Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 194
________________ ४३९ परि. २ सू. २६] स्याद्वादरत्नाकरसहितः कियन्तमपि कालं स्थित्वा यदा चिकीर्षति प्रयतते च तदाऽस्य चिकीर्षाप्रयत्नयाजनयितव्ययोन पूर्वावस्थितं चिकीर्षान्तरं प्रयत्नान्तरं वा समस्तोति कुतो मनसां तत्संयोगानां चाधिष्ठानमिति चेतनानधिष्ठितेभ्यो मनस्तत्संयोगेभ्यो न चिकीर्षाप्रयत्नावुत्पाद्येयातामुत्पद्यमानौ वा कथं कार्यत्वं हेतुं न व्यभिचारयतः ! किं च शरीरमपि कर्तव्यापकमित्यु- ५ क्तम् । न चास्य तदस्तीति कथमसौ कर्ता स्यात् । अस्त्येवास्य शरीरमिति शङ्करः । ननु तन्नित्यमनित्यं वा । नित्यं . चेत् , निरवयवं सावयवं वा । न तावन्निरवयअस्त्येवेश्वरस्य शरी- _ रमिति वादिनः शङ्क-वम् । तद्धि पार्थिवपरमाण्वादिनित्यद्रव्येभ्योऽन्यरस्य खण्डनम्। तरत्स्वतन्त्रं वा । न च स्वतन्त्रम् । द्रव्य- १० संख्याक्षयप्रसङ्गात् । पार्थिवपरमाण्वादिनित्यद्रव्येभ्योऽन्यतरदपि व्यापकमव्यापकं वा । न व्यापकम् , अस्येश्वरेणाधिष्ठानविरोधात् । अव्यापकमपि न मनः । तस्य प्रतिनियतात्मसम्बन्धित्वात् । पृथिव्यादिपरमाणुरूपता तु तस्य कथं निश्चीयते । तदारब्धस्य पृथिव्यादिकार्यद्रव्यस्य कस्यचिदभावात् । नापि सावयव १५ तच्छरीरम् । सावयवस्य नित्यत्वविरोधात् । नाप्यनित्यम् । यतस्तद्द्धिमद्धेतुकमितरद्वा । न तावदितरत् । कार्यत्वस्य तेनैव व्यभिचारापत्तेः । बुद्धिमद्धेतुकमप्यन्थकर्तृकं स्वकर्तृकं वा । यद्यन्यकर्तृकम् । तदाऽसावपि सशरीरोऽशरीरो वेत्याद्यावर्तत । तथा चेश्वरानन्त्यप्रसक्तिः । अथ भवत्वियमुत्सवायैवास्माकम् । एकोऽपि हि भगवान् दुर्लभ २० आसीदिदानीमानन्त्यं तेषां क लभ्यते । तदप्यापातदर्शिनो वचः । बहूनां व्याहतमनसां व्यापारे पृथिवीप्रमुखकार्यस्यानुत्पादप्रसङ्गात् । उत्पन्नस्यापि वा विविधेश्वरस्य वशादसामञ्जस्यापत्तेः । स्वकर्तृकत्वेऽपि तदपि शरीरं शरीरी करोत्यशरीरी वा । अशरीरी चेत्, तथैव त्रैलोक्यमप्यशरीरीश्वरो रचयतु । शरीरी चेत् , तदा तच्छरीरनिप्पाद- २५ १. आवर्तते ' इति भ. पुस्तके पाठः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242