Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 96
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir तात्पर्य निरूपयति तत्तदर्थेत्यादि । लाघवादत्र तत्तदर्थान्वयबोधे तत्तदर्थप्रतीतीच्छाया एव तात्पर्यत्वमुपेयम् । तेन शुकवाक्यादेस्तादृशोच्चरितत्वविरहेऽपि न क्षतिस्तत्र तथाविधेश्वरेच्छायाः सत्त्वात् । यत्र तु शुकेन विसम्वादि मन्यते तत्र शिक्षयितुरिच्छे व तात्पर्य्यम् । ये तु तात्पर्य्यानुमापकप्रकरणज्ञानकारणत्वेन तात्पर्यज्ञानस्यान्यथासिद्धत्वं वदन्ति तेषां प्रकरणत्वस्याननुगतत्वात्कार्यकारणभावाननुगमो दुष्परिहरणीयः। इत्थञ्च शाब्दत्वावच्छिन्न प्रति तात्पर्य निश्चयत्वेन हेतुत्वाद्वदार्थप्रतोतेरपीश्वरीयतात्पर्यज्ञानाधीनत्वंकल्प्यं सर्वत्राध्यापकपरिकल्पनस्यासम्भवादिति संक्षेपः। भोलनप्रकरणादवित्यादिनागमनप्रकरणाद्युपग्रहः । तेन गमनप्रकरणे. उक्तवाक्यान्तलवणान्वयबोधः। भोजनप्रकस्णे इदं सैन्धवपदमश्वबोधं जनयत्वित्याकारिकाया इवगमनप्रकरणे इदं सैन्धवपदं लवणबोधं जनयत्वित्याकारिकाया वक्तुरिच्छाया अभावादितिभाव ॥ ५४ ।। ॥ तर्कामृतम् ॥ वृत्त्या विना शब्देन नान्वयबोधो जन्त्यते। वृत्तिद्विधा शक्तिलक्षणा च । शक्तिर्घटादिपदस्य घटादौ । लक्षणा यथा गङ्गायां घोषः प्रतिवसति' इत्यत्र गङ्गापदार्थे प्रवाहे घोषान्वयानुपपत्त्या गङ्गापदस्य तीरे लक्षणा कल्प्यते । तया वृत्त्या उपस्थिते तो रे घोषः प्रतिवसतीत्यन्वयवोधो भवति । गौणी वृत्तिरपि लक्षणैव। यथा 'अग्निर्माणवकः' 'गौर्वाहीकः'। अत्र लक्षणयागन्यादिसादृश्यं प्रतीयते ॥ ५५ ।। ॥ विवृतिः ॥ ___ वृत्तिज्ञानशाब्दबोधयोः स्वतन्त्रान्वयव्यतिरेकशालितयाहेतुमद्मावादत्रव्यतिरेक दर्शयति वृत्त्या विनेति । वृत्तिज्ञानाभावे सतीत्यर्थः । तेन शक्तयारव्यवृत्तेरीश्वरेच्छाया सार्वकालिकत्वेऽपि न क्षातः। वृत्तिश्चसामान्यतोऽर्थस्मृत्यनु कूलः शाब्दोधौपयिक: सम्बन्धः। स चार्थप्रतियोगिकः पदप्रतियोगिको वा ग्राह्यः । तेन पदविशेष्यकादपि सङ्केताज्जनिताया अर्थोपस्थिते वृत्त्यापदजन्यत्वनिर्वाहः। शब्देननान्वयबोधइति । घटादिपदे श्र यमाणेऽपि तत्पदस्यवृत्तिमजानतो जनस्य तस्मादर्थोपस्थित्यसम्भवाच्छाब्द बोधो न सम्भवतात्यर्थः। तथाच वृत्त्या पदार्थोपस्थितिः शाब्दबोधे व्यापार इति भावः। तेन वृत्तिज्ञानाभाववतः पुंसः श्र यमाणशब्दात् समवायेनाकाशोपस्थितावापि नाकाशविषयकः शाब्दबोधः । वृत्ति विभजते द्विविधेति। विधाद्वयं दर्शयति शक्तिलक्षणा चेति । एतेन व्यञ्जनादेव॒त्तित्वव्यवच्छेदः सूचितः सामान्यधविच्छिन्नानां यावत्संख्यकविशेष For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127