Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ४३ ] तयाद्रव्यनाशस्य कारणत्वाद्रव्यस्य प्रतिवन्धकत्वं संगच्छते कारणीभूताभावप्रतियोगित्वस्य प्रतिबन्धकत्वपदार्थत्वादितिभावः। तदसम्भवादिति। विभागजविभागसम्भवादित्यर्थः। अत्र कपालकमेण एव विभागद्वयजनकत्वे क्षणलाधवं दव्यनाशसहकारित्वाद्यकल्पनलाघवञ्चाभिसन्धाय शङ्कते नच कम्मैवेति । उभयविभागौ प्रतिकर्मणःकारणत्वे विनिगमनाविरहात्तयोविभिन्नक्षणोत्पादकल्पनाऽसम्भवादाहैकदेति । कर्मोत्पत्तिद्वितीयक्षणइत्यर्थः । शङ्का समाधत्ते यद्व्येत्यादि । यत्-कपालकर्म , द्रव्यस्यघटस्य, अनारम्भको यः कपालाकाशसंयोग स्तद्विरोधिनं–तत्प्रतिद्वन्द्विनं कपालाकाशविभागमारभते जनयति, तत-कर्म, द्रव्यस्य-घटस्यारम्भको यः कपालद्वयसंयोगस्तद्विरोधिनं...तत्प्रतिद्वन्द्विनं कपालद्वयविभागं नारभते-न जनयतीत्यर्थः। तथाच कपालकर्म द्रव्यानारम्भकसंयोगविरोधिविभागाजनक द्रव्यारम्भकसंयोगविरोधिविभागजनकत्वात्, यन्नै वं तन्नै वमित्यनुमानं फलितमितिभावः। उक्तव्याप्तौ विपक्षवाधकतर्कमाविष्कर्तुमाहान्यथेति । आरम्भकसंयोगविरोधिविभागजनककर्मण एवानारम्भकसंयोगविरोधिविभागजनकत्व इत्यर्थः। विकसदित्यादि। विकसन्विकाशोन्मुखो यः कमलकुम्डलः—पद्ममुकुलस्तस्य यानि दलानि तवृन्निकर्मणि द्रव्यारम्भकसंयोगविरोधिविभागजनकत्वस्यातिव्याप्तिरित्यर्थः। तथाच विकसत्कमलकुङमल ङ्गप्रसङ्ग इतिभावः। तथाह्यरविन्दमुकुलेऽग्रावच्छेदेन विद्यमानेनानारम्भकसंयोगविरोधिविभागजनकेन कर्मणा मुलावच्छेदेनारम्णकसंयोगविरोधी विभाग उत्पाद्यते चेत्तेन थिभागेनारम्भकसंयोगनाशकस्तेनारविन्दस्य नाशः स्यादिति । इदं कणादमताभिप्रायेण। नैयायिकैस्तु कर्मण आश्रयभेदेन भिन्नत्वादुक्तारविन्ददलकर्मणि तथाविधविभागद्वयजनकत्वस्यासत्त्वेऽपि कपालकर्मणि सत्त्वे वाधकविरहात् कारणमात्रविभागजविभागो न स्वीक्रियते । नचोक्तानुमानमेव विभागजविभागे मानमितिवाच्यं अनारम्भकसंयोगविरोधिविभागाजनककर्मणी नियमत आरम्भकसंयोगविरोधिविभागजनकत्वे मानाभावेन कर्मनिष्ठवैजात्यस्योपाधित्वात् । कणाद्मतेतु तादृशवैजात्यस्यानुपलब्धेर्मानाभावः। नन्वेवभारम्भकसंयोगजनकं यत्कर्म तदनारम्भसंयोगजनकं न स्यादतः तन्तुद्वय संयोगजनकस्य कर्मणस्त्वाकाशसंयोगनकत्वाभावप्रङ्गात् कारणमात्रसंयोगजन्यसंयोगादिकमङ्गीकार्यमित्याशङ्कते नच संयोगेऽपीति । संयोगजनककर्मण्यपीत्यर्थः एवभस्त्विति। आरम्भकसंयोगजनकत्वानारम्भकसंयोगज़नकत्वयोन्विरोधोऽस्त्वित्यर्थः। आशङ्कां निरस्यति तत्राविरोधादिति। विपक्षवाधकतर्क विरहादनाराभकसंयोगजनकत्वारम्भकसंयोगजनकत्वयोः कर्मणि विरोधे मानाभावादित्यर्थः। तथाचै For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127