Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 112
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir स्याद् गमनोत्पत्तिकालावच्छे देन पचनावच्छेदककालध्वंसस्यसत्त्वादिति वाच्यं तदुत्पत्तिकालीनेत्यनेन तदुत्पत्तिकालोत्पत्तिकत्वस्य विवक्षितत्वात्। एवञ्च सत्रिहितक्रियायां प्रागुक्तमव्यवहितोत्तरन्वं न निवेश्यं प्रयोजनविरहात् । क्त्वान्तप्रयोगे शब्दबोधप्रकारमभिनीय दर्शयितुमाइ तेनेति । पूर्वकालीनत्वस्य क्त्वार्थत्वे. नेत्यर्थः। न च "मुखं व्यादाय स्वपिति" इत्यत्रानुपपत्तिरोष्ठाधरविभागरूपस्य मुखव्यादानस्य स्वापोत्तरकालीनतया सन्निहितक्रियापूर्वकालीनत्वविरहादितिवाच्यं मुखव्यादानानन्तरजयत्किञ्चित्स्थापव्यक्तिपूर्वकालीनत्वमादाय तादृशप्रयोगस्योपपादतीयत्वात् । गमनप्रागमावेत्यादि । इदमुपलक्षणं, द्वितीयकल्पाश्रयणे तु गमनोत्पत्तिकालीनध्वंसप्रतियोगिकालवृत्तिभोजनकर्त भिन्नो गमनानुकूलकृतिमानित्यन्वयबोधो द्रष्टव्यः ॥ ननु भोजनकर्त भिन्नइन्यत्राभेदः कुतो लभ्यते ? न च "नामार्थयो अंदान्वयोऽव्युत्पन्नः" इति व्युत्पत्तेरत्राभेदः संसर्गमर्यादालभ्य इति वाच्यं क्त्वान्तस्याव्ययत्वेऽपि स्वराद्यव्ययभिन्नत्वेन नामत्वविरहादत आह समानविभक्तिकृतामिति । समानविभक्तिककृदन्तानामित्यर्थः । तथाच "भुक्त्वा गच्छति चैत्रः" इत्यादौ चैत्रादिपदोत्तरसुप्सजातीयसुवन्तस्य तथाविधभोजनकत्त भेदपर्यन्तार्थोपस्थापकत्वान्नानुपपत्तिरिति भावः। धम्मिवाचकत्वादिति। धर्म्यन्वयनियमादित्यर्थः। तेन चैत्रादिपदेनैव धर्म्युपस्थापनात् पुनरत्र धम्मिवाचकत्वभुक्त्वेतिशब्दस्य प्रवेशे वैयर्थ्यमित्यपास्तम् । ननु "भुक्त्वा" इत्यत्र विभत्त्यदर्शनात् कथं समानविभक्तिकत्वमित्यत आह अव्ययत्वेनेति। "क्त्वा-तोसुन्-कसुनः" इत्याद्यनुशासनेन क्त्वान्तस्याव्ययत्वसिद्धिरितिभावः। विभक्तिलोपादिति । “अव्ययाच्च" इत्याद्यनुशासनादित्यर्थः। पूर्वकालोनत्वमित्यत्र कालस्य व्यवहितरूपत्वेऽव्यवहितरूपत्वेच व्यवहितकाले क्त्वा-प्रत्ययो न स्यात् । न चेष्टापत्तिः, उभयथैव क्त्वान्तप्रयोगस्य प्रामाणिकत्वादतो व्यवहिताव्यबहितसाधारणकालनिवेशावश्यकत्वं ज्ञापयितुमाह काल इत्यादि। वक्तुरिच्छावशादित्यर्थः। तेनानियमशङ्का प्रत्युक्ता । व्यवहितकाले क्त्वान्तप्रामाणिकप्रयोगमुदाहरति पूर्व स्मिति। यद्यपि कालस्यैकत्वेऽपि क्षणदण्डायपाधिभेदसत्वादुक्तप्रयोगेऽब्दत्वेनाव्यवहितत्वं वक्तुं युज्यते तथापि “पूर्वस्मिन्नन्दे गत्वा तत् पञ्च मेऽब्दे समागतः” इत्यादिप्रामाणिकप्रयोगानुरोधाद्व्यवहितकालोऽपि प्रवेश्य इति ध्येयम् ।। ६४॥ ॥ तर्कामतम् ॥ इच्छावान् तुमुलोऽर्थः । “भोक्तुं ब्रजति "इत्यस्य भोजनेच्छावान् व्रजत्तीत्यर्थः । "भोक्तुमिच्छति' इत्यत्रतु कर्तरि लक्षणा। भोजनकर्तारमात्मानमिच्छतीत्यर्थः । "सविशेषणे हि" इति न्यायाद्विशेषणे कृताविच्छान्वयः ॥ ५ ॥ For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127