेति, कर्मणां विपाक हेतवस्सामान्येन पञ्च द्रव्यक्षेत्रकालभवभावभेदात् । शुभवेद्यनां कर्मणां शुभद्रव्यक्षेत्रादिसामग्री - विपाकहेतुः, अशुभवेद्यानाञ्चाशुभद्रव्यक्षेत्रादिसामग्री तथा । ततो यदा येषां जन्मनक्षत्रादिविरोधी चन्द्रसूर्यादीनां चारो भवति तदा तेषां प्रायो यान्यशुभवेद्यानि कर्माणि तानि तथाविधविपाकसामग्रीमवाप्य विपाकमायान्ति, विपाकमागतानि शरीर रोगोत्पादनेन धनहानिकरणतो वा प्रियविप्रयोगजननेन वा कलहसम्पादनतो वा दुःखमुत्पादयन्ति यदा चैषां जन्मनक्षत्राद्यनुकूलश्चन्द्रादीनां चारस्तदा प्रायस्तेषां शुभवेद्यानि कर्माणि शुभद्रव्यादिसामग्रीमधिगम्य प्रतिपन्नविपाकानि शरीरनीरोगताधनवृद्धिवैरोपशमन प्रियसम्प्रयोगाभीष्ट प्रयोजननिष्पत्त्यादिना सुखमुपजनयन्तीति ॥
10
15

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676