Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 224
________________ परि. २ सु. २७ ] स्याद्वादरत्नाकरसहितः निबन्धनाभावादेव तत्र ज्ञानादीनामक्षयप्रसिद्धेः । ज्ञानादिक्षयस्य हि निबन्धनं ज्ञानावरणादिकर्म । तच्च प्रक्षीणाशेषावरणे भगवति नास्तीति कथं ज्ञानादिप्रक्षयाशङ्काऽपि । ततस्तत्क्षयरक्षणार्थमपि न भुंक्ते भगवान् । क्षुधः क्षतिकृते भुंक्त इत्ययं तु तृतीयः पक्षः कक्षीक्रियत एव । यत्पुनस्त्र दूषणं दिक्पटैः प्रकटीक्रियतेऽनन्तसुखत्वेन ५ भगवति दुःखस्थासम्भवादनुपपद्यमानं क्षुद्वेदनाप्रतीकारार्थं तत्र भोजनमिति । तदतीवासम्बद्धम् । अनन्तसुखस्यैव भवस्थकेवलिन्यसिद्धेः । सातासातवेदनीयकर्मणः संभवेन किश्चिद्दःखानुषक्तसुखस्यैव तत्र प्रसिद्धत्वात् । आयुषोऽसाधिते निर्वाणे क्षयरक्षणार्थमिति चतुर्थपक्षोऽपि न स्वीक्रियते । चरमोत्तमदेहानामनपवायुप्कत्वादेव । अनपवर्तनी- १० यस्यायुधः स्वस्थितिकालसमाप्तिं विहाय क्षयानुपपत्तेः । इत्यायु:क्षयरक्षणार्थमपि नासौ मुक्ते । गृद्धिं रसेपूत्कटां हन्तुमिति पञ्चमपक्षोऽपि नाभ्युपेयते । वीतमोहे भगवति रसगृद्धिमात्रस्याप्यनुपपत्तेः । लोकमनुग्रहीतुं भुंक्ते । इति षष्ठपक्षोऽपि नोररीक्रियते। न खलु लोकमनुगृह्णामीत्यभिसन्धिपुरस्सरमाहारमभ्यवहरति भगवान् । लोकानुग्रहे तु सामान्य- १५ केवलिनः स्वकीयासाधारणनामकर्मनिर्मितं तत् स्वाभाव्यनिमित्ता प्रवृत्तिः । तीर्थकरस्य तु तीर्थकृन्नामकम्मोदयमाहात्म्यकृतं तत्स्वाभाव्यनिबन्धना । यदाह भगवानुमास्वातिवाचका, “ तीर्थप्रवर्तनफलं यत्प्रोक्तं कर्म तीर्थकरनाम । तस्योदयात्कृतार्थोऽप्यहस्तीर्थ प्रवर्तयति ॥ तत्स्वाभाव्यादेव प्रकाशयति भास्करो यथा लोकम् । तीर्थ- २० प्रवर्त्तनाय प्रवर्त्तते तीर्थकर एवम् ॥” इति । तथा हि स भगवान् पूर्वाह्नेऽपराह्ने च पादोनप्रहरं यावद्धर्मोपदेशकाल एव सिंहासनाद्यधिरूढ आस्ते । शेषं तु दिनं देवच्छंदकनानि दिव्यस्थाने यथासुखं गमयति । १भवो नारकादिजन्म तत्रेह भवो मनुष्यभव एव ग्राह्यः अन्यत्र केवलोत्पादाभावात् । भवे तिष्ठतीति भवस्थः तस्य केवलज्ञानं भवस्थकेवलज्ञानम् । २ तत्त्वार्थ. स. का. ९।१०. "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242