________________
४३९
परि. २ सू. २६] स्याद्वादरत्नाकरसहितः कियन्तमपि कालं स्थित्वा यदा चिकीर्षति प्रयतते च तदाऽस्य चिकीर्षाप्रयत्नयाजनयितव्ययोन पूर्वावस्थितं चिकीर्षान्तरं प्रयत्नान्तरं वा समस्तोति कुतो मनसां तत्संयोगानां चाधिष्ठानमिति चेतनानधिष्ठितेभ्यो मनस्तत्संयोगेभ्यो न चिकीर्षाप्रयत्नावुत्पाद्येयातामुत्पद्यमानौ वा कथं कार्यत्वं हेतुं न व्यभिचारयतः ! किं च शरीरमपि कर्तव्यापकमित्यु- ५ क्तम् । न चास्य तदस्तीति कथमसौ कर्ता स्यात् । अस्त्येवास्य शरीरमिति शङ्करः । ननु तन्नित्यमनित्यं वा । नित्यं
. चेत् , निरवयवं सावयवं वा । न तावन्निरवयअस्त्येवेश्वरस्य शरी- _ रमिति वादिनः शङ्क-वम् । तद्धि पार्थिवपरमाण्वादिनित्यद्रव्येभ्योऽन्यरस्य खण्डनम्। तरत्स्वतन्त्रं वा । न च स्वतन्त्रम् । द्रव्य- १०
संख्याक्षयप्रसङ्गात् । पार्थिवपरमाण्वादिनित्यद्रव्येभ्योऽन्यतरदपि व्यापकमव्यापकं वा । न व्यापकम् , अस्येश्वरेणाधिष्ठानविरोधात् । अव्यापकमपि न मनः । तस्य प्रतिनियतात्मसम्बन्धित्वात् । पृथिव्यादिपरमाणुरूपता तु तस्य कथं निश्चीयते । तदारब्धस्य पृथिव्यादिकार्यद्रव्यस्य कस्यचिदभावात् । नापि सावयव १५ तच्छरीरम् । सावयवस्य नित्यत्वविरोधात् । नाप्यनित्यम् । यतस्तद्द्धिमद्धेतुकमितरद्वा । न तावदितरत् । कार्यत्वस्य तेनैव व्यभिचारापत्तेः । बुद्धिमद्धेतुकमप्यन्थकर्तृकं स्वकर्तृकं वा । यद्यन्यकर्तृकम् । तदाऽसावपि सशरीरोऽशरीरो वेत्याद्यावर्तत । तथा चेश्वरानन्त्यप्रसक्तिः । अथ भवत्वियमुत्सवायैवास्माकम् । एकोऽपि हि भगवान् दुर्लभ २० आसीदिदानीमानन्त्यं तेषां क लभ्यते । तदप्यापातदर्शिनो वचः । बहूनां व्याहतमनसां व्यापारे पृथिवीप्रमुखकार्यस्यानुत्पादप्रसङ्गात् । उत्पन्नस्यापि वा विविधेश्वरस्य वशादसामञ्जस्यापत्तेः । स्वकर्तृकत्वेऽपि तदपि शरीरं शरीरी करोत्यशरीरी वा । अशरीरी चेत्, तथैव त्रैलोक्यमप्यशरीरीश्वरो रचयतु । शरीरी चेत् , तदा तच्छरीरनिप्पाद- २५
१. आवर्तते ' इति भ. पुस्तके पाठः ।
"Aho Shrut Gyanam"