SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शतकम् । १०५ वस्तु, निर्णयति इदमित्थमेव भावीति निर्णयं भणति, न पुनरितरदप्यनियतमपि अनवश्यभाव्यपि । एवमुक्तप्रकारेण तन्मते - नागपुरीयलौम्पकमते, मूलप्ररूपणा - प्रक्रिया रूपत्वेनाऽऽदिप्ररूपणा, कुतः १, पापकर्मोदयात् तीव्रमिथ्यात्वमोहनीय कर्मोदयात् । तत्कथं ? इति चेद्, उच्यते यदि सर्वज्ञः कथमनियतं न निर्णयति ? यदि च न नियति कथं सर्वज्ञ १ इति वचनविरोधं, अहं मौनीत्यादिवन्न जानातीति गाथार्थः ॥ ९३ ॥ । अथोक्तप्रकारेण न वाणोऽपि जिनो यथा सर्वज्ञो भवति 9 न भवति च, तथा दर्शयन्नाह जर णिअयमणिअयं वा, एगसहावेण सव्वया हुज्जा । ता अरिहा सव्वण्ण, अण्णह णिअमाण सव्वन्नू ॥ ९४ ॥ व्याख्या - यदि नियतमनियतं वा वस्तु एकस्वभावेन सर्वदा सर्वकालं भवेत्, 'ता' - तर्हि, अर्हन् सर्वज्ञो भवेत्, याथार्थेन परिज्ञानात् । अन्यथा यदि च कदाचिदप्यनियतं सन्नियतं भवेत्, तर्हि तदपरिज्ञानात् सर्वज्ञो न भवेत् नियमात् निश्चयेन, भूतानां भाविनां (भवतां ) भूयमानानां च पदार्थानामेकतरस्याप्यज्ञाने सर्वज्ञत्वहानिस्तवापि सम्मति गाथार्थः ॥ ९४ ॥ Acharya Shri Kailassagarsuri Gyanmandir -~ « अथायुरधिकृत्य तदीयकल्पनामाहणिरुवकमसोवकम-मेएहिं दुविहमाअं होइ | पढमं णिअयमणिअयं, बियंति विगप्पिअं तेण ॥ ९५ ॥ व्याख्या- निरुपक्रमसोपक्रमलक्षणौ यौ भेदौ, अर्थाद्विशेषणभूतौ, ताभ्यामायुर्द्विविधं भवति - निरुपकमायुः सोपक्रमायुश्चेति । For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy