Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १२.]
भभास्करभाष्योपेता
389
KNOHORTws
भ्यः। अस्माकमस्तु केवलः । इन्द्र
नरौ नेमधिता हवन्ते यत्पायर्या युनजनेभ्यः । अस्माकम् । अस्तु । केवलः । इन्द्रम्। नरः । नेमधितेति नेम-धिता । हवन्ते । यत् । पायर्याः । युनर्जते । धियः । ताः । शूरः। नृषातेति हे ऋत्विग्यजमाना वो युष्माकं मम जनेभ्यः पुत्रादिभ्यः साम
झंद्युष्मभ्यमस्मभ्यं च सर्वार्थमिन्द्रं विश्वतस्परि विश्वस्मादुपरि हवामहे आह्वयामः । 'पञ्चम्याः परावध्यर्थे ' इति सत्वम् । यहाविश्वतो जनेभ्य उपरिस्थितमिन्द्रं वो युष्मदर्थं हवामहे । किमर्थम् ? अस्माकमेव केवलोसाधारणोस्तु साधको नान्येषामिति ॥
तत्रैव याज्या--इन्द्रं नर इति त्रिष्टुप् ॥ नरो मनुष्या इन्द्रं हवन्ते आह्वयन्ति । कीदृशम् ? नेमधिता, नेम इत्यर्धस्य नाम । 'यन्सर्वेषामर्धमिन्द्रः प्रति'* इति सर्वेषां भागार्धेन इन्द्रो धीयते धार्यत इति नेमधितः । निष्ठायां 'सुधितवसुधितनेमधित' इति धिभावो निपात्यते, ‘सुपां सुलुक्' इति द्वितीयैकवचनस्याकारः, 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । कदा पुनरसौ नेमेन धार्यत इत्याह यद्यदा । तेनेव सप्तम्या लुक् । पार्याः परलोके साधवः । छान्दसो ज्यः । यद्वा-दुःखानां पारं समाप्तिः । तत्र साध्वीर्धियः कर्माणि ता यदर्थमिन्द्रमाह्वयन्ति । ता यदा युनजते युञ्जते अनुतिष्ठन्ति तदा नेमधितेति । 'छन्दस्युभयथा' इत्यार्धधातुकत्वेन नमो डिवाभावात्,..
*सं. ५-४-८,
For Private And Personal

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370